सनत्सुजातीयम्

सनत्सुजातीयम्

उद्योगपर्व - अध्याय ०४१

॥ श्रीः ॥ ५.४१ । अध्यायः ४१ धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ १ ॥ तथा स्मरण मात्रसंनिहितं सनत्सुजातंप्रति धृतराष्ट्राय तत्वोपदेशप्रार्थना ॥ २ ॥ धृतराष्ट्र उवाच । अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते । तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ ४१-१ विदुर उवाच । धृतराष्ट्र कुमारो वै यः पुराणः सनातनः । तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ ४१-२ स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् । प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ ४१-३ धृतराष्ट्र उवाच । किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः । त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ ४१-४ विदुर उवाच । शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे । कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ ४१-५ ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत् । न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥ ४१-६ धृतराष्ट्र उवाच । ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् । कथमेतेन देहेन स्यादिहैव समागमः ॥ ४१-७ वैशम्पायन उवाच । चिन्तयामास विदुरस्तभृषिं शंसितव्रतम् । स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥ ४१-८ स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा । सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥ ४१-९ भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः । यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥ ४१-१० यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत् ॥ ४१-११ लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ । विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ । अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ ४१-१२ इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि एकचत्वारिंशोऽध्यायः ॥

उद्योगपर्व - अध्याय ०४२

॥ श्रीः ॥ ५.४२ । अध्यायः ४२ सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ १ ॥ वैशम्पायन उवाच । ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत् । सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ ४२-१ धृतराष्ट्र उवाच । सनत्सुजात यदिमं श‍ृणोमि न मृत्युरस्तीति तवोपदेशम् । देवासुरा ह्याचरन्ब्रह्मचर्य- ममृत्यवे तत्कतरन्नु सत्यम् ॥ ४२-२ सनत्सुजात उवाच । अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे । श‍ृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ ४२-३ उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः संमतोऽयं कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादममृतत्वं ब्रवीमि ॥ ४२-४ प्रमादाद्वै असुराः पराभव- न्नप्रमादाद्ब्रह्मभूताः सुराश्च । नैव मृत्युर्व्याघ्र इवात्ति जन्तू- न्न ह्यस्य रूपमुपलभ्यते हि ॥ ४२-५ यमं त्वेके मृत्युमतोऽन्यमाहु- रात्मावासममृतं ब्रह्मचर्यम् । पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥ ४२-६ अस्यादेशान्निःसरते नराणां क्रोधः प्रमादो लोभरूपश्च मृत्युः । अहं गतेनैव चरन्विमार्गा- न्न चात्मनो योगमुपैति कश्चित् ॥ ४२-७ ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति । ततस्तान्देवा अनुविप्लवन्ते अतो मृत्युर्मरणादभ्युपैति ॥ ४२-८ कर्मोदये कर्मफलानुरागा- स्तत्रानु ते यान्ति न तरन्ति मृत्युम् । सदर्थयोगानवगमात्समन्ता- त्प्रवर्तते भोगभोगेन देही ॥ ४२-९ तद्वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगस्य गतिर्हि नित्या । मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान्समन्तात् ॥ ४२-१० अभिध्या वै प्रथमं हन्ति लोकान् कामक्रोधावनुगृह्याशु पश्चात् । एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ ४२-११ सोऽभिध्यायन्नुत्पतिष्णन्निहन्या- दनादरेणाप्रतिबुध्यमानः । नैनं मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥ ४२-१२ कामानुसारी पुरुषः कामाननु विनश्यति । कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥ ४२-१३ तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते । मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ ४२-१४ अमूढवृत्तेः पुरुषस्येह कुर्या- त्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः । अमन्यमानः क्षत्रिय किञ्चिदन्य- न्नाधीयते तार्ण इवास्य सर्पः ॥ ४२-१५ क्रोधाल्लोभान्मोहभयान्तरात्मा स वै मृत्युस्त्वच्छरिरे य एषः । एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः । विनश्यते विषये तस्य मृत्यु- र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ ४२-१६ धृतराष्ट्र उवाच । यानेवाहुरिज्यया साधुलोकान् द्विजातीनां पुण्यतमान्सनातनात् । तेषां परार्थं कथयन्तीह वेदा एतद्विद्वान्नैति कथं नु कर्म ॥ ४२-१७ सनत्सुजात उवाच । एवं ह्यविद्वानुपयाति तत्र तत्रार्थजातं च वदन्ति वेदाः । सवेह आयाति परं परात्मा प्रयाति मार्गेण निहत्य मार्गान् ॥ ४२-१८ धृतराष्ट्र उवाच । कोऽसौ नियुङ्क्ते तमजं पुराणं स चेदिदं सर्वमनुक्रमेण । किं वास्य कार्यमथवा सुखं च तन्मे विद्वन्ब्रूहि सर्वं यथावत् ॥ ४२-१९ सनत्सुजात उवाच । दोषो महानत्र विभेदयोगे ह्यनादियोगेन भवन्ति नित्याः । तथास्य नाधिक्यमपैति किञ्चि- दनादियोगेन भवन्ति पुंसः ॥ ४२-२० य एतद्वा भगवान्स नित्यो विकारयोगेन करोति विश्वम् । तथाच तच्छक्तिरिति स्म मन्यते तथार्थयोगेन भवन्ति वेदाः ॥ ४२-२१ धृतराष्ट्र उवाच । यस्माद्धर्मान्नाचरन्तीह केचि- त्तथा धर्मान्केचिदिहाचरन्ति । धर्मः पापेन प्रतिहन्यते स्वि- दुताहो धर्मः प्रतिहन्ति पापम् ॥ ४२-२२ सनत्सुजात उवाच । तस्मिन्स्थितौ वाप्युभयं हि नित्यं ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम् । तथान्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम् ॥ ४२-२३ गत्वोभयं कर्मणा युज्यते स्थिरं शुभस्य पापस्य स चापि कर्मणा । धर्मेण पापं प्रणुदतीह विद्वान् धर्मो बलीयानिति तत्र विद्धिः ॥ ४२-२४ धृतराष्ट्र उवाच । यानिहाहुः स्वस्य धर्मस्य लोका- न्द्विजातीनां पुण्यकृतां सनातनान् । तेषां क्रमान्कथय ततोऽपि चान्या- न्नैतद्विद्वन्वेत्तुमिच्छामि कर्म ॥ ४२-२५ सनत्सुजात उवाच । येषां व्रतेऽथ विस्पर्धा बले बलवतामिव । ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम् ॥ ४२-२६ येषां धर्मे च विस्पर्धा तेषां जज्ज्ञानसाधनम् । ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥ ४२-२७ तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः । नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥ ४२-२८ यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम् । अन्नं पानं ब्राह्मणस्य तञ्जीवोन्नानुसंज्वरेत् ॥ ४२-२९ यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् । अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ ४२-३० यो वा कथयमानस्य ह्यात्मानं नानुसंज्वरेत् । ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम् । कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः ॥ ४२-३१ यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये । एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥ ४२-३२ नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः । ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन ॥ ४२-३३ कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति । निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् ॥ ४२-३४ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ ४२-३५ अश्रान्तः स्यादनादाता संमतो निरुपद्रवः । शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ ४२-३६ अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ । ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥ ४२-३७ सर्वान्खिष्टकृतो देवान्विद्याद्य इह कश्चन । न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम् ॥ ४२-३८ यमप्रयतमानं तु मानयन्ति समाहिताः । न मान्यमानो मन्येत नावमानेऽतिसंज्वरेत् ॥ ४२-३९ लोकः स्वभाववृत्तिर्हि निमेषोन्मषवत्सदा । विद्वांसो मानयन्तीह इति मन्येत मानितः ॥ ४२-४० अधर्मनिपुणा मुढा लोके मायाविशारदाः । न मान्यं मानयिष्यन्ति एवं मन्येत मानितः ॥ ४२-४१ न वै मानं च मौनं च सहितौ वसतः सदा । अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥ ४२-४२ श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी । ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥ ४२-४३ द्वाराणि तस्येह वदन्ति सन्तो बहुप्रकाराणि दुराधराणि । सत्यार्जवे ह्रीर्दमशौचविद्या षण्मानमोहप्रतिबन्धनानि ॥ ४२-४४ इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि द्विचत्वारिंशोऽध्यायः ॥

उद्योगपर्व - अध्याय ०४३

॥ श्रीः ॥ ५.४३ । अध्यायः ४३ सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ १ ॥ धृतराष्ट्र उवाच । कस्यैष मौनः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम् । मौनेन विद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति ॥ ४३-१ सनत्सुजात उवाच । यतो न वेदा मनसा सहैन- मनुप्रविशन्ति ततोऽथ मौनम् । यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन् ॥ ४३-२ धृतराष्ट्र उवाच । ऋचो यजूंषि यो वेद सामवेदं च वेद यः । पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ॥ ४३-३ सनत्सुजात उवाच । नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम् । त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ ४३-४ न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया सर्वमानम् । नीडं शकुन्ता इव जातपक्षा- श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ ४३-५ धृतराष्ट्र उवाच । न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण । अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ ४३-६ सनत्सुजात उवाच । तस्यैव नामादिविशेषरूपै- रिदं जगद्भाति महानुभाव । निर्दिश्य सम्यक्प्रवदन्ति वेदा- स्तद्विश्ववैरूप्यमुदाहरन्ति ॥ ४३-७ तदर्थयुक्तं तप एतदिज्या ताभ्यामसौ पुण्यमुपैति विद्वान् । पुण्येन पापं विनिहत्य पश्चा- त्संजायते ज्ञानविदीपितात्मा ॥ ४३-८ ज्ञानेन चात्मानमुपैति विद्वा- नथान्यथा वर्गफलानुकाङ्क्षी । अस्मिन्कृतं तत्परिगृह्य सर्व- ममुत्र भुङ्क्ते पुनरेति मार्गम् ॥ ४३-९ अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते । ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ॥ ४३-१० ` ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत् । एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ॥' ४३-११ धृतराष्ट्र उवाच । कथं समृद्धमप्यृद्धं तपो भवति केवलम् । सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ ४३-१२ सनत्सुजात उवाच । निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते । एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ॥ ४३-१३ तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय । तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥ ४३-१४ धृतराष्ट्र उवाच । कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः । सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥ ४३-१५ सनत्सुजात उवाच । क्रोधादयो द्वादश यस्य दोषा- स्तथा नृशंसानि दश त्रि राजन् । धर्मादयो द्वादशैते पितॄणां शास्त्रे गुणा ये विदिता द्विजानाम् ॥ ४३-१६ क्रोधः कामो लोभमोहौ विधित्सा- ऽकृपाऽसूये मानशोकौ स्पृहा च । ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नराणाम् ॥ ४३-१७ एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते । लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ॥ ४३-१८ विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोषं चपलो रोषणश्च । एतान्पापाः षण्णराः पापधर्मान् प्रकुर्वते नो त्रसन्तः सुदुर्गे ॥ ४३-१९ संभोगसंविद्विषमोऽतिमानी दत्तानुतापी कृपणो बलीयान् । वर्गप्रशंसी वनितासु द्वेष्टा एते परे सप्त नृशंसवर्गाः ॥ ४३-२० धर्मश्च सत्यं च दमस्तपश्च आमात्सर्यं ह्रीस्तितिक्षानसूया । यज्ञश्च दानं च धृतिः श्रुतं च व्रतानि वै द्वादश ब्राह्मणस्य ॥ ४३-२१ यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात् । त्रिभिर्द्वाभ्यामेकतो वार्थितो य- स्तस्य स्वमस्तीति स वेदितव्यः ॥ ४३-२२ दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् । तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ ४३-२३ दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् । अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥ ४३-२४ क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च । मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ॥ ४३-२५ अपस्मारश्चातिवादस्तथा संभावनात्मनि । एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ॥ ४३-२६ मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः । विपर्ययाः स्मृता एते मददोषा उदाहृताः । दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ॥ ४३-२७ श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् । तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ॥ ४३-२८ श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति । इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ॥ ४३-२९ कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः । अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ॥ ४३-३० त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः । न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ॥ ४३-३१ न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत् । सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ ४३-३२ अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति । इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ॥ ४३-३३ अर्हते याचमानाय प्रदेयं तच्छुभं भवेत् । अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ॥ ४३-३४ सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च । अस्तेयं ब्रह्मचर्यं च तथाऽसंग्रहमेव च ॥ ४३-३५ एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत् । तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ॥ ४३-३६ अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत् । इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत । अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ॥ ४३-३७ सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः । तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ॥ ४३-३८ निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत् । एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ॥ ४३-३९ दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः । एतत्समृद्धमत्यर्थं तपो भवति केवलम् ॥ ४३-४० यन्मां पृच्छसि राजेन्द्र संक्षेपात्प्रब्रवीमि ते । एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ॥ ४३-४१ धृतराष्ट्र उवाच । आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः । तथा चान्ये चतुर्वेदास्त्रिधेदाश्च तथा परे ॥ ४३-४२ द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे । तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥ ४३-४३ सनत्सुजात उवाच । एकस्य वेस्याज्ञानाद्वेदास्ते बहवः कृताः । सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ ४३-४४ एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते । दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते ॥ ४३-४५ सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् । ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ॥ ४३-४६ मनसान्यस्य भवति वाचान्यस्याथ कर्मणा । सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥ ४३-४७ अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत् । नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ॥ ४३-४८ ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः । विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ॥ ४३-४९ तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम् । य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥ ४३-५० छन्दांसि नाम क्षत्रिय तान्यथर्वा पुरा जगौ महर्षिसङ्घ एषः छन्दोविदस्ते य उत नाधीतवेदा न वेदवेद्यस्य विदुर्हि तत्त्वम् ॥ ४३-५१ छन्दांसि नाम द्विपदां वरिष्ठ स्वच्छन्दयोगेन भवन्ति तत्र । छन्दोविदस्ते न च तानधीत्य गता न वेदस्य न वेद्यमार्याः ॥ ४३-५२ न वेदानां वेदिता कश्चिदस्ति कश्चित्त्वेतान्बुद्ध्यते वापि राजन् । यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ ४३-५३ न वेदानां वेदिता कश्चिदस्ति वेद्येन वेदं न विदुर्न वेद्यम् । यो वेद वेदं स च वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम् ॥ ४३-५४ यो वेद वेदान्स च वेद वेद्यं न तं विदुर्वेदविदो न वेदाः । तथापि वेदेन विदन्ति वेदं ये ब्राह्मणा वेदविदो भवन्ति ॥ ४३-५५ धामांशभागस्य तथा हि वेदा यथा च शाखा हि महीरुहस्य । संवेदने चैव यथामनन्ति तस्मिन्हि सत्ये परमात्मनोऽर्थे ॥ ४३-५६ अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम् । यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान् ॥ ४३-५७ नास्य पर्येषणं गच्छेत्प्रचीनं नोत दक्षिणम् । नार्वाचीनं कुतस्तिर्यङ्गादिशन्तु कथञ्चन ॥ ४३-५८ तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन । अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ॥ ४३-५९ तूष्णींभूत उपासीत न चेष्टेन्मनसापि च । उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ॥ ४३-६० मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः । स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ ४३-६१ सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते । तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥ ४३-६२ प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः । सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ॥ ४३-६३ धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति । वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ॥ ४३-६४ ॥इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि त्रिचत्वारिंशोऽध्यायः ॥

उद्योगपर्व - अध्याय ०४४

॥ श्रीः ॥ ५.४४ । अध्यायः ४४ सनत्सुजातेन धृतराष्ट्रंप्रति सत्त्वोपदेशः ॥ १ ॥ धृतराष्ट्र उवाच । सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम् । परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार । ४४-१ सनत्सुजात उवाच । नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव । बुद्धौ विलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या ॥ ४४-२ धृतराष्ट्र उवाच । अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् । अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत ॥ ४४-३ सनत्सुजात उवाच । अव्यक्तविद्यामभिधास्ये पराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् । यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या ॥ ४४-४ धृतराष्ट्र उवाच । ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा । तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे ॥ ४४-५ सनत्सुजात उवाच । आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भे ब्रह्मचर्यं चरन्ति । इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ॥ ४४-६ अस्मिँल्लोके वै जयन्तीह कामा- न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः । त आत्मानं निर्हरन्तीह देहा- न्मुञ्जादिषीकामिव सत्वसंस्थाः ॥ ४४-७ शरीरमेतौ कुरुतः पिता माता च भारत । आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमम ४४-८ यः प्रावृणोत्यवितथेन वर्णा- नृतं कुर्वन्नमृतं संप्रयच्छम् । तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमस्य जानन् ॥ ४४-९ गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः । मानं न कुर्यान्नादधीत रोप- मेप प्रथमो ब्रह्मचर्यस्य पादः ॥ ४४-१० शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः । ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥ ४४-११ आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि । कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ ४४-१२ समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत् । तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥ ४४-१३ आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन । यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः ॥ ४४-१४ नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत नैतदहं करोमि । इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ ४४-१५ कालेन पादं लभते तथार्थं ततश्च पादं गुरुयोगतश्च । उत्साहयोगेन च पादमृच्छे- च्छास्त्रेण पादं च ततोऽभियाति ॥ ४४-१६ धर्मादयो द्वादश यस्य रूप- मन्यानि चाङ्गानि तथा बलं च । आचार्ययोगे फलतीति चाहु- र्ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ॥ ४४-१७ एवं प्रवृत्तो यदुपालभेत वै धनमाचार्याय तदनुप्रयच्छेत् । स तां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ॥ ४४-१८ एवं वसन्सर्वतो वर्धतीह बहून्पुत्रांल्लभते च प्रतिष्ठाम् । वर्षन्ति चास्मै प्रदिशो दिशश्च वसत्यस्मिन्ब्रह्मचर्ये जनाश्च ॥ ४४-१९ एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन् । ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ ४४-२० गन्धर्वाणामनेनैव रूपमप्सरसमभूत् । एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥ ४४-२१ आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव । एवं ह्येते समाज्ञाय तादृग्भावं गता इमे ॥ ४४-२२ य आश्रयेत्पावयेच्चापि राज- न्सर्वं शरीरं तपसा तप्यमानः । एतेन वै बाल्यमभ्येति विद्वान् मृत्युं तथा स जयत्यन्तकाले ॥ ४४-२३ अन्तवतः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मलेन । ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं नान्यः पन्था अयनाथ विद्यते ॥ ४४-२४ धृतराष्ट्र उवाच । आभाति शुक्लमिव लोहितमि- वाथो कृष्णमथाञ्जनं काद्रवं वा । सद्ब्रह्मणः पश्यति योऽत्र विद्वा- न्कथं रूपं तदमृतमक्षरं पदम् ॥ ४४-२५ सनत्सुजात उवाच । आभाति शुक्लमिव लोहितमि- वाथो कृष्णमायसमर्कवर्णम् । न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ॥ ४४-२६ न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य । न चापि वायौ न च देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥ ४४-२७ नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु । रथन्तरे बार्हद्रथे वापि राज- न्महाव्रते नैव दृश्येद्भ्रुवं तत् ॥ ४४-२८ अपारणीयं तमसः परस्ता- त्तदन्तकोऽप्येति विनाशकाले । अणीयो रूपं क्षुरधारया समं महच्च रूपं तद्वै पर्वतेभ्यः ॥ ४४-२९ सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः । भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ ४४-३० अनामयं तन्महदुद्यतं यशो वाचो विकारं कवयो वदन्ति । यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ ४४-३१ ` तदेतदह्ना संस्थितं भाति सर्वं तदात्मवित्पश्यति ज्ञानयोगात् । तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥' ॥ ४४-३२ इति श्रीमन्महाभारते उद्योगपर्वणि सनुत्सुजातपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ sईच्तिओन्उद्योगपर्व - अध्याय ०४५ ॥ श्रीः ॥ ५.४५ । अध्यायः ४५ सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ १ ॥ सनत्सुजात उवाच । शोकः क्रोधश्च लोभश्च कामो मानः परासुता । ईर्ष्या मोहो विवित्सा च कृपाऽसूया जुगुप्सुता ॥ ४५-१ द्वादशैते महादोषा मनुष्यप्राणनाशनाः । एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते । यौराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति ॥ ४५-२ स्पृहयालुरुग्रः परुषो वा वदान्यः क्रोधं बिभ्रन्मनसा वै विकत्थी । नृशंसधर्माः षडिमे जना वै प्राप्याप्यर्थं नोत सभाजयन्ते ॥ ४५-३ संभोगसंविद्विषमोऽतिमानी दत्त्वा विकत्थी कृपणो दुर्बलश्च । बहुप्रशंकसी वनिताद्विट् सदैव सप्तैवोक्ताः पापशीला नृशंसाः ॥ ४५-४ धर्मश्च सत्यं च तपो दमश्च अमात्सर्यं ह्रीस्तितिक्षानसूया । दानं श्रुतं चैव धृतिः क्षमा च महाव्रता द्वादश ब्राह्मणस्य ॥ ४५-५ यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात् । त्रिभिर्द्वाभ्यामेकतो वार्थितो यो नास्य स्वमस्तीति च वेदितव्यम् ॥ ४५-६ दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम् । एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् ॥ ४५-७ सद्वाऽसद्वा परीवादे ब्राह्मणस्य न शस्यते । नरकप्रतिष्ठास्ते स्युर्य एवं कुरुते जनाः ॥ ४५-८ मदोऽष्टादशदोषः स स्यात्पुरा योऽप्रकीर्तितः । लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषावचः ॥ ४५-९ कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम् । अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम् ॥ ४५-१० ईर्ष्या मोदोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता । तस्मात्प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम् ॥ ४५-११ सौहृदे वै षङ्गुणा वेदितव्यः प्रिये हृष्यन्त्यप्रिये च व्यथन्ते । स्यादात्मनः सुचिरं याचते यो ददात्ययाच्यमपि देयं खलु स्यात् । इष्टान्पुत्रान्विभवान्स्वांश्च दारा- नभ्यर्थितश्चार्हति शुद्धभावः ॥ ४५-१२ त्यक्तद्रव्यः संवसेन्नेह कामा- द्भिङ्क्ते कर्मस्वाशिषं बाधते च ॥ ४५-१३ द्रव्यवान्गुणवानेवं त्यागी भवति सात्विकः । पञ्चभूतानि पञ्चभ्यो निवर्तयति तादृशः ॥ ४५-१४ एतत्समृद्धमप्यृद्धं तपो भवति केवलम् । सत्वात्प्रच्यवमानानां सङ्कल्पेन समाहितम् ॥ ४५-१५ यतो यज्ञः प्रवर्धन्ते मत्यस्यैवावरोधनात् । मनसान्यस्य भवति वाच्यन्यस्याथ कर्मणा ॥ ४५-१६ सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति । ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे श्रृणु ॥ ४५-१७ अध्यापयेन्महदेतद्यशस्यं वाचो विकराः कवयो वदन्ति । अस्मिन्योगे सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ ४५-१८ न कर्मणा सुकृतेनैव राजन् सत्यं जयेज्जुहुयाद्वा यजेद्वा । नैतेन वालोऽमृत्युमभ्येति राजन् रतिं चासौ न लभत्यन्तकाले ॥ ४५-१९ तृष्णीमेक उपासीत चेष्टेत मनसापि न । तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् ॥ ४५-२० अत्रैव तिष्ठन्क्षत्रिय ब्रह्माविशति पश्यति । वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥ ४५-२१ इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥

उद्योगपर्व - अध्याय ०४६

॥ श्रीः ॥ ५.४६ । अध्यायः ४६ सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ १ ॥ सनत्सुजात उवाच । यत्तच्छुक्रं महञ्ज्योतिर्दीप्यमानं महद्यशः । तद्वै देवा उपासते तस्मात्सूर्यो विराजते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१ शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते । तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२ आपोऽथाद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे । अतन्द्रितः सवितुर्विवस्वा- नुभौ बिभर्ति पृथिवीं दिवं च ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-३ उभौ च देवौ पृथिवीं दिवं च दिशः शुक्रो भुवनं बिभर्ति । तस्माद्दिशः सरितश्च स्रवन्ति तस्मात्समुद्रा विहिता महान्ताः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-४ चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः । केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-५ न सादृश्ये तिष्ठति रूपमस्य न चक्षुपा पश्यति कश्चिदेनम् । मनीषयाथो मनसा हृदा च य एनं विदुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-६ द्वादशपूगां सरितं पिबन्तो देवरक्षिताम् । मध्वीक्षन्तश्च ते तस्याः संचरन्तीह घोराम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-७ तदर्धमासं पिबति संचितं भ्रमरो मधु । ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-८ हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः । ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-९ पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे । हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१० तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा । तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥ ४६-११ सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१२ अपानं गिरपि प्राणः प्राणं गिरति चन्द्रमाः । आदित्यो गिरते चन्द्रमादित्यं गिरते परः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१३ एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् । तं चेत्सन्ततमूर्ध्वाय न मृत्युर्नामृतं भवेत् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१४ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स याति नित्यम् । तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१५ असाधना वापि ससाधना वा समानमेतद्दृश्यते मानुषेषु । समानमेतदमृतस्येतरस्य मुक्तास्तत्र मध्व उत्सं समापुः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१६ उभौ लोकौ विद्यया व्याप्य याति तदा हुतं चाहुतमग्निहोत्रम् । मा ते ब्राह्मी लघुतामादधीत प्रज्ञानं स्यान्नाम धीरा लभन्ते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१७ एवंरूपो महात्मा स पावकं पुरुषो गिरन् । यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१८ यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् । मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-१९ न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्वाः । हितो मनीषी मनसा न तप्यते ये प्रव्रजेयुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२० गूहन्ति सर्पा इव गह्वराणि स्वशिक्षया स्वेन वृत्तेन मर्त्याः । तेषु प्रमुह्यन्ति जना विमूढा यथाध्वानं मोहयन्ते भयाय ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२१ नाहं सदाऽसत्कृतः स्यां न मृत्यु- र्न चामृत्युरमृतं मे कुतः स्यात् । सत्यानृते सत्यसमानबन्धे सतश्च योनिरतसतश्चैक एव ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२२ न साधुना नोत असाधुना वा- ऽसमानमेतद्दृश्यते मानुषेषु । समानमेतदमृतस्य विद्या- देवं युक्तो मधु तद्वै परीप्सेत् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२३ नास्यातिवादा हृदयं तापयन्ति नानधीतं नाहुतमग्निहोत्रम् । मनो ब्राह्मी लघुतामादधीत प्रज्ञां चास्मै नाम धीरा लभन्ते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४६-२४ एवं यः सर्वभूतेषु आत्मानमनुपश्यति । अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् । ४६-२५ यथोदपाने महति सर्वतः संप्लुतोदके । एवं सर्वेषु वेदेषु आत्मानमनुजानतः ॥ ४६-२६ अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यतेऽसौ हृदि संनिविष्टः । अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः ॥ ४६-२७ अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः । आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥ ४६-२८ पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत । ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम् ॥ ४६-२९ आत्मैव स्थानं मम जन्म चात्मा ओतप्रोतोऽहमजरप्रतिष्ठः । अजश्चरो दिवारात्रमतन्द्रितोऽहं मां विज्ञाय कविरास्ते प्रसन्नः ॥ ४६-३० अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति । पितरं सर्वभूतेषु पुष्करे निहितं विदुः ॥ ४६-३१ इति श्रीमन्महाभारते उद्यगपर्वणि सनत्सुदजातपर्वणि षट्चत्वारिंशोऽध्यायः ॥ समाप्तमिदं सनत्सुजातपर्व ॥
% Text title            : Sanatsujatiya
% File name             : sanatsujAtIya.itx
% itxtitle              : sanatsujAtIyam
% engtitle              : sanatsujAtIya
% Category              : major_works, vyAsa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Veda Vyasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Description-comments  : From Mahabharat Udyogaparva (5) adhyAya 41-46 (BORI ediion 41-45)
% Indexextra            : (Hindi 1, 2, 3, bhAShyam, meaning, kosha)
% Latest update         : January 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org