॥ शृंगारशतकं भर्तृहरिविरचितम् ॥

॥ श्री ॥ वसंततिलका शम्भुः स्वयम्भुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः ॥ वाचामगोचरचरित्रविचित्रिताय तस्मै नमो भगवते कुसुमायुधाय ॥ १॥ शिखरिणी क्वचित्सुभ्रूभङ्गैः क्वचिदपि च लज्जापरिणतैः क्वचिद् भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ॥ कुमारीणामेभिर्वदनकमलैर्नेत्रचलितैः स्फुरन्नीलाब्जानां प्रकरपरिपूर्णा इव दिशः ॥ २॥ अनुष्टुभ् मुग्धे! धानुष्कता केयमपूर्वा त्वयि दृश्यते । यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ ३॥ शिखरिणी अनाघ्रातं पुष्पं; किसलयमलूनं कररुहै- रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ॥ अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ ४॥ %ए Fरोम् शाकुन्तल शिखरिणी स्मितं किञ्चिद् वक्त्रे सरलतरलो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ॥ गतानामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिह न हि रम्यं मृगदृशः? ॥ ५॥ शार्दूलविक्रीडित व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना नीलाब्जद्युतिनाऽहिना वरमहं दष्टो, न तच्चक्षुषा ॥ दष्टे सन्ति चिकित्सका दिशि-दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ ६॥ वंशस्थ स्मितेन भावेन च लज्जया भिया पराङ्मुखैरर्धकटाक्षवीक्षणैः ॥ वचोभिरीर्ष्याकलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥ ७॥ शालिनी भ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जिताश्चैव हासाः ॥ लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद् भूषणं चायुधं च ॥ ८॥ शार्दूलविक्रीडित वक्त्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ॥ वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ ९॥ शार्दूलविक्रीडित द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं घ्रातव्येष्वपि किं? तदास्यपवनः, श्रव्येषु किं? तद्वचः ॥ किं स्वाद्येषु? तदोष्ठपल्लवरसः; स्पृश्येषु किं ? तद्वपुः ध्येयं किं? नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमाः ॥ १०॥ वसन्ततिलका एताश्चलद्वलयसंहतिमेखलोत्थ झंकारनूपुरपराजितराजहंस्यः ॥ कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ ११॥ दोधक कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा । नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा ? ॥ १२॥ वसन्ततिलका नूनं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरबला इति कामिनीस्ताः ॥ याभिर्विलोलतरतारकदृष्टिपातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ? ॥ १३॥ अनुष्टुभ् नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः । यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ १४॥ शार्दूलविक्रीडित केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने अन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ॥ मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमा वित्थं तन्वि! वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः ॥ १५॥ अनुष्टुभ् सति प्रदीपे सत्यग्नौ सत्सु नानामणिष्वपि । विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ १६॥ शार्दूलविक्रीडित उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ॥ सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थाऽपि करोति तापमधिकं रोमावली केन सा ? ॥ १७॥ अनुष्टुभ् मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः । पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ १८॥ अनुष्टुभ् गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ १९॥ वसंततिलका तस्याः स्तनौ यदि घनौ, जघनं च हारि वक्त्रं च चारु तव चित्त किमाकुलत्वम् ॥ पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ २०॥ वसन्ततिलका सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ॥ एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ २१॥ रत्थोद्धता तावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः । यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः ॥ २२॥ मालिनी वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखमुखराणां केवलं पण्डितानाम् ॥ जघनमरुणरत्नग्रन्थिकाञ्चीकलापं कुवलयनयनानां को विहातुं समर्थः ? ॥ २३॥ आर्या स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतिम् । यस्मात्तपसोऽपि फलं स्वर्गस्तस्यापि फलं तथाप्सरसः ॥ २४॥ अनुष्टुभ् अजितात्मसु सम्बद्धः समाधिकृतचापलः । भुजङ्गकुटिलः स्तब्धो भ्रूविक्षेपः खलायते ॥ २५॥ स्रग्धरा सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवीन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ॥ भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ २६॥ शार्दूलविक्रीडित विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ॥ शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवाः तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् ॥ २७॥ उपजाति सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ॥ अनङ्गसंजीवनदृष्टशक्तिर्मुखामृतं ते पिबतीव चन्द्रः ॥ २८॥ शिखरिणी असाराः सन्त्वेते विरसविरसाश्चैव विषया जुगुप्सन्तां यद्वा ननु सकलदोषास्पदमिति ॥ तथाप्यन्तस्तत्त्वे प्रणिहितधियामप्यनबलः तदीयो नाख्येयः स्फुरति हृदये कोऽपि महिमा ॥ २९॥ वसंततिलका विस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ ॥ येनाचिरात्तदधरामिषलोलमर्त्य- मत्स्याद्विकृष्य स पचत्यनुरागवह्नौ ॥३०॥ अनुष्टुभ् कामिनीकायकान्तारे स्तनपर्वतदुर्गमे । मा सञ्चर मनःपान्थ ! तत्रास्ते स्मरतस्करः ॥ ३१॥ शिखरिणी न गम्यो मन्त्राणां न च भवति भैषज्यविषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ॥ भ्रमावेशादङ्गे कमपि विदधद्भङ्गमसकृत् स्मरापस्मारोऽयं भ्रमयति दृशं धूर्णयति च ॥ ३२॥ अनुष्टुभ् तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु हन्त पञ्चेषुपावकः ॥ ३३॥ शार्दूलविक्रीडित स्त्रीमुद्रां झषकेतनस्य परमां सर्वार्थसम्पत्करीं ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ॥ ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ३४॥ शिखरिणी कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ॥ क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः शुनीमन्वेति श्वा ! हतमपि च हन्त्येव मदनः ॥ ३५॥ वसंततिलका मत्तेभकुम्भदलने भुवि सन्ति शूराः केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ॥ किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य कंदर्पदर्पदलने विरला मनुष्याः ॥ ३६॥ हरिणी परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो मधुरविरुतोत्कण्ठा वाचः प्रियाः पिकपक्षिणाम् ॥ विरलसुरतस्वेदोद्गारा वधूवदनेन्दवः प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ? ॥ ३७॥ द्रुतविलम्बित मधुरयं मधुरैरपि कोकिला कलरवैर्मलयस्य च वायुभिः ॥ विरहिणः प्रहिणस्ति शरीरिणो विपदि हन्त सुधाऽपि विषायते ॥ ३८॥ शार्दूलविक्रीडित आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ॥ गोष्ठी सत्कविभिः समं कतिपयैः सेव्याः सितांशो कराः केषाञ्चित्सुखयन्ति धन्यहृदयं चैत्रे विचित्राः क्षपाः ॥ ३९॥ शार्दूलविक्रीडित पान्थस्त्रीविरहाग्नितीव्रतरतामातन्वती मञ्जरी माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ॥ अप्येते नवपाटलीपरिमलप्राग्भारपाटच्चरा वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥४०॥ आर्या प्रियपुरतो युवतीनां तावत्पदमातनोति हृदि मानः । भवति न यावच्चन्दनतरुसुरभिर्निर्मलः पवनः ॥ ४१॥ आर्या सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते । मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ४२॥ वसन्ततिलका अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो धारागृहाणि कुसुमानि च कौमुदी च ॥ मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ४३॥ शिखरिणी स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः परागः कासारो मलयजरसः सीधु विशदम् ॥ शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो निदाधार्ता ह्येतत्सुखमुपलभन्ते सुकृतिनः ॥ ४४॥ दोधक तरुणीवैषोहीपितकामा विकसितजातीपुष्पसुगन्धिः । उन्नतपीनपयोधरभारा प्रावृट् कुरुते कस्य न हर्षम् ? ॥ ४५॥ मालिनी वियदुपचितमेघं भूमयः कन्दलिन्यो नवकुटजकदम्बामोदिनो गन्धवाहाः ॥ शिखिकुलकलकेकारावरम्या वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४६॥ आर्या उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः । क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व यापयतु ? ॥ ४७॥ शिखरिणी इतो विद्युद्वल्लीविलसितमितः केतकितरोः स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ॥ इतः केकीक्रिडाकलकलरवः पक्ष्मलदृशां कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ? ॥ ४८॥ शिखरिणी असूचीसंचारे तमसि नभसि प्रौढजलद ध्वनिप्राये तस्मिन् पतति दृशदां नीरनिचये ॥ इदं सौदामिन्याः कनककमनीयं विलसितं मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥ ४९॥ शार्दूलविक्रीडित आसारेषु न हर्म्यतः प्रिततमैर्यातुं यदा शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते ॥ जाताः शीकरशीतलाश्च मरुतश्चात्यन्तखेदच्छिदो धन्यानां बत दुर्सिनं सुदिनतां याति प्रियासङ्गमे ॥ ५०॥ स्रग्धरा अर्धं नीत्वा निशायाः सरभससुरतायासखिन्नश्लथाङ्गः प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ॥ सम्भोगाक्लान्तकान्ताशिथिलभुजलताऽऽवर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मंदभाग्यः ॥ ५१॥ शार्दूलविक्रीडित हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचित्रै रतैः ॥ पीनोरुस्तनकामिनीजनकृताश्लेषा गृह्याभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ५२॥ स्रग्धरा प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति विदलत्कुन्दमाद्यद्द्विरेफे काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ॥ येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥ ५३॥ %स् शिशिरऋतु स्रग्धरा चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ॥ ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोंऽशुकानि व्यक्तं कान्ताजनानां विटचरितकृतः शैशिरा वान्ति वाताः ॥ ५४॥ शार्दूलविक्रीडित केशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिपन् आतन्वन् पुलकोद्गमं प्रकटयन्नावेगकम्पं गतैः ॥ वारंवारमुदारसीत्कृतकृतो दन्तच्छदान्पीडयन् प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥ ५५॥ उपजाति विश्रम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् । स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥ ५६॥ हरिणी प्रणयमधुराः प्रेमोद्गाढा रसादलसास्ततो भणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ॥ प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ ५७॥ उपजाति अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वङ्गसुखैकलोलाः ॥ आलिङ्गितायां पुनरायताक्ष्यां आशास्महे विग्रहयोरभेदम् ॥ ५८॥ रथोद्धता मालती शिरसि जृम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमान्वितम् ॥ वक्षसि प्रियतमा मनोहरा स्वर्ग एव परिशिष्ट आगतः ॥ ५९॥ शार्दूलविक्रीडित प्राङ्मामेति मनागनागतरसं जाताभिलाषां ततः सव्रीडं तदनु श्लथीकृततनु प्रध्वस्तधैर्यं पुनः ॥ प्रेमार्द्रं स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो निःशङ्काङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ६०॥ मालिनी उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किञ्चिदुन्मीलितानाम् ॥ उपरिसुरतखेदस्विन्नगण्डस्थलीनां अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ ६१॥ अनुष्टुभ् उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ॥ तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥ ६२॥ आर्या आमीलितनयनानां यत्सुरतरसोऽनु संविदं भाति । मिथुनैर्मिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥ ६३॥ वसंततिलका मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्तापयोधरतटे रसखेदखिन्नः ॥ वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ ६४॥ अनुष्टुभ् एतत्कामफलं लोके यद्द्वयोरेकचित्तता । अन्यचित्तकृते कामे शवयोरेव सङ्गमः ॥ ६५॥ शालिनी एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा । एको वासः पत्तने वा वने वा ह्येका भार्या सुंदरी वा दरी वा ॥ ६५-अ॥ उपजाति मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ॥ सेव्या नितम्बाः किमु भूधरणामुत स्मरस्मेरविलासिनीनाम् ॥ ६६॥ अनुष्टुभ् आवासः क्रियतां गाङ्गे पापवारिणि वारिणि । स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥ ६७॥ मालिनी दिशः वनहरिणीभ्यः स्निग्धवंशच्छवीनां कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ॥ शुकयुवतिकपोलापाण्डु ताम्बूलवल्ली- दलमरूणनखाग्रैः पाटितं वा वधूभ्यः ॥ ६९॥ स्रग्धरा संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां तत्त्वज्ञानामृताम्भःप्लवलुलितधियां यातु कालः कथञ्चित् ॥ नोचेन्मुग्धाङ्गनानां स्तनजघनभराभोगसम्भोगिनीनां स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यतानाम् ॥ ७०॥ शिखरिणी भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो विशित्रालापानां वयमपि कवीनामनुचराः ॥ तथाप्येतद् ब्रूमो न हि परहितात्पुण्यमधिकं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ ७१॥ मालिनी किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैः द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ॥ अभिनवमदलीलालालसं सुंदरीणां स्तनभरपरिखिन्नं यौवनं व वनं वा ॥ ७२॥ स्रग्धरा रागस्यागारमेकं नरकशतमहादुःखसम्प्राप्तिहेतुः मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ॥ कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं लोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥ ७३॥ शार्दूलविक्रीडित शृंगारद्रुमनीरदे प्रसृमरक्रीडारस स्रोतसि प्रद्युम्नप्रियबान्धवे चतुरतामुक्ताफलोदन्वति ॥ तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ ७४॥ स्रग्धरा राजंस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं को वार्थोऽर्थै प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ॥ गच्छामः सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनां यावच्चाक्रम्य रूपं झटिनि न जरया लुप्यते प्रेयसीनाम् ॥ ७५॥ शार्दूलविक्रीडित जान्त्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ॥ यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवाकाङ्क्षया पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ? ॥ ७६॥ अनुष्टुभ् वेश्याऽसौ मदनज्वाला रूपेन्धनविवर्धिता । कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ ७७॥ आर्या कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि । चारभटचौरचेटकनटविटनिष्ठीवनशरावम् ? ॥ ७८ स्रग्धरा संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवावलम्ब व्यासङ्गध्वस्तधैर्यं कथममलधियो मानसं संविदध्यु: ? ॥ यद्येताः प्रोद्यदिन्दुद्युतिनि वयभृतो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ? ॥ ७९॥ शार्दूलविक्रीडित सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ॥ कः कुर्वीत शिरः प्रमाणमलिनं म्लानं मनस्वी जनो यद्वित्रस्तरकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ ८०॥ अनुष्टुभ् संसारोदधिनिस्तार पदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणा ॥ ८१॥ इंद्रवज्रा सत्यं जना वच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यमेतत् । नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥ ८२॥ शार्दूलविक्रीडित कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्सुकः पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ॥ दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ! ॥ ८३॥ अनुष्टुभ् स्मृता भवति तापाय दृष्ट्वा चोन्मादवर्धिनी । स्पृष्टा भवति मोहाय ! सा नाम दयिता कथम् ? ॥ ८४॥ अनुष्टुभ् तावदेवामृतमयी यावल्लोचनगोचरा । चक्षुःपथादतीता तु विषादप्यतिरिच्यते ॥ ८५॥ अनुष्टुभ् नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् । सैवामृतरुता रक्ता विरक्ता विषवल्लरी ॥ ८६॥ स्रग्धरा आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां संविधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥ स्वर्गद्वारस्य विघ्नौ नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ ८७॥ शार्दूलविक्रीडित नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर- द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ॥ किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ ८८॥ उपजाति लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति ॥ रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव वृथा षडङ्घ्रिः ॥ ८९॥ शिखरिणी यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिवरं मुखाब्जं तन्वङ्ग्याः किल वसति तत्राधरमधु ॥ इदं तत्किम्पाकद्रुमफलमिवातीव विरसं व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ ९०॥ शार्दूलविक्रीडित अग्राह्यं हृदयं यथैव वदनं यद्दर्पणान्तर्गतं भावः पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते ॥ चित्तं पुष्करपत्रतोयतरलं विद्वद्भिराशंसितं नारी नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिता ॥ ९१॥ अनुष्टुभ् जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् । हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ? ॥ ९२॥ वैतालीय मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् । अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ ९३॥ मालिनी इह हि मधुरगीतं नृत्यमेतद्रसोऽयं स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् । इति हतपरमार्थैरिन्द्रियैर्भाम्यमाणः स्वहितकरणदक्षैः पञ्चभिर्वञ्चितोऽसि ॥ ९४॥ मन्दाक्रान्ता शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ॥ येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ ९५॥ शार्दूलविक्रीडित उन्मीलत्त्रिवलितरङ्गनिलया प्रोत्तुङ्गपीनस्तन- द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी ॥ कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ ९६॥ हरिणी अपसर सखे दूरादस्मात्कटाक्षविषानलात् प्रकृतिकुटिलाद्योषित्सर्पाद्विलासफणाभृतः ॥ इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधे- श्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ९७॥ पुष्पिताग्रा इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ ९८॥ वसन्ततिलका धन्यास्त एव तरलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् ॥ क्षामोदरोपरिलसत्त्रिवलीलतानां दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम् ॥ ९९॥ आर्या विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् । हृदयमपि विघट्टितं चेत्सङ्गो विरहं विशेषयति ॥ १००॥ रथोद्धता किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथाऽपि किम् ॥ इत्युदीर्य नवमेघदर्शने न प्रयाति पथिकः स्वमन्दिरम् ॥ १०१॥ हरिणी विरमत बुधा योषित्सङ्गात् सुखात्क्षणभङ्गुरात् कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ॥ न खलु नरके हाराक्रान्तं घनस्तनमण्डलं शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ १०२॥ शिखरिणी यदा योगाभ्यासव्यसनवशयोरात्ममनसो- रविच्छिन्ना मैत्री स्फुरति यमिनस्तस्य किमु तैः ॥ प्रियाणामालापैरधरमधुभिर्वक्त्रविधुभिः सनिःश्वासामोदैः सकुचकलशाश्लेषसुरतैः ? ॥ १०३॥ शिखरिणी सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्त्राम्भोजं मलयजरसश्चातिसुरभिः ॥ स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥ १०४॥ मंदाक्रान्ता बाले लीलामुकुलितममी सुंदरा दृष्टिपाताः किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ॥ सम्प्रत्यन्त्ये वयसि विरतं बाल्यमास्था वनान्ते क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ १०५॥ शिखरिणी इयं बाला मां प्रत्यनवरतमिन्दीवरदल- प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ? ॥ गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर- ज्वलज्ज्वालाः शांतास्तदपि न वराकी विरमति ॥ १०६॥ शार्दूलविक्रीडित किं कन्दर्प ! शरं कदर्थयसि रे कोदण्डझङ्कारितै ? रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ॥ मुग्धे ! स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं चेतः सम्प्रति चंद्रचूडचरणध्यानामृते वर्तते ॥१०७॥ शिखरिणी यदाऽऽसीदज्ञानं स्मरतिमिरसञ्चारजनितं तदा सर्वं नारीमयमिदमशेषं जगदभूत् । इदानीमस्माकं पटुतरविवेकाञ्जनदृशां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ १०८॥ भर्तृहरिकृत शतकत्रयी Bhartrihari's three hundred-verse sets Pages 125-214 Editted and translated in 1969 by L. G. Vinjhe. (Translation not included here.) Copyright Nirnayasagar Publisher निर्णयसागर प्रकाशन, मुम्बई ४००००२ 26-28 Dr. M. B. Velkar Street Mumbai 400002

% Text title            : bhartRiharivirachita shRiNgArashataka
% File name             : shringar.itx
% itxtitle              : shRiNgArashatakam (bhartRiharivirachitam)
% engtitle              : Shringarashatak by Bhartrihari
% Category              : shataka, major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion  Nirnayasagar Publisher   nirNayasaagara prakaashana, muMbaI 400002  26-28 Dr. M. B. Velkar Street Mumbai 400002
% Description-comments  : Bhartrihari@s three hundred-verse sets
% Indexextra            : 1, 2
% Latest update         : May 30, 1999
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP