॥ स्तोत्राणि नारायणगुरुविरचितानि ॥

स्तोत्रक्रियाः विनायकस्तोत्रम् १. विनायकाष्टकम् विष्णुस्तोत्राणि २. श्रीवासुदेवाष्टकम् ३. विष्ण्वष्टकम् देवीस्तोत्रम् ४. भद्रकाल्यष्टकम् सुब्रह्मण्य स्तोत्राणि ५. षाण्मातुरस्तवम् ६. गुहाष्टकम् ७. बाहुलेयाष्टकम् शिवस्तोत्रम् ८. चिदंबराष्टकम् संकीर्णानि ९. जातिनिर्णयम् १०. धर्मः ११. आश्रमम् १२. मुनिचर्यापञ्चकम् दार्शनिकक्रियाः १३. दर्शनमाला १४. ब्रह्मविद्या पञ्चकम् १५. निर्वृतिपञ्चकम् १६. श्लोकत्रयी १७. होममन्त्रम् १८. वेदान्तसूत्रम् १९. समाधि श्लोकौ
विनायकस्तोत्रम् १. विनायकाष्टकम् नमद्देववृन्दं लसद्वेदकन्दं शिरःश्रीमदिन्दुं श्रितश्रीमुकुन्दम् । बृहच्चारुतुन्दं स्तुतश्रीसनन्दं जटाहीन्द्रकुन्दं भजेऽभीष्टसन्दम् ॥ १॥ किलद्देवगोत्रं कनद्धेमगात्रं सदानन्दमात्रं महाभक्तमित्रम् । शरच्चन्द्रवक्त्रं त्रयीपूतपात्रं। समस्तार्त्तिदात्रं भजे शक्तिपुत्रम् ॥ २॥ गलद्दानमालं चलद्भोगिमालं गलाम्भोदकालं सदा दानशीलम् । सुरारातिकालं महेशात्मबालं लसत्पुण्ड्रफालं भजे लोकमूलम् ॥ ३॥ उरस्तारहारं शरच्चन्द्रहीरं सुरश्रीविचारं हृतार्त्तारिभारम् । कटे दानपूरं जटाभोगिपूरं कलाबिन्दुतारं भजे शैववीरम् ॥ ४॥ करारूढमोक्षं विपद्भङ्गदक्षं चलत्सारसाक्षं पराशक्तिपक्षम् । श्रितामर्त्यवृक्षं सुरारिद्रुतक्षं परानन्दपक्षं भजे श्रीशिवाक्षम् ॥ ५॥ सदाशं सुरेशं सदा पातुमीशं निदानोद्भवं शाङ्करप्रेमकोशम् । धृतश्रीनिशेशं लसद्दन्तकोशं चलच्छूलपाशं भजे कृत्तपाशम् ॥ ६॥ ततानेकसन्तं सदा दानवन्तं बुधश्रीकरन्तं गजास्यं विभान्तम् । करात्मीयदन्तं त्रिलोककैकवृन्तं सुमन्दं परन्तं भजेऽहं भवन्तम् ॥ ७॥ शिवप्रेमपिण्डं परं स्वर्णवर्णं लसद्दन्तखण्डं सदानन्दपूर्णम् । विवर्णप्रभास्यं धृतस्वर्णभाण्डं चलच्चारुशुण्डं भजे दन्तितुण्डम् ॥ ८॥
विष्णुस्तोत्राणि २. श्रीवासुदेवाष्टकम् श्रीवासुदेव, सरसीरुहपाञ्चजन्य- कौमोदकीभयनिवारणचक्रपाणे । श्रीवत्सवत्स, सकलामयमूलनाशिन्, श्रीभूपते, हर हरे, सकलामयं, मे ॥ १॥ गोविन्द, गोपसुत, गोगणपाललोल, गोपीजनाङ्गकमनीयनिजाङ्गसङ्ग । गोदेविवल्लभ, महेश्वरमुख्यवन्द्य, श्रीभूपते, हर हरे, सकलामयं, मे ॥ २॥ नीलालिकेशपरिभूषितबर्हिबर्ह, कालांबुदद्युतिकलायकलेबराभ । वीर, स्वभक्तजनवत्सल, नीरजाक्ष, श्रीभूपते, हर हरे, सकलामयं मे ॥ ३॥ आनन्दरूप, जनकानकपूर्वदुन्दु- भ्यानन्दसागरसुधाकरसौकुमार्य । मानापमानसम मानसराजहंस, श्रीभूपते, हर हरे, सकलामयं मे ॥ ४॥ मञ्जीरमञ्जुमणिशिञ्जितपादपद्म, कञ्जायताक्ष, करुणाकर, कञ्जनाभ । सञ्जीवनौषधसुधामय, साधुरम्य, श्रीभूपते, हर हरे, सकलामयं मे ॥ ५॥ कंसासुरद्विरदकेसरिवीर, घोर- वैराकरामयविरोधकराज, शौरे । हंसादिरम्यसरसीरुहपादमूल, श्रीभूपते, हर हरे, सकलामयं मे ॥ ६॥ संसारसङ्कटविशङ्कटकङ्कटाय सर्वार्थदाय सदयाय सनातनाय । सच्चिन्मयाय भवते सततं नमोऽस्तु श्रीभूपते, हर हरे, सकलामयं मे ॥ ७॥ भक्तप्रियाय भवशोकविनाशनाय मुक्तिप्रदाय मुनिवृन्दनिषेविताय । नक्तन्दिवं भगवते नतिरस्मदीया श्रीभूपते, हर हरे, सकलामयं मे ॥ ८॥
३. विष्ण्वष्टकं विष्णुं विशालारुणपद्मनेत्रं विभान्तमीशांबुजयोनिपूजितम् । सनातनं सन्मतिशोधितं परं पुमांसमाद्यं सततं प्रपद्ये ॥ १॥ कल्याणदं कामफलप्रदायकं कारुण्यरूपं कलिकल्मषघ्नम् । कलानिधिं कामतनूजमाद्यं नमामि लक्ष्मीशमहं महान्तम् ॥ २॥ पीतांबरं भृङ्गनिभं पितामह- प्रमुख्यवन्द्यं जगदादिदेवम् । किरीटकेयूरमुखैः प्रशोभितं श्रीकेशवं सन्ततमानतोऽस्मि ॥ ३॥ भुजङ्गतल्पं भुवनैकनाथं पुनः पुनः स्वीकृतकायमाद्यम् । पुरन्दराद्यैरपि वन्दितं सदा मुकुन्दमत्यन्तमनोहरं भजे ॥ ४॥ क्षीरांबुराशेरभितः स्फुरन्तं शयानमाद्यन्तविहीनमव्ययम् । सत्सेवितं सारसनाभमुच्चैः विघोषितं केशिनिषूदनं भजे ॥ ५॥ भक्तार्त्तिहन्तारमहर्न्निशन्तं मुनीन्द्रपुष्पाञ्जलिपादपङ्कजम् । भवघ्नमाधारमहाश्रयं परं परापरं पङ्कजलोचनं भजे ॥ ६॥ नारायणं दानवकाननानलं नतप्रियं नामविहीनमव्ययम् । हर्त्तुं भुवो भारमनन्तविग्रहं स्वस्वीकृतक्ष्मावरमीडितोऽस्मि ॥ ७॥ नमोऽस्तु ते नाथ! वरप्रदायिन् नमोऽस्तु ते केशव! किङ्करोऽस्मि । नमोऽस्तु ते नारदपूजिताङ्घ्रे नमो नमस्त्वच्चरणं प्रपद्ये ॥ ८॥ फलश्रुतिः विष्ण्वष्टकमिदं पुण्यं यः पठेद्भक्तितो नरः । सर्वपापविनिर्मुक्तो, विष्णुलोकं स गच्छति ॥
देवीस्तोत्रम् ४. भद्रकाल्यष्टकम् श्रीमच्छङ्करपाणिपल्लवकिरल्लोलंबमालोल्लस- न्मालालोलकलापकालकबरीभारावलीभासुरीम् । कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलीं बालांबां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १॥ हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद- श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् । पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनीं घोटीवृन्दसमानधाटियुयुधीं श्रीभद्रकालीं भजे ॥ २॥ बालार्कायुतकोटिभासुरकिरीटामुक्तमुग्धालक- श्रेणीनिन्दितवासिकामरुसरोजाकाञ्चलोरुश्रियम् । वीणावादनकौशलाशयशयश्र्यानन्दसन्दायिनी- मम्बामम्बुजलोचनामनुदिनं श्रीभद्रकालीं भजे ॥ ३॥ मातङ्गश्रुतिभूषिणीं मधुधरीवाणीसुधामोषिणीं भ्रूविक्षेपकटाक्षवीक्षणविसर्गक्षेमसंहारिणीम् । मातङ्गीं महिषासुरप्रमथिनीं माधुर्यधुर्याकर- श्रीकारोत्तरपाणिपङ्कजपुटीं श्रीभद्रकालीं भजे ॥ ४॥ मातङ्गाननबाहुलेयजननीं मातङ्गसंगामिनीं चेतोहारितनुच्छवीं शफरिकाचक्षुष्मतीमम्बिकाम् । जृंभत्प्रौढिनिशुंभशुंभमथिनीमंभोजभूपूजितां सम्पत्सन्ततिदायिनीं हृदि सदा श्रीभद्रकालीं भजे ॥ ५॥ आनन्दैकतरङ्गिणीममलहृन्नालीकहंसीमणीं पीनोत्तुङ्गघनस्तनां घनलसत्पाटीरपङ्कोज्ज्वलाम् । क्षौमावीतनितंबबिंबरशनास्यूतक्वणत् किङ्किणीं एणांङ्कांबुजभासुरास्यनयनां श्रीभद्रकालीं भजे ॥ ६॥ कालांभोदकलायकोमलतनुच्छायाशितीभूतिमत्- संख्यानान्तरितस्तनान्तरलसन्मालाकिलन्मौक्तिकाम् । नाभीकूपसरोजनालविलसच्छातोदरीशापदीं दूरीकुर्वयि देवि, घोरदुरितं श्रीभद्रकालीं भजे ॥ ७॥ आत्मीयस्तनकुंभकुङ्कुमरजःपङ्कारुणालंकृत- श्रीकण्ठौरसभूरिभूतिममरीकोटीरहीरायिताम् । वीणापाणिसनन्दनन्दितपदामेणीविशालेक्षणां वेणीह्रीणितकालमेघपटलीं श्रीभद्रकालीं भजे ॥ ८॥ फलश्रुतिः देवीपादपयोजपूजनमिति श्रीभद्रकाल्यष्टकं रोगौघाघघनानिलायितमिदं प्रातः प्रगेयं पठन् । श्रेयः श्रीशिवकीर्तिसम्पदमलं सम्प्राप्य सम्पन्मयीं श्रीदेवीमनपायिनीं गतिमयन् सोऽयं सुखी वर्तते ॥
सुब्रह्मण्य स्तोत्राणि ५. षाण्मातुरस्तवम् गौरीसहायसुहृदूरीकृतावयवभूरीषु वैरिषु तम- स्सूरीकृतायुधनिवारीतदोष निजनारीकलालसमनः । क्रूरीभवत्तिमिरचारी हितापदुररी नीतिसूरि करुणा- वारीणवारिधर, गौरीकिशोर, मम दूरीकुरुष्व दुरितम् ॥ १॥ मल्लीकृतत्रिदशमल्लीसदा सुदतिवल्लीकुचाङ्कणलसत् सल्लीनकुङ्कुमरसोल्लीनवत्स, युधि भल्लीस्मयोऽसि दितिजैः । फुल्लीकुरुष्व स च वल्लीतगोधितलवल्लीविलोलबुधहृद्- वल्लीनिवास, मम सोल्लीनकेकि हयसल्लीलपाहृदुदजम् ॥ २॥ प्राणीकृतस्वनखराणीतभक्तजनवाणीशमुख्यसुमन- श्श्रेणीसुजानुतलतूणीतमालतिमिराणीलचूचुकभरा । वाणीविलासमलिवेणीविपञ्चिमृदुवाणी तवांगरमणी श्रोणीघना सुमति, शाणीतनोतु भृशमेणीविशालनयना ॥ ३॥ रागाभिषिक्तनिजकेशादिपादवपुराशापिशाचदहना श्रीशातकुंभनिभपाशाङ्कुशाभरणनाशान्तकानुचर! भोः । भीशाड्वलाहरणगोशाबकावनतकोशाधिपाशु भगवन् पाशाटवी भव हृताशाशयावपिशिताशा हि भोगभुगमुम् ॥ ४॥ सन्तापसन्ततिनिशान्तावसन्तमयि कान्तायुगान्तररते, किन्तावके हृदि नितान्ताकुलाशयमहन्तानपेतमवितुम् । किन्तामसं भवसि, चिन्तामणीरुचिरसन्तानपादपदव- श्चिन्ताधुतान्तरुजमन्तादिहीन कुरु मान्तावकीनभजनम् ॥ ५॥ सीमाविहीनगुण सोमावचूड जितकामाभिमान सुमते! भूमाधवादिनुत भूमासमान, पुरकामान्धकान्तकगुरो । नामालिजापिजनकामावसानफलदामाशमातनु विभो, हेमारुणाहितनिकामातिभीम, गुह सामादि वेदविदयम् ॥ ६॥ वेदानुगीतनुतपादारविन्दयुगमादाय सेवनविधे- रादावमुं सरसमादातुकाम शुभकेदारकेलिनिलये । तादात्म्यलीनमतिसादापनोद, सकलादानदैवततरो भूदासकल्पलतिकोदारदाम कुरु मोदांबुराशिवसतिम् ॥ ७॥ किञ्चासुरद्विरदपञ्चाननप्रणवसञ्चारिहंससमने किञ्चापलन्नमन, तुञ्चानुजीवि मम सिञ्चामृताभ कृपया । पञ्चाननप्रणय कञ्चापि शासिकति मुञ्चाशु बद्धकमतिं पञ्चाशुगारिसुरपञ्चाननात्मजमिमञ्चापि पाहि सततम् ॥ ८॥ कालाय शीतरुचिबालावचूड, शुभशीलावधूतदुरित श्रीलाघमीवरद लीलाहिवारिसख बालाशयाशयशुचे । कालानलोपमित फालावलोकनक blank. Missing line वेलयुधो महति कोलाहलारवसुलीला तनोतु कुशलम् ॥ ९॥
६. गुहाष्टकम् शान्तं शंभुतनूजं सत्यमनाधारं जगदाधारं ज्ञातृज्ञाननिरन्तरलोकगुणातीतं गुरुणातीतम् । वल्लीवत्सलभृङ्गारण्यकतारुण्यं वरकारुण्यं सेनासारमुदारं प्रणमत देवेशं गुहमावेशम् ॥ १॥ विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं भावाभावजगत्त्रयरूपमथारूपं जितसारूपम् । नानाभुवनसमाधेयं विनुताधेयं वरराधेयं केयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम् ॥ २॥ स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दं ज्योतिःस्तोमनिरन्तररम्यमहस्साम्यं मनसायाम्यम् । मायाशृङ्खलबन्धविहीनमनादीनं परमादीनं शोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम् ॥ ३॥ व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपं ज्योतिश्चक्रसमर्पितकायमनाकायव्ययमाकायम् । भक्तत्राणनशक्त्या युक्तमनुद्युक्तं प्रणयासक्तं सुब्रह्मण्यमरण्यं प्रणमत देवेशं गुहमावेशम् ॥ ४॥ श्रीमत्सुन्दरकायं शिष्टजनासेव्यं सुजटासेव्यं सेवातुष्टसमर्पितसूत्रमहासत्रं निजषड्वक्त्रम् । प्रत्यर्त्थ्यानतपादसरोरुहमावाहं भवभीदाहं नानायोनिमयोनिं प्रणमत देवेशं गुहमावेशम् ॥ ५॥ मान्यं मुनिभिरमान्यं मञ्जुजटासर्पं जितकन्दर्पं आकल्पामृततरलतरङ्गमनासङ्गं सकलासङ्गम् । भासा ह्यधरितभास्वन्तं भविकस्वान्तं जितभीस्वान्तं कामं कामनिकामं प्रणमत देवेशं गुहमावेशम् ॥ ६॥ शिष्टं शिवजनतुष्टं बुधहृदयाकृष्टं हृतपापिष्ठं नादान्तद्युतिमेकमनेकमनासङ्गं सकलासङ्गम् । दानविनिर्जितनिर्जरदारुमहाभीरुं तिमिराभीरुं कालाकालमकालं प्रणमत देवेशं गुहमावेशम् ॥ ७॥ नित्यं नियमिहृदिस्थं सत्यमनागारं भुवनागारं बन्धूकारुणललितशरीरमुरोहारं महिमाहारं कौमारीकरपीडितपादपयोजातं दिवि भूजातं कण्ठेकालमकालं प्रणमत देवेशं गुहमावेशम् ॥ ८॥
७. बाहुलेयाष्टकं ॐ ॐ ॐ होमधूमप्रकटतटजटाकोटिभोगिप्रपूरं आं आं आं आदितेयप्रणतपदयुगांभोरुहश्रीविलासम् । ऊं ऊं ऊं उग्रनेत्रत्रयलसितवपुर्ज्योतिरानन्दरूपं श्रीं श्रीं श्रीं शीघ्रचित्तभ्रमहरमनिशं भावये बाहुलेयम् ॥ १॥ ह्रीं ह्रीं ह्रीं हृष्टषट्कन्धरमघमरणारण्यसंवर्त्तवह्निं ऐं ऐं ऐं ऐङ्गुदीसत्फलमृदुमिलितप्राशियोगीन्द्रवन्द्यम् । क्लीं क्लीं क्लीं क्लिष्टकायक्लमदवदहनक्लेशनिर्मूलनाशं सौं सौं सौं सौरकान्तिभ्रमहरमनिशं भावये बाहुलेयम् ॥ २॥ शं शं शं शब्दरूपं शशिधरममलं शङ्करं सांबमूर्तिं शिं शिं शिं शिष्टवन्द्यं शिखरिनिलयनं शिक्षितानेकलोकम् । शुं शुं शुं शुभ्रहासं शुभकरमतिसन्देहसन्दोहनाशं शौं शौं शौं शौक्लिताङ्गं सितभसितगणैर्भावये बाहुलेयम् ॥ ३॥ रं रं रं रम्यदेहं रजतगिरिगृहं रक्तपद्माङ्घ्रियुग्मं रिं रिं रिं रिक्तशोकप्रकृतिपरमजंघालमानीलनेत्रम् । रुं रुं रुं रूक्षकायप्रतिभटहननं रक्तकौशेयवस्त्रं रौं रौं रौं रौं रौरवादिद्रुतहरकुहरं भावये बाहुलेयम् ॥ ४॥ हं हं हं हंसयोगिप्रवरसुखकरं हस्तलक्ष्मीसमेतं हिं हिं हिं हीनमानं हितसुखवरदं हिंसयापेतकीलम् । हुं हुं हुं हुंकृतिध्वंसितरजनिचरक्रौर्यकौटिल्यमूर्तिं हैं हैं हैं हैमकुंभायतकरसहजं भावये बाहुलेयम् ॥ ५॥ णं णं णं नन्दिकेशप्रवरभुजगनिर्विघ्नकर्मप्रपञ्चं णिं णिं णिं नीलकण्ठप्रियसुतमजितं निर्मलाङ्गं निरीहम् । णुं णुं णुं णुत्तनाभोत्तरनिभृतनिरालंबकैवल्यमूर्तिं णौं णौं णौं नामरूपात्मकजगदखिलं भावये बाहुलेयम् ॥ ६॥ भं भं भं भागधेयं भगवदनुचरप्राञ्जलिस्तोत्रपूरं भिं भिं भिं भीमनादान्तकमदनहरं भीषितारातिवर्गम् । भुं भुं भुं भूतिभूषार्च्चितममितसमस्तार्थशास्त्रान्तरङ्गं भौं भौं भौं भौममुख्यं ग्रहगणनपटुं भावये बाहुलेयम् ॥ ७॥ वं वं वं वाहिनीशं वलरिपुनिलयस्तोत्रसम्पत्समूहं विं विं विं वीरबाहुप्रभृतिसहचरं विघ्नराजानुजातम् । वुं वुं वुं भूतनाथं भुवननिलयनं भूरिकल्याणशीलं वौं वौं वौं भावितारिप्रतिभयमनिशं भावये बाहुलेयम् ॥ ८॥
शिवस्तोत्रम् ८. चिदंबराष्टकम् ब्रह्ममुखामरवन्दितलिङ्गं जन्मजरामरणान्तकलिङ्गम् । कर्मनिवारणकौशललिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ १॥ कल्पकमूलप्रतिष्ठितलिङ्गं दर्पकनाशयुधिष्ठिरलिङ्गम् । कुप्रकृतिप्रकरान्तकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ २॥ स्कन्दगणेश्वरकल्पितलिङ्गं किन्नरचारणगायकलिङ्गम् । पन्नगभूषणपावनलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ३॥ सांबसदाशिवशङ्करलिङ्गं काम्यवरप्रदकोमललिङ्गम् । साम्यविहीनसुमानसलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ४॥ कलिमलकाननपावकलिङ्गं सलिलतरंगविभूषणलिङ्गम् । पलितपतंगप्रदीपकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ५॥ अष्टतनुप्रतिभासुरलिङ्गं विष्टपनाथविकस्वरलिङ्गम् । शिष्टजनावनशीलितलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ६॥ अन्तकमर्दनबन्धुरलिङ्गं कृन्तितकामकलेबरलिङ्गम् । जन्तुहृदिस्थितजीवकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ७॥ पुष्टधियस्सु चिदंबरलिङ्गं दृष्टमिदं मनसानुपठन्ति । अष्टकमेतदवाङ्मनसीयं अष्टतनुं प्रति यान्ति नरास्ते ॥ ८॥
संकीर्णानि ९. जातिनिर्णयम् मनुष्याणं मनुष्यत्वं जातिर्गोत्रं गवां यथा । न ब्राह्मणादिरस्यैवं हा तत्त्वं वेत्ति कोऽपि न ॥
१०. धर्मः धर्म एव परं दैवं धर्म एव महाधनम् । धर्मस्सर्वत्र विजयी भवतु श्रेयसे नृणाम् ॥
११. आश्रमम् आश्रमेऽस्मिन् गुरुः कश्चिद्विद्वान् मुनिरुदारधीः । समदृष्टिः शान्तगंभीराशयो विजितेन्द्रियः ॥ १॥ परोपकारी स्याद्दीनदयालुः सत्यवाक्पटुः । सदाचाररतः शीघ्रकर्तव्यकृदतन्द्रितः ॥ २॥ अधिष्ठायास्य नेतृत्वं कुर्यात् काञ्चित् सभां शुभाम् । अस्यामायान्ति ये ते स्युः सर्वे सोदरबुद्धयः ॥ ३॥ यद्वदत्रैव तद्वच्च स्त्रीणां पुंसां पृथक् पृथक् । विद्यालया दिशि दिशि क्रियन्तामाश्रमाः सभाः ॥ ४॥ एकैकस्यामासु नेता चैकैकः स्याद्विचक्षणः सर्वाभिरनुबन्धोऽद्वैताश्रमस्याभिरन्वहम् ॥ ५॥
१२. मुनिचर्यापञ्चकम् इत्यादि वादोपरतं महान्तं प्रशान्तगंभीरनिजस्वभावम् । शोणाचले श्रीरमणं समीक्ष्य प्रोवाच नारायणसंयमीन्द्रः ॥ भुजः किमुपधानतां किमु न कुंभिनी मञ्चतां व्रजेत् वृजिनहारिणी स्वपदपातिनी मेदिनी । मुनेरपरसम्पदा किमिह मुक्तरागस्य त- त्त्वमस्यधिगमादयं सकलभोग्यमत्यश्नुते ॥ १॥ मुनिः प्रवदतां वरः क्वचन वाग्यमी पण्डितो विमूढ इव पर्यटन् क्वचन संस्थितोऽप्युत्थितः । शरीरमधिगम्य चञ्चलमनेहसा खण्डितं भजत्यनिशमात्मनः पदमखण्डबोधं परम् ॥ २॥ अयाचितमलिप्सया नियतिदत्तमन्नं मुनि- स्तनोः स्थितय इत्यदन् पथि शयानकोऽव्याकुलः । सदात्मदृगनश्वरं स्वपरमात्मनोरैक्यतः स्फुरन् निरुपमं पदं निजमुपैति सच्चित् सुखम् ॥ ३॥ असत्सदिति वादतो बहिरचिन्त्यमग्राह्यम- ण्वखर्वममलं परं स्तिमितनिम्नमत्युन्नतम् । पराङ्मुख इतस्ततः परिसमेति तुर्यं पदं मुनिस्सदसतोरद्वयादुपरिगन्तुमभ्युद्यतः ॥ ४॥ स्ववेश्मनि वने तथा पुलिनभूमिषु प्रान्तरे क्व वा वसतु योगिनो वसति मानसं ब्रह्मणि । इदं मरुमरीचिकासदृशमात्म,दृष्ट्याखिलं निरीक्ष्य रमते मुनिर्निरुपमे परब्रह्मणि ॥ ५॥
दार्शनिकक्रियाः १३. दर्शनमाला १. अध्यारोपदर्शनम् आसीदग्रेऽसदेवेदं भुवनं स्वप्नवत्पुनः । ससर्ज सर्वं सङ्कल्पमात्रेण परमेश्वरः ॥ १॥ वासनामयमेवादावासीदिदमथ प्रभुः । असृजन्मायया स्वस्य मायावीवाखिलं जगत् ॥ २॥ प्रागुत्पत्तेरिदं स्वस्मिन् विलीनमथ वै स्वतः । बीजादङ्कुरवत्स्वस्य शक्तिरेवासृजत्स्वयम् ॥ ३॥ शक्तिस्तु द्विविधा ज्ञेया तैजसी तामसीति च । सहवासोऽनयोर्नास्ति तेजस्तिमिरयोरिव ॥ ४॥ मनोमात्रमिदं चित्रमिवाग्रे सर्वमीदृशम् । प्रापयामास वैचित्र्यं भगवांश्चित्रकारवत् ॥ ५॥ आसीत् प्रकृतिरेवेदं यथाऽदौ योगवैभवः । व्यतनोदथ योगीव सिद्धिजालं जगत्पतिः ॥ ६॥ यदाऽऽत्मविद्यासङ्कोचस्तदाऽविद्या भयङ्करम् । नामरूपात्मनाऽत्यर्थं विभातीह पिशाचवत् ॥ ७॥ भयङ्करमिदं शून्यं वेतालनगरं यथा । तथैव विश्वमखिलं व्यकरोदद्भुतं विभुः ॥ ८॥ अर्काद्यथाक्रमं विश्वं तथा नैवेदमात्मनः । सुप्तेरिव प्रादुरासीद्युगपत्स्वस्य वीक्षया ॥ ९॥ धानादिव वटो यस्मात् प्रादुरासीदिदं जगत् । स ब्रह्मा स शिवो विष्णुः स परः सर्व एव सः ॥ १०॥ २. अपवाददर्शनम् चैतन्यादागतं स्थूलसूक्ष्मात्मकमिदं जगत् । अस्ति चेत्सद्घनं सर्वं नास्ति चेदस्ति चिद्घनम् ॥ १॥ अन्यन्न कारणात्कार्यमसदेतदतोऽखिलम् । असतः कथमुत्पत्तिरनुत्पन्नस्य को लयः ॥ २॥ यस्योत्पत्तिर्लयो नास्ति तत्परं ब्रह्म नेतरत् । उत्पत्तिश्च लयोऽस्तीति भ्रमत्यात्मनि मायया ॥ ३॥ कारणाव्यतिरिक्तत्वात् कार्यस्य कथमस्तिता । भवत्यतः कारणस्य कथमस्ति च नास्तिता ॥ ४॥ कार्यत्वादसतोऽस्यास्ति कारणं न ह्यतो जगत् । ब्रह्मैव तर्हि सदसदिति मुह्यति मन्दधीः ॥ ५॥ एकस्यैवास्ति सत्ता चेदन्यस्यासौ क्व विद्यते । सत्यस्यात्माश्रयो यद्यप्यसति स्यादसंभवः ॥ ६॥ विभज्यावयवं सर्वमेकैकं तत्र दृश्यते । चिन्मात्रमखिलं नान्यदिति मायाविदूरगम् ॥ ७॥ चिदेव नान्यदाभाति चितः परमतो न हि । यच्च नाभाति तदसद्यदसत्तन्न भाति च ॥ ८॥ आनन्द एवास्ति भाति नान्यः कश्चिदतोऽखिलम् । आनन्दघनमन्यन्न विनाऽऽनन्देन विद्यते ॥ ९॥ सर्वं हि सच्चिदानन्दं नेह नानाऽस्ति किञ्चन । यः पश्यतीह नानेव मृत्योर्मृत्युं स गच्छति ॥ १०॥ ३. असत्यदर्शनम् मनोमयमिदं सर्वं न मनः क्वापि विद्यते । अतो व्योम्नीव नीलादि दृश्यते जगदात्मनि ॥ १॥ मनसोऽनन्यया सर्वं कल्प्यतेऽविद्यया जगत् । विद्ययाऽसौ लयं याति तदालेख्यमिवाखिलम् ॥ २॥ विजृंभते यत्तमसो भीरोरिह पिशाचवत् । तदिदं जाग्रति स्वप्नलोकवद् दृश्यते बुधैः ॥ ३॥ सङ्कल्पकल्पितं दृश्यं सङ्कल्पो यत्र विद्यते । दृश्यं तत्र च नान्यत्र कुत्रचिद्रज्जुसर्पवत् ॥ ४॥ सङ्कल्पमनसो कश्चिन्न हि भेदोऽस्ति यन्मनः । तदविद्यातमः प्रख्यमिन्द्रजालमिवाद्भुतम् ॥ ५॥ मरीचिकावत् प्राज्ञस्य जगदात्मनि भासते । बालस्य सत्यमिति च प्रतिबिंबमिव भ्रमात् ॥ ६॥ आत्मा न क्षीरवद्याति रूपान्तरमतोऽखिलम् । विवर्तमिन्द्रजालेन विद्यते निर्मितं यथा ॥ ७॥ मायैव जगतामादिकारणं निर्मितं तया । सर्वं हि मायिनो नान्यदसत्यं सिद्धिजालवत् ॥ ८॥ विभाति विश्वं वृद्धस्य वियद्वनमिवात्मनि । असत्यं पुत्रिकारूपं बालस्येव विपर्ययः ॥ ९॥ एकं सत्यं न द्वितीयं ह्यसत्यं भाति सत्यवत् । शिलैव शिवलिंगं न द्वितीयं शिल्पिना कृतम् ॥ १०॥ ४. मायादर्शनम् न विद्यते या सा माया विद्याऽविद्या पराऽपरा । तमः प्रधानं प्रकृतिर्बहुधा सैव भासते ॥ १॥ प्रागुत्पत्तेर्यथाऽभावो मृदेव ब्रह्मणः पृथक् । न विद्यते ब्रह्म हि या सा मायाऽमेयवैभवा ॥ २॥ अनात्मा न सदात्मा सदिति विद्योतते यया । सा विद्येयं यथा रज्जुसर्पतत्त्वावधारणम् ॥ ३॥ आत्मा न सदनात्मा सदिति विद्योतते यया । सैवाविद्या यथा रज्जुसर्पयोरयथार्थदृक् ॥ ४॥ इन्द्रियाणि मनोबुद्धी पञ्चप्राणादयो यया । विसृज्यन्ते सैव परा सूक्ष्मांगानि चिदात्मनः ॥ ५॥ अंगान्येतान्यवष्टभ्य सुखी दुःखीव मुह्यति । चिदात्मा मायया स्वस्य तत्त्वतोऽस्ति न किञ्चन ॥ ६॥ इन्द्रियाणां हि विषयः प्रपञ्चोऽयं विसृज्यते । यया सैवाऽपराऽध्यात्मस्थूलसङ्कल्पनामयी ॥ ७॥ शुक्तिकायां यथाऽज्ञानं रजतस्य यदात्मनि । कल्पितस्य निदानं तत्तम इत्यवगम्यते ॥ ८॥ धीयतेऽस्मिन् प्रकर्षेण बीजे वृक्ष इवाखिलम् । अतः प्राधान्यतो वाऽस्य प्रधानमिति कथ्यते ॥ ९॥ करोतीति प्रकर्षेण प्रकृत्यैव गुणान् पृथक् । निगद्यतेऽसौ प्रकृतिरिति ह त्रिगुणात्मिका ॥ १०॥ ५. भानदर्शनम् अन्तर्बहिर्वदासीनं सदा भ्रमरचञ्चलम् । भानं द्विधैव सामान्यं विशेष इति भिद्यते ॥ १॥ स्थूलं सूक्ष्मं कारणं च तुर्यं चेति चतुर्विधम् । भानाश्रयं हि तन्नाम भानस्याप्युपचर्यते ॥ २॥ दृश्यतामिह कायोऽहं घटोऽयमिति दृश्यते । स्थूलमाश्रित्य यद्भानं स्थूलं तदिति मन्यते ॥ ३॥ अत्र कायो घट इति भानं यत्तद्विशिष्यते । तथाऽहमयमिति यत् सामान्यमिति च स्मृतम् ॥ ४॥ इन्द्रियाणि मनोबुद्धी विषयाः पञ्चवायवः । भास्यन्ते येन तत्सूक्ष्ममस्य सूक्ष्माश्रयत्वतः ॥ ५॥ अज्ञोऽहमिति यद्भानं तत्कारणमुदाहृतम् । अत्राहमिति सामान्यं विशेषोऽज्ञ इति स्फुरत् ॥ ६॥ अहं ब्रह्मेति यद्भानं तत्तुर्यमिति शंस्यते । सामान्यमहमित्यंशो ब्रह्मेत्यत्र विशिष्यते ॥ ७॥ यत्र भानं तत्र भास्यं भानं यत्र न तत्र न । भास्यमित्यन्वयेनापि व्यतिरेकेण बोध्यते ॥ ८॥ यथा दृग्दृशमात्मानं स्वयमात्मा न पश्यति । अतो न भास्यते ह्यात्मा यं पश्यति स भास्यते ॥ ९॥ यद्भास्यते तदध्यस्तमनध्यस्तं न भास्यते । यदध्यस्तं तदसदप्यनध्यस्तं सदेव तत् ॥ १०॥ ६. कर्मदर्शनम् आत्मैव मायया कर्म करोति बहुरूपधृक् । असंगः स्वप्रकाशोऽपि निद्रायामिव तैजसः ॥ १॥ मन्ये वदामि गृह्णामि शृणोमीत्यादि रूपतः । क्रियते कर्म परमात्मना चित्तेन्द्रियात्मना ॥ २॥ आत्मैव कर्मणः पूर्वमन्यत् किञ्चिन्न विद्यते । ततः स्वेनैव कर्माणि क्रियन्ते निजमायया ॥ ३॥ शक्तिरस्त्यात्मनः काचिद्दुर्घटा न पृथक् स्वतः । तयैवारोप्यते कर्म निखिलं निष्क्रियात्मनि ॥ ४॥ सर्वदाऽसंग एवात्माऽज्ञतया कर्म संगिवत् । करोति न करोमीति न ज्ञः कर्मसु सज्जते ॥ ५॥ ज्वलति ज्वलनो वायुर्वाति वर्षति वारिदः । धरात्मा सन् धरति खल्वेको वहति वाहिनी ॥ ६॥ ऊर्द्ध्वं प्राणो ह्यधोऽपानः खल्वेको याति निष्क्रियः । नाड्यन्तराले धमति क्रन्दति स्पन्दति स्थितः ॥ ७॥ अस्ति जन्मर्द्धिपरिणत्यपक्षयविनाशनम् । षड्भावमिह यो याति स नान्योऽविक्रियात्मनः ॥ ८॥ स्वयं क्रियन्ते कर्माणि करणैरिन्द्रियैरपि । अहं त्वसंगः कूटस्थ इति जानाति कोविदः ॥ ९॥ दृश्यत्वाद् भास्यमहमप्यतोऽहं शुक्तिरंगवत् । अध्यस्तमेक एवाद्य श्वोऽपि सर्वोपरि स्थितः ॥ १०॥ ७. ज्ञानदर्शनम् ज्ञानमेकं हि निरुपाधिकं सोपाधिकं च तत् । अहङ्कारादिहीनं यज्ज्ञानं तन्निरुपाधिकम् ॥ १॥ अहन्तयान्तर्बहिरस्ति यदेवमिदन्तया । भानवृत्त्याऽन्वितं यत्तु ज्ञानं सोपाधिकं मतम् ॥ २॥ अनात्मनामहङ्कारादीनां येनानुभूयते । साक्षी तदात्मज्ञानं स्याद्येनैवामृतमश्नुते ॥ ३॥ अहङ्कारादि कार्यं यदनात्मकमसंख्यकम् । येनावगम्यतेऽनात्मज्ञानं तदवधार्यते ॥ ४॥ यथावद्वस्तुविज्ञानं रज्जुतत्त्वावबोधवत् । यत्तद्यथार्थविज्ञानमयथार्थमतोऽन्यथा ॥ ५॥ यत्सान्निध्यादेव सर्वं भासते स्वयमेव तत् । प्रत्यक्षज्ञानमिति चापरोक्षमिति लक्ष्यते ॥ ६॥ ययानुऽसाधकं साध्यं मीयते ज्ञानरूपया । वृत्त्या साऽनुमितिः साहचर्यसंस्कारजन्यया ॥ ७॥ गत्वा समीपं मेयस्य मीयते श्रुतलक्षणः । यया संवित् सोपमितिर्मृगोऽयमिति रूपया ॥ ८॥ अहं ममेति ज्ञानं यदिदं तदिति यच्च तत् । जीवज्ञानं तदपरमिन्द्रियज्ञानमिष्यते ॥ ९॥ ओं तत् सदिति निर्द्दिष्टं ब्रह्मात्मैक्यमुपागतम् । कल्पनादिविहीनं यत्तत् परज्ञानमीर्यते ॥ १०॥ ८. भक्तिदर्शनम् भक्तिरात्मानुसन्धानमात्माऽऽनन्दघनो यतः । आत्मानमनुसन्धत्ते सदैवात्मविदात्मना ॥ १॥ अनुसन्धीयते ब्रह्म ब्रह्मानन्दघनं यतः । सदा ब्रह्मानुसन्धानं भक्तिरित्यवगम्यते ॥ २॥ आनन्दमेव ध्यायन्ति सर्वे दुःखं न कश्चन । यदानन्दपरं ध्यानं भक्तिरित्युपदिश्यते ॥ ३॥ आत्मैव ब्रह्म भजति नान्यमात्मानमात्मवित् । भजतीति यदात्मानं भक्तिरित्यभिधीयते ॥ ४॥ आनन्द आत्मा ब्रह्मेति नामैतस्यैव तन्यते । इति निश्चितधीर्यस्य स भक्त इति विश्रुतः ॥ ५॥ आनन्दोऽहमहं ब्रह्मात्माऽहमस्मीति रूपतः । भावना सततं यस्य स भक्त इति विश्रुतः ॥ ६॥ भार्या भजति भर्त्तारं भर्त्ता भार्यां न केवलम् । स्वानन्दमेव भजति सर्वोऽपि विषयस्थितम् ॥ ७॥ एवं पश्यति कुत्रापि विद्वानात्मसुखं विना । न किञ्चिदपरं तस्य भक्तिरेव गरीयसी ॥ ८॥ लोकस्य पितरि स्वस्य गुरौ पितरि मातरि । सत्यस्य स्थापितरि च तत्पथेनैव यातरि ॥ ९॥ नियन्तरि निषिद्धस्य सर्वेषां हितकर्तरि । योऽनुरागो भक्तिरत्र सा परा परमात्मनि ॥ १०॥ ९. योगदर्शनम् सततं योजयति यद्युनक्ति च चिदात्मनि । मनोनिरोधरूपोऽयं स योग इति शंसितः ॥ १॥ न द्रष्टा दर्शनं दृश्यं विद्यते यत्र तत्र हृत् । योजयेद्वासना यावद्योगोऽयमिति योगवित् ॥ २॥ नामरूपमिदं सर्वं ब्रह्मैवेति विलीयते । यद्ब्रह्मणि मनो नित्यं स योग इति निश्चितः ॥ ३॥ चित्तस्य तैलधारावद्वृत्त्याऽऽविच्छिन्नयाऽऽत्मनि । निरन्तरं रम्यते यत् स योगो योगिभिः स्मृतः ॥ ४॥ यतो यतो मनो याति सदाऽऽत्मनि ततस्ततः । नियम्य योजयेदेतद्योगोऽयं युज्यतामिह ॥ ५॥ सर्वानर्थकरः पुंसां सङ्कल्पः कल्पितैः सह । उन्मूल्य वासनाजालैर्येनात्मनि निरुध्यते ॥ ६॥ दृश्यस्य न दृशोऽस्तित्वमतो दृश्यं दृगात्मकम् । इति युञ्जीत दृग्रूपे यः स योगविदां वरः ॥ ७॥ यदा पिबन् मनोभृंगः स्वानन्दमधुमाधुरीम् । न स्पन्दति वशीकृत्य योजितो योगवायुना ॥ ८॥ ध्यानमन्तर्भ्रुवोर्दृष्टिर्जिह्वाग्रं लंबिकोर्ध्वतः । यदा स्यात् खेचरीमुद्रा निद्रालस्यादिनाशिनी ॥ ९॥ ज्ञानं कर्मेति लोकेऽस्मिन् द्विधा योगः समासतः । अनयोर्योगविस्तारः सर्वः परिसमाप्यते ॥ १०॥ १०. निर्वाणदर्शनम् निर्वाणं द्विविधं शुद्धमशुद्धं चेति तत्र यत् । शुद्धं निर्वासनं तद्वदशुद्धं वासनान्वितम् ॥ १॥ अतिशुद्धं शुद्धमिति शुद्धं च द्विविधं तथा । अशुद्धशुद्धं चाशुद्धमशुद्धाशुद्धमुच्यते ॥ २॥ अतिशुद्धं त्रिधा पश्चाद्वरे चैकं वरीयसि । एकमेकं वरिष्ठेऽथ शुद्धं बह्मविदि स्थितम् ॥ ३॥ अशुद्धशुद्धं विरजस्तमोऽन्यत् सरजस्तमः । मुमुक्षौ प्रथमं विद्यात् द्वितीयं सिद्धिकामिषु ॥ ४॥ दग्ध्वा ज्ञानाग्निना सर्वमुद्दिश्य जगतां हितम् । करोति विधिवत् कर्म ब्रह्मविद्ब्रह्मणि स्थितः ॥ ५॥ सन्यस्य सर्वकर्माणि सततं ब्रह्मनिष्ठया । यश्चरत्यवनौ देहयात्रायै ब्रह्मविद्वरः ॥ ६॥ अन्येन वेदितो वेत्ति न वेत्ति स्वयमेव यः । स वरीयान् सदा ब्रह्मनिर्वाणमयमश्नुते ॥ ७॥ स्वयं न वेत्ति किञ्चिन्न वेदितोऽपि तथैव यः । स वरिष्ठः सदा वृत्तिशून्योऽयं ब्रह्म केवलम् ॥ ८॥ हेयोपादेयता न ह्यस्यात्मा या स्वप्रकाशकः । इति मत्वा निवर्त्तेत वृत्तिर्नावर्तते पुनः ॥ ९॥ एकमेवाद्वितीयं ब्रह्मास्ति नान्यन्न संशयः । इति विद्वान् निवर्तेत द्वैतान्नावर्तते पुनः ॥ १०॥ ओं तत् सत्
१४. ब्रह्मविद्या पञ्चकम् नित्यानित्यविवेकतो हि नितरां निर्वेदमापद्य सद्- विद्वानत्र शमादिषट्कलसितः स्यान्मुक्तिकामो भुवि । पश्चाद्ब्रह्मविदुत्तमं प्रणतिसेवाद्यैः प्रसन्नं गुरुं पृच्छेत् कोऽहमिदं कुतो जगदिति स्वामिन्! वद त्वं प्रभो! ॥ १॥ त्वं हि ब्रह्म न चेन्द्रियाणि न मनो बुद्धिर्न चित्तं वपुः प्राणाहङ्कृतयोऽन्यदप्यसदविद्याकल्पितं स्वात्मनि । सर्वं दृश्यतया जडं जगदिदं त्वत्तः परं नान्यतो जातं न स्वत एव भाति मृगतृष्णाभं दरीदृश्यताम् ॥ २॥ व्यप्तं येन चराचरं घटशरावादीव मृत्सत्तया यस्यान्तःस्फुरितं यदात्मकमिदं जातं यतो वर्तते । यस्मिन् यत् प्रलयेऽपि सद्घनमजं सर्वं यदन्वेति तत् सत्यं विध्यमृताय निर्मलधियो यस्मै नमस्कुर्वते ॥ ३॥ सृष्ट्वेदं प्रकृतेरनुप्रविशती येयं यया धार्यते प्राणीति प्रविविक्तभुग्बहिरहं प्राज्ञस्सुषुप्तौ यतः । यस्यामात्मकला स्फुरत्यहमिति प्रत्यन्तरङ्गं जनै- र्यस्यै स्वस्ति समर्थ्यते प्रतिपदा पूर्णा शृणु त्वं हि सा ॥ ४॥ प्रज्ञानं त्वहमस्मि तत्त्वमसि तद् ब्रह्मायमात्मेति सं- गायन् विप्रचर प्रशान्तमनसा त्वं ब्रह्मबोधोदयात् । प्रारब्धं क्वनु सञ्चितं तव किमागामि क्व कर्माप्यसत् त्वय्यध्यस्तमतोऽखिलं त्वमसि सच्चिन्मात्रमेकं विभुः ॥ ५॥
१५. निर्वृतिपञ्चकम् को नाम देशः का जातिः प्रवृत्तिः का कियद्वयः । इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ १॥ आगच्छ गच्छ मा गच्छ प्रविश क्व नु गच्छसि । इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ २॥ क्व यास्यासि कदाऽऽयातः कुत आयासि कोऽसि वै । इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ ३॥ अहं त्वं सोयऽमन्तर्हि बहिरस्ति न वास्ति वा । इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ ४॥ ज्ञाताज्ञातसमः स्वान्यभेदशून्यः कुतो भिदा । इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ ५॥
१६. श्लोकत्रयी अस्ति धर्मीत्यनुमितिः कथं भवति वागपि । असन्निकृष्टत्वादस्मिन् प्रत्यक्षमनुमानवत् ॥ १॥ न विद्यतेऽस्ति धर्मीति प्रत्यक्षमनुमानवत् । मानाभावादसौ नेति बोध एवावशिष्यते ॥ २॥ असन्निकृष्टत्वादस्य प्रत्यक्षं धर्मधर्मिणोः । असृष्टसाहचर्याच्च धर्मिण्यनुमितिः कुतः? ॥ ३॥
१७. होममन्त्रम् ॐ अग्ने तव यत्तेजस्तद्ब्राह्मं अतस्त्वं प्रत्यक्षं ब्रह्मासि त्वदीया इन्द्रियाणि मनो बुद्धिरिति सप्तजिह्वाः त्वयि विषया इति समिधो जुहोमि अहमित्याज्यं जुहोमि त्वं नः प्रसीद प्रसीद श्रेयश्च प्रेयश्च प्रयच्छ स्वाहा ओं शान्तिः शान्तिः शान्तिः
१८. वेदान्तसूत्रम् अथ यदात्मनो जिज्ञासुस्तदिदं ब्रह्मैवाहम् ॥ १॥ किं तस्य लक्षणमस्य च कति गणनयेति ॥ २॥ तज्ज्योतिः ॥ ३॥ तेनेदं प्रज्वलितम् ॥ ४॥ तदिदं सदसदिति ॥ ५। भूयो सतः सदसदिति ॥ ६॥ सच्छब्दादयोऽसदभावश्चेति ॥ ७॥ पूर्वं सदिदमनुसृत्य चक्षुरादयश्चैकं चेति ॥ ८॥ ज्ञातृज्ञानयोरन्योन्यविषयविषयित्वान्मिथुनत्वमिति ॥ ९॥ एवं ज्ञानज्ञेयविभागे ॥ १०॥ एकैकं रुद्रत्वमासीदिति ॥ ११॥ ब्रह्मैवाहं तदिदं ब्रह्मैवाहमस्मि ॥ १२॥ अतीतागामिनोरसत्त्वं यतः यदेतदन्विच्छत ॥ १३॥ परिणामं ततः ॥ १४॥ सदसतोरन्योन्यकार्यकारणत्वात् ॥ १५॥ अहं ममेति विज्ञातः ॥ १६॥ मत्तो नान्यस्तद्वत् तस्मात् ॥ १७॥ दृग्दृश्ययोः समानकालीनत्वात् ॥ १८॥ सुखैकत्वात् ॥ १९॥ व्यापकतया दिशामस्तित्वात् ॥ २०॥ अणुमहदवयवतारतम्यस्याभावात् ॥ २१॥ असतोऽव्यापकत्वात् ॥ २२॥ आत्मान्यत् किञ्चिन्नास्ति ॥ २३॥ तस्मात् तस्य सत्त्वाच्च ॥ २४॥
१९. चट्टम्पि स्वामिनः महासमाधिमनुबध्य कृतौ समाधि श्लोकौ सर्वज्ञः ऋषिरुत्क्रान्तः सद्गुरुः शुकवर्त्मना । आभाति परमव्योम्नि परिपूर्णकलानिधिः ॥ १॥ लीलया कालमधिकं नीत्वाऽन्ते स महाप्रभुः । निस्स्वं वपुः समुत्सृज्य स्वं ब्रह्म वपुरास्थितः ॥ २॥ Encoded by Shankara and P. S. Ramachandran Proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : stotrasa.ngraha nArAyaNagururachitaM
% File name             : stotranArAyaNaguru.itx
% itxtitle              : stotrANi nArAyaNaguruvirachitAni
% engtitle              : nArAyaNaguruvirachitAH saMskRitakRitayaH
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Encoded by Shankara and P.S.Ramachandran
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (Stotras composed by sri-narayana-guru)
% Latest update         : March 30, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP