॥ सुधालहरी पण्डितराजश्रीजगन्नाथविरचिता ॥

उल्लासः फुल्लपङ्केरुहपटलतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् । उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥ १॥ पद्मद्रोहोद्धुराणां धवलितहरितामैन्दवीनां द्युतीनां दर्पं द्राग्द्रावयन्तो विदलदरुणिमोद्रेकदेदीप्यमानाः । दूरादेवान्धकारान्धितधरणैतलद्योतने बद्धदीक्षा- स्ते दैन्यध्वंसदक्षा मुदमुदयदिनोद्वेलदुस्रा दिशन्तु ॥ २॥ त्रातामीवार्तलक्षाः प्रतिदिनविहितानेकगीर्वाणरक्षा भक्तानां कल्पवृक्षाः स्फुरदनलगतस्वर्णभासां सदृक्षाः । लोकक्षेमात्तदीक्षा नलिनपरिषदां दत्तसौभाग्यलाक्षा दुर्वृत्तध्वंसदक्षा मम रविकिरणाः सन्त्वघानां विपक्षाः ॥ ३॥ प्रालेयानां करालाः कवलितजगतीमण्डलध्वान्तजालाः स्त्रातस्वर्लोकपाला विदलदरुणिमक्षिप्तबालप्रवालाः । विश्लिष्यत्कोकबालाज्वरहरणभवत्कीर्तिजालैर्जटाला व्योमव्याप्तौ विशालास्त्वयि दधतु शिवं भास्वतो भानुमालाः ॥ ४॥ निर्भिद्ये क्ष्मारुहाणामतिघनमुदरं येषु गोत्रां गतेषु द्राधिष्ठस्वर्णदण्डभ्रमभृतमनसः संनिधित्सन्ति पादान् । यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्या चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तेंऽशवः पान्तु भानोः ॥ ५॥ अह्नि क्रीडोचितानां सरसिरुहलसन्मन्दिराणां प्रभाते प्रोद्घाट्य द्राक्कपाटान्यथ कुमुदगृहान्मुद्रयन्तो विमुक्तान् । सिञ्चन्तः किं च भूमीतलमखिलमपि क्षुण्णकाश्मीरनीरैः पायासुः श्रीसपर्याविरचनपटवः पद्मबन्धोः करा नः ॥ ६॥ आलेपा हिङ्गुलानामिव धरणिभुजामच्छसौधाग्रमौलि- ष्वग्रेषु क्ष्मारुहाणामभिनवविदलत्पल्लवोल्लासलीलाः । प्रौढप्रालेयपुञ्जोपरि चितस्वदिराङ्गारभारा इवारा- त्पारावारात्प्रयान्तो दिनकरकिरणा मङ्गलं नः कृषीरन् ॥ ७॥ कीलालैः कुङ्कुमानां निखिलमपि जगज्जालमेतन्निषिक्तं मुक्ताश्चोन्मत्तभृङ्गाविदलितकमलक्रोडकारागृहेभ्यः । उत्सृष्टं गोसहस्रं बहलकलकलः श्रूयते च द्विजानां भाग्यैर्वृन्दारकाणां हरिहयहरिता सूयते पुत्ररत्नम् ॥ ८॥ या सूते सवभूतेष्वनुदिनमुदये चेतनाया विलासा- न्यान्ती सायं निकायं जलनिधिजठरं संजरीहर्ति सद्यः । अत्यर्थं वर्धयन्ती मणिगणसुषमासम्पदं रत्नसानोः सा नो भानोः प्रभा नो नयनसरणितो दूरतो जातु यातु ॥ ९॥ नीहारैर्नीरजानां निबिडतमतमोराशिभिर्लोचनानां श्रौतस्मार्तक्रियाणामपि खलु निशया नाशमालक्ष्य दूरात् । सद्यः सिन्धोः सकाशादधिकतरजवेनागता वासवाशा- माशापाशानशेषानपहरतुतरां तीक्ष्णभानोः प्रभा नः ॥ १०॥ शीते शोकं शशाङ्के कृशतमरुचितामाशुनाशं निशायां धिक्कारं ध्वान्तवर्गे कुमुदपरिषदि प्रोद्गमं दीनतायाः । पाण्डित्यं पुण्डरीकेष्वनुदिनमधिकां कान्तिमाशासु तन्व- न्नन्वञ्चत्यन्वहं द्यामुषसि करुणया विश्ववन्द्यो विवस्वान् ॥ ११॥ स्वापं स्वापाकुलानां गदमथ गदिनामन्धकारं त्रिलोक्याः पापं पापाविलानां सपदि परिहरन्नागतो वासवाशाम् । नित्यप्रस्थानलीलाकुपितकमलिनीनर्मनिर्माणकर्मा विश्वार्तित्राणधर्मा गगनमणिरसौ पातु शर्मानिशं वः ॥ १२॥ अन्तर्नीरं नदीनामनुदिनमुदये बिम्बिता ये समन्ता- द्गीर्वाणाद्रेरुदञ्चन्मणिगणजटिलां मेदिनीं दर्शयन्ति । विप्रप्रोत्क्षिप्तसंध्याञ्जलिजलकणिकाजालमाकाशमध्ये माणिक्यव्रातयन्तो मम मिहिरकरा मान्द्यमुन्मूलयन्तु ॥ १३॥ प्रत्यग्रोढाः प्रगल्भा युवतिपरिषदः प्रोषितप्राणनाथा यस्मिन्नस्ताद्रिमौलेरुपरिमणिमयच्छत्रलीलां दधाने । सत्रासं सप्रसादं परिणतकरुणं लोचनान्युत्क्षिपन्ति स्थेमानं स प्रियाणां घटयतु भगवान्पद्मिनीवल्लभो वः ॥ १४॥ अन्तर्द्यावापृथिव्योरधिरजनि भृतानन्धकारानुदारा- न्विद्राव्य द्राक्तदीयैरिव जयदरुणं शोणितैर्यद्विधते । सायं प्रातश्च संध्याञ्जलिमवनिसुराः सम्प्रयच्छन्ति यस्मै तस्मै कस्मैचिदेतन्मम परमहंसे देवतायै नमोऽस्तु ॥ १५॥ त्राणं त्रैविष्टपानां तरणमथ पयस्तोमताम्यत्तनूनां नद्यन्तानामतर्क्यं त्रिगुणमयतया यत्त्रयाणां तुरीयम् । तत्तादृक्तुन्दिलायास्तरुणतरतमःसंततेरन्तकृत्त्वां तेजस्त्रैलोक्यताम्रीकरणचतुरिम त्रायतां तीक्ष्णभानोः ॥ १६॥ गीर्वाणग्रामणीभिर्गगनतलगतैर्गीर्भिरुद्गीथगाभि- र्गन्धर्वैश्चापि गीता गुणगणगारमोद्गारिगाथासहस्रैः । गाहं गाहं गृहालीरगतिकगदिनां गन्धयन्तो गदार्तिं ग्लानिग्रामं ग्रसन्तां ग्रहरुचिगुरवो गोपतेर्गोविलासाः ॥ १७॥ जीवातुर्जाड्यजालाधिकजनितरुजां तप्तजाम्बूनदाभं जङ्घालं जाङ्घिकानां जलधिजठरतो जृम्भमाणं जगत्याम् । जीवाधानं जनानां जनकमथ रुचो जीवजैवातृकादे- र्ज्योतिर्जाज्वल्यमानं जलजहितकृतो जायतां वो जयाय ॥ १८॥ प्रातर्निर्गत्य गोभिः सह रुचिविषये संचरन्त्योऽह्नि ताभिः साकं सायं निकायं प्रति पुनरपि याः सम्प्रयातुं त्वरन्ते । यासां दिव्यप्रभावस्त्रिजगदघवनश्रेणिदाहैकदावः क्षेमं तन्वन्तु ता वः शिवमयवपुषो वासरेशस्य गावः ॥ १९॥ वृन्दैर्वृन्दारकाणां दनुतनुजनुषां रक्षसां च क्षपान्ते गन्धर्वाणां धुरीणैः प्रणतमहिवरैः किंनरैर्यन्नरैश्च । विद्यां हृद्यां निजेभ्यो वितरदविरतं दीप्तिभिर्दीपयद्द्या- मद्यादाद्यामविद्यामिदमुदयगिरेरुद्यदर्कस्य बिम्बम् ॥ २०॥ आ पाथोजासनायुः क्षणलवघटिकाद्यात्मकं कालचक्रं प्राहुः पूर्वे पुराणागमविषयविदो यस्य लीलाविलासम् । भावानां षड्विकारानथ खलु गतिभिर्यश्च नित्यं प्रसूते स प्रातः पौरुहूते परिलसति हरिन्मण्डले चण्डभानुः ॥ २१॥ अङ्गानि ब्राह्मणानामुषसि हिमभरासङ्गतो भङ्गुराणि व्यालक्ष्य द्राक्प्रपाता रिपुजनितरुषेवारुणा वासवाशाम् । धर्मध्वंसोद्धुराणामखिलमपि कुलं जक्षतः शोभितक्ष्मा यक्ष्माणं मे हरन्तु त्वरितमघभिदो भानवश्चण्डभानोः ॥ २२॥ विश्रान्तिं ब्राह्मणानां सुखमतिशयितं कामिनां स्थायिलीला- मम्भोजानां प्रबोधं कुमुदपरिषदां यश्चिकीर्षन्दयार्द्रः । निर्यात्यन्तःसमुद्रं सकलमपि नृणां भारमाधाय वह्ना- वह्नायाह्नामधीशः स भवतु भवतां भूयसे मङ्गलाय ॥ २३॥ द्रागाहत्य प्रभाते रजनिहिमवतः कौमुदीः कौतुकेन प्रोद्यत्प्रौढानुकम्पाः पुनरपि खलु ये सायमुज्जीवयन्ति । आरुण्ये पल्लवानामथ गुरुचरणाः शक्रगोपावलीनां ते युष्मद्भावलीनां दिनकरकिरणाः क्लान्तिमुन्मूलयन्तु ॥ २४॥ द्रागद्वैतं वितन्वंस्त्रिभुवनमभितः कौङ्कुमीनां द्युतीनां न्यक्कुर्वन्मान्द्यमुद्रामथ रजनिरुजां कोकसीमन्तिनीनाम् । तन्द्रान्धानान्ध्यसिन्धोरिह वितततरैरुद्दधानं कराग्रैः स्वान्तध्वान्तं धुनीतामुदयगिरिशिरश्चुम्बि मार्तण्डबिम्बम् ॥ २५॥ शुद्धं ब्रह्मालवालं प्रकृतिशबलितं यस्य मूलं करास्त- द्द्राधिष्टस्वर्णशाखा विकसदरुणिमा पल्लवानां विलासः । नीलं व्योमालिमाला सुरसफलभरो धर्मकामार्थमोक्षाः स श्रीमान्वाञ्छितार्थं वितरतु सततं सूर्यकल्पद्रुमो वः ॥ २६॥ नीहारं निम्नगाभ्यो निखिलनयनतो नीरजेभ्यश्च निद्रां नीडेभ्यो नीडजानां निकरमुषसि ये नित्यमुद्वासयन्ति । सायं तेष्वेव तेषां पुनरपि घृणया कल्पयन्ते च वासं ते वः सन्तु प्रयासं घृणिघनघृणयो हन्तुमाबद्धकक्षाः ॥ २७॥ संहृत्य द्राग्बहिःस्थं तिमिरकुलमथाभ्यन्तरं हर्तुकामा रन्ध्रालीभिर्गृहाणामुदरमनुदिनं ये विशङ्कं विशन्ति । भानोस्तेऽमी हृषीकाण्यखिलतनुभृतां हर्षयन्तो हितेहा हृद्रोगं संहरन्तां हिममहिमहृतो हेमहृद्याः करा नः ॥ २८॥ ब्रह्माण्डं मण्डयन्तो वियति वलयिनो मण्डलैरण्डजानां पाखण्डान्दण्डयन्तो दनुतनुजनुषां शोभिताखण्डालाशाः । ये खण्डान्पौण्डरीकान्विदलयितुमथोद्दण्डपाण्डित्यभाज- स्ते चण्डांशोरचण्डास्त्वरितमिह कराः पाण्डुतां खण्डयन्तु ॥ २९॥ ऊर्ध्वं पापावलिभ्यः स्थित इति जगदे यस्य वेदैरुदाख्या निन्युः केऽप्यासनार्थं खलु सहचरतां नेत्रयोः पुण्डरीकम् । ओष्ठावृक्साम यस्य द्रुतकनकनिभश्मश्रुकेशाखिलाङ्गः सोऽयं सर्वान्तरात्मा तव दिशतुतरां वासरेशः शिवानि ॥ ३०॥ इति पण्डितराजश्रीजगन्नाथविरचिता सुधालहरी समाप्ता । A stotra of 30 verses in praise of Sun God by Panditraj Jagannatha. Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com
% Text title            : sudhAlaharI
% File name             : sudhAlaharI.itx
% itxtitle              : sudhAlaharI (paNDitarAjajagannAthavirachitA)
% engtitle              : Sudhalahari in Praise of Sun by PaNDitaraj JagannAtha
% Category              : laharI, major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Jagannathapandita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Description-comments  : A stotra of 30 verses in praise of Sun God
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP