॥ स्वात्मसाक्षात्कारः ॥

॥ स्वात्मसाक्षात्कारोपदेशप्रकरणम् ॥ (सर्वज्ञानोत्तरवृत्तौ) अथान्यं सम्प्रवक्ष्यामि उपायं तत्वतो गुह । अग्राह्यस्यापि सूक्ष्मस्य सर्वगस्य तु निष्कलम् ॥ १॥ येन विज्ञायते सम्यक् यं ज्ञात्वा तु शिवो भवेत् । न कस्य चिन्मयाख्यातं तद्विज्ञानं श्रुणुष्व मे ॥ २॥ गुरुपारम्परायातमदृष्टं सर्वादिभिः । भवबन्धविमोक्षार्थं परमं सर्वतोमुखम् ॥ ३॥ योऽसौ सर्वगतो देवः सर्वात्मा सर्वतोमुखः । सर्वतत्त्वमयोऽचिन्त्यः सर्वस्योपरि संस्थितः ॥ ४॥ सर्वतत्त्वव्यतीतश्च वाङ्मनोनामवर्जितः । सोऽहमेवमुपासीत निर्विकल्पेन चेतसा ॥ ५॥ यदेव निष्कलं ज्ञानं शाश्वतं ध्रुवमव्ययम् । निर्विकल्पमनिर्देश्यं हेतुदृष्टान्तवर्जितम् ॥ ६॥ अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् । अविर्भाव्यमसन्देहं तदहं नात्र संशयः ॥ ७॥ अहमेव परो देवः सर्वमन्त्रमयः शिवः । सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः ॥ ८॥ मया व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् । अहमेव जगन्नाथो मत्तः सर्वं प्रकाशते ॥ ९॥ अनेकाकारसंभिन्नं विश्वं भुवनसञ्चयम् । शिवाद्यवनिपर्यन्तं तत्सर्वं मयि संस्थितम् ॥ १०॥ यच्चकिञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया ॥ ११॥ अहमात्मा शिवोह्यन्यः परमात्मेति यः स्मृतः । एवमुपासयेन्मोहान्न शिवत्वमाप्नुयात् ॥ १२॥ शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् । यश्शिवः सोऽहमेवेति अद्वैतं भावयेत्सदा ॥ १३॥ अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः । सर्वगं सर्वदेहस्थं पश्यते नात्र संशयः ॥ १४॥ एवमेकात्मभावेन संस्थितस्य तु योगिनः । सर्वज्ञत्वं प्रवर्तेत विकल्परहितस्य च ॥ १५॥ योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः । अकायो निर्गुणो ह्यात्मा सोऽहमस्मि न संशयः ॥ १६॥ अविज्ञातः पशुः सो हि सृष्टिधर्मसमाश्रितः । विज्ञातः शाश्वतः शुद्धः स शिवो नात्र संशयः ॥ १७॥ तस्मादात्मा सदा वेद्यः सुविचार्यः विचक्षणैः । परापरविभागेन स्थूलसूक्ष्मविभागशः ॥ १८॥ परः परमनिर्वाण अपरः सृष्टिभेदतः । स्थूलो मन्त्रमयः प्रोक्तः सूक्ष्मो ध्यानैकसंस्थितः ॥ १९॥ अथवा बहुशोऽनेन किमुक्तेन षडानन । वाग्विकल्पविशेषेण मनः संमोहकारिणा ॥ २०॥ सर्वे धर्मात्मनः सन्ति यद्येवं परिकल्पयेत् । तत्तद्भवत्यसन्देहात् सदा तद्भावभावतः ॥ २१॥ इत्येवमात्मविज्ञानं कथितं तु समासतः । ज्ञात्वैवात्ममयं सर्वमात्मानं पर्युपासयेत् ॥ २२॥ न तत्र देवा वेदा वा यज्ञा वा बहुदक्षिणाः । आत्मविज्ञानमाश्रित्य विमलं सर्वतोमुखम् ॥ २३॥ संसारार्णवमग्नानां भूतानां शरणार्थिनाम् । नान्यः शरणदः कश्चिदात्मज्ञानादृतेः क्वचित् ॥ २४॥ आत्मानं परमो भूत्वा यो विजानाति तत्त्वतः । स मुच्यते त्वयत्नेन सर्वावस्थां गतोऽपि सन् ॥ २५॥ आत्मलाभात्परोलाभः क्वचिदन्यो न विद्यते । तदात्मानमुपासीत योऽयमात्मा परस्तु सः ॥ २६॥ न प्राणो नैव चापानो विशिष्टकरणस्तथा । सर्वज्ञं तु तमात्मानं परिपूर्णं सदा स्मरेत् ॥ २७॥ न चैवाभ्यन्तरे बाह्ये नातिदूरे समीपतः । स निष्कले परे स्थाने तत्र चित्तं निवेशयेत् ॥ २८॥ तिर्यगूर्ध्वमधश्चैव बहिरन्तश्च नित्यशः । सर्वशून्यं तमाभासमात्मानं भावयेत्सदा ॥ २९॥ नैव शून्यं न चाशून्यमशून्यं शून्यमेव च । पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ३०॥ निरामयं निराधारं वर्णरूपविवर्जितम् । निरञ्जनं गुणातीतमात्मानं पर्युपासयेत् ॥ ३१॥ निराश्रयं निरालम्बमप्रमेयमनूपमम् । स्वभावविमलं नित्यमात्मानं पर्युपासयेत् ॥ ३२॥ संन्यस्य सर्वकर्माणि निःस्पृहः सङ्गवर्जितः । भावयेदात्मनात्मानमात्मन्येवात्मनि स्थितम् ॥ ३३॥ स देशजातिसम्बन्धान्वर्णाश्रमसमन्वितान् । भावानेतान् परित्यज्य स्वरूपं भावयेद्बुधः ॥ ३४॥ मन्त्रोऽयं देवता ह्येषा इदं ध्यानमिदं तपः । सर्वभावान् परित्यज्य ह्यात्मभावं तु भावयेत् ॥ ३५॥ अभावे भावमाश्रित्य भावं कुर्यान्निराश्रयम् । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ३६॥ नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ३७॥ अचिन्त्यं चिन्तयेन्नित्यं कृत्वा चित्तं निराश्रयम् । निस्तत्त्वे निष्कली भूते विन्दत्यात्मनि यत्सुखम् ॥ ३८॥ निर्विकल्पमचिन्त्यं च हेतुदृष्टान्तवर्जितम् । तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम् ॥ ३९॥ निरस्यविषयासङ्गं मनोवृत्तिं विवर्जयेत् । यदा यात्युन्मनी भावं तदा तत्परमं सुखम् ॥ ४०॥ सर्वदिग्देशकालेषु योगाभ्यासो विधीयते । सर्ववर्णाश्रमाणां च ज्ञानभेदो न विद्यते ॥ ४१॥ गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानमलिङ्गवस्तु गवां समाः ॥ ४२॥ यस्मात्सर्वगतं ब्रह्म व्यापकं सर्वतोमुखम्। तस्माद्ब्रह्मणि संस्थाने दिग्देशान्न विचारयेत् ॥ ४३॥ नैव तस्य कृतेनार्थो न कार्यो न विधिः स्मृतः । न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितः ॥ ४४॥ गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानोऽपि पिबन्नपि । सर्वदा सर्वकालेषु वातशीतातपेषु च॥ ४५॥ भयदारिद्र्यरोगेषु मन्द्यविज्वरकादिषु । आत्मन्यवस्थितः शान्त आत्मतृप्तस्तु निष्कलः ॥ ४६॥ नागतोऽहं गतो वापि नागमिष्येन गच्छता । न भूतो न भविष्यामि प्रकृत्यस्थिरधर्मणी ॥ ४७॥ प्राकृतानि तु कर्माणि प्रकृतिः कर्मसम्भवा । नाहं किञ्चित्करोमीति युक्तं मन्येत तत्त्ववित् ॥ ४८॥ नैव प्रकृतिबन्धोऽस्ति मुक्त इत्यभिधीयते । न चैव प्राकृतैर्दोषैर्लिप्यते तु कदाचन ॥ ४९॥ निर्नाश्य तमसोरूपं दीपो यद्वत् प्रकाशते । आभात्येवं परो ह्यात्मा त्यक्त्वा अज्ञानजं तमः ॥ ५०॥ स्नेहक्षयाद्यथा दीपो बलान्निर्वाणमिच्छति । तथात्मभावनायुक्तः स्वात्मन्येवावतिष्ठते ॥ ५१॥ घटसंवृतमाकाशं नीयमाने यथा घटे । घटो नयति नाकाशं तद्वज्जीवो नभोपमः ॥ ५२॥ भिन्ने कुम्भे यथाकाशमाकाशत्वं प्रतिपद्यते । विभिन्ने प्राकृते देहे तथात्मा परमात्मनि ॥ ५३॥ इत्येवमधिकारेण सर्वज्ञेनाधिकारिणा । सर्वबन्धाद्विनिर्मुक्तः सर्वज्ञः सर्वगो भवेत् ॥ ५४॥ तदागमान् परिहृत्य सर्वान् शुद्धं गृहीत्वात्मसमाधियोगम् । अस्मात्परं नान्यदिहास्ति किञ्चित् ज्ञात्वैव सन्त्यज्य मनोविकल्पम् ॥ ५५॥ विज्ञानमेवं समुपास्य विद्वान् विशत्यकामं सततं नियुक्तः । सर्वत्रगामी भवतीह मुक्तः तद्धर्मधर्मी बहिरन्तःसंस्थः ॥ ५६॥ सर्वज्ञतातृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहः स शिवत्वमेति ॥ ५७॥ न दीक्षा न तु संस्कारो न मुद्रा न च मण्डलम् । न जपो नार्चनं स्नानं न होमो नैवसाधनम् ॥ ५८॥ धर्माधर्मफलौ न स्तः नैव पिण्डोदकक्रिया । नियमादि न तस्यास्ति नोपवासो विधीयते ॥ ५९॥ प्रवृत्तिश्च निवृत्तिश्च ब्रह्मचर्यव्रतानि च । अग्निप्रवेशनं नास्ति पतनं भृगुनोदके ॥ ६०॥ शिवज्ञानामृतं पीत्वा विचरस्व यथा सुखम् । शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः ॥ ६१॥ सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः । अतः परतरं नास्ति विज्ञेयं कुत्रचित् गुह ॥ ६२॥ इति श्रीमत्सर्वज्ञानोत्तरे स्वात्मसाक्षात्कारोपदेशप्रकरणम् ॥ पाठभेद: पाठभेदाः - न जपो नार्चनं स्नानं न होमो नैव साधनम् । धर्माधर्मफलं नास्ति न पिण्डोदकक्रिया ॥ ५८॥ नियमानि न तस्यास्ति नोपवासो विधीयते । प्रवृत्तिं न निवृत्तिश्च ब्रह्मचर्यव्रतानि च ॥ ५९॥ अग्निः प्रवेशनं नास्ति पतनं भृगुनोदके । शिवज्ञानामृतं पीत्वा विचरस्व यथासुखम् ॥ ६०॥ शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः । सत्यं सत्यं पुनः सत्यं त्रिसत्यं स्मयः कृतः ॥ ६१॥ अतः परतरं नास्ति विज्ञेयं कुत्रचिद्गुह । विमलयति सर्वभावान् विमलात्मा विमलबुद्धि दृढधीः ॥ ६२॥ सर्वं विमलं पश्यति विमलो विमलेन भावेन । जाग्र जाग्र जाग्र स्वप्नं तथा जाग्रसुषुप्तिकम् ॥ ६३॥ जाग्र तुर्यं कालपरमतीतं परदर्शनम् । विश्वाग्रस्ये प्रशान्तश्च शिवदर्शनमेव च ॥ ६४॥ सायुज्यमितिभेदेन चोर्ध्वमेकादशस्मृतः ॥ ६५॥ From http://shodhganga.inflibnet.ac.in/handle/10603/1354 Encoded and proofread by Sunder Hattangadi sunderh @ hotmail
% Text title            : Svatmasakshatkara
% File name             : svatmasakshatkara.itx
% itxtitle              : svAtmasAkShAtkAraH
% engtitle              : SvatmasakShatkaraH
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail
% Description-comments  : Sarvajnanottara Agama http://shodhganga.inflibnet.ac.in/handle/10603/1354
% Indexextra            : (sarvajnAnottara Agama)
% Latest update         : April 21, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP