तत्त्वबोधः
श्रीशङ्करभगवत्पादाचार्यप्रणीतः
INVOCATION
वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् ।
मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥
साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं
तत्त्वविवेकप्रकारं वक्ष्यामः ।
१ SADHANA CHATUSHTAYA (The four-fold qualifications)
साधनचतुष्टयं किम् ?
नित्यानित्यवस्तुविवेकः ।
इहामुत्रार्थफलभोगविरागः ।
शमादिषट्कसम्पत्तिः ।
मुमुक्षुत्वं चेति ।
१.१ VIVEKA (Discrimination)
नित्यानित्यवस्तुविवेकः कः ?
नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।
अयमेव नित्यानित्यवस्तुविवेकः ।
१.२ VAIRAGYA (Dispassion)
विरागः कः ?
इहस्वर्गभोगेषु इच्छाराहित्यम् ।
१.३ SHATKA SAMPATTI
शमादिसाधनसम्पत्तिः का ?
शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।
१.३.१ SAMA
शमः कः ?
मनोनिग्रहः ।
१.३.२ DAMA
दमः कः ?
चक्षुरादिबाह्येन्द्रियनिग्रहः ।
१.३.३ UPARAMA OR UPARATI
उपरमः कः ?
स्वधर्मानुष्ठानमेव ।
१.३.४ TITIKSHA
तितिक्षा का ?
शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
१.३.५ SHRADDHA
श्रद्धा कीदृशी ?
गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ।
१.३.६ SAMADHANA
समाधानं किम् ?
चित्तैकाग्रता ।
१.४ MUMUKSHUTVAM
मुमुक्षुत्वं किम् ?
मोक्षो मे भूयाद् इति इच्छा ।
एतत् साधनचतुष्टयम् ।
ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ।
२ TATTVA VIVEKA (Enquiry into Truth)
तत्त्वविवेकः कः ?
आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।
आत्मा कः ?
स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन्
अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन्
यस्तिष्ठति स आत्मा ।
२.१ THE FIVE SHEATHS (Pancha Kosa)
२.२ SHARIRA TRAYA (The Three Bodies)
२.३ AVASTHA TRAYA (The Three States)
२.४ SATCHIDANANDA SVARUPA (Existence-Knowledge-Bliss)
३ STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya)
३.१ STHULA SHARIRA
स्थूलशरीरं किम् ?
पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगायतनं शरीरम्
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
षड्विकारवदेतत्स्थूलशरीरम् ।
३.२ SUKSHMA SHARIRA
सूक्ष्मशरीरं किम् ?
अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगसाधनं
पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः
मनश्चैकं बुद्धिश्चैका
एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।
३.२.१ ~nANA INDRIYAS (Organs of Perception)
श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि ।
श्रोत्रस्य दिग्देवता ।
त्वचो वायुः ।
चक्षुषः सूर्यः ।
रसनाया वरुणः ।
घ्राणस्य अश्विनौ ।
इति ज्ञानेन्द्रियदेवताः ।
श्रोत्रस्य विषयः शब्दग्रहणम् ।
त्वचो विषयः स्पर्शग्रहणम् ।
चक्षुषो विषयः रूपग्रहणम् ।
रसनाया विषयः रसग्रहणम् ।
घ्राणस्य विषयः गन्धग्रहणम् इति ।
३.२.२ KARMA INDRIYAS (Organs of Action)
वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि ।
वाचो देवता वह्निः ।
हस्तयोरिन्द्रः ।
पादयोर्विष्णुः ।
पायोर्मृत्युः ।
उपस्थस्य प्रजापतिः ।
इति कर्मेन्द्रियदेवताः ।
वाचो विषयः भाषणम् ।
पाण्योर्विषयः वस्तुग्रहणम् ।
पादयोर्विषयः गमनम् ।
पायोर्विषयः मलत्यागः ।
उपस्थस्य विषयः आनन्द इति ।
३.३ KARANA SHARIRA
कारणशरीरं किम् ?
अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।
४ AVASTHA TRAYA (The Three States)
अवस्थात्रयं किम् ?
जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
४.१ JAGRAT AVASTHAA (Waking State)
जाग्रदवस्था का ?
श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति यत्
सा जाग्रदावस्था ।
स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।
४.२ SVAPNA AVASTHA (Dream State)
स्वप्नावस्था केति चेत् ?
जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा
स्वप्नावस्था ।
सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।
४.३ SUSHUPTI AVASTHA (Deep-sleep State)
अतः सुषुप्त्यवस्था का ?
अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
सुषुप्त्यवस्था ।
कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।
५ PANCHA KOSHAS
पञ्च कोशाः के ?
अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति ।
५.१ ANNAMAYA KOSHA (Food Sheath)
अन्नमयः कः ?
अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां
यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ।
५.२ PRANAMAYA KOSHA (Vital Air Sheath)
प्राणमयः कः ?
प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः ।
५.३ MANOMAYA KOSHA (Mental Sheath)
मनोमयः कोशः कः ?
मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः ।
५.४ VI~nANAMAYA KOSHA (Intellectual Sheath)
विज्ञानमयः कः ?
बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः ।
५.५ ANANDAMAYA KOSHA (Bliss Sheath)
आनन्दमयः कः ?
एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः ।
एतत्कोशपञ्चकम् ।
५.६ PANCHAKOSHATITA
मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च
मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं
स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम्
मदीयत्वेन ज्ञातमात्मा न भवति ॥
६ ATMAN
आत्मा तर्हि कः ?
सच्चिदानन्दस्वरूपः ।
सत्किम् ?
कालत्रयेऽपि तिष्ठतीति सत् ।
चित्किम् ?
ज्ञानस्वरूपः ।
आनन्दः कः ?
सुखस्वरूपः ।
एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ।
७ JAGAT (The Universe)
अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ।
ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ।
७.१ BRAHMAN
७.२ MAYA
७.३ CREATION
७.३.१ EVOLUTION OF THE FIVE ELEMENTS
ततः आकाशः सम्भूतः ।
आकाशाद् वायुः ।
वायोस्तेजः ।
तेजस आपः ।
अभ्धयः पृथिवी ।
७.३.२ EVOLUTION OF THE SATTVA ASPECT
७.३.२.१ ORGANS OF PERCEPTION
एतेषां पञ्चतत्त्वानां मध्ये
आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् ।
वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् ।
अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् ।
जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् ।
पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् ।
७.३.२.२ ANTAHKARANA (Mind)
एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात्
मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि ।
सङ्कल्पविकल्पात्मकं मनः ।
निश्चयात्मिका बुद्धिः ।
अहंकर्ता अहंकारः ।
चिन्तनकर्तृ चित्तम् ।
मनसो देवता चन्द्रमाः ।
बुद्धे ब्रह्मा ।
अहंकारस्य रुद्रः ।
चित्तस्य वासुदेवः ।
७.३.३ EVOLUTION OF THE RAJAS ASPECT
एतेषां पञ्चतत्त्वानां मध्ये
आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् ।
वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् ।
वन्हेः राजसांशात् पादेन्द्रियं सम्भूतम् ।
जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् ।
पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् ।
एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः ।
७.३.४ EVOLUTION OF THE TAMASIC ASPECT
एतेषां पञ्चतत्त्वानां तामसांशात्
पञ्चीकृतपञ्चतत्त्वानि भवन्ति ।
पञ्चीकरणं कथम् इति चेत् ।
एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम्
एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्
तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य
स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् ।
तदा पञ्चीकरणं भवति ।
एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति ।
एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् ।
८ ISHVARA AND THE ADHISHTHANA DEVATAS
९ JIVA AND ISHVARA
स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति ।
स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति ।
अविद्योपाधिः सन् आत्मा जीव इत्युच्यते ।
मायोपाधिः सन् ईश्वर इत्युच्यते ।
एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति
तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते ।
तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।
१० TAT TWAMASI (That Thou Art)
ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य
ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः
विरुद्धधर्माक्रान्तत्वात् ।
इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः ।
उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं
त्वंपदलक्ष्यार्थः ।
एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः ।
उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः ।
एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः ।
११ JIVANMUKTA
एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि
भूतेषु येषां
ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ।
ननु जीवन्मुक्तः कः ?
यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति
दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः
किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी
चिदाकाशरूपोऽस्मीति दृढनिश्चय
रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥
११.१ ASANGA (Unattached)
११.२ SATCHIDANANDA (Existence-Knowledge-Bliss)
११.३ SARVANTARYAMI (The Indweller of All)
११.४ CHIDAKASARUPA (Formless Consciousness)
११.५ APAROKSHA ~nANA
११.६ FREEDOM FROM BONDAGE
ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः
स्यात् ।
कर्माणि कतिविधानि सन्तीति चेत्
आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति ।
ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म
यदस्ति तदागामीत्यभिधीयते ।
सञ्चितं कर्म किम् ?
अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं
तिष्ठति तत् सञ्चितं ज्ञेयम् ।
प्रारब्धं कर्म किमिति चेत् ।
इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म
तत्प्रारब्धं
भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति ।
१२ KARMA
१३ FREEDOM FROM BONDAGE
सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।
आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां
नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति ।
किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति
ज्ञानिकृतं आगामि पुण्यं गच्छति ।
ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति
ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म
पापात्मकं तद्गच्छति ।
सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णन्ति ।
तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति ।
तरति शोकमात्मवित् इति श्रुतेः ।
तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा ।
ज्ञानसम्प्राप्तिसमये मुक्ताऽसौ विगताशयः । इति स्मृतेश्च ।
इति श्रीशङ्करभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् ।
Encoded and proofread by Sunder Hattangadi