॥ तत्त्व बोध ॥

INVOCATION वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् । मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥ साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः । १ SADHANA CHATUSHTAYA (The four-fold qualifications) साधनचतुष्टय किम् ? नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभोगविरागः । शमादिषट्कसम्पत्तिः । मुमुक्षुत्वं चेति । १.१ VIVEKA (Discrimination) नित्यानित्यवस्तुविवेकः कः ? नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् । अयमेव नित्यानित्यवस्तुविवेकः । १.२ VAIRAGYA (Dispassion) विरागः कः ? इहस्वर्गभोगेषु इच्छाराहित्यम् । १.३ SHATKA SAMPATTI शमादिसाधनसम्पत्तिः का ? शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति । १.३.१ SAMA शमः कः ? मनो निग्रहः । १.३.२ DAMA दमः कः ? चक्षुरादिबाह्येन्द्रियनिग्रहः । १.३.३ UPARAMA OR UPARATI उपरमः कः ? स्वधर्मानुष्ठानमेव । १.३.४ TITIKSHA तितिक्षा का ? शीतोष्णसुखदुःखादिसहिष्णुत्वम् । १.३.५ SHRADDHA श्रद्धा कीदृशी ? गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा । १.३.६ SAMADHANA समाधानं किम् ? चित्तैकाग्रता । १.४ MUMUKSHUTVAM मुमुक्षुत्वं किम् ? मोक्षो मे भूयाद् इति इच्छा । एतत् साधनचतुष्टयम् । ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति । २ TATTVA VIVEKA (Enquiry into Truth) तत्त्वविवेकः कः ? आत्मा सत्यं तदन्यत् सर्वं मिथ्येति । आत्मा कः ? स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन् अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन् यस्तिष्ठति स आत्मा । २.१ THE FIVE SHEATHS (Pancha Kosa) २.२ SHARIRA TRAYA (The Three Bodies) २.३ AVASTHA TRAYA (The Three States) २.४ SATCHIDANANDA SVARUPA (Existence-Knowledge-Bliss) ३ STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya) ३.१ STHULA SHARIRA स्थूलशरीरं किम् ? पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगायतनं शरीरम् अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्विकारवदेतत्स्थूलशरीरम् । ३.२ SUKSHMA SHARIRA सूक्ष्मशरीरं किम् ? अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् । ३.२.१ ~nANA INDRIYAS (Organs of Perception) श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि । श्रोत्रस्य दिग्देवता । त्वचो वायुः । चक्षुषः सूर्यः । रसनाया वरुणः । घ्राणस्य अश्विनौ । इति ज्ञानेन्द्रियदेवताः । श्रोत्रस्य विषयः शब्दग्रहणम् । त्वचो विषयः स्पर्शग्रहणम् । चक्षुषो विषयः रूपग्रहणम् । रसनाया विषयः रसग्रहणम् । घ्राणस्य विषयः गन्धग्रहणम् इति । ३.२.२ KARMA INDRIYAS (Organs of Action) वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि । वाचो देवता वह्निः । हस्तयोरिन्द्रः । पादयोर्विष्णुः । पायोर्मृत्युः । उपस्थस्य प्रजापतिः । इति कर्मेन्द्रियदेवताः । वाचो विषयः भाषणम् । पाण्योर्विषयः वस्तुग्रहणम् । पादयोर्विषयः गमनम् । पायोर्विषयः मलत्यागः । उपस्थस्य विषयः आनन्द इति । ३.३ KARANA SHARIRA कारणशरीरं किम् ? अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् । ४ AVASTHA TRAYA (The Three States) अवस्थात्रयं किम् ? जाग्रत्स्वप्नसुषुप्त्यवस्थाः । ४.१ JAGRAT AVASTHAA (Waking State) जाग्रदवस्था का ? श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति यत् सा जाग्रदावस्था । स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते । ४.२ SVAPNA AVASTHA (Dream State) स्वप्नावस्था केति चेत् ? जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम् तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा स्वप्नावस्था । सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते । ४.३ SUSHUPTI AVASTHA (Deep-sleep State) अतः सुषुप्त्यवस्था का ? अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति सुषुप्त्यवस्था । कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते । ५ PANCHA KOSHAS पञ्च कोशाः के ? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति । ५.१ ANNAMAYA KOSHA (Food Sheath) अन्नमयः कः ? अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् । ५.२ PRANAMAYA KOSHA (Vital Air Sheath) प्राणमयः कः ? प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः । ५.३ MANOMAYA KOSHA (Mental Sheath) मनोमयः कोशः कः ? मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः । ५.४ VI~nANAMAYA KOSHA (Intellectual Sheath) विज्ञानमयः कः ? बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः । ५.५ ANANDAMAYA KOSHA (Bliss Sheath) आनन्दमयः कः ? एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः । एतत्कोशपञ्चकम् । ५.६ PANCHAKOSHATITA मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं स्वस्मद्भिन्नं तथा पञ्चकोशादिकं स्वस्मद्भिन्नम् मदीयत्वेन ज्ञातमात्मा न भवति ॥ ६ ATMAN आत्मा तर्हि कः ? सच्चिदानन्दस्वरूपः । सत्किम् ? कालत्रयेऽपि तिष्ठतीति सत् । चित्किम् ? ज्ञानस्वरूपः । आनन्दः कः ? सुखस्वरूपः । एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् । ७ JAGAT (The Universe) अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः । ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति । ७.१ BRAHMAN ७.२ MAYA ७.३ CREATION ७.३.१ EVOLUTION OF THE FIVE ELEMENTS ततः आकाशः सम्भूतः । आकाशाद् वायुः । वायोस्तेजः । तेजस आपः । अभ्धयः पृथिवी । ७.३.२ EVOLUTION OF THE SATTVA ASPECT ७.३.२.१ ORGANS OF PERCEPTION एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् । वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् । अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् । जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् । पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् । ७.३.२.२ ANTAHKARANA (Mind) एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात् मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि । सङ्कल्पविकल्पात्मकं मनः । निश्चयात्मिका बुद्धिः । अहंकर्ता अहंकारः । चिन्तनकर्तृ चित्तम् । मनसो देवता चन्द्रमाः । बुद्धे ब्रह्मा । अहंकारस्य रुद्रः । चित्तस्य वासुदेवः । ७.३.३ EVOLUTION OF THE RAJAS ASPECT एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् । वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् । वन्हेः राजसांशात् पादेन्द्रियं सम्भूतम् । जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् । पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् । एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः । ७.३.४ EVOLUTION OF THE TAMASIC ASPECT एतेषां पञ्चतत्त्वानां तामसांशात् पञ्चीकृतपञ्चतत्त्वानि भवन्ति । पञ्चीकरणं कथम् इति चेत् । एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम् एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक् तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् । तदा पञ्चीकरणं भवति । एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति । एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् । ८ ISHVARA AND THE ADHISHTHANA DEVATAS ९ JIVA AND ISHVARA स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति । स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति । अविद्योपाधिः सन् आत्मा जीव इत्युच्यते । मायोपाधिः सन् ईश्वर इत्युच्यते । एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते । तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या । १० TAT TWAMASI (That Thou Art) ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः विरुद्धधर्माक्रान्तत्वात् । इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः । उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं त्वंपदलक्ष्यार्थः । एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः । उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः । एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः । ११ JIVANMUKTA एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु येषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः । ननु जीवन्मुक्तः कः ? यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ ११.१ ASANGA (Unattached) ११.२ SATCHIDANANDA (Existence-Knowledge-Bliss) ११.३ SARVANTARYAMI (The Indweller of All) ११.४ CHIDAKASARUPA (Formless Consciousness) ११.५ APAROKSHA ~nANA ११.६ FREEDOM FROM BONDAGE ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् । कर्माणि कतिविधानि सन्तीति चेत् आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति । ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म यदस्ति तदागामीत्यभिधीयते । सञ्चितं कर्म किम् ? अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं तिष्ठति तत् सञ्चितं ज्ञेयम् । प्रारब्धं कर्म किमिति चेत् । इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति । १२ KARMA १३ FREEDOM FROM BONDAGE सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति । आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति । किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति ज्ञानिकृतं आगामि पुण्यं गच्छति । ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म पापात्मकं तद्गच्छति । सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णन्ति । तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति । तरति शोकमात्मवित् इति श्रुतेः । तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा । ज्ञानसम्प्राप्तिसमये मुक्ताऽसौ विगताशयः । इति स्मृतेश्च । इति तत्त्वबोधप्रकरणं समाप्तम् । Encoded and proofread by Sunder Hattangadi (sunderh@hotmail.com)
% Text title            : Tattvabodha
% File name             : tattvabodha.itx
% itxtitle              : tattvabodhaH
% engtitle              : tattva bodha
% Category              : major_works, shankarAchArya
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Adi Shankaracharya
% Language              : Sanskrit
% Subject               : Philosophy (advaita vedanta)
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Translated by         : -
% Description-comments  : Prakarana granths (elementary text)
% Indexextra            : (meaning 1, 2)
% Latest update         : June 19, 2003, November 25, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP