॥ तत्त्वमीमांसा ॥

सुखैकविषया भूतानां प्रवृत्तिः । सुखं च सति दुःखहेतावसम्भवति । अतो भवति दुःखाभिघातके जिज्ञासा सा च तत्त्वज्ञानात् । अतस्तत्त्वमत्र निरूप्यते । ननु त्रिविधं दुःखम् आध्यात्मिकमाधिदैविकमाधिभौतिकं च । तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तं मानसं कामक्रोधादिनिबन्धनम् । आधिभौतिकं मानुषपशुपक्ष्यादिनिमित्तम् । आधिदैविकं यक्षराक्षसग्रहाद्यावेशनिबन्धनम् । तेषां चैषां लौकिकैरेवोपायैः प्रतीकारः शक्यते । तथा हि शारीरस्यौषधादिभिः मानसस्य मनोज्ञस्त्रीपानभोजनवस्त्रालङ्कारादिप्राप्त्या आधिभौतिकस्य नीतिशास्त्राभ्याससुस्थानोपवेशादिना आधिदैविकस्य मणिमन्त्राद्युपयोगेनेति सुकर उपायः तत्त्वज्ञानं त्वनेकजन्मरपराभ्याससाध्यम् । तथा च लौकिकानामाभाणकः । अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य सम्प्राप्तौ को विद्वान् यत्नमाचरेत् ॥ इति । अक्के गृहकोणे । मैवम् । न ह्येतैरुपायैः सर्वमेव दुःखं निवर्तते । निवृत्तं पुनर्नोत्पद्यते । यद्यपि शास्त्रीयमपि अहोरात्रमासवर्षादिसाध्यमुपायान्तरं सुकरं श्रूयते अपाम सोमममृता अभूमेति तथापि एतदपि लौकिकोपायतुल्यमेव । तथाहि सोमयागः पशुवधादिसाधनत्वान्न विशेषतः शुद्धः । अकृते हि तद्वधप्रायश्चित्ते स्वर्गादिगत्यनन्तरं परिपच्यते एव तद्दुःखम् । न च न हिंस्यात्सर्वाभूतानीति सामान्यशास्त्रभ्य विशेषशास्त्रेणाग्नीषोमीयं पशुमालभेतेत्यनेन बाधः शङ्क्यः भिन्नविषयत्वेन बाध्यबाधकभावासम्भवात् अग्नीषोमीयं पशुमालभेतेति वाक्येन हि वधस्य क्रतूपकारकत्वमेव बोध्यते न तु पुरुषप्रत्यवायाभावः । एवं स्वर्गादेरनित्यत्वमपि सत्त्वे सति कार्यत्वादनुमीयते । तथा च श्रुतिरपि न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ कर्मणा ज्योतिष्टोमादिना प्रजया पुत्रेण धनेन देवताज्ञानेन पुत्रेणायं लोको जेयो विद्यया देवलोकः कर्मणा पितृलोक इति श्रुत्यन्तरात् एभिः पित्रादिलोकस्यैव प्राप्तिर्नामृतत्वस्येति भावह । तर्हि कथममृतत्वमित्यत आह त्यागेनेति । सर्वकर्मसंन्याससाध्यज्ञानेनेत्यर्थः । तदमृतत्वं स्वर्ग एव चेत्तत्त्राह परेण नाकमिति । तर्हि दूरस्थत्वान्न प्राप्यमिति चेत्तत्राह निहितं गुहायामिति । तच्चासन्नत्वात्पृथक् जनैरपि लभ्यमिति चेत्तत्राह यद्यतय इति । अदूरभूतमप्यविवेकिनां दूरभूतमेव । तथा श्रुत्यन्तरम् । कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्वविणमीहमानाः । तथाऽपरे ऋषयो ये मनीषिणः परं कर्मभ्योऽमृतत्वमानशुरिति ॥ अपाम सोमममृता अभूमेत्यमृतत्वाभिधानं तु चिरस्थित्यभिप्रायम् । यदाहुः आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते इति । तदेतत्सर्वमभिप्रेत्योक्तं शास्त्रकृद्भिः तद्बिपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् । अस्यार्थः । तस्मात्सोमपानादेरविशुद्धादनित्यात् विपरीतो हिंसाद्यसङ्कराद्विशुद्ध उपायः श्रेयान् । स च कथम् ? व्यक्तस्य कार्यजातस्य तत्कारणस्य अव्यक्तस्य प्रधानस्य ताभ्यां परस्य तस्यात्मनश्च विवेकेन ज्ञानाद्भवति इति । न च विवेकोत्पन्नफलस्यापि कार्यत्वादनित्यत्वं शंक्यम् । भावरूपकार्यस्यैवानित्यत्वात् दुःखध्वंसस्य तु कार्यत्वेऽपि नित्यत्वात् । अथात्र शास्त्रे चतस्रो विधाः । प्रकृतिर्विकृतिरुभयमनुभयञ्चेति । तत्र जगतो मूलकारणभूतं प्रधानं न विकारः किन्तु प्रकृतिरेव प्रकरोतीति प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था । अस्याश्च मूलान्तरमनवस्थाभयान्नास्तीति मूलप्रकृतिरित्युच्यते । सैव शास्त्रान्तरे अविद्या मायाशब्देनोच्यते । एतदेवाव्यक्तं सत्त्वादीनां गुणानां वैषम्ये सति व्यक्तमित्युच्यते । यथाहि समुद्रजले चलिताचलितप्रदेशाः । एवं त्रिगुणात्मिके प्रधाने परिणामवांस्तद्विधुरश्च प्रदेशः । तत्र प्रकृतिविकारेषु मध्ये आद्यो विकारो महानित्युच्यते स एतद्बुद्धिलक्षणः । स आह महान्सात्त्विको राजसस्तामसश्चेति त्रिविधः । बुद्धेस्तु प्रथमो विकारोऽहङ्कारः । एते च महदादयः प्रकृतयो विकृतयश्च । तथाहि महत्तत्त्वमहङ्कारस्य प्रकृतिर्विकृतिश्च मूलप्रकृतेः । अयं हि क्रमः प्रकृतेर्महान् महतोऽहङ्कारं अहङ्कारात्पञ्च तन्मात्राः ताभ्यः पञ्च भूतानि तन्मात्राणि पुनः क्षीरदध्योरन्तराले कललपरिणामात्परिणतानि सूक्ष्मभूतानि कुसुमसौरभ्येन सूक्ष्मस्थूलतयोपलक्ष्यमाणं गुणवैषम्यमेव तन्मात्रशब्देन भूतशब्देन चोच्यते । पञ्च भूतानि एकादशेन्द्रियाणि चेति एष षोडशको गणस्तु विकार एव न प्रकृतिः । पुरुषस्त्वात्मा न प्रकृतिर्न विकृतिः । तदेतदाहुः । मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । अथ शास्त्रपरिभाषा । दृष्टमनुमानमाप्तवचनञ्चेति त्रिविधं लौकिकं प्रमाणम् । आर्षं तु विज्ञानं योगिनामेवेति तदत्र नोक्तम् । तत्र पृथिव्यादयः सुखादयश्चास्मदादीनां विषयाः । तन्मात्रलक्षणास्तु देवानां योगिनां च विषया न त्वस्मदादीनाम् तेषां चेन्द्रियैः सम्बन्धः सन्निकर्षः । एवञ्च विषयसम्बद्धेन्द्रियाश्रितो यो बुद्धिधर्मोऽध्यवसायः स एव प्रमाणम् । अयं हि क्रमः । विषयसम्बद्धानामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तु तमोभिभवे सति यः सत्त्वसमुद्रेकः सोऽध्यवसाय इति ज्ञानमिति वृत्तिश्चाख्यायते । तदिदं प्रत्यक्षप्रमाणम् । अस्माच्च यश्चेतनाशक्तेरनुग्रहस्तत्फलं प्रमा बोधः । बुद्धिसत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्यचेतनः घटादिवत् । एवं हि बुद्धिसत्त्वस्य परिणामभेदाः सुखादयोऽप्यचेतनाः । पुरुषस्तु सुखाद्यननुषङ्गी चेतनः । सोऽयं बुद्धितत्त्ववर्त्तिना ज्ञानसुखादिना तत्प्रतिबिम्बितो बुद्धिसादृश्यप्राप्त्या ज्ञानसुखादिमानिव भवति चितिसादृश्यप्राप्त्या च अचेतनापि बुद्धिस्तदवध्यवसायश्च चेतन इव भवति । चार्वाकास्तु प्रत्यक्षान्यत् न मानमिति वदन्ति । तन्मते संदिग्धविपर्ययस्तु पुरुषबोधनं नोपपद्येत । नहि पुरुषान्तरगतः संशयः अनुमानं कथनं विना वा ज्ञातुं शक्यः । प्रमाणान्तराणि त्वत्रैवान्तर्भवन्ति । तथाहि उपमानं तावत् गोसदृशो गवय इति वाक्यं तज्जनितो बोधो शब्द एवान्तर्भवति चक्षुःसंनिकृष्टस्य गवयस्य यत् गोसादृश्यज्ञानं तत्प्रत्यक्षमेव । एवं जीवतश्चैत्रस्य गृहासत्त्वेन बहिःसत्त्वकल्पनमर्थापत्तिः साप्यनुमान एवान्तर्भवति । विमतश्चैत्रो बहिर्भवितुमर्हति गृहेष्वविद्यमानत्वात् । यदा त्वव्यापकः सन्नेकत्रास्ति तदान्यत्र नास्ति यदैकत्र नास्ति तदान्यत्रास्तीति व्याप्तिग्रहात् । एवमिह वटे यक्षः प्रतिवसति इति ऐतिह्यं न प्रमाणमनिर्दिष्टस्ववक्तृकत्वेन सन्देहात् । आप्तोक्तत्वनिश्चये त्वागम एव । एवमभावो नानुपलब्धिगम्यः किन्तु प्रत्यक्ष एव । न हि भूतलस्य कैवल्यलक्षणात्परिणामविशेषादन्यो घटाभावो नाम । सर्व एव हि भावाः प्रतिक्षणं परिणामिनः स च परिणामभेद ऐन्द्रियक एवेत्यलम् । तत्र सूक्ष्मस्याव्यक्तस्याप्रत्यक्षत्वेऽपि महदादिकार्येण तदनुमीयते । तथाहि सदेव कार्यं कारणव्यापारात्प्रागपि । असतो हि सत्त्वं दुष्करम् नहि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् । किन्तु तिलेषु पीडनेन तैलस्येव आविर्भावमात्रमुत्पत्तिः तिरोभाव एव विनाशः । किञ्चासम्बद्धस्यापि कार्यस्य जन्यत्वे सम्बद्धत्वाविशेषात्सर्वं कार्यं सर्वस्माद्भवेदिति कार्यसम्बद्धस्यैव कारणस्य जनकत्वमुपेयम् । न च सदसतोः सम्बन्धोऽस्तीति सत्कार्यम् । किञ्च तन्तुधर्मत्वात्तन्तूपादेयत्वाच्च न पटस्यार्थान्तरत्वम् यन्नैवं तन्नैवं यथा घटपटौ । तथा अर्थान्तरयोः संयोगो वा भवति यथा कुंडबदरयोः अप्राप्तिर्वा भवति हिमवद्विन्ध्ययोः । तस्माद्यथा कूर्मशरीरे कूर्माङ्गानि निविशमानानि तिरोभवन्ति न तत्र तान्युत्पद्यन्ते न विनश्यन्ति वा एवमेकस्मात्सुवर्णादेर्मुकुटादिप्रादुर्भाव एवोत्पत्तिः । एवञ्च महदादिकार्यं प्रधानेऽभिनिविशते अव्यक्तं भवति इति । कारणे सत्त्येव कार्यस्य विभागाविभागाभ्यामव्यक्तं कारणमस्तीति गम्यते । तच्चाव्यक्तं नित्यं व्यापकं च सर्वं कार्यं व्याप्नोति तथा निःक्रियं क्वचिदप्यनाश्रितञ्च एवं निरवयवं स्वतन्त्रं च । एतद्विपरीतन्तु व्यक्तम् । एवं व्यक्तमव्यक्तं च सुखदुःखमोहरूपगुणत्रयान्वितमचेतनं प्रसवधर्मि च तद्विपरीतः पुरुषः सुखादयश्च गुणाः सत्त्वरजस्तमोरूपाः । सत्त्वस्य प्रयोजनं तु प्रकाशः रजस्तु तस्य प्रवर्तकं तमस्तु नियामकं यदि हि तमसा गुरुणा नियम्येत तदा रजः लघु सत्त्वं सर्वत्र प्रवर्त्तयेत् । यथा सत्त्वं रजस्तमसी अभिभूय शान्ता वृत्तिमधिगच्छति यथा च रजः सत्त्वरजसी अभिभूय घोरां तथा तमः सत्त्वरजसी अभिभूय मूढामिति । यद्यप्येते परस्परं विरोधशीलाः तथापि यथा वातपित्तश्लेष्माणः परस्परविरोधिनः शरीरधारणरूपैककार्यकारिणः एवमेतेऽपि । एवं सुखहेतुत्वात्सत्त्वं सुखात्मकं दुःखहेतुत्वाद्दुःखात्मकं रजः यन्मोहकं तत्तमः । ते च सुखदुःखमोहाः परस्परविरोधिनः स्वानुरूपाण्येव परस्परं विरुद्धानि सुखदुःखमोहात्मकानि निमित्तानि कल्पयन्ति । तथाहि एकैव स्त्री स्वामिनं प्रति सुखरूपसद्भावात्तं सुखाकरोति सपत्नीस्तु दुःखाकरोति एवमत्राप्येकस्यापि निमित्तभेदाद्भेदः । सुखप्रकाशलाघवैस्तु परस्परमविरोधान्न निमित्तभेदाः कल्प्यन्ते । सर्गादौ तु परिणामस्वभावा गुणाः क्षणमप्यपरिणमय्य न तिष्ठन्तीति सत्त्वं सत्त्वरूपतया रजो रजोरूपतया तमस्तमोरूपतया प्रवर्त्तते । यथाहि घनविमुक्तजलानां जम्बीरकरवीरनारिकेराद्याश्रयभेदादस्ति भेदः एवमेकरूपाणामपि गुणानां प्रतिगुणाश्रयविशेषादनेकरूपता । आत्मा तु व्यक्ताव्यक्तसंघातभिन्नः । परार्थो हि संघातो भवति । यथा शयनासनादयः संघाताः शरीरार्था दृष्टाः । किञ्च यथा रथादि यंत्र्यादिनाधिष्ठितं एवं त्रिगुणात्मकमपि परेण केनचिदधिष्ठीयमानं युक्तम् । स चात्मा प्रतिशरीरं भिन्नः न ह्येकस्मिन् सुखिनि सर्वे सुखिनः । स चायं पुरुषः साक्षी च भवति प्रकृतिर्हि स्वविषयचरितं पुरुषाय प्रदर्शयति । तथाहि लोके अर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणे दर्शयतः । एवं चायं द्रष्टापि भवति । तथा अत्रैगुणादस्य कैवल्यं च धर्मः । आत्यन्तिको हि दुःखत्रयाभावः कैवल्यम् । अत एवात्रिगुणत्वान्मध्यस्थोऽपि भवति सुखी हि सुखे तृप्यन् दुःखी द्विषन् मध्यस्थो न भवति । आत एवोभयराहित्यादुदासीन इत्युच्यते । एवमप्रसवधर्मितादकर्ताऽपि । यद्यपि चेतनोऽहं करोमीति कृतिचैतन्ययोरैकाधिकरण्यं प्रतीयते तथापि पुरुषप्रधानादिसम्बन्धात्पुरुषचैतन्यमव्यक्ते गुणकर्तृत्वं च पुरुषे उपचर्यते । भोग्यं हि प्रधानं भोक्तारमन्तरेण न संभवति इति भवति तस्य भोक्त्रपेक्षा पुरुषस्तु भोग्येन प्रधानेन संयुक्तस्तद्गतं दुःखमात्मन्यभिमन्यमानः कैवल्यं प्रार्थयते । तच्च सत्त्वपुरुषान्यताख्यातिनिबन्धनम् न च सत्त्वपुरुषान्यताख्यातिः प्रधानमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षत इति तयोः संयोगः अत एव संयोगो न महदादिसर्गमन्तरेण भोगाय कैवल्याय च पर्याप्त इति संयोग एव भोगापवर्गार्थं सर्गं करोतीति ॥ अथ विवेकज्ञानोपयोगिनी बुद्धिर्निरूप्यते । तस्याश्च व्यापारोऽध्यवसायः तदभिन्नः । एष बुद्धेर्लक्षणं समानासमानजातीयव्यवच्छेदकत्वात् । तथाहि सर्वोऽपि व्यवहर्ताऽहमत्राधिकृत इति अभिमत्य मया एतत्कर्तव्यमिति अध्यवस्यति ततश्च प्रवर्तते । तत्र चितिसन्निधानादापन्नचैतन्याया बुद्धेर्योऽयं कर्तव्यमिति विनिशययः सोऽध्यवसायः । तत्र धर्मो यागाद्यनुष्ठानजनितः । ज्ञानं गुणपुरुषान्यताख्यातिः । वैराग्यं रागाभावः । एवमैश्वर्यमपि बुद्धिधर्मो यतोऽणिमादिप्रादुर्भावः । अहमत्र शक्तः मत्तो नान्योऽत्राधिकृतः अतोऽहमस्मि इत्यादिको योऽभिमानः सोऽहङ्कारव्यापारत्वादहङ्कारः । तमुपजीव्य हि बुद्धिरध्यवस्यति कर्त्तव्यमेतन्मयेति अहङ्काराच्च द्विविधः सर्गः सात्त्विकादेकादशेन्द्रियाणि तामसात्तु पञ्चतन्मात्राः । रजसस्तु तत्प्रवर्तकत्वमात्रात्कारणत्वम् । सात्त्विकराजसतामसाहङ्काराणामेव क्रमेण वैकारिकस्तैजसो भूतादिरिति संज्ञाः । चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि । मन उभयात्मकं बुद्धीन्द्रियं कर्मेन्द्रियञ्च । चक्षुरादीनां च मनोधिष्ठितानां स्वविषयेषु प्रवृत्तेः । प्रथमं वस्तुदर्शनन्तन्तरं बालमूकादिवन्निर्विकल्पात्मकं सामान्यतो ज्ञानमुत्पद्यते । पश्चाच्च वस्तुधमैर्जात्यादिभिर्योऽध्यवसायः स सङ्कल्पाख्यो मनसो व्यापारः । एकस्मादहङ्कारादेकादशविधानि इन्द्रियाणि भवन्तीत्यत्र तु शब्दाद्युपभोगसम्प्रवर्तकादृष्टभेद एव नियामकः । अदृष्टभेदस्तु गुणपरिणाम एव । पञ्चबुद्धीन्द्रियाणां सम्बद्धवस्त्वालोचनं वृत्तिः वागादिकर्मेन्द्रियाणां तु वचनादयो वृत्तयः । एवं महतोऽध्यवसायः अहङ्कारस्याभिमानः सङ्कल्पो मनसो वृत्तिर्व्यापारः । कार्यकरणाभिमुखानां करणानां वृत्तिसङ्करस्तु न भवति । यथाहि परावस्कन्दाय प्रवृत्ताः शाक्तीकयाष्टीकादयः स्वं स्वं शक्त्यादिकमेवाददते न परस्परयष्ट्यादिकम् । ननु याष्टीकानां चेतनत्वादस्तु तथा प्रवृत्तिः करणानां त्वचेतनानां प्रवृत्तेरयुक्तत्वात्तत्स्वरूपसामर्थ्योपभोगाभिज्ञ अधिष्ठाता स्वीकार्य इति चेन्न तत्प्रवृत्तौ पुरुषार्थस्य हेतुत्वात् एतच्चोपपादयिष्यति । करणानि तु त्रयोदश । करणत्वं तु शब्दस्पर्शादिप्रकाशनं कर्मेन्द्रियाणां तु वचनादिव्यापारः । एतद्बाह्यकरणं वर्त्तमानकालमन्तष्करणं तु त्रिकालम् । नदीपूरभेदादभूद्वृष्टिः अस्ति धूमादिहाग्निः पिपीलिकाण्डसंचरणाद्भविष्यति वृष्टिरिति प्रत्ययात् । ये तु वैशेषिकाः कालमेकमतिरिक्तं स्वीकुर्वते । तन्मतेऽप्यतीतानागतादिव्यवहारभेदः उपाधिभेदादेव भवति एवं च तैस्तैरुपाधिभिरेवातीतानागतादिभेदसिद्धौ किमतिरिक्तकालस्वीकारेणेति सांख्याः । एषां चेन्द्रियाणाम प्रधानाप्रधानभावोऽप्यस्ति । यथाहि ग्रामाध्यक्षा कर्षकादिभ्यः करमादाय विषयाध्यक्षाय प्रयच्छन्ति विषयाध्यक्षश्च सर्वाध्यक्षाय स च भूपतये एवं बाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्ति मनश्च सङ्कल्प्याहङ्काराय अहङ्कारश्चाभिमत्य बुद्धौ सर्वाध्यक्षायामिति । एते च बुद्धीन्द्रियमनोहङ्कारा गुणविशेषा गुणानां सत्त्वरजस्तमसां विकाराः परस्परं विरुद्धां अपि पुरुषार्थेनैकवाक्यतापन्नाः यथा सन्तमसापनयनेन प्रकाशाय मिलिता वर्तितैलवह्नयः प्रदीपो भवति । ननु कस्माद्बुद्धौ प्रयच्छन्ति न पुनरहङ्काराय मनसे वेति चेन्न पुरुषार्थस्य प्रयोजकतया साक्षात्साधनं प्रधानं बुद्धिरेव अहङ्कारादयस्तु तं प्रति गौणाः । अस्मदादिभिः परस्परव्यावृत्तानि नानुभूयन्ते इति शब्दादितन्मात्राणि अविशेषाः सूक्ष्माणि च । आकाशादिषु तु स्थूलेषु क्वचित्सत्त्वप्रधानतया शान्ताः सुखाः प्रसन्ना लघवः केचिद्रजस्तमःप्रधानतया घोरा मूढाश्च । ते विशेषाः पुनः त्रिधा सूक्ष्मं शरीरं मातापितृजं महाभूतानि च । प्रधानेनादिसर्गे प्रतिपुरुषमेकैकमुत्पादितं तथाऽव्याहतं शिलामप्यनुप्रविशति । सर्गादामहाप्रलयमवतिष्ठते सूक्ष्मं शरीरं तच्च महदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रसमुदायः । एतच्च शरीरं भोगानर्ह इति स्थूलं शरीरं षाट्कौशिकमाश्रयति । लोमलोहितमांसानि मातृतः स्नाय्वस्थिमज्जानः पितृत इति षट् कोशाः । ननु धर्माधर्मनिमित्तः संसारः तस्य च सूक्ष्मशरीरेऽभावात्कथं स्थूलशरीराश्रयणमिति चेत् न धर्माद्यन्वितबुद्ध्या संयोगेन तस्यापि धर्माद्यभिवासितत्वात् यथाहि सुरभिपुष्पादिसम्बन्धाद्वस्त्रमपि तदामोदवासितं भवति । धर्माधर्मादिनिमित्तकं च स्थूलशरीरग्रहणं तयोः संसर्गेण सूक्ष्मशरीरं स्थूलशरीरमाश्रित्य देवो वा मनुष्यो वा पशुर्वा भवति । यथाहि नटस्तां भूमिकाम विधाय धर्मराजो वा भवति वत्सराजो वा भवति इति । हेतुस्त्वत्र पुरुषार्थ एव । तत्रोर्ध्वगमनस्य निमित्तं धर्मः । एवमधर्मेणाधोगतिः । ज्ञानेन मोक्षोऽज्ञानेन बन्धः । तत्त्वानभिज्ञस्य पुरुषस्य वैराग्यमात्रात्प्रकृत्यादिष्वात्मबुध्योपास्यमानेषु तत्रैव लयः रागात्संसारः ऐश्वर्यादिच्छाया अविघातः विघातश्चानैश्वर्यात् । अयं बुद्धिसर्गः चतुर्धा विपर्ययाशक्तितुष्टिसिद्धिभेदात् । तत्र विपर्ययोऽज्ञानमविद्या । विपर्ययः पञ्चधा अविद्यास्मितारागद्वेषाभिनिवेशा यथासंख्यं तमोमोहमहामोहतामिस्रान्धतामिस्रसंज्ञाभेदात् । प्रकृत्यादिष्वनात्मस्वात्मबुद्धिरविद्या तमः । देवादीनामणिदाद्यैश्वर्येषु शाश्वतिकत्वाभिमानोऽस्मिता मोहः । शब्दादिषु विषयेषु राग आसक्तिर्महामोहः । देवादीनामसुरादिभ्यः स्वैश्वर्याणिमाभिघातभयमभिनिवेशोऽन्धतामिस्रः । अशक्तिस्तु अन्धत्वपङ्गुत्वादिरूपा करणवैकल्यहेतुका । तुष्टयो द्वेधा आध्यात्मिका बाह्याश्च प्रकृतिव्यतिरिक्त आत्मास्तीति निश्चित्य संन्यासादेव तवापवर्तो भविष्यतीति उपदेशादौ या तुष्टयस्ता आध्यात्मिक्यः पञ्चविषयोपरमात् या तुष्टयस्ता बाह्याः । आत्मविद्यानामध्ययनमननादयः सिद्धिभेदाः । एवं निरूपितो बुद्धिसर्गः । तन्मात्रसर्गोऽपि देवमनुष्यपश्वादिभेदाद्बहुधा । तत्रोर्धाधोमध्यलोकाः सत्त्वरजोतमोबहुलाः । ननु सुखदुःखादयः प्राकृता बुद्धिगुणाः कथं चेतने भवन्तीति चेत्सत्यम् पुरि लिङ्गे शेरते स पुरुषः । एवं च लिङ्गपुरुषयोः सम्बन्धाल्लिङ्गधर्मानात्मन्यध्यवस्यति । अयं च महदादि पृथिव्यादिमहाभूतान्तः सर्गः प्रकृत्यैव कृतः । निष्कारणत्वे तु सदैव स्यान्नैव वा स्यात् । ईश्वरस्तु न तत्रोपादानं चितिशक्तेरपरिणामात् । नापि ईश्वराधिष्ठिताया प्रकृतेः कर्तृत्वं निर्व्यापारस्याध्ष्ठातृत्वासम्भवात् । नहि निर्व्यापारस्तक्षावास्याद्यधितिष्ठति । ननु प्रकृतेः कर्तृत्वे तस्या नित्यत्वेनानुपरमात्कदापि मोक्षो न स्यादिति चेन्न । यथा हि ओदनकामः पक्वौदनो न प्रवर्तते पुनस्तत्र एवं यं यं पुरुषं प्रकृतिर्मोचितवती न तं प्रति पुनः प्रवर्तते । नन्वचेतनायां प्रकृतौ कथं चेतनधर्मः प्रवृत्तिः तस्मादस्ति प्रकृतेरधिष्ठाता चेतनः आत्मानस्तु प्रकृतिस्वरूपानभिज्ञत्वान्नाधिष्ठातुमर्हन्ति तस्मादस्ति सर्वार्थदर्शी प्रकृतेरधिष्ठाता स चेश्वर एवेति चेत्सत्यम् यथाहि वत्वविवृद्ध्यर्थमचेतनमपि क्षीरं प्रवर्तते तथा प्रकृतिरपि पुरुषमोक्षाय प्रवर्तिष्यते । न चेश्वराधिष्ठानत्वेन क्षीरे प्रवृत्तिः शङ्कया । द्विधा हि प्रवृत्तिर्भवति स्वार्थाय कारुण्याय वा । न चाप्तसकलकामस्येश्वरस्य किमपि प्रार्थनीयमस्ति सर्गात्प्राक् दुःखाभावेन करुणाया असंभवात् । किञ्च करुणया प्रेरित ईश्वरः सुखिन एव सर्वान् प्राणिनः सृजेत् न विचित्रान् । प्रकृतेस्त्वचेतनतया नेदं द्वयं किन्तु परार्थैव प्रवृत्तिः यथा पारिषदान्प्रदर्शयन्निवर्तते नटः एवं प्रकृतिः आत्मानं शब्दाद्यात्मना पुरुषाद्भेदेन प्रकाश्य निवर्तते । फलाभावेऽपि निर्गुणे उपकारिण्यपि पुरुषे प्रकृतिस्तपस्विनी प्रवर्तते एव यथाहि गुणवानुपकार्यपि भृत्यो निर्गुणे उपकारिण्यपि स्वामिनि निष्फलाराधनः । यद्यपि नाट्यान्निवृत्तोऽपि नटः कालान्तरे पुनरपि प्रवर्तते एवं मुक्तं प्रति प्रकृतिस्तु न पुनः प्रवर्तते यथाहि विगलितवसना कुलवधूः कदाचित्केनचिद्दृष्टा चेत्तदासौ तथा यतते यथा न पुरुषान्तराणि पश्यन्ति एवं प्रकृतिरपि विवेकेन साक्षात्कृताऽतिलज्जावशात्पुनः स्वात्मानं न प्रदर्शयति । ननु सवासनक्लेशकर्माशयानां बन्धनसंज्ञितानामप्यपरिणामिनि पुरुषेऽसम्भवात्कथं मोक्षः मुचेर्बन्धनविश्लेषार्थत्वात् । अत एव न संसारोऽपि सम्भवति निष्क्रियत्वात् । मैवम् । यथाहि भृत्यगतौ जयपराजयौ स्वामिन्युपचर्येते एवं प्रकृतिगतयोरपि भोगापवर्गयोर्विवेकाग्रहात्पुरुषे उपचारः । तत्र धर्माधर्माज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यरूपैः सप्तभिर्भावैर्बध्नाति तत्त्वज्ञानेन तु मोचयति । एवं च कृतादस्मात्तत्त्वाभ्यासान्नास्मि न मे नाहमिति शुद्धमुत्पद्यते ज्ञानं यद्विषयो अभ्यासस्तं साक्षात्कारयतीति । नास्मीत्यनेन क्रियामात्रन्निषिध्यते अस्तेः क्रियार्थत्वात् । नाहमित्यनेन कर्तृत्वं न मे इत्यनेन स्वामित्वं निषिध्यते । भोगविवेकसाक्षात्कारौ प्रकृतेः प्रसोतव्यौ तौ च प्रसूताविति निवृत्ता प्रकृतिस्तां निष्क्रियः स्वच्छपुरुषः पश्यति प्रकृतिपुरुषयोरसंसर्गेऽप्यविवेकख्यातिनिबन्धनः संसारः पुनर्न भवति इति । अन्ते तत्त्वज्ञानस्य तदानीमेव शरीरपातस्तु न भवति । यथाहि निवृत्ते कुलालव्यापारे संस्कारवशात् चक्रं भ्रमत्तिष्ठति एवं संस्कारवशात् शरीरमपि शरीरपातानन्तरं तु प्रधानस्य निवृत्तत्वादात्यन्तिकमपि दुःखं नश्यति दुःखाभावरूपं कैवल्यमाप्नोति ॥ इति श्रीमद्देवीदत्तात्मजगमसेवकसून्वाचार्यकृष्णमित्रकृता तत्त्वमीमांसा समाप्ता ॥ Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com

% Text title            : tattvamImAMsA
% File name             : tattvamImAMsA.itx
% itxtitle              : tattvamImAMsA
% engtitle              : tattvamImAMsA
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Source                : sAnkhyasaNgrahaH 1918
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP