॥ श्रीबुच्चिवेङ्कटाचार्यकृता वेदान्तकारिकावली ॥

अथ प्रत्यक्षनिरूपणं नाम प्रथमं प्रकरणम् ॥ श्रीमद्रमाधवोपज्ञं नत्वाचार्यपरम्पराम् । कुर्वे लक्ष्मणसिद्धान्तकारिकां कारिकावलीम् ॥ १.१॥ मानमेयविभेदेन पदार्थो द्विविधो मतः । मानं प्रत्यक्षानुमानशब्दभेदात्त्रिधा भवेत् ॥ १.२॥ प्रमेयं द्विविधं प्रोक्तं द्रव्याद्रव्यविभेदतः । जडाजडत्वभिन्नेऽत्र द्रव्ये तद्विविधं जडम् ॥ १.३॥ प्रकृति काल इत्याद्या चतुर्विंशतिधा मता । कालस्तूपाधिभेदेन त्रिविधः परिकीर्तितः ॥ १.४॥ अजडं तु पराक् प्रत्यगिति भेदाद्विधा मतम् । पराङ् नित्यविभूतिश्च धर्मभूतमतिस्तथा ॥ १.५॥ प्रत्यग्जीवेश्वरभिदाशाली जीवः पुनस्त्रिधा । बद्धो मुक्तो नित्य इति बद्धस्तु द्विविधो भवेत् ॥ १.६॥ बुभुक्षुश्च मुमुक्षुश्च बुबुक्षुश्च पुनर्द्विधा । अर्थकामपरो धर्मपरश्चेति विवेचनात् ॥ १.७॥ अन्यदेवपरो विष्णुपरो धर्मपरो द्विधा । मुमुक्षुरपि कैवल्यमोक्षयोगाद्विधा मतः ॥ १.८॥ भक्तप्रपन्नभेदेन स तु मोक्षपरो द्विधा । द्विधा प्रपन्न एकान्तिपरमैकान्तिभेदतः ॥ १.९॥ दृप्त आर्त इति द्वेधा परमैकान्त्युदाहृतः । ईश्वरः पञ्चधा भिन्नः परव्यूहादिभेदतः ॥ १.१०॥ पर एकश्चतुर्धा तु व्यूहः स्याद्वासुदेवकः । सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्ध इति भेदतः ॥ १.११॥ मत्स्यादयस्तु विभवा अनन्ताश्च प्रकीर्तिताः । अन्तर्यामी तु भगवान् प्रतिदेहमवस्थितः ॥ १.१२॥ अर्चावतारः श्रीरङ्गवेङ्कटाद्र्यादिषु स्थितः । केशवादि तु तत्त्वज्ञैर्व्यूहान्तरमुदाहृतम् ॥ १.१३॥ सत्त्वं रजस्तमः शब्दस्पर्शरूपरसास्तथा । गन्धः संयोगशक्ती चेत्यद्रव्यं दशधा मतम् ॥ १.१४॥ प्रमायाः करणं तत्र प्रमाणं परिकीर्तितम् । यथावस्थितवस्त्वेकव्यवहारानुगा प्रमा ॥ १.१५॥ सा संशयान्यथाज्ञानविपरीतधियो न हि । एकधर्मिकनानार्थविषया धीस्तु संशयः ॥ १.१६॥ धीस्तु धर्मविपर्यासेऽन्यथाज्ञानमुदाहृतम् । सैव धर्मिविपर्यासे विपरीतमतिर्मता ॥ १.१७॥ साक्षात्कारप्रमाहेतुः प्रत्यक्षं मानमीरितम् । सविकल्पो निर्विकल्पः साक्षात्कारो द्विधा भवेत् ॥ १.१८॥ ग्रहः प्रथमपिण्डस्य निर्विकल्पक उच्यते । द्वितीयपिण्डग्रहणं सविकल्पकधीर्भवेत् ॥ १.१९॥ एतदिन्द्रियसापेक्षमनपेक्षञ्च दृश्यते । अनपेक्षं स्वतः सिद्धं दिव्यं चेति द्विधा मतम् ॥ १.२०॥ योगजं तु स्वतः सिद्धमन्यत्स्वामिप्रसादजम् । अर्वाचीनमिदं सर्वमामनन्ति विचक्षणाः ॥ १.२१॥ नित्यमुक्तेश्वरज्ञानमनर्वाचीनमुच्यते । स्मृति प्रमैव प्राचीनानुभवाज्जायते हि सा ॥ १.२२॥ सदृशादृष्टचिन्ताद्यैः संस्कारोद्बोधने सति । स्मृतिवत्प्रत्यभिज्ञापि प्रत्यक्षेऽन्तर्भवत्यसौ ॥ १.२३॥ पुण्यपूरुषनिष्ठापि प्रतिभात्रैव सम्मता । यथार्थं सर्वविज्ञानमिति यामुनभाषितम् ॥ १.२४॥ भूतले तु घटाभावो भूतलात्मैव नेतरः । मृद्घटस्य प्रागभावो ध्वंसस्तस्य कपालकम् ॥ १.२५॥ स्वासाधारनधर्मो हि भेदशब्देन कीर्त्यते । शब्दस्वाभाव्यजा क्वापि प्रतियोगित्वधीः कृता ॥ १.२६॥ अन्तःकरणचैतन्यं तद्वृत्त्या विषयेण च । चैतन्यं समतापन्नं साक्षात्कारमजीजनत् ॥ १.२७॥ इत्यादिवचनं सर्वं परोक्तं नात्र सम्मतम् । सामान्यं समवायश्च विशेषो नात्र सम्मतः ॥ १.२८॥ सङ्ख्यादिगुणवर्गस्य गुणपार्थक्यकल्पनम् । सूत्रकारविरुद्धं यत्तत्सर्वं परिहास्यते ॥ १.२९॥ ॥ इति वेदान्तकारिकावल्यां प्रत्यक्षनिरूपणं नाम प्रथमं प्रकरणम् ॥
अथानुमाननिरूपणं नाम द्वितीयं प्रकरणम् । अनुमित्यात्मविज्ञानेऽनुमानं करणं स्मृतम् । तच्च लिङ्गपरामर्शस्तद्धेतुर्व्याप्तिधीर्मता ॥ २.१॥ साध्याभावाधिकरणावृत्तित्वं व्याप्तिरुच्यते । व्याप्यास्य पक्षवृत्तित्वधीः परामर्शनामभाक् ॥ २.२॥ तज्जा पक्षे साध्यमतिरनुमित्यात्मिका मता । भूयिष्ठसाहचर्यैकज्ञानेन व्याप्तिधीर्भवेत ॥ २.३॥ तत्सपक्षे सपक्षस्तु पूर्वं निश्चितसाध्यकः । सन्दिग्धसाध्यकः पक्षो विपक्षस्तदभाववान् ॥ २.४॥ अन्वयी व्यतिरेकी च किञ्च हेतुर्द्विलक्षणः । व्यभिचारी विरुद्धश्चासिद्धः सत्प्रतिपक्षकः ॥ २.५॥ बाधितश्चेति पञ्चैते हेत्वाभासा न साधकाः । एवं स्वार्थानुमानस्य प्रपञ्चस्तु निरूपितः ॥ २.६॥ न्यायजन्यः परामर्शः परार्थानुमितेः कृते । न्यायोऽवयववाक्यानि प्रतिज्ञादीनि पञ्च च ॥ २.७॥ प्रतिज्ञा साध्यनिर्देशो हेतुस्तद्वचनं मतम् । व्याप्त्युक्तिपूर्वदृष्टान्तवागुदाहरणं भवेत् ॥ २.८॥ व्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः । उपसंहारवचनं भवेन्निगमनं पुनः ॥ २.९॥ ॥ इति वेदान्तकारिकावल्यामनुमाननिरूपणं नाम द्वितीयं प्रकरणम् ॥
अथ शब्दनिरूपणं नाम तृतीयं प्रकरणम् । अनाप्तानुक्तवाक्यं यत्तच्छाब्दकरणं स्मृतम् । वेदस्यापौरुषेयत्वात्तत्र लक्षणसङ्गतिः ॥ ३.१॥ सिद्धे व्युत्पत्तिसद्भावाद्वेदो निष्पन्नबोधकः । तत्कार्यपरताहानेरप्रामाण्यं न शङ्क्यताम् ॥ ३.२॥ कर्मब्रह्माभिधायित्वात्स च भागद्वयात्मकः । पूर्वभागः कर्मपर उत्तरो ब्रह्मगोचरः ॥ ३.३॥ तदैक्यात्पूर्वपरयोर्व्याख्येया ह्येकशास्त्रता । अध्यायभेदवद्भेदे शास्त्रैक्यं न विरुध्यते ॥ ३.४॥ विध्यर्थवादमन्त्रात्मा त्रिविधः स प्रतीयते । अनुष्ठेयार्थगमको मन्त्रः स्यादर्थवादगीः ॥ ३.५॥ प्रवृत्त्युत्तम्भिका या स्याद्विधिर्वाक्यं प्रवर्तकम् । स त्रिधापूर्वनियमपरिसङ्ख्याविभेदतः ॥ ३.६॥ नित्या नैमित्तिकाः काम्या इति ते बहुधा मताः । तेषां स्वरूपलक्ष्माणि मन्तव्यानि नयान्तरे ॥ ३.७॥ छन्दः कल्पश्च शिक्षा च निरुक्तं ज्यौतिषं तथा । व्याकृतिश्चेति वेदस्य षडङ्गानि प्रचक्षते ॥ ३.८॥ अनुष्टुबादिकं छन्दः कल्पः श्रौतादिबोधकः । वर्णनिर्णायिका शिक्षा निरुक्तं स्वार्थबोधकम् ॥ ३.९॥ अनुष्ठानादिकालस्य निर्णये ज्यौतिषं भवेत् । सौशब्द्याय व्याकरणमिति साङ्गे प्रमाणता ॥ ३.१०॥ एतन्मूलतया स्मृत्यादीनां प्रामाण्यमीरितम् । एतद्विरुद्धं यत्किञ्चिन्नाश्नुवीत प्रमाणताम् ॥ ३.११॥ आकाङ्क्षादिकमेतच्च शाब्दबोधैककारणम् । तद्विचारोऽत्र सङ्क्षिप्तो ग्रन्थविस्तरभीरुणा ॥ ३.१२॥ मुख्यौपचारिकत्वाभ्यां स शब्दो द्विविधो मतः । अभिधा मुख्यवृत्तिः स्याद्वृत्तिरन्यौपचारिकी ॥ ३.१३॥ शरीरवाचकाः शब्दाः शरीरिकृतवृत्तयः । सर्वशब्दैकवाच्यत्वं हरेरिति गदिष्यते ॥ ३.१४॥ ॥ इति वेदान्तकारिकावल्यां शब्दनिरूपणं नाम तृतीयं प्रकरणम् ॥ (प्रमाणनिरूपणं समाप्तम्)
अथ प्रकृतिनिरूपणं नाम चतुर्थं प्रकरणम् । यत्प्रमाविषयं तत्स्यात्प्रमेयमिति तद्विधा । द्रव्यमद्रव्यमित्याद्यं तदुपादानकारणम् ॥ ४.१॥ अवस्थान्तरयोगित्वमुपादानत्वमुच्यते । गुणाश्रयं वा द्रव्यं स्यात्तच्च द्वेधा प्रकीर्तितम् ॥ ४.२॥ अमिश्रसत्त्वराहित्यं जडत्वमनुगद्यते । जडं प्रकृतिकालौ द्वौ सा सत्त्वादिगुणत्रया ॥ ४.३॥ प्रकृतिः सा क्षराविद्यामायाशब्दैर्निगद्यते । कार्योन्मुखत्वावस्था स्यादव्यक्तव्यपदेशनात् ॥ ४.४॥ अव्यक्तान्महदुत्पत्तिः सात्त्विकत्वादिभेदतः । अहङ्कारस्ततस्त्रेधा सात्त्विकत्वादिभेदभाक् ॥ ४.५॥ वैकारिकस्तैजसश्च भूतादिरिति भेदतः । नामान्तराणि सन्त्वेवमहङ्कारात्मना सताम् ॥ ४.६॥ तेषु वैकारिकात्सात्त्विकाहङ्कारादुपस्कृतात् । एकादशेन्द्रियाणि स्युर्ज्ञानकर्मेन्द्रियात्मना ॥ ४.७॥ ज्ञानप्रसरणे शक्तं ज्ञानेन्द्रियमुदाहृतम् । तन्मनःश्रोत्रचक्षुस्त्वग्घ्राणजिह्वात्मना मतम् ॥ ४.८॥ मनः स्मृत्यादिहेतुस्तद्बन्धमोक्षादिकारणम् । शब्दमात्रग्रहे शक्तमिन्द्रियं श्रोत्रमुच्यते ॥ ४.९॥ रूपमात्रग्राहि चक्षुस्त्वक् स्पर्शग्रहकारणम् । गन्धैकग्राहकं घ्राणं रसनं रसभासकम् ॥ ४.१०॥ एषां विषयसम्बन्धः संयोगादिः प्रकीर्तितः । उच्चारणादिकर्मैकशक्तं कर्मेन्द्रियं मतम् ॥ ४.११॥ पञ्चधा वाक्पाणिपादपायूपस्थप्रभेदतः । वर्णोच्चारणहेतुर्वाक् पाणिः शिल्पादिकारणम् ॥ ४.१२॥ सञ्चारकारणं पादः पायुर्मलनिवृत्तिकृत् । उपस्थः परमानन्दहेतुः स्त्रीपुंसयोर्मतः ॥ ४.१३॥ राजसाहङ्क्रियायुक्ततामसाहङ्कृतेः पुनः । जायते शब्दतन्मात्रादिकं भूतादिकारणम् ॥ ४.१४॥ भूतानामेव सूक्ष्मैकपूर्वावस्थाविशेषवत् । द्रव्यं तन्मात्रमित्याहुः पञ्चधा भूतपञ्चभिः ॥ ४.१५॥ तन्मात्रपञ्चकं शब्दाद्याश्रयत्वेन सम्मतम् । भूतानां स्यादुपादानं शब्दतन्मात्रमादिमम् ॥ ४.१६॥ स्पर्शतन्मात्रकं रूपरसतन्मात्रके अपि । गन्धतन्मात्रमेतेभ्यओ खानिलज्योतिरब्भुवः ॥ ४.१७॥ पञ्चभूतानि तन्मात्रस्वरूपं तु निरूप्यते । तामसाहङ्कृतिखयोर्मध्यावस्थायुगादिमम् ॥ ४.१८॥ शब्दतन्मात्रमस्माच्च वियदुत्पद्यते तथा । खमेव सूर्यस्पन्देन दिगिति व्यपदिश्यते ॥ ४.१९॥ द्रव्यं तदाकाशवाय्वोर्मध्यावस्थासुसंयुतम् । स्पर्शतन्मात्रमस्माच्च वायुरुत्पद्यते क्रमात् ॥ ४.२०॥ मध्यावस्थायुतं वायुतेजसोर्द्रव्यमुच्यते । रूपतन्मात्रमित्यस्मात्तेज उत्पद्यते क्रमात् ॥ ४.२१॥ मध्यावस्थायुतं तेजःपयसोर्द्रव्यमुच्यते । रसतन्मात्रमित्यस्मात्सलिलं खलु जायते ॥ ४.२२॥ मध्यावस्थायुतं वारिपृथिव्योर्द्रव्यमुच्यते । गन्धतन्मात्रमित्यस्मात्पृथिवी समुदेत्यसौ ॥ ४.२३॥ आद्यं शब्दवदन्यच्च शब्दस्पर्शवदुच्यते । रूपशब्दस्पर्शवत्स्यात्तृतीयञ्च तुरीयकम् ॥ ४.२४॥ रूपशब्दस्पर्शरसयुक्तं गन्धाधिकं परम् । तन्मात्रपञ्चकं भूतपञ्चकञ्चैवमीरितम् ॥ ४.२५॥ एवं प्रकृतिरव्यक्तमहदादिक्रमाद्भिदाम् । चतुर्विंशासङ्ख्यानां प्रापिता सुनिरूपिता ॥ ४.२६॥ भूतानि भगवान् सृष्ट्वा द्वेधैकैकं विभक्तवान् । एकमेकं विधायांशञ्चतुर्धान्यं विभक्तवान् ॥ ४.२७॥ चतुर्धा रचितानंशांस्तत्तदंशे युनक्ति सः । चतुर्थांशयुतस्वांशैः पञ्चभूतान्यजीजनत् ॥ ४.२८॥ अन्यभूतांशसत्त्वेऽपि स्वांशभूयस्त्वतः कृतः । पृथ्व्यप्तेजोऽनिलव्योमव्यपदेशो जगत्यभूत् ॥ ४.२९॥ पञ्चीकरणमेतादृगुपलक्षयति श्रुतिः । भूतैर्महदहङ्कृत्योः सप्तीकृतिरुपस्कृता ॥ ४.३०॥ भूतपञ्चकमव्यक्तमेते महदहङ्कृती । उपादानानि देहस्येन्द्रियाणि प्रतिपूरुषम् ॥ ४.३१॥ भिन्नान्याकल्पकल्पानि शरीरं भूषयन्ति हि । चेतनैकनियाम्यं यच्छरीरं तन्निगद्यते ॥ ४.३२॥ शरीरं द्विविधं नित्यमनित्यमिति भेदतः । भगवन्नित्यसूरीणां नित्यं नैसर्गिकं तु तत् ॥ ४.३३॥ अनित्यमपि तद्वेधा कर्माकर्मकृतत्वतः । अकर्मकृतमीशादेरिच्छया परिकल्पितम् ॥ ४.३४॥ तच्च कर्मकृतं द्वेधा स्वेच्छासहकृतं तथा । कर्ममात्रकृतञ्चेति सौभर्यादेर्यथादिमम् ॥ ४.३५॥ द्वितीयमस्मदादीनां सामान्येन पुनर्द्विधा । स्थावरं जङ्गमञ्चेति शिलादि स्थावरं मतम् ॥ ४.३६॥ जङ्गमञ्च द्विधा प्रोक्तं स्याद्योनिजमयोनिजम् । योनिजं देवमानुष्यतिर्यगादिविभागवत् ॥ ४.३७॥ उद्भिज्जस्वेदजाण्डोत्थनारक्याख्यमयोनिजम् । एवं पञ्चीकृतानां स्यादण्डोत्पादकता स्मृता ॥ ४.३८॥ अण्डोत्पत्तेः पूर्वसृष्टिः समष्टिरत उत्तरा । व्यष्टिसृष्टिरिति द्वेधा सृष्टिर्वेदान्तिसम्मता ॥ ४.३९॥ अव्यक्तादेर्महत्त्वादिरवस्थान्तरमिष्यते । विजातीयान्तरावस्था चेत्तत्त्वान्तरमीर्यते ॥ ४.४०॥ इत्थमव्यक्तमहदहङ्कारेन्द्रियनामकैः । तन्मात्राणीति तत्त्वानि चतुर्विंशतिधाभवन् ॥ ४.४१॥ भोग्यभोगोपकरणभोगस्थानानि चेशितुः । जीवस्य च प्रकृत्यादीन्युद्भवन्ति यथायथम् ॥ ४.४२॥ विषयो भोग्यमक्ष्यादि भोगोपकरणं मतम् । भोगस्थानं तु भुवनं तद्वर्तीन्यण्डजानि हि ॥ ४.४३॥ एवं पञ्चीकृतैर्भूतैरारब्धं प्राकृतं भवेत् । कपित्थफलकाकारमण्डं नाम निगद्यते ॥ ४.४४॥ जम्बूद्वीपमिदं सर्वं लवणोदधिनावृतम् । प्लक्षद्वीपं ततोऽपीक्षुसमुद्रेण प्रवेष्टितम् ॥ ४.४५॥ ततस्तु शाल्मलिद्वीपं सुरासागरवेष्टितम् । कुशद्वीपं ततः सर्पिः समुद्रेण प्रवेष्टितम् ॥ ४.४६॥ क्रौञ्चद्वीपं ततः पश्चाद्दध्यर्णवसमावृतम् । शाकद्वीपं ततः क्षीरसमुद्रेण प्रवेष्टितम् ॥ ४.४७॥ पुष्करद्वीपमभितः शुद्धाम्बुधिसमावृतम् । सर्वमेतद्धैमभूम्या ततो वलयपर्वतः ॥ ४.४८॥ अन्धकारावृतः सोऽपि सोऽपि गर्भोदकेन च । ततोऽण्डमेकमेवं स्याद्भूमेरूर्ध्वमधोऽपि च ॥ ४.४९॥ अण्डान्येतादृशानि स्युरनन्तानि महाहरेः । जलबुद्बुदकल्पानि पुराणोक्तान्यनुक्रमात् ॥ ४.५०॥ ॥ इति वेदान्तकारिकावल्यां प्रकृतिनिरूपणं नाम चतुर्थं प्रकरणम् ॥
अथ कालनिरूपणं नाम पञ्चमं प्रकरणम् । गुणत्रयविहीनो यः स जडः काल उच्यते । अखण्डखण्डभेदेन स कालो द्विविधो मतः ॥ ५.१॥ आद्यो विभुर्भूतभाविवर्तमानत्वधीकरः । निमेषादिप्रभेदेन बहुभेदस्त्वसौ मतः ॥ ५.२॥ अखण्डकाल एवायं नित्य इत्यवगम्यते । कालः स्वकार्यं प्रति तु स्यादुपादानकारणम् ॥ ५.३॥ कार्यरूपस्ततो नैव नित्य इत्यवधार्यताम् । लीलाविभूतावीशानः कालमालम्ब्य कार्यकृत् ॥ ५.४॥ एष नित्यविभूतौ तु न कालमवलम्बते । क्रीडापरिकरः सोऽयं कालस्तु परमात्मनः ॥ ५.५॥ नित्यनैमित्तिकप्राकृतलयाः कालहेतुकाः । एवं प्रकाशितं कालस्वरूपस्य निरूपणम् ॥ ५.६॥ ॥ इति वेदान्तकारिकावल्यां कालनिरूपणं नाम पञ्चमं प्रकरणम् ॥
अथ नित्यविभूतिनिरूपणं नाम षष्ठं प्रकरणम् । शुद्धसत्त्वे धर्मभूतज्ञानजीवेश्वरेषु च । अजडत्वं भवेल्लक्ष्म तत्पुनः स्वप्रकशता ॥ ६.१॥ पराक्त्वे सत्यजडता लक्ष्म प्रथमयोर्मतम् । परस्मै भासमानत्वं पराक्त्वमनुगद्यते ॥ ६.२॥ सत्त्वैकमूर्तिको देशः शुद्धसत्त्वमचेतनम् परिच्छिन्नमघो देशेऽनन्तमूर्ध्वप्रदेशतः ॥ ६.३॥ स्वयम्प्रकाशरूपेयं पञ्चोपनिषदात्मिका । विष्णोर्नित्यविभूतिः स्यान्नित्यमानन्दरूपिणी ॥ ६.४॥ सेयं विभूतिरीशस्य नित्यमुक्तात्मनामपि । भोग्यभोगोपकरणभोगस्थानमयी मता ॥ ६.५॥ भोग्यमीश्वरदेहादि द्वितीयं चन्दनादिकम् । भोगस्थानं तु माणिक्यगोपुरादिकमुच्यते ॥ ६.६॥ देहा ईश्वरनित्यानां नित्येच्छाकल्पिता हरेः । मुक्तानां तु शरीरादिस्तत्सङ्कल्पकृतो मतः ॥ ६.७॥ श्रीपतेर्व्यूहविभवार्चावतारतया सतः । अप्राकृतशरीराणि प्रतिष्ठानन्तरं हरेः ॥ ६.८॥ प्रसादोन्मुखतापत्तौ प्रकटानि भवन्ति हि । तच्च प्रकटनं तस्य सङ्कल्पाधीनमीर्यते ॥ ६.९॥ प्राकृताप्राकृततनुसंसर्गः कथमित्यलम् । रामकृष्णावतारादौ दृष्टत्वात्तस्य भूयसा ॥ ६.१०॥ औज्ज्वल्यादिगुणे ये तु दिव्यमङ्गलविग्रहे । हरेस्तांस्तु विजानीहि गद्यत्रयविचारतः ॥ ६.११॥ मुक्तानामशरीरत्ववचनं यत्तु दृश्यते । तत्कर्मकृतशारीरसम्बन्धाभावगोचरम् ॥ ६.१२॥ निरूपयन्ति श्रीनाथदिव्यमङ्गलविग्रहम् । पुराणोक्तक्रमादस्मादाद्यवेदान्तदेशिकाः ॥ ६.१३॥ त्रिपाद्विभूतिवैकुण्ठपरव्योमादिशब्दिता । विभूतिरियमीशस्य महती सुमहीयते ॥ ६.१४॥ द्वादशावरणोपेतमनेकशतगोपुरम् । वैकुण्ठं नाम नगरमेतस्यां प्रविजृम्भते ॥ ६.१५॥ आनन्दनामकस्तत्र सुदिव्यनिलयः स्फुटः । तत्र रत्नमयस्तम्भसहस्रा भासते सभा ॥ ६.१६॥ अनन्तस्तत्र च फणामणितेजोविराजितः । तस्मिन् धर्मादिसहितसिंहासनमुपस्थितम् ॥ ६.१७॥ तत्र चामरवद्धस्तैर्विमलादिभिरर्चितम् । पद्ममष्टदलं भाति तत्र शेषोऽस्ति धीमयः ॥ ६.१८॥ तत्रानन्दमयः साक्षात्सर्ववाचामगोचरः । अद्भुतज्योतिराकारो भाति नारायणात्मना ॥ ६.१९॥ ॥ इति वेदान्तकारिकावल्यां नित्यविभूतिनिरूपणं नाम षष्ठं प्रकरणम् ॥
अथ धर्मभूतज्ञाननिरूपणं नाम सप्तमं प्रकरणम् । धर्मो भवति यज्ज्ञानं प्रभा दीपे यथात्मनोः । तद्धर्मभूतविज्ञानं नित्यं नित्येश्वरेषु तत् ॥ ७.१॥ बद्धेषु तत्तिरोभूतं मुक्तेषु प्राक्तिरोहितम् । सङ्कोचनविकासाभ्यां नाशोत्पत्तिविपाकभाक् ॥ ७.२॥ सङ्कोच इन्द्रियद्वारा ज्ञानं सङ्कोच्यते यदि । विकास इन्द्रियद्वारा ज्ञानप्रसरणाद्भवेत् ॥ ७.३॥ स्वप्रकाशं स्वतो मानमेतदित्यत्र सम्मतम् । स्वान्यनिर्वाहकत्वेन दीपवत्स्वप्रकाशता ॥ ७.४॥ तमोविशेषसान्निध्याज्ज्ञानं स्वापे तिरोहितम् । द्रव्यत्वमस्य ज्ञानस्य प्रभावद्गुणतापि च ॥ ७.५॥ धीभेदाः सुखदुःखेच्छाद्वेषयत्ना न ते पृथक् । द्वेष्मीच्छामीति वादस्तु स्मरामीत्यादिवन्मतः ॥ ७.६॥ स्मृत्यादयो ज्ञानभेदा अनन्ता जीववृत्तयः । ज्ञानशक्त्योर्विततयोऽनन्ताश्च भगवद्गुणाः ॥ ७.७॥ गद्यत्रये महाचार्यैरयमर्थ उदीरितः । तत्तत्स्वरूपविज्ञानं तद्भाष्येणावगम्यते ॥ ७.८॥ भक्तिप्रपत्तिसुप्रीत ईश्वरो मुक्तिदायकः । अतो भक्तिप्रपत्ती हि मुक्तौ परमकारणम् ॥ ७.९॥ कर्मयोगज्ञानयोगौ भक्तिसाधनमूचिरे । फलाभिसन्धिरहितं कर्माराधनमीशितुः ॥ ७.१०॥ विनिर्मलान्तःकरणे चिन्तनं ज्ञानयोगकः । साक्षादितरथा वापि भक्तौ कारणतानयोः ॥ ७.११॥ भक्तियोगोऽमष्टाङ्गोऽविच्छिन्ना स्मृतिसन्ततिः । विवेकादिभिरूत्पाद्या दर्शनाकारतां गता ॥ ७.१२॥ तत्तच्छरीरावसानसमये परिणामिनी । सेयं साधनभक्तिः स्यात्प्रपत्त्यङ्गवती मता ॥ ७.१३॥ फलभक्तिस्तु भगवदनुग्रहकृता भवेत् । अत एव हरिः साक्षात्सिद्धोपायत्वमश्नुते ॥ ७.१४॥ अन्तरादित्यविद्यादिभेदात्सा बहुधा मता । सर्वापि ब्रह्मविद्येयं ब्रह्मप्राप्त्युपयोगिनी ॥ ७.१५॥ न्यासविद्या प्रपत्तिः स्यादङ्गपञ्चयोगिनी । आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ॥ ७.१६॥ रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा । आत्मनिक्षेपकार्पण्ये अङ्गपञ्चकमीरितम् ॥ ७.१७॥ गुरूपसदनादेषा विज्ञातव्या मनीषिभिः । इयमुत्तरपूर्वाघाश्लेषनाशकृदुच्यते ॥ ७.१८॥ अपचारान्विना ब्रह्मविदां नास्या विरोधकृत् । अन्योऽस्तीति महाचार्यशासनं व्यवसीयते ॥ ७.१९॥ ॥ इति वेदान्तकारिकावल्यां धर्मभूतज्ञाननिरूपणं नाम सप्तमं प्रकरणम् ॥
अथ जीवनिरूपणं नामाष्टमं प्रकरणम् । अणुत्वे सति चैतन्यं जीवलक्षणमुच्यते । स च देहेन्द्रियादिभ्यो विलक्षणतया मतः ॥ ८.१॥ जीवस्यानेकविषयानुभवोऽणोरपि स्फुटः । यद्धर्मभूतविज्ञानव्याप्तिस्तत्रोपयोगिनी ॥ ८.२॥ पूर्वानुभूतविषयप्रतिसन्धानयोगतः । नित्यः प्रतिशरीरं स भिन्नो भोक्त्रादिशब्दतः ॥ ८.३॥ प्रकृत्यपेक्षया देही देहः श्रीमदपेक्षया । तस्य स्वयप्रकाशत्वं प्रत्यक्षश्रुतिबोधितम् ॥ ८.४॥ देशान्तरफलादीनामुपलब्धिरणोरपि । कर्मजन्याददृष्टाख्यविज्ञानादिति सञ्जगुः ॥ ८.५॥ बद्धो मुक्तो नित्य इति जीवः स त्रिविधो मतः । ब्रह्मादिकीटपर्यन्ता बद्धाः संसारयोगिनः ॥ ८.६॥ त्रैवर्गिकार्थनिष्णाता बुभुक्षव उदाहृताः । अर्थकामपरास्तत्र स्वदेहात्माभिमानिनः ॥ ८.७॥ ते तु धर्मपरास्तत्र यागाद्यर्थानुषङ्गिणः । धर्मस्त्वलौकिकश्रेयःसाधनं चोदनोदितम् ॥ ८.८॥ रुद्राद्याराधनपरा अन्यदेवपरा मताः । आर्तो जिज्ञासुरर्थार्थीत्येवं भागवताः स्मृताः ॥ ८.९॥ मुमुक्षूणां च कैवल्यपराणां लक्ष्म कथ्यते । प्रकृतेस्तु वियुक्तस्य स्वात्मनोऽनुभवः परम् ॥ ८.१०॥ कैवल्यमर्चिर्मार्गेण गत्वापि परमं पदम् । रमणत्यक्तपत्नीवत् क्वचित्कोणेऽवतिष्ठते ॥ ८.११॥ कैवल्यमेतत्केषाञ्चिदार्याणामेव सम्मतम् । अस्मदार्यास्तु कैवल्यं न मन्यन्त इति स्थितम् ॥ ८.१२॥ भक्ताः पूर्वोक्तभक्त्यैव मुक्तिसम्प्राप्त्यपेक्षिणः । अपशूद्रनये भक्तौ शूद्रानधिकृतिः स्फुटा ॥ ८.१३॥ साध्यसाधनभक्तिभ्यां भक्ताः स्युर्द्विविधा मताः । पराङ्कुशादिकानाद्यान् व्यासादीनपरान् विदुः ॥ ८.१४॥ मुमुक्षवः प्रपन्नाश्चाकिञ्चन्यादिकयोगिनः । त्रैवर्गिकपरा मोक्षपराश्चेति च ते द्विधा ॥ ८.१५॥ धर्मार्थकामान् स्वाम्यर्थं येऽन्वतिष्ठंस्त आदिमाः । सत्सङ्गादर्थवैराग्ये मुमुक्षायां कृतादराः ॥ ८.१६॥ भगवद्भोगसम्प्राप्स्यै महाचार्यं समाश्रिताः । असामर्थ्येन भक्त्यादौ प्रपत्त्येकाश्रयाः परे ॥ ८.१७॥ सर्वाधिकारितां धीराः प्रपत्तेराचचक्षिरे । एकान्तिनः फलं मुक्त्या सहान्यद्य उशन्ति ते ॥ ८.१८॥ परमैकान्तिनस्त्वैच्छन् भगवत्प्रीतिमेव ये । प्रारब्धं कर्म भुक्त्वैव यो मोक्षमभिकाङ्क्षति ॥ ८.१९॥ दृप्त आर्तस्त्य संसारे वह्नाविव समुत्तपन् । प्रपत्त्यनन्तरे काले यो मोक्षमभिकाङ्क्षति ॥ ८.२०॥ सत्सङ्गादिति सुश्लोकद्वयोक्तगतिमान्नरः । आविर्भूतस्वस्वरूपो मुक्तो ब्रह्मानुभूतिभाक् ॥ ८.२१॥ मुक्तस्य भोगमात्रे तु साम्यं श्रुतिषु चोदितम् । स्वेच्छया सर्वलोकेषु सञ्चारोऽस्य न रुध्यते ॥ ८.२२॥ स्वेच्छा च हरिसङ्कल्पायत्ता मुक्तस्य लभ्यते । अनावर्तनशास्त्रं तु कर्मावर्तनिषेधकृत् ॥ ८.२३॥ नित्यासङ्कुचितज्ञाना नित्यं भगवदाज्ञया । तत्कैङ्कर्यरता नित्या अनन्तगरुडादयः ॥ ८.२४॥ एतेषामवतारादिरिच्छयैव हरेरिव । आधिकारिकतामीषामीश्वरेण निरूपिता ॥ ८.२५॥ ॥ इति वेदान्तकारिकावल्यां जीवनिरूपणं नामाष्टमं प्रकरणम् ॥
अथेश्वरनिरूपणं नाम नवमं प्रकरणम् । स्वेतराखिलशेषित्वमीश्वरस्य तु लक्षणम् । स सूक्ष्मचिदचिन्मिश्रो विश्वोपादानकारणम् ॥ ९.१॥ सङ्कल्पयुक्त एवैष निमित्तं कारणं मतम् । कालाद्यन्तर्यामितया सहकारि च कारणम् ॥ ९.२॥ कार्यरूपेण वैविध्ययोग्युपादानमुच्यते । परिणामयितृत्वेन निमित्तमपि तन्मतम् ॥ ९.३॥ कार्योत्पत्त्युपकारेण सहकारि च तद्भवेत् । एकविज्ञानसहितसर्वविज्ञानवादतः ॥ ९.४॥ उपादानत्वमेवोक्तं मृदादाविव चेश्वरे । तदैक्षतेति सङ्कल्पान्निमित्तत्वं कुलालवत् ॥ ९.५॥ सहकारित्वमप्यस्यान्तर्यामिब्राह्मणोदितम् । सद्ब्रह्मात्मादयः शब्दाः कारणत्वावबोधिनः ॥ ९.६॥ तत्र च्छागपशुन्यायान्नारायणपरा मताः । नामरूपविभागानर्हत्वावस्थासमन्वितम् ॥ ९.७॥ सुसूक्ष्मचिदचिद्युक्तमेकं ब्रह्मात्मकं मतम् । नामरूपविभागात्प्राङ् न हि भेदोऽवसीयते ॥ ९.८॥ मृद्घटादावपि ततस्तदेकमिति गीयते । नामरूपाद्यभावेन सच्छब्देनापि गीयते ॥ ९.९॥ तदेवान्तःप्रवेशेन नामरूपविभागकृत् । यथा जीवोऽन्तराविष्टो नामरूपविभागभाक् ॥ ९.१०॥ देवोऽहमिति शब्दैश्च मुख्यवृत्त्याभिधीयते । यथा नीलादयः शब्दा नीलाद्यव्यभिचारिणम् ॥ ९.११॥ विशिष्टमेव मुख्यार्थं वदन्ति निरुपाधिकम् । तथैव भगवानन्तर्यामी सन्नामरूपयोः ॥ ९.१२॥ विभागकृत्स तैः शब्दैर्मुख्यवृत्त्याभिधीयते । अमुख्यार्थत्वमेतेषां परैरुक्तं न युक्तिमत् ॥ ९.१३॥ शरीराद्यपृथग्भावाच्छब्दा निष्कर्षकेतरे । विशिष्टमेव श्रीमन्तमभिधास्यन्ति तत्त्वतः ॥ ९.१४॥ सर्वं ब्रह्मेत्यैतदात्म्यमित्यादिव्यपदिष्टयः । सामानाधिकरण्येन संयुज्यन्तेऽत एव हि ॥ ९.१५॥ स्वरूपभिदया भेदश्रुतयोऽस्मन्मते स्थिताः । विशिष्टाभेदतोऽभेदश्रुतयोऽपि सुनिर्वहाः ॥ ९.१६॥ कारणात्सूक्ष्मचिदचिद्युक्तात्स्थूलैतदाहितम् । कार्यं नान्यदिति व्यक्तमारम्भणनयादिषु ॥ ९.१७॥ निर्गुणत्वपराः काश्चिच्छ्रुतयः सन्ति ता इमाः । तद्धेयगुणराहित्यं बोधयन्ति ततो ध्रुवम् ॥ ९.१८॥ ॥ इति वेदान्तकारिकावल्यामीश्वरनिरूपणं नाम नवमं प्रकरणम् ॥
अथाद्रव्यनिरूपणं नाम दशमं प्रकरणम् । द्रव्यमेवं निरूप्याथ तदद्रव्यं निरूप्यते । शुद्धसत्त्वं मिश्रसत्त्वमिति सत्त्वं द्विधा मतम् ॥ १०.१॥ रजस्तमोभ्यामस्पृष्टमद्रव्यं पूर्वमुच्यते । रजस्तमोविमिश्रं तु मिश्रसत्त्वं प्रकीर्तितम् ॥ १०.२॥ अतीन्द्रियं प्रकाशादिनिदानं सत्त्वशब्दितम् । रजो लोभप्रवृत्त्यादिनिदानं कीर्त्यते तमः ॥ १०.३॥ प्रमादमोहादिहेतुस्त्रैगुण्यस्य निरूपणम् । लये समानि चैतानि विषमाण्युदयादिषु ॥ १०.४॥ श्रोत्रग्राह्यो गुणः शब्दो वर्णावर्णात्मना द्विधा । तालुभेर्यादिजत्वेन भूतपञ्चकवर्त्यसौ ॥ १०.५॥ स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्यादिचतुष्टये । शीतोष्णादिप्रभेदस्तु शास्त्रान्तरनिरूपितः ॥ १०.६॥ चक्षुरिन्द्रियनिर्ग्राह्यं रूपमेतच्चतुर्विधम् । श्वेतरक्ते पीतकृष्णे इति भेदाद्विधादिमम् ॥ १०.७॥ भास्वराभास्वरत्वाभ्यां भास्वरं तेजसि स्थितम् । पृथिवीजलयोश्चैतदभास्वरमुदाहृतम् ॥ १०.८॥ रसनेन्द्रियनिर्ग्राह्यो रसः षोढा स कीर्तितः । घ्राणग्राह्यो गुणो गन्धो द्विधा शास्त्रान्तरेष्विव ॥ १०.९॥ पृथिव्यामेव गन्धः स्यात्पृथिवीजलयो रसः । पृथिवीजलतेजःसु रूपं स्पर्शः सवायुषु ॥ १०.१०॥ शब्दः पञ्चसु भूतेषु प्राधान्येनैवमुच्यते । पञ्चीकरणरीत्या तु सर्वे सर्वत्र सङ्गताः ॥ १०.११॥ संयुक्तप्रत्यये हेतुः संयोग इति कथ्यते । कार्याकार्यप्रभेदेन स संयोगो द्विधा मतः ॥ १०.१२॥ मेषहस्तादिसंयोगः कार्योऽकार्यो विभोर्विभोः । विभुद्वयस्य संयोगः श्रुत्या युक्त्या च मन्यते ॥ १०.१३॥ तस्मात्कालस्येश्वरेण संयोगोऽपि सुसम्मतः । संयोगाभावरूपो हि विभागो न गुणान्तरम् ॥ १०.१४॥ सर्वहेतुषु हेतुत्वनिर्वोढ्री शक्तिरिष्यते । मणिमन्त्रादिकेष्वेषा प्रसिद्धा सा त्वतीन्द्रिया ॥ १०.१५॥ बुद्ध्यादयोऽष्टौ विज्ञाने भावना चान्तराविशन् । द्रवत्वस्नेहसङ्ख्यानपरिमाणानि वेगकः ॥ १०.१६॥ द्रव्यस्वरूपरूपत्वान्नाधिक्यं यान्ति केवलम् । स्थितस्थापकमेतस्मिन् संयोगेऽन्तर्भवत्यतः ॥ १०.१७॥ संयोगाभावरूपत्वात्पृथक्त्वस्य विभागवत् । गुरुत्वस्यापि शक्तित्वान्नाधिक्यं क्वापि विद्यते ॥ १०.१८॥ कर्मणामपि शक्तित्वं केचिदाहुर्मनीषिणः । पदार्थान्तरतामन्ये प्राहुर्वेदान्तवेदिनः ॥ १०.१९॥ प्राचीनग्रन्थपदवीमनुसृत्य यथामति । विशिष्टाद्वैतसिद्धान्तफक्किकेत्थं निदर्शिता ॥ १०.२०॥ अण्णयार्याध्वरीन्द्रस्य तार्तीयीकतनूभुवा । श्रीमद्वेङ्कटदासेन निर्मिता कारिकावली ॥ १०.२१॥ निरमायि रमायत्तपरमाद्भुततेजसः । मुदमाधातुकामेन मयेयं कारिकावली ॥ १०.२२॥ भक्तिप्रपत्त्योरधिदेवताभ्या- मिवाब्जनाभस्य पदाम्बुजाभ्याम् । समर्पयेऽस्मन्मतकारिकावलीं तदङ्गुलीसङ्ख्यनिरूपणाढ्याम् ॥ १०.२३॥ यः श्रीमच्छठमर्षणान्वयपयः सिन्धोः सुधांशुर्महा- नण्णार्यः समभूद्विभूषितचतुस्तन्त्रो वचःकान्तिभिः । तस्यासौ तनयः समार्जितनयः श्रीवेङ्कटार्यः सुधीः श्रुत्यन्तान्वयकारिकालिमकरोत्प्रीत्यै महत्यै सताम् ॥ १०.२४॥ ॥ इति वेदान्तकारिकावल्यामद्रव्यनिरूपणं नाम दशमं प्रकरणम् ॥ (प्रमेयनिरूपणं समाप्तम्) ॥ इति श्रीबुच्चिवेङ्कटाचार्यकृता वेदान्तकारिकावली समाप्ता ॥ This is considered a primer on Ramanuja's Vedantic Philosophy. Encoded and proofread by Ankur Nagpal ankurnagpal108 at gmail.com
% Text title            : vedAntakArikA
% File name             : vedAntakArikA.itx
% itxtitle              : vedAntakArikA
% engtitle              : vedAntakArikA
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : buchchiveNkaTAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ankur Nagpal ankurnagpal108 at gmail.com
% Proofread by          : Ankur Nagpal ankurnagpal108 at gmail.com
% Description-comments  : Primer on Ramanuja's Vedantic Philosophy.
% Indexextra            : (DLI scanned)
% Latest update         : March 12, 2017
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP