॥ आदित्यहृदयम् ॥

भविष्योत्तरपुराणान्तर्गतम् श्रीगणेशाय नमः । अथ आदित्यहृदयम् । शतानीक उवाच । कथमादित्यमुद्यन्तमुपतिष्ठेद्विजोत्तमः । एतन्मेब्रूहि विप्रेन्द्र प्रपद्ये शरणं तव ॥ १॥ सुमन्तुरुवाच । इदमेव पुरा पृष्टः शङ्खचक्रगदाधरः । प्रणम्य शिरसा देवमर्जुनेन महात्मना ॥ २॥ कुरुक्षेत्रे महाराजप्रवृत्ते भारते रणे । कृष्णनाथं समासाद्य प्रार्थयित्वाब्रवीदिदम् ॥ ३॥ अर्जुन उवाच । ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा । मम कृष्ण परिज्ञातं वाङ्मयं सचराचरम् ॥ ४॥ सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव । भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः ॥ ५॥ सूर्यभक्तिं करिष्यामि कथं सूर्यं प्रपूजयेत् । तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥ ६॥ श्रीभगवानुवाच । रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया । वक्ष्येऽहं सूर्यविन्यासं शृणु पाण्डव यत्नतः ॥ ७॥ अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्जुन । तदहं सम्प्रवक्ष्यामि आदिमध्यावसानकम् ॥ ८॥ अर्जुन उवाच । नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशः । कथमादित्यमुद्यन्तमुपतिष्ठेत्सनातनम् ॥ ९॥ श्रीभगवानुवाच । साधु पार्थ महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छस्युपस्थानं तत्पवित्रं विभावसोः ॥ १०॥ सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥ ११॥ अमित्रदमनं पार्थ सङ्ग्रामे जयवर्धनम् । वर्धनं धनपुत्राणामादित्यहृदयं शृणु ॥ १२॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम् ॥ १३॥ देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन । विघ्नान्यनेकरूपाणि नश्यन्ति स्मरणादपि ॥ १४॥ तस्मात्सर्वप्रयत्नेन सूर्यमावाहयेत् सदा । आदित्यहृदयं नित्यं जाप्यं तच्छृणु पाण्डव ॥ १५॥ यज्जपान्मुच्यते जन्तुर्दारिद्र्यादाशु दुस्तरात् । लभते च महासिद्धिं कुष्ठव्याधिविनाशिनीम् ॥ १६॥ अस्मिन्मन्त्रे ऋषिश्छन्दो देवताशक्तिरेव च । सर्वमेव महाबाहो कथयामि तवाग्रतः ॥ १७॥ मया ते गोपितं न्यासं सर्वशास्त्रप्रबोधितम् । अथ ते कथयिष्यामि उत्तमं मन्त्रमेव च ॥ १८॥ ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्ण ऋषिः । श्रीसूर्यात्मा त्रिभुवनेश्वरो देवता अनुष्टुप्छन्दः । हरितहयरथं दिवाकरं घृणिरिति बीजम् । ॐ नमो भगवते जितवैश्वानरजातवेदसे इति शक्तिः । ॐ नमो भगवते आदित्याय नमः इति कीलकम् । ॐ अग्निगर्भदेवता इति मन्त्रः । ॐ नमो भगवते तुभ्यमादित्याय नमोनमः । श्रीसूर्यनारायणप्रीप्यथं जपे विनियोगः । अथ न्यासः । ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः । ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखाय वषट् । ॐ ह्रैं कवचाय हुम् ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति दिग्बन्धः ॥ अथ ध्यानम् ॥ भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचा रञ्जितश्चारुकेशो भास्वान्यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः । विश्वाकाशावकाशग्रहपतिशिखरे भाति यश्चोदयाद्रौ सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥ १॥ पूर्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् । मायाबीजं दलाष्टाग्रे यन्त्रमुद्धारयेदिति ॥ २॥ आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् । मार्तण्डं तपनं चेति दलेष्वष्टसु योजयेत् ॥ ३॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चेति मध्ये श्रीः सर्वतो मुखी ॥ ४॥ सर्वज्ञः सर्वगश्चैव सर्वकारणदेवता । सर्वेशं सर्वहृदयं नमामि सर्वसाक्षिणम् ॥ ५॥ सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालकः । हितः स्वर्गापवर्गश्च भास्करेश नमोऽस्तु ते ॥ ६॥ इति प्रार्थना ॥ नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे । अनन्तशक्तिर्मणिभूषणेन ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥ ७॥ अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् । विन्यसेन्नेत्रयोः सूर्यं कर्णयोश्च दिवाकरम् ॥ ८॥ नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् । पर्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरे न्यसेत् ॥ ९॥ सुवर्णरेतसं कण्ठे स्कन्धयोनितग्मतेजसम् । बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥ १०॥ वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे । हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥ ११॥ उदरे तु यमं विद्यादादित्यं नाभिमण्डले । कट्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत् ॥ १२॥ जान्वोस्तु गोपतिं न्यस्य सवितारं जङ्घयोः । पादयोश्च विवस्वन्तं गुल्फयोश्च दिवाकरम् ॥ १३॥ बाह्यतस्तु तमोध्वंस भगमभ्यन्तरे न्यसेत् । सर्वाङ्गेषु सहस्रांशुं दिग्विदिक्षु भग न्यसेत् ॥ १४॥ इति दिग्बन्धः । एष आदित्यविन्यासो देवानामपिदुर्लभः । इमं भक्त्या न्यसेत्पार्थ स याति परमां गतिम् ॥ १५॥ कामक्रोधकृतात्पापान्मुच्यते नात्र संशयः । सर्पादपि भयं नैव सङ्ग्रामेषु पथिष्वपि ॥ १६॥ रिपुसङ्घट्टकालेषु तथा चोरसमागमे । त्रिसन्ध्यं जपतो न्यास महापातकनाशनम् ॥ १७॥ विस्फोटकसमुत्पन्न तीव्रज्वरसभुद्भवम् । शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम् ॥ १८॥ कुष्ठव्याधिस्तथा दद्रुरोगाश्च विविधाश्च ये । जपमानस्य नश्यन्ति शृणु भक्त्या तदर्जुन ॥ १९॥ आदित्यो मन्त्रसंयुक्त आदित्यो भुवनेश्वरः । आदित्यान्नापरो देवो ह्यादित्यः परमेश्वरः ॥ २०॥ आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत् । यदादित्यमयं तेजो मम तेजत्तदर्जुन ॥ २१॥ आदित्यं मन्त्रसंयुक्तमादित्यं भुवनेश्वरम् । आदित्यं ये प्रपश्यन्ति मां पश्यन्ति न संशयः ॥ २२॥ त्रिसन्ध्यमर्चयेत्सूर्यं स्मरेद्भक्त्या तु यो नरः । न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन ॥ २३॥ एतत्ते कथितं पार्थ आदित्यहृदयं मया । शृणवन्मुक्तश्च पापेभ्यः सूर्यलोके महीयते ॥ २४॥ नमो भगवते तुभ्यमादित्याय नमो नमः । आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ॥ २५॥ सुवर्णः स्फटिको भानुः स्फुरितो विश्वतापनः । रविर्विश्वो महातेजाः सुवर्णः सुप्रबोधकः ॥ २६॥ हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रविः । मार्तण्डो गोपतिः श्रीमान् कृतज्ञश्च प्रतापवान् ॥ २७॥ तमिस्रहा भगो हंसो नासत्यश्च तमोनुदः । शुद्धो विरोचनः केशी सहस्रांशुर्महाप्रभुः ॥ २८॥ विवस्वान्पूषणो मृत्युर्मिहिरो जामदग्न्यजित् । धर्मरश्मिःपतङ्गश्च शरण्यो मित्रहा तपः ॥ २९॥ दुर्विज्ञेयगतिः शूरस्तेजोरश्मिर्महायशाः । शम्भुश्चित्राङ्गदः सौम्यो हव्यकव्यप्रदायकः ॥ ३०॥ अंशुमानुत्तमो देव ऋग्यजुःसाम एव च । हरिदश्वस्तमोदारः सप्तसप्तिर्मरीचिमान् ॥ ३१॥ अग्निगर्भोऽद्रितेः पुत्रः शम्भुस्तिमिरनाशनः । पूषा विश्वम्भरो मित्रः सुवर्णः सुप्रतापवान् ॥ ३२॥ आतपी मण्डली भास्वांस्तपनः सर्वतापनः । कृतविश्वो महातेजः सर्वरत्नमयोद्भवः ॥ ३३॥ अक्षरश्च क्षरश्चैव प्रभाकरविभाकरौ । चन्द्रश्चन्द्राङ्गदः सौम्यो हव्यकव्यप्रदायकः ॥ ३४॥ अङ्गारको गदोऽगस्ती रक्ताङ्गश्चाङ्गवर्धनः । बुधो बुद्धासनो बुद्धिर्बुद्धात्मबुद्धिवर्धनः ॥ ३५॥ बृहद्भानुर्बृहद्भासो बृहद्धामा बृहस्पतिः । शुक्लस्त्वं शुक्लरेतास्त्वं शुक्लाङ्गः शुक्लभूषणः ॥ ३६॥ शनिमान् शनिरूपस्त्वं शनैर्गच्छसि सर्वदा । अनादिरादिरादित्यस्तेजोराशिर्महातपाः ॥ ३७॥ अनादिरादिरूपस्त्वमादित्यो दिक्पतिर्यमः । भानुमान् भानुरूपस्त्वं स्वर्भानुर्भानुदीतिमान् ॥ ३८॥ धूम्रकेतुर्महाकेतुः सर्वकेतुरनुत्तमः । तिमिरावरणः शम्भुः स्त्रष्टा मार्तण्डएव च ॥ ३९॥ नमः पूर्वाय गिरये पश्चिमाय नमो नमः । नमोत्तराय गिरये दक्षिणाय नमो नमः ॥ ४०॥ नमो नमः सहस्रांशो ह्यादित्याय नमो नमः । नमःपद्मप्रबोधाय नमस्ते द्वादशात्मने ॥ ४१॥ नमो विश्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे । ज्योतिषे च नमस्तुभ्यं ज्ञानाकार्य नमो नमः ॥ ४२॥ प्रदीप्ताय प्रगल्भाय युगान्ताय नमो नमः । नमस्ते होतृपतये पृथिवीपतये नमः ॥ ४३॥ नमोङ्कार वषट्कार सर्वयज्ञ नमोऽस्तु ते । ऋग्वेदाय यजुर्वेद सामवेद नमोऽस्तु ते ॥ ४४॥ नमो हाटकवर्णाय भास्कराय नमो नमः । जयाय जयभद्राय हरिदश्वाय ते नमः ॥ ४५॥ दिव्याय दिव्यरूपाय ग्रहाणां पतये नमः । नमस्ते शुचये नित्यं नमः कुरुकुलात्मनम् ॥ ४६॥ नमस्त्रैलोक्यनाथाय भूतानां पतये नमः । नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥ ४७॥ त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णुस्त्वं प्रजापतिः । त्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव च ॥ ४८॥ योजनानां सहस्रे द्वे शते द्वे द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ॥ ४९॥ नवयोजनलक्षाणि सहस्रद्विशतानि च । यावद्धटीप्रमाणेन क्रममाण नमोऽस्तु ते ॥ ५०॥ अग्रतश्च नमस्तुभ्यं पृष्ठतश्च सदा नमः । पार्श्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्वदा ॥ ५१॥ नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे । नमो दिव्याय व्योमाय सर्वतन्त्रमयाय च ॥ ५२॥ नमो वेदान्तवैद्याय सर्वकर्मादिसाक्षिणे । नमो हरितवर्णाय सुवर्णाय नमो नमः ॥ ५३॥ अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा । चैत्रमासे तु वेदाङ्गो भानुर्वैशाखतापनः ॥ ५४॥ ज्येष्ठमासे तपेदिन्द्र आषाढे तपते रविः । गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा ॥ ५५॥ इषे सुवर्णरेताश्च कार्तिके च दिवाकरः । मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः सनातनः ॥ ५६॥ पुरुषस्त्वधिके मासि मासाधिक्ये तु कल्पयेत् । इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः ॥ ५७॥ उग्ररूपा महात्मानस्तपन्ते विश्वरूपिणः । धर्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप ॥ ५८॥ सर्वपापहरं चैवमादित्यं सम्प्रपूजयेत् । एकधा दशधा चैव शतधा च सहस्रधा ॥ ५९॥ तपन्ते विश्वरूपेण सृजन्ति संहरन्ति च । एष विष्णुः शिवश्चैव ब्रह्मा चैव प्रजापतिः ॥ ६०॥ महेन्द्रश्चैव कालश्च यमो वरुण एव च । नक्षत्रग्रहताराणामधिपो विश्वतापनः ॥ ६१॥ वायुरग्निर्धनाध्यक्षो भूतकर्ता स्वयं प्रभुः । एष देवो हि देवानां सर्वमाप्यायते जगत् ॥ ६२॥ एष कर्ता हि भूतानां संहर्ता रक्षकस्तथा । एष लोकानुलोकाश्च सप्तद्वीपाश्च सागराः ॥ ६३॥ एष पातालसप्तस्था दैत्यदानवराक्षसाः । एष धाता विधाता च बीजं क्षेत्रं प्रजापतिः ॥ ६४॥ एष एव प्रजा नित्यं संवर्धयति रश्मिभिः । एष यज्ञः स्वधा स्वहा ह्रीः श्रीश्च पुरुषोत्तमः ॥ ६५॥ एष भूतात्मको देवः सूक्ष्मोऽव्यक्तः सनातनः । ईश्वरः सर्वभूतानां परमेष्ठी प्रजापतिः ॥ ६६॥ कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ६७॥ दारिद्र्यव्यसनध्वंसी श्रीमान्देवो दिवाकरः । कीर्तनीयो विवस्वांश्च मार्तण्डो भास्करो रविः ॥ ६८॥ लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः । लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ॥ ६९॥ तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः । गभस्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः ॥ ७०॥ आयुरारोग्यमैश्वर्यं नरा नार्यश्च मन्दिरे । यस्य प्रसादात्सन्तुष्टिरादित्यहृदयं जपेत् ॥ ७१॥ इत्येनैर्नामभिः पार्थ आदित्यं स्तौति नित्यशः । प्रातरुत्थाय कौन्तेय तस्य रोगभयं नहि ॥ ७२॥ पातकान्मुच्यते पार्थ व्याधिभ्यश्च न संशयः । एकसन्ध्यं द्विसन्ध्यं वा सर्वपापैः प्रमुच्यते ॥ ७३॥ त्रिसन्ध्यं जपमानस्तु पश्येश्च परमं पदम् । यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते ॥ ७४॥ यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते । दद्रुस्फोटककुष्ठानि मण्डलानि विषूचिका ॥ ७५॥ सर्वव्याधिमहारोगभूतबाधास्तथैव च । डाकिनी शाकिनी चैव महारोगभयं कुतः ॥ ७६॥ ये चान्ये दुष्टगेगाश्च ज्वरातीसारकादयः । जपमानस्य नश्यन्ति जीवेच्च शरदां शतम् ॥ ७७॥ संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् । अशीर्षां पश्यतिच्छायामहोरात्रं धनञ्जय ॥ ७८॥ यस्त्विदं पठते भक्त्या भानोर्वारे महात्मनः । प्रातःस्नाने कृते पार्थ एकाग्रकृतमानसः ॥ ७९॥ सुवर्णचक्षुर्भवति न चान्धस्तु प्रजायते । पुत्रवान् धनसम्पन्नो जायते चारुजः सुखी ॥ ८०॥ सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत । आदित्यहृदयं पुण्यं सूर्यनामविभूषितम् ॥ ८१॥ श्रुत्वा च निखिलं पार्थ सर्वपापैः प्रमुच्यते । अतः परतरं नास्ति सिद्धिकामस्य पाण्डव ॥ ८२॥ एतज्जपस्व कौन्तेय येन श्रेयो ह्यवाप्स्यसि । आदित्यहृदयं नित्यं यः पठेत्सुसमाहितः ॥ ८३॥ भ्रूणहा मुच्यते पापात्कृतघ्नो ब्रह्मघातकः । गोघ्नः सुरापो दुर्भोजी दुष्प्रतिग्रहकारकः ॥ ८४॥ पातकानि च सर्वाणि दहत्येव न संशयः । य इदं शृणुयान्नित्य जपेद्वाऽपि समाहितः ॥ ८५॥ सर्वपापविशुद्धात्मा सूर्यलोके महीयते । अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥ ८६॥ कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा । यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थितः ॥ ८७॥ उदयाचलमारूढं भास्करं प्रणतः स्थितः । जपते मानवो भक्त्या शृणुयाद्वापि भक्तितः ॥ ८८॥ स याति परमं स्थानं यत्र देवो दिवाकरः । अमित्रदमनं पार्थ यदा कर्तुं समारभेत् ॥ ८९॥ तदा प्रतिकृतिं कृत्वा शत्रोश्चरणपांसुभिः । आक्रम्य वामपादेन ह्यादित्यहृदयं जपेत् ॥ ९०॥ एतन्मन्त्रं समाहूय सर्वसिद्धिकरं परम् । ॐ ह्रीं हिमालीढं स्वाहा । ॐ ह्रीं निलीढं स्वाहा । ॐ ह्रीं मालीढं स्वाहा । इति मन्त्रः । त्रिभिश्च रोगी भवति ज्वरी भवति पञ्चभिः । जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत ॥ ९१॥ राक्षससेनाभिभूतस्य विकारान् शृणु पाण्डव । गीयते नृत्यते नग्न आस्फोटयति धावति ॥ ९२॥ शिवारुतं च कुरुते हसते क्रन्दते पुनः । एवं सम्पीड्यते पार्थ यद्यपि स्यान्महेश्वरः ॥ ९३॥ किं पुनर्मानुषः कश्चिच्छौचाचारविवर्जितः । पीडितस्य न सन्देहो ज्वरौ भवति दारुणः ॥ ९४॥ यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभङ्करम् । तदा सलिलमादाय जपेन्मन्त्रमिमं बुधः ॥ ९५॥ नमो भगवते तुभ्यमादित्याय नमो नमः । जयाय जयभद्राय हरिदश्वाय ते नमः ॥ ९६॥ स्नापयेत्तेन मन्त्रेण शुभं भवति नान्यथा । अन्यथा च भवेद्दोषो नश्यते नात्र संशयः ॥ ९७॥ अतस्ते निखिलः प्रोक्तः पूजां चैव निबोध मे । उपलिप्ते शुचौ देशे नियतो वाग्यताः शुचिः ॥ ९८॥ वृत्तं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छचि । त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९९॥ अष्टपत्रंलिखेत्पद्मं लिप्तगोमयमण्डले । पूर्वपत्रे लिखेत् सूर्यमाग्नेय्यां तु रविं न्यसेत् ॥ १००॥ याम्यायां च विवस्वन्तं नैऋर्त्यां तु भगं न्यसेत् । प्रतीच्यां वरुणं विद्याद्वायव्यां मित्रमेव च ॥ १०१॥ आदित्यमुत्तरे पत्रे ईशान्यां मित्रमेव च । मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥ १०२॥ अतः परतरं नास्ति सिद्धिकामस्य पाण्डव । महातेजः समुद्यतं प्रणमेत्स कृताञ्जलिः ॥ १०३॥ सकेसराणि पद्मानि करवीराणि चार्जुन । तिलतण्द्गुलयुक्तानि कुशगन्धोदकानि च ॥ १०४॥ रक्तचन्दनमिश्राणि कृत्वा वै ताम्रभाजने । धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं स्पृशेत् ॥ १०५॥ मन्त्रपूतं गुडाकेशः चार्घ्यं दद्याद्गभस्तये । सायुधं सरथं चैव सूर्यमावाहयाम्यहम् ॥ १०६॥ स्वागतो भव । सुप्रतिष्ठितो भव । सन्निधौ भव । सन्निहितो भव । सम्मुखो भव । इति पञ्चमुद्राः । स्फुटयित्वाऽर्हयेत्सूर्यं भुक्ति मुक्तिं लभेन्नरः ॥ १०७॥ ॐ श्रीं विद्या किलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा । ॐ श्रीं ह्रीं ह्रूं हंसः सूर्याय नमः स्वाहा । ॐ श्रीं ह्रां ह्रीं ह्रूं ह्रः सूर्यमूर्तये स्वाहा । ॐ श्रीं ह्रीं खं खः लोकाय सूर्यमूर्तये स्वाहा । ॐ ह्रूं मार्तण्डाय स्वाहा । नमोऽस्तु सूर्याय सहस्रभानवे नमोऽस्तु वैश्वानरजातवेदसे । त्वमेव चार्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ॥ १०८॥ नमो भगवते तुभ्यं नमस्ते जातवेदसे । दत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते ॥ १०९॥ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां देव गृहाणार्घ्यं नमोऽस्तुते ॥ ११०॥ नमो भगवते तुभ्यं नमस्ते जातवेदसे । ममेदमर्घ्यं गृह्ण त्वं देवदेव नमोऽस्तु ते ॥ १११॥ सर्वदेवाधिदेवाय आधिव्याधिविनाशिने । इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु ॥ ११२॥ नमः सूर्याय शान्ताय सर्वरोगविनाशिने । ममेप्सितं फलं दत्त्वा प्रसीद परमेश्वर ॥ ११३॥ ॐ नमो भगवते सूर्याय स्वाहा । ॐ शिवाय स्वाहा । ॐ सर्वात्मने सूर्यायनमः स्वाहा । ॐ अक्षय्यतेजसेनमः स्वाहा । सर्वसङ्कटदारिद्रयं शत्रुं नाशय नाशय । सर्वलोकेषु विश्वात्मन्सर्वात्मन्सर्वदर्शक ॥ ११४॥ नमो भगवते सूर्य कुष्ठरोगान्विखण्डय । आयुरारोग्यमैश्वर्यं देहि देव नमोऽस्तु ते ॥ ११५॥ नमो भगवते तुभ्यमादित्याय नमो नमः । ॐ अक्षय्यतेजसे नमः । ॐ सूर्याय नमः । ॐ विश्वमूर्तये नमः । आदित्यं च शिवं विद्याच्छिवमादित्यरूपिणम् । उभयोरन्तरं नास्ति आदित्यस्य शिवस्य च ॥ ११६॥ एतदिच्छाम्यहं श्रोतुं पुरूषो वै दिवाकरः । उदये ब्राह्मणो रूपं मध्याह्ने तु महेश्वरः ॥ ११७॥ अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्च दिवाकरः । नमो भगवते तुभ्यं विष्णवे प्रभविष्णवे ॥ ११८॥ ममेदमर्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते । श्रीसूर्यनारायणाय साङ्गाय सपरिवाराय इदमर्घ्यं समर्पयामि ॥ ११९॥ हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नमः । कृतघ्नाय सत्याय तस्मै सूयार्त्मने नमः ॥ १२०॥ जयोऽजयश्च विजयो जितप्राणो जितश्रमः । मनोजवो जितक्रोधो वाजिनः सप्त कीर्तिताः ॥ १२१॥ हरितहयरथं दिवाकरं कनकमयाम्बुजरेणुपिञ्जरम् । प्रतिदिनमुदये नवं शरणमुपैमि हिरण्यरेतसम् ॥ १२२॥ न तं व्यालाः प्रबाधन्ते न व्याधिभ्योभयं भवेत् । न नागेभ्यो भयं चैव नच भूतभयं क्वचित् ॥ १२३॥ अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च । दुर्गतिं तरते घोरां प्रजां च लभते पशून् ॥ १२४॥ सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु कन्यकाम् । एतत्पठेत्स कौन्तेय भक्तियुक्तेन चेतसा ॥ १२५॥ अश्वमेधसहस्रस्य वाजपेयशतस्य च । कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात् ॥ १२६॥ इदमादित्यहृदयं योऽधीते सतनं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १२७॥ नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः । प्रत्यक्षो भगवन्विष्णुर्येन विश्वं प्रतिष्ठितम् ॥ १२८॥ नवतिर्योजनं लक्षं सहस्राणि शतानि च । यावद्घटीप्रमाणेन तावच्चरति भास्करः ॥ १२९॥ गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं लभते विद्वाञ्शान्तात्मा स्तौति यो रविम् ॥ १३०॥ योऽधीते सूर्यहृदयं सकलं सफलं भवेत् । अष्टानां ब्राह्मणानां च लेखयित्वा समर्पयेत् ॥ १३१॥ ब्रह्मलोके ऋषीणां च जायते मानुषोऽपि वा । जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशयः ॥ १३२॥ अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय । सूर्याय सर्वप्रलयान्तकाय नमो महाकारुणिकोत्तमाय ॥ १३३॥ विवस्वते ज्ञानमृदन्तरात्मने जगत्प्रदीपाय गजद्धितैषिणे । स्वयम्भुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥ १३४॥ सुरैरनेकैः परिषेविताय हिरण्यगर्भाय हिरण्मयाय । महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥ १३५॥ आदित्यश्चार्चितो देव आदित्यः परमं पदम् । आदित्यो मातृको भूत्वा आदित्यो वाङ्मय जगत् ॥ १३६॥ आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः । नादित्यं पश्यते भक्त्या न स पश्यति मां नरः ॥ १३७॥ त्रिगुणं च त्रितत्त्वं च त्रयो देवास्त्रयोऽग्नयः । त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥ १३८॥ नमः सवित्रे जगदेक चक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमथाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥ १३९॥ यस्योदयेनेह जगत्प्रबुद्ध्यते प्रवर्तते चाखिलकर्मसिद्धये । ब्रह्मेन्द्रनारायणरुद्रवन्दितः स नः सदा यच्छतु मङ्गलं रविः ॥ १४०॥ नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसम्भवात्मने । सहस्रयोगोद्भवभावभागिने सहस्रसङ्ख्यायुगधारिणे नमः ॥ १४१॥ यत्मण्डलं दीतिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् । दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४२॥ यन्मडलं देवगणैः सुपूजितं विप्रैः स्तुतम्भावनमुक्तिकोविदम् । तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४३॥ यन्मण्डलं ज्ञानघन त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् । समस्ततेजोमयादिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४४॥ यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४५॥ यन्मण्डलं व्याधि विनाशदक्षं यदृग्यजुः सामसु सम्प्रगीतम् । प्रकाशितं एन च भूर्भुवःस्वः पुनातु मां तत्सवितुवरेण्यम् ॥ १४६॥ यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण सिद्धसङ्घाः । यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४७॥ यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके । यत्कालकालादिमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४८॥ यन्मण्डलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहारं जनानाम् । यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४९॥ यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाम्प्रलयप्रगल्भम् । यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५०॥ यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् । सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५१॥ यन्मण्डलं ब्रह्मविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः । यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५२॥ यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथातुगम्यम् । तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५३॥ मण्डलाष्टमिदं पुण्यं यः पठेत्सततं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १५४॥ ध्येयः सदासवितृमण्डलमध्यवर्ती नारायणः सरसिजासन सन्निविष्टः । केयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ १५५॥ सशङ्खचक्रं रविमण्डले स्थितं कुशेशयाक्रान्तमनन्तमच्युतम् । भजामि बुद्धया तपनीयमूर्तिं सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥ १५६॥ एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः । कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं बिभुव ॥ १५७॥ वेदवेदाङ्गशरीरं दिव्यदीप्तिकरं परम् । रक्षोश्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥ १५८॥ एकचक्रो रथो यस्य दिव्यः कनकभूषितः । स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ १५९॥ आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १६०॥ पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ १६१॥ नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् । एकादशं त्रयीमुर्तिर्द्वादशं सूर्य एव च ॥ १६२॥ द्वादशादित्यनामानि प्रातःकाले पठेन्नरः । दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥ १६३॥ दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् । सर्वतीर्थप्रदं चैव सर्वकामप्रवर्धनम् ॥ १६४॥ यः पठेत्मातरुत्थाय भक्त्या नित्यमिदं नरः । सौख्यमायुस्तथाऽऽरोग्यं लभते मोक्षमेव च ॥ १५॥ अग्निमीडे नमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे । अग्र आयाहि पीतस्त्वं नमस्ते ज्योतिषां पते ॥ १६६॥ शन्नो देवि नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते । पञ्चमायोपवेदाय नमस्तुभ्यं नमोनमः ॥ १६७॥ पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः ॥ १६८॥ आदित्यस्य नमस्कारं ये कुर्वन्ति दिनेदिने । जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥ १६९॥ उदयगिरिमुपेतं भास्करं पद्महस्तं निखिलभुवननेत्रं रत्नंरत्नोपमेयम् । तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां सुरवरमभिवन्दे सुन्दरं विश्ववन्द्यम् ॥ १७०॥ इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे आदित्यहृदयस्तोत्रं सम्पूर्णम् ॥ Proofread by Nat Natarajan, NA
% Text title            : AdityahRidayabhaviShyottarapurANa
% File name             : AdityahRRidayabhaviShyottarapurANa.itx
% itxtitle              : AdityahRidayastotram (bhaviShyottarapurANAntargatam)
% engtitle              : Adityahridaya from Bhavishyottarapurana
% Category              : hRidaya, navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nat Natarajan nat.natarajan at gmail.com
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Description-comments  : From Brihatstotraratnakara with 408 stotras
% Source                : bhaviShyottarapurANa
% Latest update         : June 5, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP