नवग्रह जपमन्त्राः

नवग्रह जपमन्त्राः

सूर्यः

अथ सूर्यमन्त्रप्रारंभः ॐ अस्य श्रीसूर्यमहामन्त्रस्य हिरण्यस्तूप ऋषिः । तृष्टुप् छन्दः । सूर्यो देवता । घृणिरिति बीजम् । सूर्य इति शक्तिः । आदित्य इति कीलकम् । सूर्यग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । सूर्याय अङ्गुष्ठाभ्यां नमः । तेजोमूर्तये तर्जनीभ्यां स्वाहा । वरदाय मध्यमाभ्यां वषट् । हंसाय अनामिकाभ्यां हुम् । शान्ताय कनिष्ठिकाभ्यां वौषट् । कर्मसाक्षिणे करतलकरपृष्ठाभ्यां फट् । सूर्याय हृदयाय नमः । तेजोमूर्तये शिरसे स्वाहा । वरदाय शिखायै वषट् । हंसाय कवचाय हुम् । शान्ताय नेत्रत्रयाय वौषट् । कर्मसाक्षिणे अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् । धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् । सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे ॥ १॥ पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः । दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ २॥ द्विभुजं पद्महारं च वरदं मकुटान्वितम् । ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ॥ ३॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ आस॒`त्येन॒ रज॑सा॒ वर्त॑मानो निवेश॑यन्न॒मृतं॒ मर्त्यं॑ च । हि॒रण्॒यये॑न सवि॒तारथे॒नादे॒वो या॑ति॒ भुव॑नावि॒पश्यन्॑ । (यथाशक्ति जपेत्) सूर्याय हृदयाय नमः । तेजोमूर्तये शिरसे स्वाहा । वरदाय शिखायै वषट् । हंसाय कवचाय हुम् । शान्ताय नेत्रत्रयाय वौषट् । कर्मसाक्षिणे अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् । धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् । सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे ॥ १॥ पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः । दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ २॥ द्विभुजं पद्महारं च वरदं मकुटान्वितम् । ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ॥ ३॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति श्रीसूर्यमहामन्त्रः ।

चन्द्रः

अथ सोममन्त्रप्रारंभः ॐ अस्य श्रीसोममहामन्त्रस्य गौतम ऋषिः । गायत्री छन्दः । सोमो देवता । सां बीजम् । सीं शक्तिः । सूं कीलकम् । मम श्रीसोमग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । सोमाय अङ्गुष्ठाभ्यां नमः । निशाकराय तर्जनीभ्यां स्वाहा । क्षीरोदार्णवसंभवाय मध्यमाभ्यां वषट् । लक्ष्मीसहोदराय अनामिकाभ्यां हुम् । तारकेशाय कनिष्ठिकाभ्यां वौषट् । सुधामूर्तये करतलकरपृष्ठाभां फट् । सोमाय हृदयाय नमः । निशाकराय शिरसे स्वाहा । क्षीरोदार्णवसंभवाय शिखायै वषट् । लक्ष्मीसहोदराय कवचाय हुम् । तारकेशाय नेत्रत्रयाय वौषट् । सुधामूर्तये अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् गदाधरधरं देवं श्वेतवर्णं निशाकरम् । ध्यायेदमृतसंभूतं सर्वकामफलप्रदम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ॥ (यथाशक्ति जपेत्) सोमाय हृदयाय नमः । निशाकराय शिरसे स्वाहा । क्षीरोदार्णवसंभवाय शिखायै वषट् । लक्ष्मीसहोदराय कवचाय हुम् । तारकेशाय नेत्रत्रयाय वौषट् । सुधामूर्तये अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानं गदाधरधरं देवं श्वेतवर्णं निशाकरम् । ध्यायेदमृतसंभूतं सर्वकामफलप्रदम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वोपचारान् समर्पयामि ॥ इति सोममन्त्रः ।

अङ्गारकः

अथ अङ्गारकमहामन्त्रप्रारंभः ॐ अस्य श्रीअङ्गारकमहामन्त्रस्य विरूपाक्ष ऋषिः । गायत्री छन्दः । अङ्गारको देवता । मम श्रीअङ्गारकग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । अङ्गारकाय अङ्गुष्ठाभ्यां नमः । धरणीसुताय तर्जनीभ्यां नमः । रक्तवाससे मध्यमाभ्यां नमः । रक्तलोचनाय अनामिकाभ्यां नमः । शक्तिधराय कनिष्ठिकाभ्यां नमः । कर्मभावनाय करतलकरपृष्ठाभ्यां नमः । अङ्गारकाय हृदयाय नमः । धरणीसुताय शिरसे स्वाहा । रक्तवाससे शिखायै वषट् । रक्तलोचनाय कवचाय हुम् । शक्तिधराय नेत्रत्रयाय वौषट् । कर्मभावनाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् रक्तमाल्यांबरधरं हेमरूपं चतुर्भुजम् । शक्तिरूपं गदापद्मं धारयन्तं करांबुजैः ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳ रेताꣳ॑सि जिन्वति ॥ (यथाशक्ति जपेत्) अङ्गारकाय हृदयाय नमः । धरणीसुताय शिरसे स्वाहा । रक्तवाससे शिखायै वषट् । रक्तलोचनाय कवचाय हुम् । शक्तिधराय नेत्रत्रयाय वौषट् । कर्मभावनाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् - रक्तमाल्यांबरधरं हेमरूपं चतुर्भुजम् । शक्तिरूपं गदापद्मं धारयन्तं करांबुजैः ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति अङ्गारकमहामन्त्रः ।

बुधः

अथ बुधमहामन्त्रप्रारंभः ॐ अस्य श्रीबुधमहामन्त्रस्य मधुच्छन्द ऋषिः । तृष्टुप्छन्दः । बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः । बुधाय अङ्गुष्ठाभ्यां नमः । सौम्याय तर्जनीभ्यां नमः । सिंहारूढाय मध्यमाभ्यां नमः । चतुर्बाहवे अनामिकाभ्यां नमः । गदाधराय कनिष्ठिकाभ्यां नमः । सोमपुत्राय करतलकरपृष्ठाभ्यां नमः । बुधाय हृदयाय नमः । सौम्याय शिरसे स्वाहा । सिंहारूढाय शिखायै वषट् । चतुर्बाहवे कवचाय हुम् । गदाधराय नेत्रत्रयाय वौषट् । सोमपुत्राय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् पीतांबरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः । चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते स॒ꣳसृ॑जेथाम॒यं च॑ । पुनः॑ कृ॒ण्वꣳस्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वाताꣳ॑सी॒त्त्वयि॒ तन्तु॑मे॒तम् ॥ (यथाशक्ति जपेत्) बुधाय हृदयाय नमः । सौम्याय शिरसे स्वाहा । सिंहारूढाय शिखायै वषट् । चतुर्बाहवे कवचाय हुम् । गदाधराय नेत्रत्रयाय वौषट् । सोमपुत्राय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् पीतांबरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः । चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति बुधमहामन्त्रः ।

बृहस्पतिः

अथ बृहस्पतिमन्त्रप्रारंभः ॐ अस्य श्रीबृहस्पतिमहामन्त्रस्य गृत्स महर्षिः । जगतीछन्दः । बृहस्पतिर्देवता । बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः । गुरवे अङ्गुष्ठाभ्यां नमः । वाक्पतये तर्जनीभ्यां नमः । गीर्वाणवन्दिताय मध्यमाभ्यां नमः । वरदाय अनामिकाभ्यां नमः । सुराचार्याय कनिष्ठिकाभ्यां नमः । कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः । गुरवे हृदयाय नमः । वाक्पतये शिरसे स्वाहा । गीर्वाणवन्दिताय शिखायै वषट् । वरदाय कवचाय हुम् । सुराचार्याय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् वराक्षमालिकादण्डकमण्डलुधरं विभुम् । पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ बृह॑स्पते॒ अति॒यद॒र्यो अर्हा॑'द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑सर्तप्रजात॒ तद॒स्मासु द्रवि॑णं धेहि चि॒त्रम् ॥ (यथाशक्ति जपेत्) गुरवे हृदयाय नमः । वाक्पतये शिरसे स्वाहा । गीर्वाणवन्दिताय शिखायै वषट् । वरदाय कवचाय हुम् । सुराचर्याय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् वराक्षमालिकादण्डकमण्डलुधरं विभुम् । पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति बृहस्पतिमन्त्रः ।

शुक्रः

अथ शुक्रमहामन्त्रप्रारंभः ॐ अस्य श्रीशुक्रमहामन्त्रस्य भरद्वाज ऋषिः । त्रिष्टुप्छन्दः । शुक्रो देवता । मम श्रीशुक्रग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । दानवपूजिताय अङ्गुष्ठाभ्यां नमः । दैत्याचार्याय तर्जनीभ्यां नमः । वरदाय मध्यमाभ्यां नमः । श्वेतवस्त्राय अनामिकाभ्यां नमः । शुक्राय कनिष्ठिकाभ्यां नमः । कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः । दानवपूजिताय हृदयाय नमः । दैत्याचार्याय शिरसे स्वाहा । वरदाय शिखायै वषट् । श्वेतवस्त्राय कवचाय हुम् । शुक्राय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् जटिलं चाक्षसूत्रं च वरदण्डकमण्डलुम् । श्वेतवस्त्रोज्ज्वनं शुक्रं सर्वदानवपूजितम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ प्रवः॑ शु॒क्राय॑ भा॒नवे॑ भरद्वँ ह॒व्यम् म॒तिं चा॒ग्नये॒ सुपू॑तम् । यो दैव्या॑नि॒ मानु॑षा जनूँष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥ अथवा ॐ शु॒क्रं ते॑ अ॒न्यद् य॑ज॒तन्ते॑ अन्य॒द्विषु॑रूपे॒ अह॑नी॒द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधा वो भ॒द्रा ते॑ पूषन्नि॒हरा॒तिर॑स्तु ॥ (यथाशक्ति जपेत्) दानवपूजिताय हृदयाय नमः । दैत्याचार्याय शिरसे स्वाहा । वरदाय शिखायै वषट् । श्वेतवस्त्राय कवचाय हुम् । शुक्राय नेत्रत्रयाय वौषट् । कमण्डलुधराय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् जटिलं चाक्षसूत्रं च वरदण्डकमण्डलुम् । श्वेतवस्त्रोज्ज्वनं शुक्रं सर्वदानवपूजितम् ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति शुक्रमहामन्त्रः ।

शनैश्चरः

अथ शनैश्चरमहामन्त्रप्रारंभः ॐ अस्य श्रीशनैश्चरमहामन्त्रस्य उरुमित्र ऋषिः । गायत्रीछन्दः । शनैश्चरो देवता । मम श्रीशनैश्चरग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । शनैश्चराय अङ्गुष्ठाभ्यां नमः । मन्दगतये तर्जनीभ्यां नमः । अधोक्षजाय मध्यमाभ्यां नमः । सौरये अनामिकाभ्यां नमः । अभयङ्कराय कनिष्ठिकाभ्यां नमः । ऊर्ध्वरोम्णे करतलकरपृष्ठाभ्यां नमः । शनैश्चराय हृदयाय नमः । मन्दगतये शिरसे स्वाहा । अधोक्षजाय शिखायै वषट् । सौरये कवचाय हुम् । अभयङ्कराय नेत्रत्रयाय वौषट् । ऊर्ध्वरोम्णे अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑' । शं योर॒भिस्र॑वन्तु नः । (यथाशक्ति जपेत्) शनैश्चराय हृदयाय नमः । मन्दगतये शिरसे स्वाहा । अधोक्षजाय शिखायै वषट् । सौरये कवचाय हुम् । अभयङ्कराय नेत्रत्रयाय वौषट् । ऊर्ध्वरोम्णे अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति शनैश्चरमहामन्त्रः ।

राहुः

अथ राहुमहामन्त्रप्रारंभः ॐ अस्य श्रीराहुमहामन्त्रस्य वामदेव ऋषिः । गायत्रीछन्दः । राहुर्देवता । राहुप्रसादसिद्ध्यर्थे जपे विनियोगः । धूम्रवर्णाय अङ्गुष्ठाभ्यां नमः । कराळवदनाय तर्जनीभ्यां नमः । खण्डवराय मध्यमाभ्यां नमः । महाशूराय अनामिकाभ्यां नमः । त्रिशूलधराय कनिष्ठिकाभ्यां नमः । नीलसिंहासनस्थाय करतलकरपृष्ठाभ्यां नमः । धूम्रवर्णाय हृदयाय नमः । कराळवदनाय शिरसे स्वाहा । खण्डवराय शिखायै वषट् । महाशूराय कवचाय हुम् । त्रिशूलधराय नेत्रत्रयाय वौषट् । नीलसिंहासनस्थाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् कराळवदनं खड्गचर्मशूलवरान्वितम् । नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ कया॑न्श्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा॑' । कया॒ शचि॑ष्ठया वृ॒ता ॥ (यथाशक्ति जपेत्) धूम्रवर्णाय हृदयाय नमः । कराळवदनाय शिरसे स्वाहा । खण्डवराय शिखायै वषट् । महाशूराय कवचाय हुम् । त्रिशूलधराय नेत्रत्रयाय वौषट् । नीलसिंहासनस्थाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् कराळवदनं खड्गचर्मशूलवरान्वितम् । नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति राहुमहामन्त्रः ।

केतुः

अथ केतुमहामन्त्रप्रारंभः ॐ अस्य श्रीकेतुमहामन्त्रस्य मयच्छन्द ऋषिः । गायत्री छन्दः । केतुर्देवता । मम श्रीकेतुग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः । धूम्रवर्णय अङ्गुष्ठाभ्यां नमः । द्विबाहवे तर्जनीभ्यां नमः । केतवे मध्यमाभ्यां नमः । विकृताननाय अनामिकाभ्यां नमः । गृध्रासनाय कनिष्ठिकाभ्यां नमः । लंबकाय करतलकरपृष्ठाभ्यां नमः । धूम्रवर्णाय हृदयाय नमः । द्विबाहवे शिरसे स्वाहा । केतवे शिखायै वषट् । विकृताननाय कवचाय हुम् । गृध्रासनाय नेत्रत्रयाय वौषट् । लंबकाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् धूम्रवर्णं द्विबाहुं च केतुं च विकृताननम् । गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ मूलमन्त्रः ॐ के॒तुं कृ॒ण्वन्न॑ के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑' । स मु॒षद्भि॑रजायथाः ॥ (यथाशक्ति जपेत्) धूम्रवर्णाय हृदयाय नमः । द्विबाहवे शिरसे स्वाहा । केतवे शिखायै वषट् । विकृताननाय कवचाय हुम् । गृध्रासनाय नेत्रत्रयाय वौषट् । लंबकाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्विमोकः । ध्यानम् धूम्रवर्णं द्विबाहुं च केतुं च विकृताननम् । गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतोपहारं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ इति केतुमहामन्त्रः । Encoded and proofread by KSR Ramachandran ramachandran\_ksr at yahoo.ca
% Text title            : navagrahajapamantrAH
% File name             : navagrahajapamantra.itx
% itxtitle              : navagraha japamantrAH
% engtitle              : Navagraha Japamantra
% Category              : navagraha, svara, nava, mantra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : KSR Ramachandran ramachandran_ksr at yahoo.ca
% Proofread by          : KSR Ramachandran ramachandran_ksr at yahoo.ca
% Description-comments  : Collection
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org