श्रीसूर्यसहस्रनामस्तोत्रम् २

श्रीसूर्यसहस्रनामस्तोत्रम् २

श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये अथ चतुस्त्रिंशः पटलः । श्रीभैरव उवाच । देवदेवि महादेवि सर्वाभयवरप्रदे । त्वं मे प्राणप्रिया प्रीता वरदोऽहं तव स्थितः ॥ १॥ किञ्चित् प्रार्थय मे प्रेम्णा वक्ष्ये तत्ते ददाम्यहम् । श्रीदेव्युवाच । भगवन् देवदेवेश महारुद्र महेश्वर ॥ २॥ यदि देयो वरो मह्यं वरयोग्यास्म्यहं यदि । देवदेवस्य सवितुर्वद नामसहस्रकम् ॥ ३॥ श्रीभैरव उवाच । एतद्गुह्यतमं देवि सर्वस्वं मम पार्वति । रहस्यं सर्वदेवानां दुर्लभं कामनावहम् ॥ ४॥ यो देवो भगवान् सूर्यो वेदकर्ता प्रजापतिः । कर्मसाक्षी जगच्चक्षुः स्तोतुं तं केन शक्यते ॥ ५॥ यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते । तस्यादिदेवदेवस्य सवितुर्जगदीशितुः ॥ ६॥ मन्त्रनामसहस्रं ते वक्ष्ये साम्राज्यसिद्धिदम् । सर्वपापापहं देवि तन्त्रवेदागमोद्धृतम् ॥ ७॥ माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् । सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥ ८॥ धनदं पुण्यदं पुण्यं श्रेयस्करं यशस्करम् । वक्ष्यामि परमं तत्त्वं मूलविद्यात्मकं परम् ॥ ९॥ ब्रह्मणो यत् परं ब्रह्म पराणामपि यत् परम् । मन्त्राणामपि यत् तत्त्वं महसामपि यन्महः ॥ १०॥ शान्तानामपि यः शान्तो मनूनामपि यो मनुः । योगिनामपि यो योगी वेदानां प्रणवश्च यः ॥ ११॥ ग्रहाणामपि यो भास्वान् देवानामपि वासवः । ताराणामपि यो राजा वायूनां च प्रभञ्जनः ॥ १२॥ इन्द्रियाणामपि मनो देवीनामपि यः परा । नगानामपि यो मेरुः पन्नगानां च वासुकिः ॥ १३॥ तेजसामपि यो वह्निः कारणानां च यः शिवः । सविता यस्तु गायत्र्याः परमात्मेति कीर्त्यते ॥ १४॥ वक्ष्ये परमहंसस्य तस्य नामसहस्रकम् । सर्वदारिद्र्यशमनं सर्वदुःखविनाशनम् ॥ १५॥ सर्वपापप्रशमनं सर्वतीर्थफलप्रदम् । ज्वररोगापमृत्युघ्नं सदा सर्वाभयप्रदम् ॥ १६॥ तत्त्वं परमतत्त्वं च सर्वसारोत्तमोत्तमम् । राजप्रसादविजय-लक्ष्मीविभवकारणम् ॥ १७॥ आयुष्करं पुष्टिकरं सर्वयज्ञफलप्रदम् । मोहनस्तम्भनाकृष्टि-वशीकरणकारणम् ॥ १८॥ अदातव्यमभक्ताय सर्वकामप्रपूरकम् । श‍ृणुष्वावहिता भूत्वा सूर्यनामसहस्रकम् ॥ १९॥ अस्य श्रीसूर्यनामसहस्रस्य श्रीब्रह्मा ऋषिः । गायत्र्यं छन्दः । श्रीभगवान् सविता देवता । ह्रां बीजम् । सः शक्तिः । ह्रीं कीलकम् । धर्मार्थकाममोक्षार्थे सूर्यसहस्रनामपाठे विनियोगः ॥ ध्यानम् ॥ कल्पान्तानलकोटिभास्वरमुखं सिन्दूरधूलीजपा- वर्णं रत्नकिरीटिनं द्विनयनं श्वेताब्जमध्यासनम् । नानाभूषणभूषितं स्मितमुखं रक्ताम्बरं चिन्मयं सूर्यं स्वर्णसरोजरत्नकलशौ दोर्भ्यां दधानं भजे ॥ १॥ प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् । सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥ २॥ ॐ ह्रां ह्रीं सः हं सः सोऽहं सविता भास्करो भगः । भगवान् सर्वलोकेशो भूतेशो भूतभावनः ॥ ३॥ भूतात्मा सृष्टिकृत् स्रष्टा कर्ता हर्ता जगत्पतिः । आदित्यो वरदो वीरो वीरलो विश्वदीपनः ॥ ४॥ विश्वकृद् विश्वहृद् भक्तो भोक्ता भीमोऽभयापहः । विश्वात्मा पुरुषः साक्षी परं ब्रह्म परात् परः ॥ ५॥ प्रतापवान् विश्वयोनिर्विश्वेशो विश्वतोमुखः । कामी योगी महाबुद्धिर्मनस्वी मनुरव्ययः ॥ ६॥ प्रजापतिर्विश्ववन्द्यो वन्दितो भुवनेश्वरः । भूतभव्यभविष्यात्मा तत्त्वात्मा ज्ञानवान् गुणी ॥ ७॥ सात्त्विको राजसस्तामस्तमवी करुणानिधिः । सहस्रकिरणो भास्वान् भार्गवो भृगुरीश्वरः ॥ ८॥ निर्गुणो निर्ममो नित्यो नित्यानन्दो निराश्रयः । तपस्वी कालकृत् कालः कमनीयतनुः कृशः ॥ ९॥ दुर्दर्शः सुदशो दाशो दीनबन्धुर्दयाकरः । द्विभुजोऽष्टभुजो धीरो दशबाहुर्दशातिगः ॥ १०॥ दशांशफलदो विष्णुर्जिगीषुर्जयवाञ्जयी । जटिलो निर्भयो भानुः पद्महस्तः कुशीरकः ॥ ११॥ समाहितगतिर्धाता विधाता कृतमङ्गलः । मार्तण्डो लोकधृत् त्राता रुद्रो भद्रप्रदः प्रभुः ॥ १२॥ अरातिशमनः शान्तः शङ्करः कमलासनः । अविचिन्त्यवपुः (१००) श्रेष्ठो महाचीनक्रमेश्वरः ॥ १३॥ महार्तिदमनो दान्तो महामोहहरो हरिः । नियतात्मा च कालेशो दिनेशो भक्तवत्सलः ॥ १४॥ कल्याणकारी कमठकर्कशः कामवल्लभः । व्योमचारी महान् सत्यः शम्भुरम्भोजवल्लभः ॥ १५॥ सामगः पञ्चमो द्रव्यो ध्रुवो दीनजनप्रियः । त्रिजटो रक्तवाहश्च रक्तवस्त्रो रतिप्रियः ॥ १६॥ कालयोगी महानादो निश्चलो दृश्यरूपधृक् । गम्भीरघोषो निर्घोषो घटहस्तो महोमयः ॥ १७॥ रक्ताम्बरधरो रक्तो रक्तमाल्यानुलेपनः । सहस्रहस्तो विजयो हरिगामी हरीश्वरः ॥ १८॥ मुण्डः कुण्डी भुजङ्गेशो रथी सुरथपूजितः । न्यग्रोधवासी न्यग्रोधो वृक्षकर्णः कुलन्धरः ॥ १९॥ शिखी चण्डी जटी ज्वाली ज्वालातेजोमयो विभुः । हैमो हेमकरो हारी हरिद्रलासनस्थितः ॥ २०॥ हरिद्श्वो जगद्वासी जगतां पतिरिङ्गिलः । विरोचनो विलासी च विरूपाक्षो विकर्तनः ॥ २१॥ विनायको विभासश्च भासो भासां पतिः प्रभुः । मतिमान् रतिमान् स्वक्षो विशालाक्षो विशाम्पतिः ॥ २२॥ बालरूपो गिरिचरो गीर्पतिर्गोमतीपतिः । गङ्गाधरो गणाध्यक्षो गणसेव्यो गणेश्वरः ॥ २३॥ गिरीशनयनावासी सर्ववासी सतीप्रियः । सत्यात्मकः सत्यधरः सत्यसन्धः सहस्रगुः ॥ २४॥ अपारमहिमा मुक्तो मुक्तिदो मोक्षकामदः । मूर्तिमान् ( २००) दुर्धरोऽमूर्तिस्तुटिरूपो लवात्मकः ॥ २५॥ प्राणेशो व्यानदोऽपानसमानोदानरूपवान् । चषको घटिकारूपो मुहूर्तो दिनरूपवान् ॥ २६॥ पक्षो मास ऋतुर्वर्षा दिनकालेश्वरेश्वरः । अयनं युगरूपश्च कृतं त्रेतायुगस्त्रिपात् ॥ २७॥ द्वापरश्च कलिः कालः कालात्मा कलिनाशनः । मन्वन्तरात्मको देवः शक्रस्त्रिभुवनेश्वरः ॥ २८॥ वासवोऽग्निर्यमो रक्षो वरुणो यादसां पतिः । वायुर्वैश्रवणं शैव्यो गिरिजो जलजासनः ॥ २३॥ अनन्तोऽनन्तमहिमा परमेष्ठी गतज्वरः । कल्पान्तकलनः क्रूरः कालाग्निः कालसूदनः ॥ ३०॥ महाप्रलयकृत् कृत्यः कुत्याशीर्युगवर्तनः । कालावर्तो युगधरो युगादिः शहकेश्वरः ॥ ३१॥ आकाशनिधिरूपश्च सर्वकालप्रवर्तकः । अचिन्त्यः सुबलो बालो बलाकावल्लभो वरः ॥ ३२॥ वरदो वीर्यदो वाग्मी वाक्पतिर्वाग्विलासदः । साङ्ख्येश्वरो वेदगम्यो मन्त्रेशस्तन्त्रनायकः ॥ ३३॥ कुलाचारपरो नुत्यो नुतितुष्टो नुतिप्रियः । अलसस्तुलसीसेव्यस्तुष्टा रोगनिबर्हणः ॥ ३४॥ प्रस्कन्दनो विभागश्च नीरागो दशदिक्पतिः । वैराग्यदो विमानस्थो रत्नकुम्भधरायुधः ॥ ३५॥ महापादो महाहस्तो महाकायो महाशयः । ऋग्यजुःसामरूपश्च त्वष्टाथर्वणशाखिलः ॥ ३६॥ सहस्रशाखी सद्वृक्षो महाकल्पप्रियः पुमान् । कल्पवृक्षश्च मन्दारो ( ३००) मन्दाराचलशोभनः ॥ ३७॥ मेरुर्हिमालयो माली मलयो मलयद्रुमः । सन्तानकुसुमच्छन्नः सन्तानफलदो विराट् ॥ ३८॥ क्षीराम्भोधिर्घृताम्भोधिर्जलधिः क्लेशनाशनः । रत्नाकरो महामान्यो वैण्यो वेणुधरो वणिक् ॥ ३९॥ वसन्तो मारसामन्तो ग्रीष्मः कल्मषनाशनः । वर्षाकालो वर्षपतिः शरदम्भोजवल्लभः ॥ ४०॥ हेमन्तो हेमकेयूरः शिशिरः शिशुवीर्यदः । सुमतिः सुगतिः साधुर्विष्णुः साम्बोऽम्बिकासुतः ॥ ४१॥ सारग्रीवो महाराजः सुनन्दो नन्दिसेवितः । सुमेरुशिखरावासी सप्तपातालगोचरः ॥ ४२॥ आकाशचारी नित्यात्मा विभुत्वविजयप्रदः । कुलकान्तः कुलाद्रीशो विनयी विजयी वियत् ॥ ४३॥ विश्वम्भरा वियच्चारी वियद्रूपो वियद्रथः । सुरथः सुगतस्तुत्यो वेणुवादनतत्परः ॥ ४४॥ गोपालो गोमयो गोप्ता प्रतिष्ठायी प्रजापतिः । आवेदनीयो वेदाक्षो महादिव्यवपुः सुराट् ॥ ४५॥ निर्जीवो जीवनो मन्त्री महार्णवनिनादभृत् । वसुरावर्तनो नित्यः सर्वाम्नायप्रभुः सुधीः ॥ ४६॥ न्यायनिर्वापणः शूली कपाली पद्ममध्यगः । त्रिकोणनिलयश्चेत्यो बिन्दुमण्डलमध्यगः ॥ ४७॥ बहुमालो महामालो दिव्यमालाधरो जपः । जपाकुसुमसङ्काशो जपपूजाफलप्रदः ॥ ४८॥ सहस्रमूर्धा देवेन्द्रः सहस्रनयनो रविः । सर्वतत्त्वाश्रयो ब्रध्नो वीरवन्द्यो विभावसुः ॥ ४९॥ विश्वावसुर्वसुपतिर्वसुनाथो विसर्गवान् । आदिरादित्यलोकेशः सर्वगामी (४००) कलाश्रयः ॥ ५०॥ भोगेशो देवदेवेन्द्रो नरेन्द्रो हव्यवाहनः । विद्याधरेशो विद्येशो यक्षेशो रक्षणो गुरुः ॥ ५१॥ रक्षःकुलैकवरदो गन्धर्वकुलपूजितः । अप्सरोवन्दितोऽजय्यो जेता दैत्यनिबर्हणः ॥ ५२॥ गुह्यकेशः पिशाचेशः किन्नरीपूजितः कुजः । सिद्धसेव्यः समाम्नायः साधुसेव्यः सरित्पतिः ॥ ५३॥ ललाटाक्षो विश्वदेहो नियमी नियतेन्द्रियः । अर्कोऽर्ककान्तरत्रेशोऽनन्तबाहुरलोपकः ॥ ५४॥ अलिपात्रधरोऽनङ्गोऽप्यम्बरेशोऽम्बराश्रयः । अकारमातृकानाथो देवानामादिराकृतिः ॥ ५५॥ आरोग्यकारी चानन्दविग्रहो निग्रहो ग्रहः । आलोककृत् तथादित्यो वीरादित्यः प्रजाधिपः ॥ ५६॥ आकाशरूपः स्वाकार इन्द्रादिसुरपूजितः । इन्दिरापूजितश्चेन्दुरिन्द्रलोकाश्रयस्त्विनः ॥ ५७॥ ईशान ईश्वरश्चन्द्र ईश ईकारवल्लभः । उन्नतास्योऽप्युरुवपुरुन्नताद्रिचरो गुरुः ॥ ५८॥ उत्पलोऽप्युच्चलत्केतुरुच्चैर्हयगतिः सुखी । उकाराकारसुखितस्तथोष्मा निधिरूषणः ॥ ५९॥ अनूरुसारथिश्चोष्णभानुरूकारवल्लभः । ऋणहर्ता ॠलिहस्त ऋॠभूषणभूषितः ॥ ६०॥ लृप्ताङ्ग लॄमनुस्थायी लृलॄगण्डयुगोज्ज्वलः । एणाङ्कामृतदश्चीनपट्टभृद् बहुगोचरः ॥ ६१॥ एकचक्रधरश्चैकोऽनेकचक्षुस्तथैक्यदः । एकारबीजरमण एऐओष्ठामृताकरः ॥ ६२॥ ओङ्कारकारणं ब्रह्म औकारौचित्यमण्डनः । ओऔदन्तालिरहितो महितो महतां पतिः ॥ ६३॥ अंविद्याभूषणो भूष्यो लक्ष्मीशोऽम्बीजरूपवान् । अःस्वरूपः (५००) स्वरमयः सर्वस्वरपरात्मकः ॥ ६४॥ अंअःस्वरूपमन्त्राङ्गः कलिकालनिवर्तकः । कर्मैकवरदः कर्मसाक्षी कल्मषनाशनः ॥ ६५॥ कचध्वंसी च कपिलः कनकाचलचारकः । कान्तः कामः कपिः क्रूरः कीरः केशिनिसूदनः ॥ ६६॥ केशारिसूदनः कृष्णः कापालिकः कुब्जः कमलाश्रयणः कुली । कपालमोचकः काशः काश्मीरघनसारभृत् ॥ ६७॥ कूजत्किन्नरगीतेष्टः कुरुराजः कुलन्धरः । कुवासी कुलकौलेशः ककाराक्षरमण्डनः ॥ ६८॥ खवासी खेटकेशानः खड्गमुण्डधरः खगः । खगेश्वरश्च खचरः खेचरीगणसेवितः ॥ ६९॥ खरांशुः खेटकधरः खलहर्ता खवर्णकः । गन्ता गीतप्रियो गेयो गयावासी गणाश्रयः ॥ ७०॥ गुणातीतो गोलगतिर्गुच्छलो गुणिसेवितः । गदाधरो गदहरो गाङ्गेयवरदः प्रगी ॥ ७१॥ गिङ्गिलो गटिलो गान्तो गकाराक्षरभास्करः घृणिमान् घुर्घुरारावो घण्टाहस्तो घटाकरः ॥ ७२॥ घनच्छन्नो घनगतिर्घनवाहनतर्पितः । ङान्तो ङेशो ङकाराङ्गश्चन्द्रकुङ्कुमवासितः ॥ ७३॥ चन्द्राश्रयश्चन्द्रधरोऽच्युतश्चम्पकसन्निभः । चामीकरप्रभश्चण्डभानुश्चण्डेशवल्लभः ॥ ७४॥ चञ्चच्चकोरकोकेष्टश्चपलश्चपलाश्रयः । चलत्पताकश्चण्डाद्रिश्चीवरैकधरोऽचरः ॥ ७५॥ चित्कलावर्धितश्चिन्त्यश्चिन्ताध्वंसी चवर्णवान् । छत्रभृच्छलहृच्छन्दच्छुरिकाच्छिन्नविग्रहः ॥ ७६॥ जाम्बूनदाङ्गदोऽजातो जिनेन्द्रो जम्बुवल्लभः । जम्वारिर्जङ्गिटो जङ्गी जनलोकतमोपहः ॥ ७७॥ जयकारी (६००) जगद्धर्ता जरामृत्युविनाशनः । जगत्त्राता जगद्धाता जगद्ध्येयो जगन्निधिः ॥ ७८॥ जगत्साक्षी जगच्चक्षुर्जगन्नाथप्रियोऽजितः । जकाराकारमुकुटो झञ्जाछन्नाकृतिर्झटः ॥ ७९॥ झिल्लीश्वरो झकारेशो झञ्जाङ्गुलिकराम्बुजः । झञाक्षराञ्चितष्टङ्कष्टिट्टिभासनसंस्थितः ॥ ८०॥ टीत्कारष्टङ्कधारी च ठःस्वरूपष्ठठाधिपः । डम्भरो डामरुर्डिण्डी डामरीशो डलाकृतिः ॥ ८१॥ डाकिनीसेवितो डाढी डढगुल्फाङ्गुलिप्रभः । णेशप्रियो णवर्णेशो णकारपदपङ्कजः ॥ ८२॥ ताराधिपेश्वरस्तथ्यस्तन्त्रीवादनतत्परः । त्रिपुरेशस्त्रिनेत्रेशस्त्रयीतनुरधोक्षजः ॥ ८३॥ तामस्तामरसेष्टश्च तमोहर्ता तमोरिपुः । तन्द्राहर्ता तमोरूपस्तपसां फलदायकः ॥ ८४॥ तुट्यादिकलनाकान्तस्तकाराक्षरभूषणः । स्थाणुस्थलीस्थितो नित्यं स्थविरः स्थण्डिल स्थुलः ॥ ८५॥ थकारजानुरध्यात्मा देवनायकनायकः । दुर्जयो दुःखहा दाता दारिद्र्यच्छेदनो दमी ॥ ८६॥ दौर्भाग्यहर्ता देवेन्द्रो द्वादशाराब्जमध्यगः । द्वादशान्तैकवसतिर्द्वादशात्मा दिवस्पतिः ॥ ८७॥ दुर्गमो दैत्यशमनो दूरगो दुरतिक्रमः । दुर्ध्येयो दुष्टवंशघ्नो दयानाथो दयाकुलः ॥ ८८॥ दामोदरो दीधितिमान् दकाराक्षरमातृकः । धर्मबन्धुर्धर्मनिधिर्धर्मराजो धनप्रदः ॥ ८९॥ धनदेष्टो धनाध्यक्षो धरादर्शो धुरन्धरः । धूर्जटीक्षणवासी च धर्मक्षेत्रो धराधिपः ॥ ९०॥ धाराधरो धुरीणश्च धर्मात्मा धर्मवत्सलः । धराभृद्वल्लभो धर्मी धकाराक्षरभूषणः ॥ ९१॥ नमप्रियो नन्दिरुद्रो ( ७००) नेता नीतिप्रियो नयी । नलिनीवल्लभो नुन्नो नाट्यकृन्नाट्यवर्धनः ॥ ९२॥ नरनाथो नृपस्तुत्यो नभोगामी नमःप्रियः । नमोन्तो नमितारातिर्नरनारायणाश्रयः ॥ ९३॥ नारायणो नीलरुचिर्नम्राङ्गो नीललोहितः । नादरूपो नादमयो नादबिन्दुस्वरूपकः ॥ ९४॥ नाथो नागपतिर्नागो नगराजाश्रितो नगः । नाकस्थितोऽनेकवपुर्नकाराक्षरमातृकः ॥ ९५॥ पद्माश्रयः परं ज्योतिः पीवरांसः पुटेश्वरः । प्रीतिप्रियः प्रेमकरः प्रणतार्तिभयापहः ॥ ९६॥ परत्राता परध्वंसी पुरारिः पुरसंस्थितः । पूर्णानन्दमयः पूर्णतेजाः पूर्णेश्वरीश्वरः ॥ ९७॥ पटोलवर्णः पटिमा पाटलेशः परात्मवान् । परमेशवपुः प्रांशुः प्रमत्तः प्रणतेष्टदः ॥ ९८॥ अपारपारदः पीनः पीताम्बरप्रियः पविः । पाचनः पिचुलः प्लुष्टः प्रमदाजनसौख्यदः ॥ ९९॥ प्रमोदी प्रतिपक्षघ्नः पकाराक्षरमातृकः । फलं भोगापवर्गस्य फलिनीशः फलात्मकः ॥ १००॥ फुल्लदम्भोजमध्यस्थः फुल्लदम्भोजधारकः । स्फुटद्योतिः स्फुटाकारः स्फटिकाचलचारकः ॥ १०२॥ स्फूर्जत्किरणमाली च फकाराक्षरपार्श्वकः । बालो बलप्रियो बान्तो बिलध्वान्तहरो बली ॥ १०३॥ बालादिर्बर्बरध्वंसी बबोलामृतपानकः । बुधो बृहस्पतिर्वृक्षो बृहदश्वो बृहद्गतिः ॥ १०४॥ बपृष्ठो भीमरूपश्च भामयो भेश्वरप्रियः । भगो भृगुर्भृगुस्थायी भार्गवः कविशेखरः ॥ १०५॥ भाग्यदो भानुदीप्ताङ्गो भनाभिश्च भमातृकः । महाकालो (८००) महाध्यक्षो महानादो महामतिः ॥ १०६॥ महोज्ज्वलो मनोहारी मनोगामी मनोभवः । मानदो मल्लहा मल्लो मेरुमन्दरमन्दिरः ॥ १०७॥ मन्दारमालाभरणो माननीयो मनोमयः । मोदितो मदिराहारो मार्तण्डो मुण्डमुण्डितः ॥ १०८॥ महावराहो मीनेशो मेषगो मिथुनेष्टदः । मदालसोऽमरस्तुत्यो मुरारिवरदो मनुः ॥ १०९॥ माधवो मेदिनीशश्च मधुकैटभनाशनः । माल्यवान् मेधनो मारो मेधावी मुसलायुधः ॥ ११०॥ मुकुन्दो मुररीशानो मरालफलदो मदः । मदनो मोदकाहारो मकाराक्षरमातृकः ॥ १११॥ यज्वा यज्ञेश्वरो यान्तो योगिनां हृदयस्थितः । यात्रिको यज्ञफलदो यायी यामलनायकः ॥ ११२॥ योगनिद्राप्रियो योगकारणं योगिवत्सलः । यष्टिधारी च यन्त्रेशो योनिमण्डलमध्यगः ॥ ११३॥ युयुत्सुजयदो योद्धा युगधर्मानुवर्तकः । योगिनीचक्रमध्यस्थो युगलेश्वरपूजितः ॥ ११४॥ यान्तो यक्षैकतिलको यकाराक्षरभूषणः । रामो रमणशीलश्च रत्नभानू रुरुप्रियः ॥ ११५॥ रत्नमौली रत्नतुङ्गो रत्नपीठान्तरस्थितः । रत्नांशुमाली रत्नाढ्यो रत्नकङ्कणनूपुरः ॥ ११६॥ रत्नाङ्गदलसद्बाहू रत्नपादुकमण्डितः । रोहिणीशाश्रयो रक्षाकरो रात्रिञ्चरान्तकः ॥ ११७॥ रकाराक्षररूपश्च लज्जाबीजाश्रितो लवः । लक्ष्मीभानुर्लतावासी लसत्कान्तिश्च लोकभृत् ॥ ११८॥ लोकान्तकहरो लामावल्लभो लोमशोऽलिगः । लिङ्गेश्वरो लिङ्गनादो लीलाकारी ललम्बुसः ॥ ११९॥ लक्ष्मीवाँल्लोकविध्वंसी लकाराक्षरभूषणः । वामनो वीरवीरेन्द्रो वाचालो (९००) वाक्पतिप्रियः ॥ १२०॥ वाचामगोचरो वान्तो वीणावेणुधरो वनम् । वाग्भवो वालिशध्वंसी विद्यानायकनायकः ॥ १२१॥ वकारमातृकामौलिः शाम्भवेष्टप्रदः शुकः । शशी शोभाकरः शान्तः शान्तिकृच्छमनप्रियः ॥ १२२॥ शुभङ्करः शुक्लवस्त्रः श्रीपतिः श्रीयुतः श्रुतः । श्रुतिगम्यः शरद्बीजमण्डितः शिष्टसेवितः ॥ १२३॥ शिष्टाचारः शुभाचारः शेषः शेवालताडनः । शिपिविष्टः शिबिः शुक्रसेव्यः शाक्षरमातृकः ॥ १२४॥ षडाननः षट्करकः षोडशस्वरभूषितः । षट्पदस्वनसन्तोषी षडाम्नायप्रवर्तकः ॥ १२५॥ षड्सास्वादसन्तुष्टः षकाराक्षरमातृकः । सूर्यभानुः सूरभानुः सूरिभानुः सुखाकरः ॥ १२६॥ समस्तदैत्यवंशघ्नः समस्तसुरसेवितः । समस्तसाधकेशानः समस्तकुलशेखरः ॥ १२७॥ सुरसूर्यः सुधासूर्यः स्वःसूर्यः साक्षरेश्वरः । हरित्सूर्यो हरिद्भानुर्हविर्भुग् हव्यवाहनः ॥ १२८॥ हालासूर्यो होमसूर्यो हुतसूर्यो हरीश्वरः । ह्राम्बीजसूर्यो ह्रींसूर्यो हकाराक्षरमातृकः ॥ १२९॥ ळम्बीजमण्डितः सूर्यः क्षोणीसूर्यः क्षमापतिः । क्षुत्सूर्यः क्षान्तसूर्यश्च ळङ्क्षःसूर्यः सदाशिवः ॥ १३०॥ अकारसूर्यः क्षःसूर्यः सर्वसूर्यः कृपानिधिः । भूःसूर्यश्च भुवःसूर्यः स्वःसूर्यः सूर्यनायकः ॥ १३१॥ ग्रहसूर्य ऋक्षसूर्यो लग्नसूर्यो महेश्वरः । राशिसूर्यो योगसूर्यो मन्त्रसूर्यो मनूत्तमः ॥ १३२॥ तत्त्वसूर्यः परासूर्यो विष्णुसूर्यः प्रतापवान् । रुद्रसूर्यो ब्रह्मसूर्यो वीरसूर्यो वरोत्तमः ॥ १३३॥ धर्मसूर्यः कर्मसूर्यो विश्वसूर्यो विनायकः । (१०००) इतीदं देवदेवेशि मत्रनामसहस्रकम् ॥ १३४॥ देवदेवस्य सवितुः सूर्यस्यामिततेजसः । सर्वसारमयं दिव्यं ब्रह्मतेजोविवर्धनम् ॥ १३५॥ ब्रह्मज्ञानमयं पुण्यं पुण्यतीर्थफलप्रदम् । सर्वयज्ञफलैस्तुल्यं सर्वसारस्वतप्रदम् ॥ १३६॥ सर्वश्रेयस्करं लोके कीर्तिदं धनदं परम् । सर्वव्रतफलोद्रिक्तं सर्वधर्मफलप्रदम् ॥ १३७॥ सर्वरोगहरं देवि शरीरारोग्यवर्धनम् । प्रभावमस्य देवेशि नाम्नां सहस्रकस्य च ॥ १३८॥ कल्पकोटिशतैर्वर्षैर्नैव शक्नोमि वर्णितुम् । यं यं काममभिध्यायेद् देवानामपि दुर्लभम् ॥ १३९॥ तं तं प्राप्नोति सहसा पठनेनास्य पार्वति । यः पठेच्छ्रावयेद्वापि श‍ृणोति नियतेन्द्रियः ॥ १४०॥ स वीरो धर्मिणां राजा लक्ष्मीवानपि जायते । धनवाञ्जायते लोके पुत्रवान् राजवल्लभः ॥ १४१॥ आयुरारोग्यवान् नित्यं स भवेत् सम्पदां पदम् । रवौ पठेन्महादेवि सूर्यं सम्पूज्य कौलिकः ॥ १४२॥ सूर्योदये रविं ध्याता लभेत् कामान् यथेप्सितान् । सङ्क्रान्तौ यः पठेद् देवि त्रिकालं भक्तिपूर्वकम् ॥ १४३॥ इह लोके श्रियं भुक्त्वा सर्वरोगैः प्रमुच्यते । सप्तम्यां शुक्लपक्षे यः पठदस्तङ्गते रवौ ॥ १४४॥ सर्वारोग्यमयं देहं धारयेत् कौलिकोत्तमः । व्यतीपाते पठेद् देवि मध्याह्ने संयतेन्द्रियः ॥ १४५॥ धनं पुत्रान् यशो मानं लभेत् सूर्यप्रसादतः । चक्रार्चने पठेद् देवि जपन् मूलं रविं स्मरन् ॥ १४६॥ रवीभूत्वा महाचीनक्रमाचारविचक्षणः । सर्वशत्रून् विजित्याशु लभेल्लक्ष्मीं प्रतापवान् ॥ १४७॥ यः पठेत् परदेशस्थो वटुकार्चनतत्परः । कान्ताश्रितो वीतभयो भवेत् स शिवसन्निभः ॥ १४८॥ शतावर्तं पठेद्यस्तु सूर्योदययुगान्तरे । सविता सर्वलोकेशो वरदः सहसा भवेत् ॥ १४९॥ बहुनात्र किमुक्तेन पठनादस्य पार्वति । इह लक्ष्मीं सदा भुक्त्वा परत्राप्नोति तत्पदम् ॥ १५०॥ रवौ देवि लिखेद्भूर्जे मन्त्रनामसहस्रकम् । अष्टगन्धेन दिव्येन नीलपुष्पहरिद्रया ॥ १५१॥ पञ्चामृतौषधीभिश्च नृयुक्पीयूषबिन्दुभिः । विलिख्य विधिवन्मन्त्री यन्त्रमध्येऽर्णवेष्टितम् ॥ १५२॥ गुटीं विधाय संवेष्ट्य मूलमन्त्रमनुस्मरन् । कन्याकर्तितसूत्रेण वेष्टयेद्रक्तलाक्षया ॥ १५३॥ सुवर्णेन च संवेष्ट्य पञ्चगव्येन शोधयेत् । साधयेन्मन्त्रराजेन धारयेन्मूर्ध्नि वा भुजे ॥ १५४॥ किं किं न साधयेद् देवि यन्ममापि सुदुर्लभम् । कुष्ठरोगी च शूली च प्रमेही कुक्षिरोगवान् ॥ १५५॥ भगन्धरातुरोऽप्यर्शी अश्मरीवांश्च कृच्छ्रवान् । मुच्यते सहसा धृत्वा गुटीमेतां सुदुर्लभाम् ॥ १५६॥ वन्ध्या च काकवन्ध्या च मृतवत्सा च कामिनी । धारयेद्गुटिकामेतां वक्षसि स्मयतर्पिता ॥ १५७॥ वन्ध्या लभेत् सुतं कान्तं काकवन्ध्यापि पार्वति । मृतवत्सा बहून् पुत्रान् सुरूपांश्च चिरायुशः ॥ १५८ ॥ रणे गत्वा गुटीं धृत्वा शत्रूञ्जित्वा लभेच्छ्रियम् । अक्षताङ्गो महाराजः सुखी स्वपुरमाविशेत् ॥ १५९॥ यो धारयेद् भुजे नित्यं राजलोकवशङ्करीम् । गुटिकां मोहनाकर्षस्तम्भनोच्चाटनक्षमाम् ॥ १५०॥ स भवेत् सूर्यसङ्काशो महसा महसां निधिः । धनेन धनदो देवि विभवेन च शङ्करः ॥ १६१॥ श्रियेन्द्रो यशसा रामः पौरुषेण च भार्गवः । गिरा बृहस्पतिर्देवि नयेन भृगुनन्दनः ॥ १६२॥ बलेन वायुसङ्काशो दयया पुरुषोत्तमः । आरोग्येण घटोद्भूतिः कान्त्या पूर्णेन्दुसन्निभः ॥ १६३॥ धर्मेण धर्मराजश्च रत्नै रत्नाकरोपमः । गाम्भीर्येण तथाम्भोधिर्दातृत्वेन बलिः स्वयम् ॥ १६४॥ सिद्ध्या श्रीभैरवः साक्षादानन्देन चिदीश्वरः । किं प्रलापेन बहुना पठेद्वा धारयेच्छिवे ॥ १६५॥ श‍ृणुयाद् यः परं दिव्यं सूर्यनामसहस्रकम् । स भवेद् भास्करः साक्षात् परमानन्दविग्रहः ॥ १६६॥ स्वतन्त्रः स प्रयात्यन्ते तद्विष्णोः परमं पदम् । इदं दिव्यं महत् तत्त्वं सूर्यनामसहस्रकम् ॥ १६७॥ अप्रकाश्यमदातव्यमवक्तव्यं दुरात्मने । अभक्ताय कुचैलाय परशिष्याय पार्वति ॥ १६८॥ कर्कशायाकुलीनाय दुर्जनायाघबुद्धये । गुरुभक्तिविहीनाय निन्दकाय शिवागमे ॥ १६९॥ देयं शिष्याय शान्ताय गुरुभक्तिपराय च । कुलीनाय सुभक्ताय सूर्यभक्तिरताय च ॥ १७०॥ इदं तत्त्वं हि तत्त्वानां वेदागमरहस्यकम् । सर्वमन्त्रमयं गोप्यं गोपनीयं स्वयोनिवत् ॥ १७१॥ ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये सूर्यसहस्रनामस्तोत्रनामनिरूपणं चतुस्त्रिंशः पटलः सम्पूर्णः ॥ ३४॥ Proofread by DPD, Sunder Hattanagdi The printed book from which the stotra was taken had numerous pAThabhedas.
% Text title            : sUryasahasranAmastotram 2
% File name             : sUryasahasranAmastotra.itx
% itxtitle              : sUryasahasranAmastotram 2 (rudrayAmalatantre devIrahasye savitA bhAskaro bhagaH)
% engtitle              : sUrya sahasranAma stotra 2
% Category              : sahasranAma, navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, Sunder Hattanagdi
% Description-comments  : rudrayAmalatantre devIrahasye paTala 34.  See corresponding Namavali. dwarkadheeshvastu.com sUrya upAsanA
% Indexextra            : (scanned, nAmavalI 1, 2 scan)
% Latest update         : May 2, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org