सूर्यस्तोत्रम् ५
श्रीगणेशाय नमः ॥
त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् ।
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम् ॥ १॥
त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम् ।
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥ २॥
त्वया सन्धार्यते लोकस्त्वया लोकः प्रकाश्यते ।
त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥ ३॥
त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः ।
स्वशाखाविहितैर्मन्त्रैरर्चत्यृषिगणार्चित ॥ ४॥
तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः ।
सिद्धचारणगधर्वा यक्षगुह्यकपन्नगाः ॥ ५॥
त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः ।
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः ॥ ६॥
उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः ।
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥ ७॥
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः ।
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥ ८॥
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः ।
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥ ९॥
सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च ।
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥ १०॥
सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च ।
न तु तेषां तथा दीप्तिः प्रभवो वा यथा तव ॥ ११॥
ज्योतींषि त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः ।
त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विकाः ॥ १२॥
त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा ।
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥ १३॥
त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् ।
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥ १४॥
तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये यथा घनाः ।
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥ १५॥
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः ।
शीतवातार्दितं लोकं यथा तव मरीचयः ॥ १६॥
त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् ।
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥ १७॥
तव यद्युदयो न स्यादन्धं जगदिदं भवेत् ।
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥ १८॥
आधानपशुबन्धेष्टिमन्त्रयज्ञतपक्रियाः ।
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥ १९॥
यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम् ।
तस्य त्वनादिरन्तश्च कालज्ञैः परिकीर्तितः ॥ २०॥
मनूनां मनुपुत्राणां जगतोऽमानवस्य च ।
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥ २१॥
संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः ।
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥ २२॥
त्वद्दीधितिसमुत्पन्ना नानावर्णा महाधनाः ।
सैरावताः साशनयः कुर्वन्त्याभूतसम्प्लवम् ॥ २३॥
कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः ।
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥ २४॥
त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः ।
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्म शाश्वतम् ॥ २५॥
त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ।
विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥ २६॥
सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः ।
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥ २७॥
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः ।
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥ २८॥
सप्तम्यामथवा षष्ट्यां भक्त्या पूजां करोति यः ।
अनिर्विण्णोऽनहङ्कारी तं लक्ष्मीर्भजते नरम् ॥ २९॥
न तेषामापदः सन्ति नाधयो व्याधयस्तथा ।
ये तवानन्यमनसा कुर्वत्यर्चनवन्दनम् ॥ ३०॥
सर्वरोगैर्विरहिताः सर्वपापविवर्जिताः ।
त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥ ३१॥
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः ।
अन्नमन्नपते दातुममितः श्रद्धयार्हसि ॥ ३२॥
ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः ।
माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥ ३३॥
क्षुभया सहितो मैत्री याश्चान्या भूतमातरः ।
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥ ३४॥
एवं स्तुतो महाराज भास्करो लोकभावनः ।
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् ॥ ३५॥
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ।
विवस्वानुवाच ॥
यत्तेऽभिलषितं किञ्चित्तत्त्वं सर्वमवाप्स्यसि ॥ ३६॥
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ।
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ॥ ३७॥
यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ।
फलमूलामिषं शाकं संस्कृतं यन्महानसे ॥ ३८॥
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ।
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥ ३९॥
वैशम्पायन उवाच ॥
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ।
इमं स्तवं प्रयतमनाः समाधिना पठेदिहान्योऽपि वरं समर्थयन् ॥ ४०॥
तत्तस्य दद्याच्च रबिर्मनीषितं तदाप्नुयाद्यद्यपि तत्सुदुर्लभम् ।
यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ॥ ४१॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते ब्रिद्या पुरुषोऽप्यथवा स्त्रियः ॥ ४२॥
उभे सन्ध्ये जपेन्नित्यं नारी वा पुरुषो यदि ।
आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥ ४३॥
इति श्रीमहाभारतोक्तं युधिष्ठिरविरचितं सूर्यस्तोत्रं सम्पूर्णम् ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com