सूर्यस्तुतिः
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ ज्योतिर्मयाय विद्महे । रश्मिमालाय धीमहि ।
तन्नः सूर्यः प्रचोदयात् ॥
अथ सूर्यस्तुतिः ।
सूर्यनारायणं देवं सर्वलोकप्रकाशकम् ।
ज्योतिर्मयस्वरूपं तं भानिधिं प्रणमाम्यहम् ॥ १॥
श्रीरामपूजितं भानुं तमोराक्षसहारकम् ।
शुद्धसत्त्वप्रबोधं तं भानिधिं प्रणमाम्यहम् ॥ २॥
चक्षुर्दीपप्रकाशं च अन्तश्चक्षुर्विकाशकम् ।
शिराशिरदृढीकारं भानिधिं प्रणमाम्यहम् ॥ ३॥
जीवदं जीवसंरक्षं जीवशक्तिप्रदीपकम् ।
जीवनाधाररश्मिं तं भानिधिं प्रणमाम्यहम् ॥ ४॥
आरोग्याधिपतिं वन्दे व्याध्याधिभयनाशकम् ।
दौर्बल्यापोहनं मित्रं भानिधिं प्रणमाम्यहम् ॥ ५॥
पाटिताज्ञानकूहं तं ज्ञानप्रकाशभास्करम् ।
तेजस्करं सुतेजार्कं भानिधिं प्रणमाम्यहम् ॥ ६॥
सप्ताश्वरथयानं तं सत्त्वश्वेतप्रकाशिनम् ।
सप्तश्लोकप्रसन्नं च भानिधिं प्रणमाम्यहम् ॥ ७॥
हिमसंहतिविद्रावं गङ्गाप्रवाहभासुरम् ।
हिमशेखरसाभासं भानिधिं प्रणमाम्यहम् ॥ ८॥
उषोगाङ्गेयरागाभं सन्ध्यानानाच्छविद्युतिम् ।
ध्यानप्रशान्तिहिम्याष्ट्रं भानिधिं प्रणमाम्यहम् ॥ ९॥
मङ्गलं सूर्यदेवाय आदित्याय सुमङ्गलम् ।
मङ्गलं द्युतिमालाय सारङ्गाय सुमङ्गलम् ॥ १०॥
मयेति कीर्तितादित्य मह्यं देहि निरामयम् ।
मङ्गलायनभाकोश मह्यं देहि सुमङ्गलम् ॥ ११॥
त्यागराजगुरुस्वामिशिष्यापुष्पासुगीतकम् ।
सूर्यनारायणस्तोत्रं आयुरारोग्यदं शुभम् ॥ १२॥
ॐ
शुभमस्तु
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता
सूर्यस्तुतिः गुरौ समर्पिता ।
ॐ
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan