सूर्यस्तोत्रं श्रीयाज्ञवल्क्यकृतम्
॥ श्रीगुरुभ्यो नमः॥
॥ ॐ श्रीमहागणाधिपतये नमः ॥
ॐ नमो भगवते आदित्यायाखिलजगतां आत्मस्वरूपेण कालस्वरूपेण
चतुर्विधभूत-निकायानां ब्रह्मादिस्तम्भ-पर्यन्तानां
अन्तर्हृदयेषु बहिरपि चाकाश इव उपाधिनाऽव्यवधीयमानो
भवानेक एव क्षणलव-निमेषावयवोपचित-संवत्सरगणेन
अपा-मादान-विसर्गाभ्यां इमां लोकयात्रां अनुवहति ॥ १
यदुह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनं अहरहः
आम्नायविधिना उपतिष्ठमानानां अखिल-दुरित-वृजिनबीजावभर्जन
भगवतः समभिधीमहि तपनमण्डलम् ॥ २
य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मन-इन्द्रियासुगणान्
अनात्मनः स्वयमात्मा अन्तर्यामी प्रचोदयति ॥ ३
य एवेमं लोकं अतिकराल-वदनान्धकार-संज्ञा-जगरग्रह-गिलितं
मृतकमिव विचेतनं अवलोक्य अनुकम्पया परमकारुणिकः ईक्षयैव
उत्थाप्य अहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने
प्रवर्तयति अवनिपतिरिव असाधूनां भयमुदीरयन्नटति ॥ ४
परित आशापालैः तत्र तत्र कमलकोशाञ्जलिभिः उपहृतार्हणः ॥ ५
अथह भगवन् तव चरणनलिनयुगलं त्रिभुवनगुरुभिर्वन्दितं
अहं अयातयामयजुःकामः उपसरामीति ॥ ६
एवं स्तुतः स भगवान् वाजिरूपधरो हरिः ।
यजूंष्ययातयामानि मुनयेऽदात् प्रसादितः ॥ ७
॥ इति श्रीमद्भागवते द्वादशस्कन्धे श्रीयाज्ञवल्क्यकृतं
श्रीसूर्यस्तोत्रं सम्पूर्णम् ॥
Note: This Stuti appears in the 12th Skandham (6th Adhyaya)
of Shreemad BhAgavatham. Maharishi Yagnavalkya praised Shree Surya
Bhagavan through this Stuti, to earn his grace and for obtaining the
till-then-unknown Shukla Yajurveda Mantras or AyAta-YAmam, as it is
referred to in Shastras. This Stuti eloquently describes how Surya
Bhagavan single-handedly protects this entire Cosmos by his never-ending
Loka Yatra and the Vedic religion and Bhagavan's unfailing grace to those
who steadfastly follow the Dharma, as laid down in the Vedas/Shastras.
Encoded and proofread by K Kalyanaraman srimatha12@gmail.com