प्रश्नोत्तर मणिरत्नमाला
अपारसंसारसमुद्रमध्ये
निमज्जतो मे शरणं किमस्ति ।
गुरो कृपालो कृपया वदैत-
द्विश्वेशपादाम्बुजदीर्घनौका ॥ १॥
बद्धो हि को यो विषयानुरागी
को वा विमुक्तो विषये विरक्तः । विषयैर्विमुक्तः
को वाऽस्ति घोरो नरकः स्वदेह-
स्तृष्णाक्षयः स्वर्गपदं किमस्ति ॥ २॥
संसारहृत्कस्तु निजात्मबोधः
को मोक्षहेतुः प्रथितः स एव ।
द्वारं किमेकं नरकस्य नारी
का स्वर्गदा प्राणभृतामहिंसा ॥ ३॥
शेते सुखं कस्तु समाधिनिष्ठो
जागर्ति को वा सदसद्विवेकी ।
के शत्रवः सन्ति निजेन्द्रियाणि
तान्येव मित्राणि जितानि कानि ॥ ४॥
को वा दरिद्रो हि विशालतृष्णः
श्रीमांश्च को यस्य समस्ततोषः ।
जीवन्मृतो कस्तु निरुद्यमो यः
कोवाऽमृतः स्यात्सुखदा निराशा ॥ ५॥
पाशो हि को यो ममताभिधानः
संमोहयत्येव सुरेव का स्त्री ।
को वा महान्धो मदनातुरो यो
मृत्युश्च को वापयशः स्वकीयम् ॥ ६॥
को वा गुरुर्यो हि हितोपदेष्टा
शिष्यस्तु को यो गुरु भक्त एव ।
को दीर्घ रोगो भव एव साधो
किमौषधिं तस्य विचार एव ॥ ७॥
किं भूषणाद्भूषणमस्ति शीलं
तीर्थं परं किं स्वमनो विशुद्धम् ।
किमत्र हेयं कनकं च कान्ता
श्राव्यं सदा किं गुरुवेदवाक्यम् ॥ ८॥
के हेतवो ब्रह्मगतेस्तु सन्ति
सत्सङ्गतिर्दानविचारतोषाः । शान्तिविचारतोषाः
के सन्ति सन्तोऽखिलवीतरागाः
अपास्तमोहाः शिवतत्त्वनिष्ठाः ॥ ९॥
को वा ज्वरः प्राणभृतां हि चिन्ता
मूर्खोऽस्ति को यस्तु विवेकहीनः ।
कार्या मया का शिवविष्णुभक्तिः
किं जीवनं दोषविवर्जितं यत् ॥ १०॥
विद्या हि का ब्रह्मगतिप्रदा या
बोधो हि को यस्तु विमुक्ति हेतुः । बोधोऽस्ति
को लाभ आत्मावगमो हि यो वै
जितं जगत्केन मनो हि येन ॥ ११॥
शूरान्महाशूरतमोऽस्ति को वा
मनोजबाणैर्व्यथितो न यस्तु ।
प्राज्ञोऽतिधीरश्च समोऽस्ति को वा
प्राप्तो न मोहं ललनाकटाक्षैः ॥ १२॥
विषाद्विषं किं विषयाः समस्ता
दुःखी सदा को विषयानुरागी ।
धन्योऽस्ति को यस्तु परोपकारी
कः पूजनीयो ननु तत्त्वनिष्ठः ॥ १३॥
सर्वास्ववस्थास्वपि किं न कार्यं
किंवा विधेयं विदुषां प्रयत्नात् ।
स्नेहश्च पापं पठनं च धर्मः
संसारमूलं हि किमस्ति चिन्ता ॥ १४॥
विज्ञान्महाविज्ञतमोऽस्ति को वा
नार्या पिशाच्या न च वञ्चितो यः ।
का शृङ्खला प्राणभृतां च नारी
दिव्यं व्रतं किं च निरस्तदैन्यम् ॥ १५॥
ज्ञातुं न शक्यं हि किमस्ति सर्वै-
र्योषिन्मनो यच्चरितं तदीयम् ।
का दुस्त्यजा सर्वजनैर्दुराशा
विद्याविहीनः पशुरस्ति को वा ॥ १६॥
वासो न सङ्गः सह कैर्विधेयो
मूर्खैश्च नीचैश्च खलैश्च पापैः ।
मुमुक्षुणा किं त्वरितं विधेयं
सत्सङ्गतिर्निर्ममतेश भक्तिः ॥ १७॥
लघुत्वमूलं च किमर्थितैव
गुरुत्वबीजं यदयाचनं किम् ।
जातोऽस्ति को यस्य पुनर्न जन्म
को वाऽमृतो यस्य पुनर्न मृत्युः ॥ १८॥
मूकोऽस्ति को वा बधिरश्च को वा
वक्तुं न युक्तं समये समर्थः ।
तथ्यं सुपथ्यं न शृणोति वाक्यं
विश्वासपात्रं न किमस्ति नारी ॥ १९॥
तत्त्वं किमेकं शिवमद्वितीयं
किमुत्तमं सच्चरितं यदस्ति ।
किं कर्म कृत्वा न च शोचनीयः
कामारिकंसारिसमर्चनाख्यम् ॥ २०॥
शत्रोर्महाशत्रु तमोऽस्ति को वा
कामःसकोपानृतलोभतृष्णः ।
न पूर्यते को विषयैः स एव
किं दुःखमूलं ममताभिधानम् ॥ २१॥
किं मण्डनं साक्षरता मुखस्य
सत्यं च किं भूतहितं तदेव ।
त्यक्त्वा सुखं किं स्त्रियमेव सम्यक्
देयं परं किं त्वभयं सदैव ॥ २२॥
कस्यास्ति नाशे मनसो हि मोक्षः
क्व सर्वथा नास्ति भयं विमुक्तौ ।
शल्यं परं किं निजमूर्खतैव
के के ह्युपास्या गुरुवश्च वृद्धाः ॥ २३॥
उपस्थिते प्राणहरे कृतान्ते
किमाशु कार्यं सुधिया प्रयत्नात् ।
वाक्कायचित्तैः सुखदं यमघ्नं var हृद्बुद्धिचित्तैः
मुरारिपादाम्बुजमेव चिन्त्यम् ॥ २४॥
के दस्यवः सन्ति कुवासनाख्याः
कः शोभते यः सदसि प्रविद्यः ।
मातेव का या सुखदा सुविद्या
किमेधते दान वशात्सुविद्या ॥ २५॥
कुतो हि भीतिः सततं विधेया
लोकापवादाद्भवकाननाच्च ।
को वास्ति बन्धुः पितरौ च कौ वा
विपत्सहायः परिपालकौ यौ ॥ २६॥
बुद्ध्या न बोध्यं परिशिष्यते किं
शिव प्रशान्तं सुख बोध रूपम् ।
ज्ञाते तु कस्मिन् विदितं जगत्स्या-
त्सर्वात्मके ब्रह्मणि पूर्ण रूपे ॥ २७॥
किं दुर्लभं सद्गुरुरस्ति लोके
सत्सङ्गतिर्ब्रह्मविचारणा च ।
त्यागो हि सर्वस्य निजात्मबोधः var शिवात्मबोधः
किं दुर्जयं सर्वजनैर्मनोजः ॥ २८॥
पशोः पशुः को न करोति धर्म
प्राधीतशास्त्रोऽपि न चात्मबोधः ।
किं तद्विषं भाति सुधोपमं स्त्री
के शत्रवो मित्रवदात्मजाद्याः ॥ २९॥
विद्युच्चलं किं धन यौवनायु-
र्दानं परं किं च सुपात्र दत्तम् ।
कण्ठे गतेरप्यसुभिर्न कार्यं
किंवा विधेयं मलिनं शिवार्चा ॥ ३०॥
किं कर्म यत्प्रीतिकरं मुरारेः
क्वास्था न कार्या सततं भवाब्धौ ।
अहर्निशं किं परिचिन्तनीयं
संसारमिथ्यात्वशिवात्मतत्त्वम् ॥ ३१॥
कण्ठं गता वा श्रवणं गता वा
प्रश्नोत्तराख्या मणिरत्नमाला ।
तनोतु मोदं विदुषां प्रयत्नात्
रमेशगौरीशपदौ सुसेव्यौ ॥ ३२॥
इति श्रीमुक्तीन्द्रशङ्करमिश्रविरचिता मणिरत्नमाला समाप्ता ।
Encoded and proofread by Sunder Hattangadi
Thirtytwo Catechetical Verses on Morals and Religion
by Shankaracharya
Maynot be correctly attributed to Shankaracharya