भृगु सूत्रम्

भृगु सूत्रम्

अथ तन्वादिद्वादश भावस्थित रवि फलमाह

तत्रादौ लग्ने रविफलं आरोग्यं भवति ॥ १॥ पित्तप्रकृतिः नेत्ररोगी ॥ २॥ मेधावी सदाचारी वा ॥ ३॥ उष्णो दरवान् ॥ ४॥ मूर्खः पुत्रहीनः ॥ ५॥ तीक्ष्णबुद्धिः ॥ ६॥ अल्पभाषी प्रवासशीलः सुखी ॥ ७॥ स्वोच्चे कीर्तिमान् ॥ ८॥ बलिनिरीक्षिते विद्वान् ॥ ९॥ नीचे प्रतापवान् ॥ १०॥ ज्ञानद्वेषी दरिद्रः अन्धकः ॥ ११॥ शुभदृष्टे न दोषः ॥ १२॥ सिंहे स्वांशे नाथः ॥ १३॥ कुलीरे ज्ञानवान् ॥ १४॥ रोगी बुदबुदाक्षह्ः ॥ १५॥ मकरो हृद्रोगी ॥ १६॥ मीने स्त्रीजनसेवी ॥ १७॥ कन्यायां रवौ कन्याप्रजः दारहीनः कृतघ्नः ॥ १८॥ क्षेत्री शुभयुक्तहः आरोग्यवान् ॥ १९॥ पापयुते शत्रुनीचक्षेत्रे तृतीये वर्षे ज्वरपीडा ॥ २०॥ शुभदृष्टे न दोषः ॥ २१॥ लग्नाद्द्वितीये रविफलं मुखरोगी ॥ २२॥ पञ्चविंशतिवर्षे राजदण्डेन द्रव्यच्छेदः ॥ २३॥ उच्चे स्वक्षेत्रे न दोषः ॥ २४॥ पापयुते नेत्ररोगी ॥ २५॥ स्वल्पविद्वान् रोगी ॥ २६॥ शुभवीक्षिते धनवान् दोषादीन् व्यपहरती ॥ २७॥ नेत्रसौख्यम् ॥ २८॥ स्वोच्चे स्वक्षेत्रे वा बहुधनवान् ॥ २९॥ बुधयुते पवनवाक् ॥ ३०॥ धनाधिपःस्वोच्चे वाग्मी ॥ ३१॥ शास्त्रज्ञः ज्ञानवान् नेत्रसौख्यं राजयोगश्च ॥ ३२॥ लग्नातृतीये रविफलं बुद्धिमान् अनुजरहितः ज्येष्ठनाशः ॥ ३३॥ पञ्चमे वर्षे चतुरष्ट द्वादशवर्षे वा किञ्चित्पीडा ॥ ३४॥ पापयुते क्रूरकर्ता ॥ ३५॥ द्विभ्रातृमान् पराक्रमी ॥ ३६॥ युद्धे शूरश्च ॥ ३७॥ कीर्तिमान् निजधनभोगी ॥ ३८॥ शुभयुते सोदर वृद्धिः ॥ ३९॥ भावाधिपे बलयुते भ्रातृदीर्घायुः ॥ ४०॥ पापयुते पापेक्षणवंशान्नाशः ॥ ४१॥ शुभवीक्षणवशाद्धनवान् भोगी सुखीच ॥ ४२॥ लग्नाच्चतुर्थे रविफलं हीनाङ्गः अहङ्कारी जनविरोधी उष्णदेही मनः पीडावान् ॥ ४३॥ द्वात्रिंशद्वर्षे सर्वकर्मानुकूलवान् ॥ ४४॥ बहुप्रतिष्ठासिद्धिः सत्तापदवी ज्ञानशौर्य सम्पन्नः ॥ ४५॥ धनधान्यहीनः ॥ ४६॥ भावाधिपे बलयुते स्वक्षेत्रत्रिकोणे केन्द्रे लक्षणापेक्षया आन्दोलिकाप्राप्तिः ॥ ४७॥ पापयुते पापविक्षणवशाद्दुष्टस्थाने दुर्वाहनसिद्धिः ॥ ४८॥ क्षेत्रहीनः ॥ ४९॥ परगृह एव वासः ॥ ५०॥ लग्नात्पञ्चमे रविफलं निर्धनः स्थूलदेही सप्तमे वर्षे पित्रारिष्टवान् ॥ ५१॥ मेधावी अल्प पुत्रः बुद्धिमान् ॥ ५२॥ भावाधिपे बलयुते पुत्रसिद्धिः ॥ ५३॥ राहुकेतुयुते सर्पशापात् सुतक्षयः ॥ ५४॥ कुजयुते शत्रुयुते मूलात् ॥ ५५॥ शुभदृष्टयुते न दोषः ॥ ५६॥ सूर्यशरभादिषु भक्तः ॥ ५७॥ बलयुते पुत्रसमृद्धिः ॥ ५८॥ लग्नात्षष्ठे रविफलं अल्पज्ञातिः ॥ ५९॥ शत्रुवृद्धिः धनधान्यसमृद्धिः ॥ ६०॥ विंशतिवर्षे नेत्र वैपरीत्यं भवति ॥ ६१॥ शुभदृष्टयुते न दोषः ॥ ६२॥ अहिकानन पारकृन्मन्त्रसेवी ॥ ६३॥ कीर्तिमान् शोकरोगी महोष्णदेही ॥ ६४॥ शुभयुते भावाधिपे देहारोग्यम् ॥ ६५॥ ज्ञातिशत्रुबाहुल्यम् ॥ ६६॥ भावाधिपे दुर्बले शत्रुनाशः ॥ ६७॥ पितृदुर्बलः ॥ ६८॥ लग्नत्सप्तमे रविफलं विवाहविलम्बनं स्त्रीद्वेषी परदाररतः दारद्वयवान् ॥ ६९॥ पञ्चविंशतिवर्षे देशान्तर प्रवेशः ॥ ७०॥ अभक्ष्य भक्षणः विनोदशीलः दारद्वेषी ॥ ७१॥ नाशान्तबुद्धिः ॥ ७२॥ स्वर्क्षेबलवति एकदारवान् ॥ ७३॥ शत्रुनीचवीक्षिते पापयुते वीक्षणैर्बहुदारवान् ॥ ७४॥ लग्नादष्टमे रविफलं अल्पपुत्रः नेत्ररोगी ॥ ७५॥ दशमे वर्षे शिरोव्रणी ॥ ७६॥ शुभयुतदृष्टे तत्परिहारः ॥ ७७॥ अल्पधनवान् गोमहिष्यादिनाशः ॥ ७८॥ देहे रोगः ॥ ७९॥ ख्यातिमान् ॥ ८०॥ भावाधिपे बलयुते इष्टक्षेत्रवान् ॥ ८१॥ स्वोच्चेस्वक्षेत्रे दीर्घायुः ॥ ८२॥ लग्नान्नवमे रविफलं सूर्यादिदेवताभक्तः ॥ ८३॥ धार्मिकः अल्पभाग्यः पितृद्वेषी सुतदारवान् स्वोच्चे स्वक्षेत्रे तस्य पिता दीर्घायुः ॥ ८४॥ बहुधनवान् तपोध्यानशीलः गुरूदेवताभक्तः ॥ ८५॥ नीचारिपापक्षेत्रे पापैर्युते दृष्टे वा पितृनाशः ॥ ८६॥ शुभयुते वीक्षणवशाद् वा पिता दिर्घायुः ॥ ८७॥ लग्नाद्दशमे रविफलं अष्टादशवर्षे विद्यादिकारेण प्रसिद्धो भवति द्रव्यार्जनसमर्थश्च ॥ ८८॥ दृष्टत्रितः राजप्रियः सत्कर्मरतः राजशूरः ख्यातिमान् ॥ ८९॥ स्वोच्चे स्वक्षेत्रे बल परः ॥ ९०॥ कीर्तिप्रसिद्धिः ॥ ९१॥ तटाकक्षेत्रगोपुरादिब्राह्मण प्रतिष्ठासिद्धिः ॥ ९२॥ पापक्षेत्रे पापयुते पापदृष्टवशात् कर्मविघ्नकरः ॥ ९३॥ दुष्टकृतिः ॥ ९४॥ अनाचारः दुष्कर्मकृत्पापी ॥ ९५॥ लग्नादेकादशे रविफलं बहुधान्यवान् पञ्चविंशतिवर्षे वाहनसिद्धिः ॥ ९६॥ धनवाग्जालद्रव्यार्जनसमर्थः प्रभु ज्वरितभृत्यजनस्नेहः ॥ ९७॥ पापयुते बहुधान्यव्ययः ॥ ९८॥ वाहनहीनः ॥ ९९॥ स्वक्षेत्रे स्वोच्चे अधिकप्राबल्यम् ॥ १००॥ वाहनेशयुते बहुक्षेत्रे वित्ताधिकारः ॥ १०१॥ वाहनयोगेन बहुभाग्यवान् ॥ १०२॥ लग्नाद्द्वादशे रविफलं षट्त्रिंशद्वर्षे गुल्मरोगी ॥ १०३॥ अपात्रव्ययकारी पतितः धनहानिः ॥ १०४॥ गोहत्यादोषकृत् परदेशवासी ॥ १०५॥ भावाधिपे बलयुते वा देवतासिद्धिः ॥ १०६॥ शय्याखट्वङ्गादि सौख्यम् ॥ १०७॥ पापयुते अपात्रव्ययकारी सुखशय्याहीनः ॥ १०८॥ षष्ठेशयुते कुष्ठरोगयुतः शुभदृष्टियुते निवृत्तिः ॥ १०९॥ पापी रोगवृद्धिमान् ॥ ११०॥

अथ तन्वादिद्वादशभावस्थितचन्द्रफलमाह

तत्रादौ लग्ने चन्द्रफलं रूपलावण्ययुक्तश्चपलः व्याधिना जलाच्चसौख्यः ॥ १॥ पञ्चदशवर्षे बहुयात्रावान् ॥ २॥ मेषवृषभकर्कलग्ने चन्द्रेशास्त्र परः ॥ ३॥ धनी सुखी नृपालः मृदुवाक् बुद्धिरहितः मृदुगात्रः बली ॥ ४॥ शुभदृष्टे बलवान् ॥ ५॥ बुद्धिमान् आरोग्यवान् वाग्जालकः धनी ॥ ६॥ लग्नेशे बलरहिते व्याधिमान् ॥ ७॥ शुभदृष्टे आरोग्यवान् ॥ ८॥ लग्नाद्द्वितीये चन्द्रफलं शोभनवान् बहुप्रतापी धनवान अल्पसन्तोषी ॥ ९॥ अष्टादशवर्षे राजद्वरेण सेनाधिपत्योगः ॥ १०॥ पापयुतेविद्याहीनः ॥ ११॥ शुभयुते बहुविद्याधनवान् ॥ १२॥ एकेनैवपूर्णचन्द्रेण सम्पूर्णधनवान् ॥ १३॥ अनेक विद्यावान् ॥ १४॥ लग्नाद्तृतीये चन्द्रफलं भगिनीसामान्यः वातशरीरी अन्नहीनः अल्पभाग्यः ॥ १५॥ चतुर्विंशतिवर्षे भाविरुपेन राजदण्डेन द्रव्यच्छेदः ॥ १६॥ गोमहिष्यादिहीनः ॥ १७॥ पिशुनः मेधावी सहोदर वृद्धि ॥ १८॥ लग्नाच्चतुर्थे चन्द्रफलं राज्याभिषिक्तः अश्ववान् क्षीरसमृद्धिः धनधान्यसमृद्धिः मातृरोगी ॥ १९॥ परस्त्रीस्तनपानकारी ॥ २०॥ मिष्ठान्नसम्पन्नः परस्त्रीलोलः सौख्यवान् ॥ २१॥ पूर्णचन्द्रं स्वक्षेत्रे बलवान् मातृदीर्घायुः क्षीणचन्द्रे पापयुते मातृनाशः ॥ २२॥ वाहनहीनः बलयुते वाहनसिद्धिः ॥ २३॥ भावाधिपे स्वोच्चे अनेकाश्वादिवाहनसिद्धिः ॥ २४॥ लग्नात्पञ्चमे चन्द्रफलं स्त्रीदेवतासिद्धिः भार्यारूपवती ॥ २५॥ क्वचित् कोपवती ॥ २६॥ स्तनमध्येलाञ्छनं भवति ॥ २७॥ चतुष्पादलाभः स्त्रीद्वयं बहुक्षीरलाभः सत्त्वयुतः बहुश्रमोत्पन्नः चिन्तावान् स्त्रीप्रजावान् एकपुत्रवान् ॥ २८॥ स्त्रीदेवतोपासनावान् ॥ २९॥ शुभयुते वीक्षणवशादनुग्रहसमर्थः ॥ ३०॥ पापयुतेक्षणवशान्निग्रहसमर्थः ॥ ३१॥ पूर्णचन्द्रे बलवान् अन्नदानप्रीतिः अनेकबुधप्रसादैश्वर्यसम्पन्नः सत्कर्मकृत् भाग्यसमृद्धिः राजयोगी ज्ञानवान् ॥ ३२॥ लग्नात्षष्ठे चन्द्रफलं अधिकदारिद्र्यदेही ॥ ३३॥ षट्त्रिंशद्वर्षे विधवासङ्गमी तत्र पापयुते हीनपापकरः ॥ ३४॥ राहुकेतुयुते अर्थहीनः ॥ ३५॥ घोरः शत्रुकलहवान् सहोदरहीन अग्निमान्ददिरोगी ॥ ३६॥ तटाककूपादिषु जलादिगण्डः ॥ ३७॥ पापयुते रोगवान् ॥ ३८॥ क्षीणचन्द्रे पुर्णफलानि ॥ ३९॥ शुभयुते बलवान् अरोगी ॥ ४०॥ लग्नात्सप्तमे चन्द्रफलं मृदुभाषी पार्श्वनेत्रः द्वात्रिंशद्वर्षे स्त्रीयुक्तः ॥ ४१॥ स्त्रीलोलः स्त्रीमूलेन ग्रन्थिशस्त्रादिपीडा ॥ ४२॥ राजप्रसादलाभः ॥ ४३॥ भावाधिपे बलयुते स्त्रीद्वयम् ॥ ४४॥ क्षीणचन्द्रे कलत्रनाशः पूर्णचन्द्रे बलयुते स्वोच्चे एकदारवान् ॥ ४५॥ भोगलुब्धः ॥ ४६॥ लग्नादष्टमे चन्द्रफलं अल्पवाहनवान् ॥ ४७॥ तडाकादिषुगण्डः ॥ ४८॥ स्त्रीमूलेनबन्धुजन परित्यागी ॥ ४९॥ स्वर्क्षे स्वोच्चे दीर्घायुः क्षीणे वा मध्यमायुः ॥ ५०॥ लग्नान्नवमे चन्द्रफलं बहुश्रुतवान् पुण्यवान् ॥ ५१॥ तटाकगोपुरादिनिर्माण पुण्यकर्ता ॥ ५२॥ पुत्रभाग्यवान् ॥ ५३॥ पूर्णचन्द्रे बलयुते बहुभाग्यवान् ॥ ५४॥ पितृदीर्घयुः ॥ ५५॥ पापयुते पापक्षेत्रे भाग्यहीनः ॥ ५६॥ नष्टपितृमातृकः ॥ ५७॥ लग्नाद्दशमे चन्द्रफलं विद्यावान् ॥ ५८॥ पापयुते सप्तविंशतिवर्षे विधवासङ्गमेन जनविरोधी ॥ ५९॥ अतिमेधावी ॥ ६०॥ सत्यकर्मनिरतः कीर्तिमान् दयावान् ॥ ६१॥ भावाधिपे बलयुते विशेसत्कर्मसिद्धिः ॥ ६२॥ पापनिरिक्षिते पापयुते वा दुष्कृतिः ॥ ६३॥ कर्मविघ्नकरः ॥ ६४॥ लग्नादेकादशे चन्द्रफलं बहुश्रुतवान् पुत्रवान् उपकारि ॥ ६५॥ पञ्चादशवर्षेपुत्रर्णबहुप्राबल्ययोगः ॥ ६६॥ गुणाढ्यः ॥ ६७॥ भावाधिपे बलहीने बहुधन व्ययः ॥ ६८॥ बलयुते लाभवान् ॥ ६९॥ लाभेचन्द्रे निक्षेपलाभः ॥ ७०॥ शुक्रयुतेन नरवाहन योग ॥ ७१॥ बहुविद्यावान् ॥ ७२॥ क्षेत्रवान् अनेकजनरक्षणभाग्यवान् ॥ ७३॥ लग्नाद्द्वादशे चन्द्रफलं दुर्भोजनः दुष्पात्रव्ययः कोपोद्भवव्यसन समृद्धिमान् स्त्रीयोगयुक्तः अन्न हीनः ॥ ७४॥ शुभयुते विद्वान् दयावान् पापशत्रुयुते- -पापलोकःशुभमित्रयुते श्रेष्ठलोकवान् ॥ ७५॥ अथ तन्वादिद्वादशभावस्थित भौमफलं तत्रादौ लग्ने भौमफलं देहे व्रणं भवति ॥ १॥ दृढगात्रः चौरबुभूषकः बृहन्नाभि रक्तपाणिः क्रूरो बलवान् मूर्खः कोपवान् सभानशौर्य धनवान् चापलवान् चित्तरोगी क्रोधी दुर्जनः ॥ २॥ स्वोच्चे स्वक्षेत्रे आरोग्यं दृढ्गात्रवान् राजसन्मान कीर्तिः ॥ ३॥ दीर्घायुः ॥ ४॥ पापशत्रुयुते अल्पायु ॥ ५॥ स्वल्पपुत्रवान् वातशूलादिरोगः दुर्मुखः ॥ ६॥ स्वोच्चे लग्नर्क्ष धनवान् ॥ ७॥ विद्यावान् नेत्रविलासवान् ॥ ८॥ तत्र पापयुते पापक्षेत्रे पापदृष्टियुते नेत्र रोगः ॥ ९॥ लग्नाद्वितीये भौमफलं विद्याहीनः लाभवान् ॥ १०॥ पष्ठाधिपेनयुतः तिष्ठति चेन्नेत्रवैपरीत्यं भवति ॥ ११॥ शुभदृष्टे परिहारः ॥ १२॥ स्वोच्चे स्वक्षेत्रे विद्यावान् ॥ १३॥ नेत्र विलासः ॥ १४॥ तत्र पापयुतेक्षेत्रे पापदृष्टे नेत्ररोगः ॥ १५॥ लग्नात्तृतीये भौमफलं स्वस्त्री व्यभिचारिणी ॥ १६॥ शुभदृष्टे न दोष अनुजहीनः ॥ १७॥ द्रव्यलाभः ॥ १८॥ राहुकेतुयुते वेश्यासङ्गमः ॥ १९॥ भ्रातृद्वेषी क्लेशयुतः शुभगः ॥ २०॥ अल्पसहोदरः ॥ २१॥ पापयुते पापवीक्षणेन भ्रातृनाशः ॥ २२॥ उच्चस्वक्षेत्रे शुभयुते भ्राता दीर्घायुः धैर्यविक्रमवान् ॥ २३॥ युद्धे शूरः ॥ २४॥ पापयुते मित्रक्षेत्रे धृतिमान् ॥ २५॥ लग्नाच्चतुर्थे भौमफलं ग्रहच्छिद्रम् ॥ २६॥ अष्टमे वर्षे पित्रारिष्टं मातृरोगी ॥ २७॥ सौम्ययुते परगृहवासः ॥ २८॥ निरोगशरीरी क्षेत्रहीनः धनधान्यहीनः जीर्णगृहवासः ॥ २९॥ उच्चे स्वक्षेत्रे शुभयुते मित्रक्षेत्रे वाहनवान् क्षेत्रवान् मातृदीर्घायुः ॥ ३०॥ नीचर्क्षे पापमृत्युयुते मातृनाशः ॥ ३१॥ सौम्ययुते वाहन निष्ठावान् ॥ ३२॥ बन्धुजनद्वेषी स्वदेशपरित्यागी वस्त्रहीनः ॥ ३३॥ लग्नात्पञ्चमे भौमफलं निर्धनः पुत्राभावः दुर्मार्गी राजकोपः ॥ ३४॥ षष्ठवर्षे आयुधेन किञ्चिदण्डकालः ॥ ३५॥ दुर्वासन ज्ञानशीलवान् ॥ ३६॥ मायावादी ॥ ३७॥ तीक्षणधीः ॥ ३८॥ उच्चे स्वक्षेत्रे पुत्रसमृद्धिः अन्नदानप्रियः ॥ ३९॥ राजाधिकारयोगः शत्रुपीडा ॥ ४०॥ पापयुते पापक्षेत्रे पुत्रनाशः ॥ ४१॥ बुद्धि भ्रंशादिरोगः ॥ ४२॥ रन्ध्रेशे पापयुते पापी ॥ ४३॥ वीरः ॥ ४४॥ दत्त पुत्र योगः ॥ ४५॥ लग्नात्षष्ठे भौमफलं प्रसिद्धः ॥ ४६॥ कार्यसमर्थः ॥ ४७॥ शत्रुहन्ता पुत्रवान् सप्तविंशति वर्षे कन्यकाश्वादि युत ऊढवान् ॥ ४८॥ शत्रुक्षयः ॥ ४९॥ पापर्क्षे पापयुते पूर्णफलानि ॥ ५०॥ वातशूलादिरोगः ॥ ५१॥ बुधक्षेत्र युते कुष्ठरोगः ॥ ५२॥ शुभदृष्टे परिहारः ॥ ५३॥ लग्नात्सप्तमे भौमफलं स्वदार पीडा ॥ ५४॥ पापार्ते पापयुतेन च स्वर्क्षे स्वदार हानिः ॥ ५५॥ शुभयुते जीवति पत्यौ स्त्रीनाशः ॥ ५६॥ विदेशपरः ॥ ५७॥ उच्चमित्र स्वक्षेत्र शुभयुते पापक्षेत्रे ईक्षणवशात्कलत्र नाशः ॥ ५८॥ अथवा चोरव्यभिचार मूलेन कलत्रान्तरं दुष्टस्त्रीसङ्गः ॥ ५९॥ भगचुम्बनवान ॥ ६०॥ चतुष्पाद मैथुनवान् मद्यपानाप्रियः ॥ ६१॥ मन्दयुते दृष्टे शिश्नचुम्बन परः ॥ ६२॥ केतुयुते रजस्वला स्त्री सम्भोगी ॥ ६३॥ तत्रशत्रुयुते बहुकलत्र-नाशः ॥ ६४॥ अवीरः अहङ्कारी वा शुभदृष्टे न दोषः ॥ ६५॥ लग्नादष्टमे भौमफलं नेत्ररोगी अर्धायुः पित्रारिष्टं मूत्रकृच्छृरोगः ॥ ६६॥ अल्पपुत्रवान् वातशूलादिरोगः दारसुखयुतः ॥ ६७॥ शुभयुते देहारोग्यं दीर्घायु मुनष्यादि वृद्धिः ॥ ६८॥ पापक्षेत्रे पापयुते ईक्षणवशाद् वातक्षयादिरोगः मुत्रकृच्छृधिक्यं वा ॥ ६९॥ मध्यमायुः ॥ ७०॥ भावाधिपबलयुते पूणोयुः ॥ ७१॥ लग्नान्नवमे भौमफलं पित्रारिष्टम् ॥ ७२॥ भाग्यहीनः ॥ ७३॥ उच्चस्वक्षेत्रे गुरुदारगः ॥ ७४॥ लग्नाद्दशमे भौमफलं जनवल्लभः ॥ ७५॥ भावाधिपे बलयुते भ्राता दीर्घायुः ॥ ७६॥ विशेष भाग्यवान् ध्यानशीलवान् गुरुभक्ति युतः ॥ ७७॥ पापयुते कर्मविघ्नवान् ॥ ७८॥ शुभयुते शुभक्षेत्रे कर्मसिद्धिः ॥ ७९॥ कीर्तिप्रतिष्ठावान् अष्टादशवर्षे द्रव्यार्जन समर्थः ॥ ८०॥ सर्वसमर्थः दृढगात्र चोरबुद्धिः पापयुते पापक्षेत्रे कर्मविघ्नकरः ॥ ८१॥ दुष्कृतिः ॥ ८२॥ भाग्येश कर्मेशयुते महाराजयौवराज्ये पट्टभिषेकवान् ॥ ८३॥ गुरुयुते गजान्तैश्वर्यवान् ॥ ८४॥ भूसमृद्धिमान् ॥ ८५॥ लग्नादेकादशे भौमफलं बहुकृत्यवान् धनी स्वगुणे राशुलाभवान् ॥ ८६॥ क्षेत्रेशयुते राजाधिपत्यवान् ॥ ८७॥ शुभद्वययुते माहाराजाधिपत्ययोगः ॥ ८८॥ भ्रातृवित्तवान् ॥ ८९॥ लग्नाद्द्वादशे भौमफलं द्रव्याभावः वातपित्तदेहः ॥ ९०॥ पापयुते दाम्भिकः ॥ ९१॥

अथ तन्वादि द्वादश भावस्थित बुधफलमाह

तत्रादौ लग्ने बुधफलं विद्यावान् विवाहादिबहुश्रुतवान् ॥ १॥ अनेकदेशे सार्वभौमः मन्त्रवादी पिशाचोच्चाटन समर्थः मृदुभाषी विद्वान् क्षमीदयावान् ॥ २॥ सप्तविंशतिवर्षे तीर्थयात्रायोगः बहुलाभवान् बहुविद्यावान् ॥ ३॥ पापयुते पापक्षेत्रे देहेरोगः पित्तपाण्डुरोगः ॥ ४॥ शुभयुते शुभक्षेत्रे देहारोग्यम् ॥ ५॥ स्वर्णकान्तिदेहः ज्योतिषशास्त्र पठितः अङ्गहीनः सज्जनद्वेषी नेत्ररोगी ॥ ६॥ सप्तदशवर्षे भ्रातृणामन्योन्यकलहः ॥ ७॥ वञ्चकः ॥ ८॥ उच्चस्वक्षेत्रे भ्रातृसौख्यम् ॥ ९॥ श्रेष्ठलोकं गमिष्यति ॥ १०॥ पापयुते पापदृष्टयुते नीचर्क्षे पापलोकं गमिष्यति ॥ ११॥ शय्यासुखवर्जितः क्षुद्रदेवतोपासकः ॥ १२॥ पापमन्दादियुते वामनेत्रे हानिः षष्ठेशयुते नीचेशयुते वा न दोषः ॥ १३॥ अपात्रव्ययवान् ॥ १४॥ पापहा ॥ १५॥ शुभयुते निश्चयेन धनधान्यादिमान् धार्मिक बुद्धिः ॥ १६॥ अस्त्रवित् गणितशास्त्रज्ञः सौख्यवान् तर्कशास्त्रविद्दृढगात्रः ॥ १७॥ लग्नाद्द्वितीये बुधफलं पुत्र समृद्धिः वाचालकः वेदशास्त्रविचक्षणः सङ्कल्पसिद्धया संयुतः धनी गुणाढ्यः सद्गुणी पञ्चदशवर्शे बहुविद्यावान् ॥ १८॥ बहुलाभप्रदः ॥ १९॥ पापयुते पापक्षेत्रे अरिनीचगे विद्याविहीनः ॥ २०॥ क्रूरत्ववान् पवनव्याधिः ॥ २१॥ शुभयुति वीक्षणाद्धनी ॥ २२॥ विद्यावान् ॥ २३॥ गुरुणा युते वीक्षिते वा गणितशास्त्राधिकारेण सम्पन्नः ॥ २४॥ लग्नात्तृतीये बुधफलं भ्रातृमान् बहुसौख्यवान् ॥ २५॥ पञ्चदशवर्षे क्षेत्रपुत्रयुतः ॥ २६॥ धनलाभवान् ॥ २७॥ सद्गुणशाली ॥ २८॥ भावाधिपे बलयुते दीर्घायुः धैर्यवान् ॥ २९॥ भावाधिपे भ्रातृपीडा भीतिमान् ॥ ३०॥ बलयुते भ्राता दीर्घायुः ॥ ३१॥ लग्नाच्चतुर्थे बुधफलं हस्तचापल्यवान् धैर्यवान् विशालाक्षः पितृमातृसौख्ययुतः ॥ ३२॥ ज्ञानवान् सुखी ॥ ३३॥ षोडशवर्षे द्रव्यापहाररूपेण अनेक वाहनवान् ॥ ३४॥ भावाधिपे बलयुते आन्दोलिका प्राप्तिः ॥ ३५॥ राहुकेतुशनियुते वाहनारिष्टवान् ॥ ३६॥ क्षेत्रसुखवर्जितः बन्धुकुलद्वेषी कपटी ॥ ३७॥ लग्नात्पञ्चमे बुधफलं मातुलगण्डः मात्रादिसौख्यम्पुत्र विघ्नमेधावी मधुरभाषी बुद्धिमान् ॥ ३८॥ भावाधिपे पापयुते बलहीने पुत्रनाशः ॥ ३९॥ अपुत्र दत्तपुत्रप्राप्तिः पापकर्मी मन्त्रवादी ॥ ४०॥ लग्नात्षष्ठे बुधफलं राजपूज्यः विद्याविघ्नः दाम्भिकः विवादशूरः ॥ ४१॥ त्रिंशद्वर्षे बहुराजस्नेहो भवति ॥ ४२॥ पत्रादिलेखकः ॥ ४३॥ कुजर्क्षे नीलकुष्ठादिरोगी ॥ ४४॥ शनिराहुयुते केतुयुते वातशूलादिरोगी ज्ञातिशत्रुकलहः ॥ ४५॥ भावाधिपे बलयुते ज्ञातिप्रबलः ॥ ४६॥ अरिनीचर्क्षे ज्ञातिक्षयः ॥ ४७॥ लग्नात्सप्तमे बुधफलं मातृसौख्यं अश्वाद्यारूढो धर्मज्ञः उदारमतिः ॥ ४८॥ दिगन्तविश्रुतिकीर्तिः राजपूज्यः ॥ ४९॥ तत्रशुभयुते चतुर्विंशतिवर्षे आन्दोलिकाप्राप्तिः ॥ ५०॥ कलत्रमतिः ॥ ५१॥ अभक्ष्यभक्षणः ॥ ५२॥ भावेशे बलयुते एकदारवान् ॥ ५३॥ दारेशे दुर्बले पापे पापर्क्षे कुजादियुते कलत्रनाशः ॥ ५४॥ स्त्रीजातके पतिनाशः कलत्रं कुष्ठरोगी ॥ ५५॥ अरूपवत् ॥ ५६॥ लग्नादष्टमे बुधफलं आयुकारकः बहुक्षेत्रवान् ॥ ५७॥ सप्तपुत्रवान् ॥ ५८॥ पञ्चविंशतिवर्षे अनेकप्रतिष्ठासिद्धिः ॥ ५९॥ कीर्तिप्रसिद्धिः ॥ ६०॥ भावाधिपे बलयुतेपूर्णायुः ॥ ६१॥ अरिनीचपापयुते अल्पायुः ॥ ६२॥ अथवा उच्चस्वक्षेत्रे वा शुभयुते पूर्णायुः ॥ ६३॥ लग्नान्नवमे बुधफलं बहुप्रजासिद्धिः ॥ ६४॥ वेदशास्त्रविशारदः सङ्गीत पाठकः दाक्षिण्यवान् धार्मिकः प्रतापवान् बहुलाभवान् पितृ दीर्घायुः ॥ ६५॥ तपोध्यान-शीलवान् ॥ ६६॥ लग्नाद्दशमे बुधफलं सत्कर्मसिद्धिः धैर्यवान् बहुलकीर्तिमान् बहुचितवान् ॥ ६७॥ अष्टाविंशतिवर्षे नेत्ररोगवान् ॥ ६८॥ उच्चस्वक्षेत्रे गुरुयुतेऽग्निष्टोमादि बहुकर्मवान् ॥ ६९॥ अरिपापयुते मूढकर्मविघ्नवान् दुष्कृतिः अनाचारः ॥ ७०॥ लग्नादेकादशे बुधफलं बहुमङ्गलप्रदः ॥ ७१॥ अनेक प्रकारेण धनवान् ॥ ७२॥ एकोनविंशतिवर्षादुपरि क्षेत्रपुत्रधनवान् दयावान् ॥ ७३॥ पापर्क्षे पापयुते हीनमूलेन धनलोपः ॥ ७४॥ उच्चस्वक्षेत्रे शुभमूलेन धनवान् ॥ ७५॥ लग्नाद्द्वदशे बुधफलं ज्ञानवान् ॥ ७६॥ वितरणशाली ॥ ७७॥ पापयुते चञ्चलञ्चित्तः ॥ ७८॥ नृपजनद्वेषी ॥ ७९॥ शुभयुतेन धर्ममूलेन धनव्ययः ॥ ८०॥ विद्याहीनः ॥ ८१॥ अत्र तन्वादिद्वादशभावस्थित गुरूफलमाह तत्रादौ लग्ने गुरुफलं स्वक्षेत्रे शब्दशास्त्राधिकारी ॥ १॥ त्रिवेदी बहुपुत्रवान् सुखी चिरायुः ज्ञानवान् ॥ २॥ उच्चे पुर्णफलानि ॥ ३॥ षोडशवर्षे महाराजयोगः ॥ ४॥ अरिनीचपापानां क्षेत्रे पापयुते वा नीचकर्मवान् ॥ ५॥ मनश्चलत्ववान् मध्यायुः पुत्रहीनः स्वजनपरित्यागी कृतघ्नः गर्विष्ठः बहुजनद्वेषी साञ्चरवान् पापक्लेशभोगी ॥ ६॥ लग्नाद्द्वितीये गुरुफलं धनवान् बुद्धिमान् इष्टभाषी षोडशवर्षे धनधान्यसमृद्धिः बहुप्राबल्यवान् उच्चस्वक्षेत्रे धनुषि द्रव्यमान् ॥ ७॥ पापयुते विद्याविघ्नः ॥ ८॥ चोरवञ्चनवान् दुर्वचनः अनृतप्रियः ॥ ९॥ नीचक्षेत्रे पापयुते मद्यपानी भ्रष्टः ॥ १०॥ कुलनाशकः ॥ ११॥ कलत्रान्तरयुक्तः पुत्रहीनः ॥ १२॥ लग्नात्तृतीये गुरुफलं अतिलुब्धः भ्रातृवृद्धिः दाक्षिण्यवान् सङ्कल्प सिद्धिकरः ॥ १३॥ बन्धुदोषकरः ॥ १४॥ अष्टशत्रिन्द्वर्षे यात्रासिद्धिः ॥ १५॥ भावाधिपे बलयुते भ्रातृदीर्घायुः ॥ १६॥ भावाधिपे पापयुते भ्रातृनाशः ॥ १७॥ धैर्यहीनः जडबुद्धिः दरिद्रः ॥ १८॥ लग्नाच्चतुर्थे गुरुफलं सुखी क्षेत्रवान् बुद्धिमान् क्षीरसमृद्धिः सन्मनाः मेधावी ॥ १९॥ भावाधिपे बलयुते भृगुचन्द्रयुक्ते शुभवर्गेण नरवाहनयोगः ॥ २०॥ बहुक्षेत्रः अश्ववाहनयोगः गृहविस्तरवान् ॥ २१॥ पापयुतः पापिनः दृष्टवशात् क्षेत्रवाहनहीनः ॥ २२॥ परगृहवासः क्षेत्रहीनः मातृनाशः बन्धुद्वेषी ॥ २३॥ लग्नात्पञ्चमे गुरुफलं बुद्धिचातुर्यवान् विशालेक्षणः वाग्मी प्रतापी अन्नदानप्रियः कुलप्रियः अष्टादशवर्षे राजद्वारेण सेनाधिपत्य योगः ॥ २४॥ पुत्रसमृद्धिः ॥ २५॥ भावाधिपे बलयुते पापक्षेत्रे अरिनीचगे पुत्रनाशः ॥ २६॥ एकपुत्रवान् ॥ २७॥ धनवान् ॥ २८॥ राजद्वारे राजमूलेन धनव्ययः ॥ २९॥ राहु-केतुयुते सर्पशापात् सुतक्षयः ॥ ३०॥ शुभदृष्टे परिहारः ॥ ३१॥ लग्नात्षष्ठे गुरुफलं शत्रुक्षयः ज्ञातिवृद्धिः पौत्रादिदर्शनं व्रणशरीरः शुभयुते रोगाभावः ॥ ३२॥ पापयुते पापक्षेत्रे वातशैत्यादिरोगः ॥ ३३॥ मन्दक्षेत्रे राहुयुते महारोगः ॥ ३४॥ लग्नात्सप्तमे गुरुफलं विद्या धनेशः बहुलाभप्रदः चिन्ताधिकः विद्यवान् पातिव्रत्य भक्तियुत कलत्रः ॥ ३५॥ भावाधिपे बलहीने राहुकेतुशनिकुजयुते पापवीक्षणाद्वाकलत्रान्तरम् ॥ ३६॥ शुभयुते उच्चस्वक्षेत्रे एकदारवान् कलत्रद्वारा बहुवित्तवान् सुखी चतुस्त्रिम्शद्वर्षे प्रतिष्ठासिद्धिः ॥ ३७॥ लग्नादष्टमे गुरुफलं अल्पायुः नीचकृत्यकारी ॥ ३८॥ पापयुते पतितः ॥ ३९॥ भावाधिपे शुभयुते रन्ध्रेदीर्घायुः ॥ ४०॥ बलहीने अल्पायुः ॥ ४१॥ पापयुते सप्तदशवर्षादुपरि विधवासङ्गमो भवति ॥ ४२॥ उच्चस्वक्षेत्रे दीर्घायुः बलहीनः अरोगी योगपौरुषः विद्वान् वेदशास्त्रविचक्षणः ॥ ४३॥ लग्नान्नवमे गुरुफलं धार्मिकः ॥ ४४॥ तपस्वी साधुतारूढः धनिकः पञ्चत्रिंशद्यज्ञकर्ता पित्रुदीर्घायुः सत्कर्मसिद्धिः अनेकप्रतिष्ठावान् बहुजनपालकः ॥ ४५॥ लग्नाद्दशमे गुरुफलं धार्मिक शुभकर्मकारी गीतापाठकः योग्यतावान् प्रौढकीर्तिः बहुजनपूज्यः ॥ ४६॥ भावाधिपे बलयुते विशेषक्रतुसिद्धिः ॥ ४७॥ पापयुते पापक्षेत्रे कर्मविघ्नः ॥ ४८॥ दुष्कृतियात्रा लाभहीनः ॥ ४९॥ लग्नादेकादशे गुरुफलं विद्वान् धनवान् बहुलाभवान् द्वात्रिंशद्वर्षे अश्वारूढः ॥ ५०॥ अनेक प्रतिष्ठासिद्धिः ॥ ५१॥ शुभपापयुते गजलाभः ॥ ५२॥ भाग्यवृद्धिः चन्द्रयुते निक्षेपलाभः ॥ ५३॥ लग्नाद्द्वादशे गुरुफलं निर्धनः पठितः अल्पपुत्रः गणितशास्त्रज्ञः सम्भोगी ॥ ५४॥ ग्रन्थिव्रणी अयोग्यः ॥ ५५॥ शुभयुते उच्चस्वक्षेत्रे स्वर्गलोकप्राप्तिः ॥ ५६॥ पापयुते पापलोकप्राप्तिः ॥ ५७॥ धर्ममूलेन धनव्ययः ब्राह्मण स्त्री सम्भोगी गर्भिणी सङ्गमी ॥ ५८॥

अथ तन्वादिद्वादश भावस्थित भृगुफलमाह

तत्रादौ लग्ने भृगुफलं गणितशास्त्रज्ञः ॥ १॥ दीर्घायुः दारप्रियः वस्त्रालङ्कारप्रियः रूपलावण्यप्रियः गुणवान् ॥ २॥ स्त्रीप्रियः धनीविद्वान् ॥ ३॥ शुभयुते अनेक भूषणवान् ॥ ४॥ स्वर्णकान्तिदेहः ॥ ५॥ पापवीक्षितयुते नीचास्तगते चोरवञ्चनवान् ॥ ६॥ वातश्लेष्मादिरोगवान् ॥ ७॥ भावाधिपे राहुयुते बृह द्विद्विजो भवति ॥ ८॥ वाहने शुभयुते गजान्तैश्वर्यवान् ॥ ९॥ स्वक्षेत्रे महाराजयोगः ॥ १०॥ रन्धरे षष्ठाष्ठव्ययाधिपेशुक्रे दुर्बले स्त्रीद्वयम् ॥ ११॥ चञ्चलभाग्यः ॥ १२॥ क्रूरबुद्धिः ॥ १३॥ लग्नाद्द्वितीये भृगुफलं धनवान् कुटुम्बी सुभोजनः विनयवान् ॥ १४॥ नेत्रे विलासधनवान् सुमुखः ॥ १५॥ द्यावान् परोपकारी ॥ १६॥ द्वत्रिंषद्वर्षे उत्तमस्त्रीलाभः ॥ १७॥ भावाधिपे दुर्बलः दुःस्थाने नेत्रवैपरीत्यं भवति ॥ १८॥ शशियुते निशान्धः कुटुम्बहीनो नेत्ररोगी धननाशकरः ॥ १९॥ लग्नात्तृतीये भृगुफलं अतिलुब्धः दाक्षिण्यवान् भ्रातृवृद्धिः सङ्कल्पसिद्धिः पश्चात् सहोदराभावः ॥ २०॥ क्रमेण भ्रातृतत्परः वित्तभोगपरः ॥ २१॥ भावाधिपे बलयुते उच्चस्वक्षेत्रे भ्रातृवृद्धिः दुःस्थाने पापयुते भ्रातृनाशः ॥ २२॥ लग्नाच्चतुर्थे भृगुफलं शोभनवान् बुद्धिमान् भ्रातृसौख्यं सुखी क्षमावान् ॥ २३॥ त्रिंशद्वर्षे अश्ववाहनप्राप्तिः ॥ २४॥ क्षीरसमृद्धिः भावाधिपे बलयुते अश्वान्दोलिकाकनकचतुरङ्गादिवृद्धिः ॥ २५॥ तत्रपापयुते पापक्षेत्रे अरिनीचगे बलहीने क्षेत्रवाहनहीनः ॥ २६॥ मातृक्लेशवान् ॥ २७॥ कलत्रान्तरभोगी ॥ २८॥ लग्नात्पञ्चमे भृगुफलं बुद्धिमान् मन्त्री सेनापतिः ॥ २९॥ मातामही दृश्वा यौवनदार पुत्रवान् ॥ ३०॥ राजसन्मानी मन्त्री सुज्ञः स्त्रीप्रसन्नतावृद्धिः ॥ ३१॥ तत्रपापयुते पापक्षेत्रे अरिनीचगे बुद्धिजाड्ययुतः पुत्राशः ॥ ३२॥ तत्रशुभयुते बुद्धिमान् नीतिमत्पुत्रसिद्धिः वाहनयोगः ॥ ३३॥ लग्नाषष्ठे भृगुफलं ज्ञातिप्रजासिद्धि शत्रुक्षयः पुत्रपौत्रवान् ॥ ३४॥ अपात्रव्ययकारी मायावादी रोगवान् आर्यपुत्रवान् ॥ ३५॥ भावाधिपे बलयुते शत्रुज्ञातिर्द्धिः शत्रुपापयुते नीचस्थे भावेशेन्दुस्थे शत्रुज्ञातिनाशः ॥ ३६॥ लग्नात्सप्तमे भृगुफलं अतिकामुकः मुखचुम्बकः ॥ ३७॥ अर्थवान् परदाररतः वाहनवान् सकलकार्यनिपुणः स्त्रीद्वेषी सत्प्रधान जनबन्धुकलत्रः ॥ ३८॥ पापयुते शत्रुक्षेत्रे अरिनीचगे कलत्रनाशः ॥ ३९॥ विवाहद्वयम् ॥ ४०॥ बहुपापयुते अनेककलत्रान्तर प्राप्तिः ॥ ४१॥ पुत्रहीनः ॥ ४२॥ शुभयुते उच्चे स्वक्षेत्रे तुले कलत्रदेशे बहुवित्तवान् ॥ ४३॥ कलत्रमूलेन बहुप्राबल्ययोगः स्त्रीगोष्ठिः ॥ ४४॥ लग्नादष्टमे भृगुफलं सुखी चतुर्थे वर्षे मातृगण्डः ॥ ४५॥ अर्धायुः रोगीहितदारवान् असन्तुष्टः ॥ ४६॥ शुभक्षेत्रे पुर्णायुः ॥ ४७॥ तत्र पापयुते अल्पायुः ॥ ४८॥ लग्नान्नवमे भृगुफलं धार्मिकः तपस्वी अनुष्ठानपरः ॥ ४९॥ पादेबहूत्तमलक्षणः धर्मी भोगवृद्धिः सुतदारवान् ॥ ५०॥ पितृ दीर्घायुः ॥ ५१॥ तत्र पापयुते पित्ररिष्टवान् ॥ ५२॥ पापयुते पापक्षेत्रे अरिनीचगे धनहानिः ॥ ५३॥ गुरुदारगः ॥ ५४॥ शुभयुते भाग्यवृद्धिः ॥ ५५॥ महाराजयोगः ॥ ५६॥ वाहनकामेशयुते महाभाग्यवान् अश्वान्दोल्यादि वाहनवान् ॥ ५७॥ वस्त्रालङ्कारप्रियः ॥ ५८॥ लग्नाद्दशमे भृगुफलं बहुप्रतापवान् पापयुते कर्मविघ्नकरः गुरुबुधचन्द्रयुते अनेकवाहनारोहणवान् ॥ ५९॥ अनेकऋतुसिद्धिः ॥ ६०॥ दिगन्तविश्रुतकीर्तिः अनेकराजयोगः बहुभाग्यवान् वाचालः ॥ ६१॥ लग्नादेकादशे भृगुफलं विद्वान् बहुधनवान् भूमिलाभवान् दयावान् शुभयुते अनेक वाहनयोगः ॥ ६२॥ पापयुते पापमूलाद्धनलाभः ॥ ६३॥ शुभयुते शुभमुलात् नीचर्क्षे पापरन्ध्रेशादि योगे लाभहीनः ॥ ६४॥ लग्नाद्द्वादशे भृगुफलं बहुलदारिद्र्यवान् ॥ ६५॥ पापयुते विषयलुब्धपरः ॥ ६६॥ शुभयुक्तश्चेत् बहुधनवान् ॥ ६७॥ शय्याखट्वाङ्गादिसौख्यवान् शुभलोकप्राप्तिः पापयुते नरकप्राप्तिः ॥ ६८॥

अथ तन्वादिद्वादश भावस्थित शनिफलमाह

तत्रादौ लग्ने शनिफलं वातपित्तदेहः ॥ १॥ उच्चे पुरग्रामाधिपः धनधान्य समृद्धिः ॥ २॥ स्वर्क्षे पितृधनवान् ॥ ३॥ वाहनेशकर्मेशक्षेत्रे बहुभाग्यम् ॥ ४॥ महाराजयोगः ॥ ५॥ चन्द्रमसा दृष्टे भिक्षुकी वृत्तिः ॥ ६॥ शुभदृष्टे निवृत्तः ॥ ७॥ लग्नाद्द्वितीये शनिफलं द्रव्याभावः दारद्वयम् ॥ ८॥ पापयुते दारवञ्चनामठाधिपः अल्पक्षेत्रवान् नेत्ररोगी ॥ ९॥ लग्नात्तृतीये शनिफलं भ्रातृहानिकारकः ॥ १०॥ अदृष्टः दुर्वृत्तः ॥ ११॥ उच्चस्वक्षेत्रे भ्रातृवृद्धिः ॥ १२॥ तत्रपापयुते भ्रातृद्वेषी ॥ १३॥ लग्नाच्चतुर्थे शनिफलं मातृहानिः द्विमातृवान् ॥ १४॥ सौख्यहानिः निर्धनः ॥ १५॥ उच्चस्वक्षेत्रे न दोषः ॥ १६॥ अश्वादिआन्दोलाद्यवरोही ॥ १७॥ लग्नेशेमन्दे मातृदीर्घयुः ॥ १८॥ सौख्यवान् ॥ १९॥ रन्ध्रेशयुक्ते मात्ररिष्टम् ॥ २०॥ सुखहानिः ॥ २१॥ लग्नात्पञ्चमे शनिफलं पुत्रहीनः अतिदरिद्री दुर्वृत्तः दत्तपुत्री ॥ २२॥ स्वक्षेत्रे स्त्रीप्रजासिद्धिः ॥ २३॥ गुरुदृष्टे स्त्रीद्वयम् ॥ २४॥ तत्र प्रथमाऽपुत्रा द्वितीया पुत्रवती ॥ २५॥ बलयुते मन्दे स्त्रीभिर्युक्तः ॥ २६॥ लग्नात्षष्ठे शनिफलं अल्पज्ञातिः शत्रुक्षयः ॥ २७॥ धनधान्यसमृद्धिः कुजयुते देशान्तर सञ्चारी ॥ २८॥ अल्पराजयोगः ॥ २९॥ भङ्गयोगात्क्वचित्सौख्यक्वचिद्योगभङ्गः ॥ ३०॥ रन्ध्रेशे मन्दे अरिष्टं वातरोगी शूलव्रणदेही ॥ ३१॥ लग्नात्सप्तमे शनिफलं शरीरदोषकरः कृशकलत्रः वेश्यासम्भोगवान् अतिदुखीः उच्चस्वक्षेत्रगते अनेकस्त्रीसम्भोगी ॥ ३२॥ केतुयुते स्त्रीसम्भोगी ॥ ३३॥ कुजयुते शिश्नचुम्बनपरः ॥ ३४॥ शुक्रयुते भगचुम्बनपरः ॥ ३५॥ परस्त्रीसम्भोगी ॥ ३६॥ लग्नादष्टमे शनिफलं त्रिपादायुः दरिद्री शूद्रस्त्रीरतः सेवकः ॥ ३७॥ उच्चस्वक्षेत्रे दीर्घायुः ॥ ३८॥ अरिनीचगे भावाधिपे अल्पायुः ॥ ३९॥ कष्टान्नभोगी ॥ ४०॥ लग्नान्नवमे शनिफलं पतितः जीर्णोद्धारकरः एकोनचत्वारिंशद्वर्षे तटाकगोपुरनिर्माणकर्त्ता ॥ ४१॥ उच्चस्वक्षेत्रे पितृदीर्घायुः ॥ ४२॥ पापयुते दुर्बले पित्ररिष्टवान् ॥ ४३॥ लग्नाद्दशमे शनिफलं पञ्चविंशतिवर्षे गङ्गास्नानी अतिलुब्धः पित्तशरीरी ॥ ४४॥ पापयुते कर्मविघ्नकरः शुभयुते कर्मसिद्धिः ॥ ४५॥ लग्नादेकादशे शनिफलं बहुधनी विघ्नकरः भूमिलाभः राजपूजकः ॥ ४६॥ उच्चे स्वक्षेत्रे वा विद्वान् ॥ ४७॥ महाभाग्ययोगः बहुधनी वाहनयोगः ॥ ४८॥ लग्नाद्द्वादशे शनिफलं पतितः विकलाङ्गः ॥ ४९॥ पापयुते नेत्रच्छेदः ॥ ५०॥ शुभयुते सुखी सुनेत्रः पुण्यलोकप्राप्तिः ॥ ५१॥ पापयुते नरक प्राप्तिः ॥ ५२॥ अपात्रव्ययकारी निर्धनः ॥ ५३॥

अथ तन्वादिद्वादश भावस्थित राहुकेत्वोः फलमाह

तत्रादौ लग्ने राहुकेत्वोः फलं मृतप्रसूतिः ॥ १॥ मेषवृषभकर्कराशिस्थे द्यावान् ॥ २॥ बहुभोगी ॥ ३॥ अशुभे दृष्टे मुखलाञ्छनी ॥ ४॥ लग्नाद्द्वितीये राहुकेत्वोः फलं निर्धनः देहव्याधिः पुत्रशोकः श्यामवर्णः ॥ ५॥ पापयुते चुबुके लाञ्छनम् ॥ ६॥ लग्नात्तृतीये राहुकेत्वोः फलं तिलनिष्पावमुद्रकोद्रवसमृद्धिवान् ॥ ७॥ शुभयुते कण्ठलाञ्छनम् ॥ ८॥ लग्नाच्चतुर्थे राहुकेतुफलं बहुभूषणसमृद्धिः जायाद्वयं सेवकः मातृक्लेशः पापयुते निश्चयेन ॥ ९॥ शुभयुतदृष्टे न दोषः ॥ १०॥ लग्नात्पञ्चमे राहुकेत्वोः फलं पुत्राभावः सर्पशापात् सुतक्षयः ॥ ११॥ नाग प्रतिष्ठया पुत्रप्राप्तिः ॥ १२॥ पवनव्याधिः दुर्मार्गी राजकोपः दुष्टग्रामवासी ॥ १३॥ लग्नात्षष्ठे राहुकेत्वोः फलं धीरवान् अतिसुखी ॥ १४॥ इन्दुयुते राजस्त्रीभोगी ॥ १५॥ निर्धनः चोरः ॥ १६॥ लग्नात्सप्तमे राहुकेत्वोः फलं दारद्वयं तन्मध्ये प्रथमस्त्रीनाशः द्वितिये कलत्रे गुल्मव्याधिः ॥ १७॥ पापयुते गण्डोत्पत्तिः ॥ १८॥ शुभयुते गण्डनिवृत्तिः ॥ १९॥ नियमेन दारद्वयम् ॥ २०॥ शुभयुते एकमेव ॥ २१॥ लग्नादष्टमे राहुकेत्वोः फलं अतिरोगी द्वत्रिंशद्वर्षायुष्मान ॥ २२॥ शुभयुते पञ्चचत्वारिंशद्वर्षे भावाधिपे बलयुते स्वोच्चे षष्टिवर्षाणिवा जीवितम् ॥ २३॥ लग्नान्नवमे राहुकेत्वोः फलं पुत्रहीनः शूद्रस्त्रीसम्भोगी सेवकः धर्महीनः ॥ २४॥ लग्नाद्दशमे राहुकेत्वोः फलं वितन्तुसङ्गमः ॥ २५॥ दुर्ग्रामवासः ॥ २६॥ शुभयुते न दोषः ॥ २७॥ काव्यव्यसनः ॥ २८॥ लग्नादेकादशे राहुकेत्वोः फलं पुत्रैः समृध्दः ॥ २९॥ धनधान्य समृध्दः ॥ ३०॥ लग्नाद्द्वादशे राहुकेत्वोः फलं अल्पपुत्रः ॥ ३१॥ नेत्ररोगी पापगतिः ॥ ३२॥ इति भृगुसूत्राणि समाप्ता । Encoded by Radu Canahai clradu at yahoo.com Proofread by Radu Canahai, Pradeep Date
% Text title            : bhRigu sUtram
% File name             : bhrigusUtram.itx
% itxtitle              : bhRigusUtram
% engtitle              : bhRigu sUtram
% Category              : sUtra, sociology_astrology, jyotisha
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Author                : bhRigu muni
% Language              : Sanskrit
% Subject               : Jyotish
% Transliterated by     : Radu Canahai clradu at yahoo.com
% Proofread by          : Radu Canahai, Pradeep Date
% Indexextra            : (Scan)
% Latest update         : July 6, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org