॥ जातकपारिजातः ॥

Edition CHAUKHAMBHA SANSKRIT SANSTHAN Publishers and Distributors of Oriental Cultural Literature Varanasi (India) श्री दैवज्ञ वैद्यनाथ जातकपारिजातः अथ राशिशिलाध्यायः ॥ १॥ अथ ग्रहनामस्वरूपगुणभेदाध्शाशः ॥ २॥ अथ वियोनिजन्माद्यध्यायः ॥ ३॥ अथारिष्टाध्यायः ॥ ४॥ अथ आयुर्दायाध्यायः ॥ ५॥ अथ जातकभङ्गाध्यायः ॥ ६॥ अथ राजयोगाध्यायः ॥ ७॥ अथ द्व्यादिग्रहयोगाध्यायः ॥ ८॥ अथ मान्द्यब्दादिफलाध्यायः ॥ ९॥ अथाष्टकवर्गाध्यायः ॥ १०॥ अथ प्रथमद्वितीयभावफलाध्यायः ॥ ११॥ अथ तृतीयचतुर्थभावफलाध्यायः ॥ १२॥ अथ पङ्चमषष्ठभावफलाध्यायः ॥ १३॥ अथ सप्तमाष्टमनवमभावफलध्यायः ॥ १४॥ अथ दशमैकादशद्वादशभावफलाध्यायः ॥ १५॥ अथ स्त्रीजातकाध्यायः ॥ १६॥ अथ कालचक्रदशाध्यायः ॥ १७॥ अथ दशापहलाध्यायः ॥ १८॥ अथ ग्रन्थोपसंहारः । अथ राशिशिलाध्यायः ॥ १॥ श्रीकान्ताजशिवस्वरूपममरज्योतिर्गणस्वामिनं मायातीतमशेषजीवजगतामीशं दिनेशं रविम् । नत्वा गर्गपराशरादिरचिंतम् सण्गृह्य होराफलं वक्ष्ये जातलपारिजातमखिलज्योतिर्विदां प्रीतये ॥ १॥ भारद्वाजकुलोद्भवस्य विदुषः श्रीज्यक्कटाद्रेरिह । ज्योतिःशास्त्रविशारदस्य तनयः श्रीवैद्यनाथा सुधीः । होरासारसुधारसज्ञविबुधश्रेणीमनःप्रीतये । राशीश्थाननिरूपणादि सकलं वक्ष्ये यथाऽनुक्रमन् ॥ २॥ प्रणम्य वन्दारुजनाभिवन्द्यपदारविन्दं रधुनायकस्य । सङ्गृह्य सारावलिमुख्यतन्त्रं करोम्यहं जातकपारिजातम् ॥ ३॥ अथ राशीनां संज्ञविशेषाः । मेषाजः विश्वकृयतुम्बुराद्या वृषाभगाताबुरुगोकुलानि । द्वन्द्वं नृयुग्मां जितुमं यमं च युगं तृतीयं मिथुनं वदन्ति ॥ ४॥ कुलीरकर्कटककक्र्कटाख्याः कण्ठीरवः सिंहमृगेन्द्रलेयाः । पात्र्होनकन्यारमणीतरुण्यस्तौली वणिक्जूकतुलाघटाश्च ॥ ५॥ अल्यष्टमं वृश्चिककुर्पिकीटाः धन्वी धनुश्चापशराशनानि । मृगो मृगास्यो मकरश्च नक्रः कुम्भो घटस्तोयघराभिधानः ॥ ६॥ मीनान्त्यमत्स्यपृथुरोमभवा वदन्ति दस्त्रादिकर्क्षनवपादयुताः क्रियाद्याः । चक्रस्थिता दिविचरा दिननाथसंख्याः क्षेत्रर्क्षराशिभवनानि भसंज्ञितानि ॥ ७॥ कालात्मकस्य च शिरोमुखदेशवक्षोहृत्कृक्षिभागकटिबस्तिरहस्यदेशाः । उरू च जानुयुगलं परतस्तु जङ्गे पादद्वयं क्रियमुखावयवाः क्रमेण ॥ ८॥ अथ मीनादीनां स्वरूपवर्णनम् । ज्यत्यस्तोभयपुच्छमस्तकयुतौ मीनौ सकुम्भो नर- स्थौली चापधरस्तुरङ्गजधनो नक्रो मृगास्थो भवेत् । वीणाढ्यं सगदं नृयुग्ममबला नौस्था ससस्यानला शेषाः स्वस्वगुणाभिधानसदृशाः सर्वे स्वदेशाश्रयाः ॥ ९॥ अथ मेषादीनां स्थानवर्णनम् । मेषस्य धातुकररत्नधरातलं स्यात् उक्ष्णस्तु सातुकृषिगोकुलकाननानि । द्यूतकृयारतिविहारमही युगस्य वापीतटाकपुलिनानि कुलीरराशेः ॥ १०॥ कण्ट्ःईरवस्य धनशैलगुहावनानि षष्ठस्य शाद्वलवधूरतिशिल्पभूमिः । सर्वार्थसारपुरपण्यमही तुलायाः कीतस्य चाश्मविधकीटबिलप्रदेशाः ॥ ११॥ चापस्य वाजिरथवारणवासभूमिः एणाननस्य सरिदम्बुवनप्रदेशाः । कुम्भस्य तोयघटभाण्डगृहस्थलानि मीनाधिवाससरिदम्बुधितोयराशिः ॥ १२॥ अथ मेषादीनां स्वरूपविशेषादिवर्णनम् । ह्वस्वा गोऽजघटाः समा मृगयुक्चापान्त्यकर्कटकाः । दीर्घा वृश्किककन्यकाहरितुला मेषादिपुंयोषितौ । प्रागादिक्रियगोनृयुक्कटकभान्येतानि कोणान्विता- न्याहुः क्रूरशुभौ चरस्थिरतरद्वन्द्वानि तानि क्रमात् ॥ १३॥ दीर्योपेता निशि वृषनृयुक्कर्किचापाजनक्राः हित्वा युग्मं भवनमपरे पृष्टपूर्वोदयाश्च । शेषाः शीर्दीदयदिनबलाः श्रेष्ठता राशयस्ते मीनाकारद्वयमुभयतः काललग्नं समेति ॥ १४॥ अथ मीनादीनां सलिलादिसंज्ञाविशेषाः । मीनालिकर्कटमृगाः सलिलाभिनास्तोयाश्रया घटवधुयुगगोपसंज्ञाः । निस्तोयभूतलचराः क्रियचापतौलिकण्ठीरवाश्च बहवः प्रवदन्ति सन्तः ॥ १५॥ अथ भावविशेषसम्बन्धाम्मेषादीनां चतुष्पदादिसज्ज्ञापूर्वक्ं बलित्वकथनम् । चापापरार्धहरिगोमकरादिमेषा मानस्थिता बलयुताश्च चतुष्पदाख्याः । कन्यानृयुग्मघटटाऊळीशारषाणड्य लग्नान्विता यदि नरा द्विपदा बलाढ्याः ॥ १६॥ मृगापरार्द्धान्त्यकुलीरसंज्ञा जलाभिधाना बलिनश्चतुर्थे । जलाश्रयो वृश्चिकनामधेयः स सप्तमस्थानगतो बली स्यात् ॥ १७॥ केन्द्रं गतोऽहि द्विपदो बलाढ्यः चतुष्पदाः केन्द्रगता रजन्याम् । कीटास्तु सर्वे यदि कण्टकस्थाः सन्धिद्वये वीर्ययुता भवन्ति ॥ १८॥ अथ राशीनां घातु-मूल जीवसज्ज्ञाः । घातुर्मूलं जीवमित्वाहुरार्या मेषादीनामोजयुग्मे तथैव । स्वर्णाद्वातुर्मृत्तिकान्तं तृणान्तं वृक्षान्मूलं जीवकूटः स जीवः ॥ १९॥ अथ मेषादीनां विप्रत्वादिनरूपणाम् । मीनालिवृषभा विप्राश्चापाजहरयो नृपाः । कुम्भयुग्मतुला वैश्याः शूद्राः स्त्रीमृगकर्कटाः ॥ २०॥ अथ मेषादीनां कालविशेषे अन्धत्वादिनिरूपणम् । सदा निशान्धाः क्रियगोमृगेशा मध्यन्दिने कर्कटयुग्मकन्ताः । पूर्वाह्वकाले बधिरौ तुलाली धन्वी मृगाख्यश्च तथाऽपराहे ॥ २१॥ मृगान्नश्चापघरश्च पङ्गू सन्धिद्वये नाशकरौ भवेताम् । स्यादृक्षसन्धिः कटकालिमीनभान्तं प्रगण्ढान्तमिति प्रसिद्धम् ॥ २२॥ अथ मेषादीनां वर्णविशेषः । रक्तगौरशुककान्तिपाटलाः पाण्डुइत्ररुचिनीलकाङ्चनाः । पिङ्गलः शबलबभ्रुपाण्डुरास्तुम्बुरादिभवनेषु कलिताः ॥ २३॥ अथ मेषादीनां बलाबलफलम् । वस्त्राद्यं शालिमुख्यं, वनफलनिचयः, कन्दली मुख्यधान्यम्, स्वक्सारं, मुद्गपूर्वं, तिलवसनमुखं, त्विक्षुलोहादिकं च । शस्त्रावं, काङ्चनाद्यं जलजनिकुसुमं, तोयजातं समस्तम्, द्रव्याण्याहुः क्रियादिष्वबलयुतेष्वल्पताधिक्यभाङ्जि ॥ २४॥ अथ राशिस्वामिनिरूपणम् । धराजशुक्रज्ञशशिनसौम्यसितारजीवार्कजमन्दजीवाः । क्रमेण मेषादिषु राशिनाथस्तदंशपाश्चेति वदन्ति सन्तः ॥ २५॥ अथ सूर्यादीनां त्रिकोणराश्यादिवर्णनम् । मूलत्रिकोणा हरिताबुरुक्रिया वधूधनुस्तौलिघटा दिवाकरत् । सितासिताकर्कङ्गिरसां नखांशकास्त्रिकोणमादौ परतः स्वमन्दिरम् ॥ २६॥ वृषादिभागत्रयमुच्चमिन्दोर्मूलत्रिकोणं परतस्तु सर्वम् । मेषादिगा द्वादशभागसंज्ञाः कुजस्य कोणं परतः स्वभं स्यात् ॥ २७॥ कन्यार्द्धमुच्चं, शशिजस्य लोणं दशांशकाः स्वर्क्षफलं शरांशाः । कुम्भस्त्रिकोणं, फणिनायकस्य तुङ्गं नृयुग्मं, रमणी गृहं स्यात् ॥ २८॥ अथ सूर्यादीनामुच्चनीचराशिनिरूपणपूर्वकमत्युच्चनोचभागनिरूपणम् । मेषो वृषो मकरषष्ठकुलीरमीनाः तौली च तुङ्गभवनानि तदस्तनीचाः । नित्याङ्गनाहरिमणामनुसारनीरसण्ख्या दिवाकरसुखादतितुङ्गभागाः ॥ २९॥ अथ दशवर्गीनिरूपणं तस्वामिनिरूपणङ्च । लग्नं होरा दृकाणं स्वरनवदशकद्वादशांशा कलांशाः त्रिंशत्षष्ट्यंशकाख्या व्ययदुरितचयश्रिकरा मानवानाम् । होरा राश्यर्धमोजे इनकरशशिनोरिन्दुमार्तण्ढोरे (2) युग्मे राशौ, दृगाणा निजतनयतपःस्थानपानां भवन्ति ॥ ३०॥ (3) लग्नादिसप्तमांशेशास्त्वोजे राशौ यथाक्रमम् । युग्मे लग्ने स्वरांशानामधिपाः सप्तमादयः ॥ ३१॥ (4) चापाजसिंहराशीनां नवांशास्तुम्बुरादयः । वृषक्नयामृगाणां च मृगाद्या नव कीर्तिताः ॥ ३२॥ नृयुक्तुलाघटानां च तुलाद्याश्चांशका नव । कर्किवृश्चिकमीनानां कर्कटाद्या नवांशकाः ॥ ३३॥ चरे चाद्यंशको ज्ञेयः, स्थिरे मध्यनवांशकः । अन्त्यांशको द्विस्वभावे वर्गोत्तम इति स्मृतः ॥ ३४॥ (5) लग्नादिदशमांशेशात्वोजे, युग्मे शुभादिकाः (6) द्वादशांशाधिपतयस्तत्तद्रासिवशानुगाः ॥ ३५॥ (7) ओजे कलांशप्रभुखास्तदीशा विरङ्चिशौरीशदिवाकराश्च । युग्मे विलग्ने सति भास्कराद्या विलोमतः षोडशभागनाथाः ॥ ३६॥ (8) अथ दयवर्गजाताः संज्ञावियेषाः । मूलत्रिकोणस्वगृहोच्चभागवर्गोत्तमानां दयवर्गजानम् । संबोगजातोत्तमनामपूर्वा वैशेषिकांशा इति ते वदन्ति ॥ ४४॥ उत्तमं तु त्रिवर्गैक्यं चातुर्वर्गन्तु गोपुरम् । वर्गपङ्चकसंयोगं सिंहासनमिहोच्यते ॥ ४५॥ वर्गह्वयं पारिजातं षड्णां पारावतांशकः । सप्तमं देवलोकः स्यादष्टमं च तथा भवेत् ॥ ४६॥ ऐरवतम् तु नवकं फलं तेषां पृथक् पृथक् ॥ १/२॥ अथषद्वर्गाः सप्तवर्गश्चा । विलग्नहोराद्रेष्काणनवांशद्वादशांशकाः ॥ ४७॥ त्रिंशांशकश्च षड्वर्गः शुभकर्मसु शस्यते । सप्तांशयुक्तः षड्वर्गः सप्तवर्गोऽभिधीयते ॥ ४८॥ जातकेषु च सर्वेषु ग्रहाणां बलकारणम् ॥ १/२॥ अथ भावानां नामानि । कल्पोदयाद्यतनुजन्मविलग्नहोरा वागर्थभुक्तिन्यनस्वकुटुम्बभानि । दुश्चिक्यविक्रमसहोदरवीर्यधैर्यकर्णास्तृतीयभवनस्य भवन्ति संज्ञाः ॥ ४९॥ पातालवृद्धिहिबुकक्षितिमातृविद्यायानाम्बुगेहसुखबन्धुचतुष्टयानि । धीदेवराजपितृनन्दनपङ्चकानि रोगांगशस्त्रभयषष्ठारिपुक्षतानि ॥ ५०॥ जामित्रकामगमनानि कलत्रसम्पद्द्यूनास्तसप्तमगृहाणि वदन्ति चार्याः । रन्ध्रायुरष्टणमृत्युविनाशनानि धर्मो गुरुः शुभतपोनवभाग्यमानि ॥ ५१॥ व्यापारमेषूर्णमध्यमानं ज्ञानं च राजास्पदकर्मसंज्ञाः । एकादशोपान्त्यभवायलाभा रिःफव्ययद्वादशकान्त्यभाति ॥ ५२॥ अथ भावानां केन्द्रादिसंज्ञाः । मेषूरणोदयकलत्ररसातलानि स्युः केन्द्रकण्टकचतुष्टयसंज्ञितानि । लग्नात्रिकोणभवनं च स्यादित्रिकोणमुदयान्नव्मं वदन्ति ॥ ५३॥ तनुसुखमदनाज्ञा राशयः केन्द्रसंज्ञाउ पणफरभवनानि स्वायपुत्राष्टमानि । व्ययरिपुगुरुदुश्चिक्यानि चापोक्लिमानि प्रभ्वति चतुरस्रं मृत्युबन्धुद्वयं च ॥ ५४॥ दुश्चिक्यायारिमानान्युपचयभवनान्याहुराहुराचार्यमुख्याः शेषाः पीडर्क्षसंज्ञा नवधनजलधीकामरन्ध्रान्त्यहोराः । एते भावास्तदीशेन्दुजसितगुरुभिः संयुता वीक्षिता वा नान्यैर्युक्ता न दृष्टा यदि शुभफलदा जन्मतः पृच्छतो वा ॥ ५५॥ अथ राशीनामुदयमानानि । नखा जिना विंशतिरष्टयुक्ता रदाङ्गलोका वियदर्णवाख्याः । मेषादिभानं क्रमशो वदन्ति तुलादिषत्कस्य विलोमतस्ते ॥ ५६॥ अथ राशीनां शुभाशुभभागाः । तनुः शरा रारिखराः किरीटिनो धना गुरुर्हेयनखा नरा नुकाः । शशाङ्कभागा यदि तुम्बुरादिके मुहूर्तजन्मादिषु मृत्युसूचकाः ॥ ५७॥ पुत्रो वतुर्दिव्यजनाधिको धनी विराटयो गोत्रवयो धिको धुनाः । मेषादिके पुष्करभागसंज्ञका मुहुर्तजन्मादिषु शोभनप्रदाः ॥ ५८॥ अथ मेषादिराशीनां वासदेशाः । क्रमात्पाटलकर्नातचरचोलवसुन्ध्राः । पाण्ड्यकेरलकोल्लासमलयावनिसैन्धवाः ॥ ५९॥ उदक्पङ्चालयवनकोशलक्षितिसंज्ञकाः । मेषादिसर्वराशीनां वासदेशाः प्रकीर्तिताः ॥ ६०॥ अथ राशीनां ष्लवस्वनिरूपणम् । स्वाम्याशाख्यं यत्तदापप्लवस्वं भानुक्रान्तादम्बुसंज्ञोऽभिजित्स्यात् । होरातन्त्रे पारिजाताभिधाने संज्ञाध्यायः कीर्तितो राशिशीलः ॥ ६१॥ इति श्रीनवग्रहकृपया वैद्याथविरचिते जातकपारिजाते राशिशीलाध्यायः प्रथमः ॥ १॥
अथ ग्रहनामस्वरूपगुणभेदाध्शाशः ॥ २॥ तत्रादौ सूर्यादीनां कालात्मत्वादिनिरूपणम् । कालस्यात्मा भास्कतश्चित्तमिन्दुः सत्वं भौमः स्याद्वचश्चन्द्रसूनुः । देवाचार्यः सौख्यविज्ञानसारः कामः शुक्रे दुखभेवार्कसूनुः ॥ १॥ अथ र्व्यादीनां राजत्वादिनिरूपणं दिनेशचन्द्रौ राजानौ सचिवौ जीवभार्गवौ । कुमारे वित् कुजो नेता प्रेष्यस्तपननन्दनः ॥ २॥ अथ सूर्यदीनां नामान्तराणि । द्देलिः सूर्यस्तपनदिनकृद्भानुपूषारुणार्काः सोमः शीतद्युतिरुडुपतिग्लैर्मृगाङ्केन्दुचन्द्राः । आरो वक्रक्षितिजरुधिराङ्गारक्कूरनेत्राः सौम्यस्तारातनयबुधविद्वोधनाश्चेन्दुपुत्रः ॥ ३॥ मन्त्री वाचस्पतिगुरुसुराचार्यदेवेज्यजीवाः शुक्रः काव्यः सितभृगुसुताच्छास्फुजिद्दानवेज्याः । छायासूनुस्तरणितनयः कोणशन्यर्किमन्दाः राहुः सर्पासुरफणितमः सैहिकेयागवश्च ॥ ४॥ ध्वजः शिखी केतुरिति प्रसिद्धा वदन्ति तज्ज्ञा गुलिकश्च मान्दिः ॥ ४ १/२॥ अथरव्यादीनामुपग्रहाः । उप्रग्रहा भानुसुखग्ररांशाः कालादयः कष्टफलप्रदाः सुय्ः ॥ ५॥ क्रमशः कालपरिधिधूमार्द्धप्रहराह्वयाः । यमकण्टककोदण्डमान्दिपातोपकेतवः ॥ ६॥ अथ रव्यदीनां स्वरूपम् । भानुः शामललोहितद्युतितनुश्चन्द्रः सिताङ्गो युवा दूर्वाश्यमलकान्तिरिन्दुतनयः, संरक्तगौरः कुजः । मन्त्री गौरकलेवरः:, केतुर्विचित्रद्युति ॥ ७॥ अथ ग्रहाणां शुभाशुभत्वानिरूपणम् । प्रकाशकौ शीतकरप्रभाकरौ, ताराग्रहाः पङ्च धरासुतादयः । तमः स्वरूपौ शिखिसिंहिकासुतौ, शुभाः शशिज्ञामरवन्द्यभार्गवाः ॥ ८॥ क्षीणेन्दुमन्दरविराद्दुशिखिक्षमाजाः पापास्तु पापयुतचन्द्रसुतश्च पापः । तेयामतीच शुभदौ गुरुदानवेज्यौ, क्रूरौ दिवाकरसुतक्षितिजौ भवेताम् ॥ ९॥ शुक्लादिरात्रिदशकेऽहनि मध्यवीर्यशाली द्वितीयदशकेऽतिशुभप्रदोऽसौ । चन्द्रस्तृटीयदशके बलवर्जितस्तु सौम्येक्षणादिसहितो यदि शोभनः स्यात् ॥ १०॥ अथ रव्यादिनामुदयप्रकारः । रव्यारराहुमन्दाश्च पृष्टेनोद्यन्ति सर्वदा । शरिसा शुक्रचन्द्रज्ञा जीवस्तूभयतो व्रजेत् ॥ ११॥ अथ रव्यादीनामाकारविशेषाः । दिवाकरज्ञौ विहगस्वरूपौ सरीसृपाकारयुतः शशाङ्कः । पुरन्दरार्चायसितौ द्विपादौ चतुष्पदौ भानुसुतक्षमाजौ ॥ १२॥ अथ रव्यादीनां सङ्चारदेशाः । जलाशयु चन्द्रसुरारिवन्द्यौ बुधालयग्नामचरौ गुरुज्ञौ । कुजाहिमन्दध्वजवासरेशा भवन्ति शैलाटविसङ्चरन्तः ॥ १३॥ अथ रव्यादीनां बाल्यादिवयोनिरूपणम् । बालो धराजः कुमारकस्त्रिंशद्गुरुः षोडशवत्सरः सितः । पङ्चाशदर्को विधुरब्दसप्ततिः शताब्दसङ्ख्याः शनिराहुकेतवः ॥ १४॥ अथ ग्रहाणां शास्त्राधिपत्यनिरूपणं धातुमूलासिसंज्ञाश्च । शाखाधिपा जीवसितारबोधना धानुस्वरूपद्युचरौ कुजारुणौ । मूलप्रधानौ तुहिनाकरार्कजौ जीवौ सितार्थौ तु विमिश्र इन्दुजः ॥ १५॥ अथ ग्रहाणामवस्थेयत्ता । दीप्तः प्रमुदितः स्वस्थः शान्तः शक्तः प्रपीडितः । दीनः खलस्तु विकलो भीतोऽवस्था दश क्रमात् ॥ १६॥ अथ स्थानविशेषादवस्थाविशेषाः । स्वोच्चत्रिकोणोपगतः प्रदीप्तः स्वस्थः स्वहेगे मुदितः सुहृद्भे । शान्तस्तु सौम्यग्रहवर्गयातः शक्तोऽतिशुद्दः स्फुटरश्मिजालैः ॥ १७॥ ग्रहाभिभूतस्त्वतिपीडितः स्यादरातिराश्यंशगतोऽतिदीनः । खलस्तु पापग्रहवर्गयोगान्नी वेऽतिभीतो विकलोऽस्तयातः ॥ १८॥ अथ ग्रहणां वर्णविशेषाः । वर्णास्ताम्रसितारक्तहरितापीतकर्बुराः । कृष्णकान्तिरिनादीणां नष्टादौ च प्रकीर्तिताः ॥ १९॥ अथ रव्यादीनां द्रव्याणि अधिदेवताश्च । द्रव्याणि ताम्रमणिकाङ्चनशुक्तिरौष्यमुक्तान्ययश्च दिननाथमुखग्र्हाणाम् । वह्निअम्बुषण्मुखहरीन्द्रशचीविरङ्चिमुख्या दिवाकरमुखादधिदेवताः स्युः ॥ २०॥ अथ रव्यादीनां रत्नानि । माणिक्यं दिननायकस्य, विमलं मुक्ताफलं शीतगोः माहेयस्य च विद्रुमं मरकटं सौम्यस्य गारुत्मकम् । देवेज्यस्य च पुष्परागमसुराचार्यस्य गारुत्मकम् नीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥ २१॥ अथ ग्रहाणां वस्त्रादिनिरूपणम् । स्यूलाम्बरं नृतनचारुचेलं कृशानुतोयाहतम्ध्यमानि । दृढांशुकं जीर्णमिनादिकानां वस्त्राणि सर्वे मुनयो वदन्ति ॥ २२॥ प्रागादिका भानुसितारराहुमन्देन्दुविद्देवपुगोहिताः स्युः । शुक्रारचन्द्रज्ञौरेज्यमन्दा वसन्तमुख्यर्त्वधिपा दृगाणैः ॥ २३॥ देवतोयतटवह्निविहाराः कोशगेदृशयनोत्करदेशाः । भानुपूर्वनिलयाः परिकल्प्या वेश्मकोणनिलयावहिकेनू ॥ २४॥ अथ पर्देशविभाग इनाहीनाम् । लङ्कादीकृष्णासरिदन्तमारः सितस्ततो गौतभिकान्तभूमिः । विन्ध्यान्तमार्यः सुरनिग्नगान्तं बुधः शनिः स्यात्तुहिनाचकान्तः ॥ २५॥ अथ ग्रहाणां जातयो गुणाश्च । विप्रौ जीबसितौ दिनेशरुधिरौ भूपालकौ वैश्यराड् इन्दुः शूद्रकुलाधिपः शशिसुतो मन्दोऽवराणां पतिः । आदित्यामरमन्त्रिशीतकिरणाः सत्त्वप्रधानग्रहाः शुक्रज्ञौ सरजोगुणौ शनिधरापुत्रौ तमःस्वामिनौ ॥ २६॥ अथ ग्रहाणां नरादिसंज्ञा महाभूताधिपत्यश्च । नराकारा भानुक्षितिजगुरवः शुक्रशशिनौ वधूरूपौ षण्ढप्रकृतिपुरुषौ मन्दशशिजौ । वियत्क्षोणीतेजपवनपयसामेव पतयः सुराचार्यज्ञारधुमणिसुतदेवारिसचिवाः ॥ २७॥ अथ ग्रहाणां कक्षाक्रम । कक्षायां क्रमओ दिनेशतयाज्ज्योतिर्भचक्राश्रिताः छायासुनुगुरुक्षमाजदिनकृच्छुकेन्दुपुत्रेन्दवः ॥ २७ १/२॥ अथ सुर्यादीनां धतुविशेषादि । भज्जास्नायुवसाऽस्थिशुक्ररुधिरत्वग्धातुनाथा क्रमाद् । आरार्किज्यदिनेशशुक्रशशभृत्तारासुताः कीर्तिताः ॥ २८॥ लवणकटुकपायस्वादुतिक्ताम्लमिश्राः शशिरविशनिजीवारासुरेज्यज्ञनाथाः । अयनदिवसपक्षर्त्वब्दमासक्षणेशा रविकुजसितसौम्या मन्दजीवेन्दवश्च ॥ २९॥ अथ रव्यादीनां स्थानविशेषे दृष्टयः ॥ पादेक्षणं भवति सोदरमानराश्योरर्धं त्रिकोणयुगलेऽखिलखेचराणाम् । पादोनदृष्तिनचयश्चतुरस्त्रयुग्मे सम्पूर्णदृग्बलम्नङ्गगृहे वदन्ति ॥ ३०॥ अथ रव्यादीनां दृष्टिविशेषे बलित्वम् । शनिरतिबलशाली पाददृग्वीर्ययोगे सुरकुलपतिमन्त्री कोणदृष्टौ सुभः स्यात् । त्रितयचरणदृष्टया भूकुमारः समर्थः सकलगगनवासाः सप्तमे दृग्बलाढ्याः ॥ ३१॥ अथ ग्रहाणामृध्वार्दिदृष्टयः । अथोर्वदृष्टी दिननाथभौमौ दृष्टिः कटाक्षेण कवीन्दुसून्वोः । शशाङ्कगुर्वोः गमभागदृष्टिरधोऽक्षिपानस्त्यदिनाथशन्योः ॥ ३२॥ अथ ग्रहाणां स्थानबलम् । स्वोच्चत्रिकोणस्वसुहृद्दृगाणराश्यंशवैशेषिकवर्गवन्तः । आरोहवीर्याधिकविन्दुकास्ते खेचारिणः स्थानबलाधिकाः स्युः ॥ ३३॥ नीचारिपापस्वगयोगनिरीक्ष्यमाणास्तद्वर्गसन्धिलघुबिन्दुदुरंशकाश्च । आदित्यरश्मिपरिभूतपराजितास्ते दृष्टयादिशक्त्यसहिताश्च न शोभनाः स्युः ॥ ३४॥ अथ ग्रहाणां दिग्बलम् । विलग्नपातालबधूनभोगा बुधामरेज्यौ भृगुसूनुचन्द्रौ । मन्दो धरासूनुदिवाकरौ चेत् क्रमेण ते दिग्बलशालिनः स्युः ॥ ३५॥ अथ कालबलम् । निशीन्दुमन्दावनिजाः परेऽहनि स्वकीयहोरासममासवासराः । सितादिपक्षद्वयगाः शुभाशुभा बुधः सदा कालजवीर्यशालिनः ॥ ३६॥ अथ चेष्टाबलम् । जैत्रा व्क्रसमागमोपगसितज्ञारामरेज्यासिताः, दिव्याशायनगेन्दुतिग्मकिरणौ चेष्टाबलांशाधिकाः ॥ ३६ १/२॥ अथ ग्रहानां निसर्गबलम् । सौम्यक्षेपयुता महीसुतभुस्वा(खा)श्चेष्टाबलाढ्याः क्रमान् नैसर्गस्य बलाधिकाः शनिकुजज्ञाचार्यशुक्रेन्द्वनाः ॥ ३७॥ क्रमेण दृक्स्थाननिसर्गचेष्टादिक्कालवीर्याणि च षड्बलानि । सुधाकरेष्विन्दुशरेन्दुशैलभेदानि तानि प्रवदन्ति सन्तः ॥ ३८॥ स्वरूपषष्ट्यंशविषष्टिकांशा मृगादिवीर्योपगषड्बलाढ्याः । क्रमेण तद्योगभवं बलं हि पूर्ण त्रिपदं दलं वा ॥ ३९॥ अथ बलप्रमाणम् । अर्धाधिकं षट्कमिनस्य सूरेः शुक्रस्य पङ्चाधिकमर्धरूपम् । सप्तेन्दुपुत्रस्य बलं षडिन्दोः सौरारयोः सायकरूपसंख्या ॥ ४०॥ अथ ग्रहाणां तात्कालिक-मैत्रीविनारः । अन्योन्यतः सोदरलाभमानपातालवित्तव्ययराशिसंस्थाः । तत्कालमित्राणि स्वगा भवन्ति तदन्ययाता यदि शत्रवस्ते ॥ ४१॥ अथ सूर्यादीनां नैसर्गिकाः शत्रुमित्रोदासीनाः । मित्राणि भानोः कुजचन्द्रजीवाः शत्रू सितार्की शशिजः समानः । चन्द्रस्य मित्रे दिननायकज्ञे समा गुरुक्ष्माजसितासिताः स्युः ॥ ४२॥ आरस्य मित्राणि रवीन्दुजीवाश्चान्द्री रिपुः शुक्रशनी समानौ । सूर्यासुरेज्यौ बुधस्य समाः शनीज्यावनिजास्त्वरीण्दुः ॥ ४३॥ सूर्यारचन्द्राः सुहृदस्तु सूरेः शत्रू सितज्ञौ रविजः समानः । मित्रे शनिज्ञौ भृगुन्दनस्येन्द्वनावरी जीवकुजौ समानौ ॥ ४४॥ मन्दस्य सूर्येन्दुकुजाश्च शत्रवः समः सुरेज्यः सुहृदौ सितेन्दुजौ ॥ १/२॥ LOST PAGE LOST PAGE LOST PAGE अथ सूर्यादिभ्यः फलविशेषचिन्ता । सूर्यादात्मपितृप्रभावनिरुजाशक्तिश्रियश्चिन्तयेत् चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः । सत्त्वं रोगगुणानुजावनिसुतज्ञातीर्धरासूनुना विद्याबन्धुविवेकमातुलसुहृत्त्वक्कर्मकृद्धोधनः ॥ ४९॥ प्र्ज्ञानित्यशरीरपुष्टितनयज्ञानानि वागीश्वरात् पत्नीवाहनभूषणनि मदनव्यआपारसौम्ख्यं भृगोः । आयुर्जीवनमृत्युकारणविपत्सम्पत्प्रदाता शनिः सर्पेणैव पितामहं तु शिखिना मातामहं चिन्तयेत् ॥ ५०॥ अथ ग्रहाणां भावकारकत्वम् । द्युमणिरमरमन्त्री भूसुतः सोमसौम्यौ गुरुरिनतनयारौ भार्गवो भानुपुत्रः । दिनकरदिविजेज्यौ जीवभानुज्ञमन्दाः सुरगुरुरिनसूनुः कारकाः स्युर्विलग्नात् ॥ ५१॥ अथ ग्रहाणां स्थाननविशेषे शुभाशुभप्रदता । कामावनीनन्दनराशियाताः सितेन्दुपुत्रामरवन्द्यमानाः । अरिष्ट्दास्तेऽखिलजातकेषु सदाऽष्टमस्थः शनिरिष्टदः स्यात् ॥ ५२॥ अथ सूर्यादीनां स्वरूपाणि । प्रतापशाली चतुरस्रदेहः श्यामारुणाङ्गो मधुपिङ्गलाक्षः । पित्तात्मकः स्वल्पकचाभिरामो देवाकरः सत्त्वगुणप्रधानः ॥ ५३॥ सङ्जारशीलो मृदुवाग्विवेकी शुभेक्षणश्चारुतरस्थिराङ्गः । सदैव धीमांस्थनुवृत्तकायः कफानिलात्मा च सुधाकरः स्यात् ॥ ५४॥ क्रूरेक्षणस्तरूणमूर्त्तिरुदारशीलः पित्तात्मकः सुचपलः कृशमध्यदेशः । संरक्तगौररुचिरावयवः प्रतापी कामी तमोगुणरतस्तु धराकुमारः ॥ ५५॥ दूर्वादलद्युतितनुः स्फुटवाक् कृशाङ्गः स्वामी रजोगुणवतामतिहास्यलोलः । हानिप्रियो विपुलपित्तकफानिलात्मा सद्यः प्रतापविभवः शशिजश्च विद्वान् ॥ ५६॥ बृहदुदरशरीरः पीतवर्णः कफात्मा सकलगुणसमेतः सर्वशास्त्राधिकारी । कपिलरुचिकचाक्षः सात्त्विकोऽतिव धीमान् अलधुनृपतिचिह्नः श्रीधरो देवमन्त्री ॥ ५७॥ असितकुटिलकेशः श्यामसौन्दर्यशाली समततरुचिराङ्गः सौम्यदृक् कामशीलः । अतिपवनकफात्मा राजसः श्रीनिधानः सुखबलसुगुणानामाकरश्चासुरेज्यः ॥ ५८॥ काठीन्यरोमावयवः कृशात्मा दूर्वासिताङ्गः कफमारुतात्मा । पीनद्विजश्चारुपिशङ्गदृष्टिः सौरिस्तमो बुद्धिरतोऽलसः स्यात् ॥ ५९॥ इतरयोगे ग्रहाणां वृद्धिमत्ता । अर्केण मन्दः, शनिना महिसुतः, कुजेन जीवो गुरुणा निशाकरः । सोमेन शुक्रोऽसुरमन्त्रिणा बुधो बुधेन चन्द्रः खलु वर्द्धते सदा ॥ ६०॥ अथ ग्रहाणां स्थानबलविशेषः । स्वोच्चस्वकीयभवनस्वदृगाणद्दोरावारांशकोदगयनेषु दिन्स्य मध्ये । राशिप्रवेशसमये सुहृदंशकादौ मेषूरणे दिनमणिर्बलवानजस्रम् ॥ ६१॥ चन्द्रः कर्किणि गोपतौ निजदिनद्रेक्काणहोरांशके राश्यन्ते शुभवीक्षणे निशि सुखे याम्यायने वीर्यवान् । इन्दुः सर्वकलाधरो यदि बली सर्वत्र सन्धि विना सर्वव्योमचरेक्षितस्तु कुरुते भूपालयोगं नृणाम् ॥ ६२॥ आरः स्ववारनवभागदृगाणवर्गे मीनालिकन्भमृगसुन्बुरुयामिनीषु । वक्रे च याम्यदिशे राशिमुखे बलाढ्यो मीने कुलिरभवने च ददाति ॥ ६३॥ अन्यानृयुग्मभवने निजवारवर्गे चापे विना रविमहुर्निशमिन्दुसूनुः । सौम्यायने च बलवानपि राशिमध्ये लग्ने सदा यदि यशोबलवृद्धिदः स्यात् ॥ ६४॥ मीनालिचापकटके निजवर्गवारे मध्यन्दिनोदगयने यदि राशिमध्ये । कुम्भे च नीचभवनेऽपि बली सुरेज्यो लग्ने सुखे च दशमे बहुवित्तदः स्यात् ॥ ६५॥ स्वोच्चस्ववर्गदिवसे यदि राशिमध्ये शत्रुव्ययानुजगृहे हिबुकेऽपराह्ण । युद्धे च शीतकरसङ्गमवक्रचारे शुकोऽरुणस्य पुरतो यदि शोभनः स्यात् ॥ ६६॥ मन्दस्तुलामकरकुम्भगृहे कलत्रे याम्यायने निजदृगाणदिने दशायाम् । अन्ते गृहस्य समरे कृष्णपक्षे वक्रः समस्तभवनेषु बलाधिकः स्यात् ॥ ६७॥ मेषालिकुम्भतरुणिवृषकर्कटेषु मेषूरणे च बलवानुरगाधिपः यात् । कन्यावसानवृषचापधरे निशायामुत्पातकेतुजनने च शिखी बली स्यात् ॥ ६८॥ प्रोक्तप्रकारप्रबलान्विता ये मूलं विबला भवन्ति । भावेषु योगेषु दशाकलषु न सम्यगुक्तानि फलानि सन्ति ॥ ६९॥ अथ ग्रहाणामधिमुखत्वादि । अधोमुखा दिनेशस्य पूर्वषट्कस्थिता ग्रहाः । अपरार्द्धस्थिताः भानोरूर्ध्वास्याः सुखवित्तदाः ॥ ७०॥ भानामवस्थानगताः क्रमेण मदार्यभौमार्किसितज्ञचन्द्राः । तेषामधःस्थानगतो बलीयान् राहुर्भहीमण्डलमूर्धि संस्थः ॥ ७१॥ स्थानविशेषे स्थितिक्रमविशेषे च ग्रहाणां विफलता । सभानुरिन्धुः शशिजश्चतुर्थे गुरुः सुते भूमिसुतः कुतुम्बे । भृगुः सपत्ने रविजः कलत्रे विलग्नतस्ते विफला भवन्ति ॥ ७२॥ अथ दोषापहरणम् । राहुदोषम्बुधो हन्यादुभयोस्तु शनैश्चरः । त्रयाणां भूमिजो हन्ति चतुर्णा दानवार्चितः ॥ ७३॥ पङ्चानां देवमन्त्री च षण्णां दोषं तु चन्द्रमाः । सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे ॥ ७४॥ अथ ग्रहाणां पीडाकरणप्रकारः । सदाऽग्निरोगज्वरवृद्धिदीपनक्षयातिसागदिकरोगसङ्कुलम् । नृपालदेवावनिदेवकिङ्करैः करोति चित्तव्यसनं देवाकरः ॥ ७५॥ पाण्डुदोषजलदोषकामलापीनसादिरमणीकृतामयैः । कालिकासुरसुवासिनीगणैराकुलं च कुरुते तु चन्द्रमाः ॥ ७६॥ पीनबीजकफशास्त्रपावकग्रन्थिरुग्व्रणदरिद्रजामयैः । वीरशैवगणभैरवादिभिर्भीतिमाशु कुरुते धरासुतः ॥ ७७॥ गुह्योदरादृश्यसमीरकुष्ठमन्दाग्निशूलग्रहणीरुगाद्यैः । बुधादिविष्णुप्रियदासभूतैरतीव दुःखं शशिजः करोति ॥ ७८॥ आचार्यदेवगुरुभूसुरशापदोषैः शोकं च गुल्मरुजमिन्द्रगुरुः करोति । अन्ताविकारजनिमेहरुजा सुराद्यैः स्वेष्टाङ्गनाजनकृतैर्भयमासुरेज्यः ॥ ७९॥ दारिद्यदोषनिजकर्मपिशाचचौरेः क्लेशं करोति रविजः सह सन्धिरोगैः । कण्डूमसूरिरोपुकृत्रिमकर्मरोगैः स्वाचारहीनलघुजातिगणैश्च केतुः ॥ ८०॥ करोत्यपस्मारमसूरिरज्जूक्षुद्दृक्कृमिप्रेतपिशाचभूतैः । उद्वन्घनेनारुचिकुष्ठरोगैर्विधुन्तुदश्चातिभयं नराणाम् ॥ ४१॥ अथ राशौ ग्रहफलपरिपाककालः । आद्यन्तमध्यभवनोपगता नभोगाश्चादित्यभूमितनयौ शनिशीतरश्मी । जीवासुरेन्द्रसचिवौ फलदाःक्रमेण तारासुतः सकलकालफलप्रदः स्यात् ॥ ४२॥ अथ धातुजरोगे धातुनाथोपासना । यद्धातुकोपजनिताखिलरोगशान्त्यै तन्नाथमाशु उपतर्पणहोमदानैः । सम्पूज्य रोगभयशोकविमुक्तचित्ताः सर्वे नराः सुखयशोबलशालिनः स्युः ॥ ४३॥ अथ ग्रहाणां बाल्याद्यवस्थानिरूपणम् । बालः कुमारोऽथ युवा च वृद्धो मृतश्च राशावयुजि क्रमेण । त्रिंशल्जवैर्ष्यत्ययतः समे स्युरेकैकशोऽशाः पुनरेव कार्याः ॥ ८४॥ अथ जाग्रदाद्यावस्थाः । उच्चांशे स्वनवांशे च जागरूकं वदन्ति हि । सुहृन्नवांशकं स्वप्नं सुप्तं नाचारिभांशकम् ॥ ८५॥ अथ ग्रहाणां फलदानकालः । शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् । पृष्ठोदयस्थः पाकान्ते सदा चोभयराशिगः ॥ ८६॥ समस्तहोराफलसारसान्द्रविराजिते जातकपारिजाते । ग्रहक्रियारूपगुणप्रभेदः सङ्कीर्र्तितः खेटकृपाकटाक्षात् ॥ ८७॥ इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते ग्रहनामस्वरूपगुणमेदाध्यायः ॥ २॥
अथ वियोनिजन्माद्यध्यायः ॥ ३॥ क्रूरग्रहैः सुबलिभिर्विबलैश्च सौम्यैः चतुष्टयगतेत दवेक्षणाद्वा । चन्द्रोपगद्विरसमागसमानरूपं सत्त्वं वदेद्यादि भवेत्स वियोनिसंज्ञः ॥ १॥ पापा बलिनः स्वभागगाः पारक्ये विबलाश्च शोभनाः । लग्नं च वियोनिसंज्ञकं दृष्टाऽत्रापि वियोनिमादिशेत् ॥ २॥ क्रियः शिरो वक्त्रगलो वृषोऽन्ये पादांसकं पृष्ठोमुरोऽथ पार्श्वे । कुक्षिस्त्वपानोऽघ्न्यथ मेद्रभुष्कौ स्फिक्पुच्छमित्याह चतुष्पदाङ्गे ॥ ३॥ लग्नांशकाद्ग्रहयोगेक्षणाद्वा वर्णान् वदेद्बलयुक्ताद् वियोनौ । दृष्टया समानान् प्रवदेत्तु संख्यां रेखां वदेत्स्मरसंस्थैश्च पृष्ठे ॥ ४॥ देहाम्बुगौ सुखाङ्गेशौ वतुष्पाज्जननं भवेत् । देहेशे सुखपे वाऽहिकेतुयुक्ते पशोर्जनिः ॥ ५॥ अथ ग्रहविशेषक्षणादिना पशुविशेषजनिः । श्क्रेक्षिते गोजननं महिष्यार्कियुतेक्षिते । राहुकेतुयुक्ते मेषः पापाढ्येऽन्यपशोजनिः ॥ ६॥ अथ स्थलाम्बुजनियोगकरी ग्रहस्थितिः । खगे दृकणे बलसंयुतेन वा ग्रहेण युक्ते चरभांशकोदये । बुधांशके वा विहगाः स्थलाम्बुजाः शनैश्चरेन्द्वीक्षणयोगसंभवाः ॥ ७॥ होरेन्दुसूरिरविभिर्विबलैस्तरूणां तेयस्थले तरुभुर्वोऽशकृतः प्रभेदः । लग्नाद्ग्रहः स्थलजलर्क्षपतिस्तु यावांस्तावन्त एव तरवः स्थलतोयजाताः ॥ ८॥ अथ रव्यादीनां वृक्षविशेषजनिकारणता । अन्तःसारान् जनयति रविर्दुर्भुगान् सूर्यसूनुः क्षीरोपेतांस्तुहिनकिरणः कण्टकाढ्यांश्च भौमः । वागीशज्ञौ सफलविफलान् पुष्पवृक्षांश्च शुक्रः स्निग्धानिन्दुः कटुकविटपान् भूमिपुत्रस्तु भूयः ॥ ९॥ शुभोऽशुभर्क्षे रुचिरं कुभूमिजं करोति वृक्षं विपरीतमन्यथा । परांशके थावति विच्युतः स्वकाद् भवन्ति तुल्यास्तरवस्तथाविधाः ॥ १०॥ अथ निषेकधिधिः । कुजेन्दुहेतु प्रतिमासमार्तवं गते तु पीडर्क्षमनुष्णदीधितौ । अतोऽन्यथास्थे शुभपुङ्ग्रहेक्षिते नरेण संयोगमुपैति कामिनी ॥ ११॥ यथाऽस्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुनप्रयोगः ॥ असद्ग्रहालोकितसंयुतेऽस्ते सरोष इष्टैः सविलामहासः ॥ १२॥ रवीन्दुशुक्रावनिजैः स्वभावगैः गुरौ त्रिकोणोदयसंस्थितेऽपि। वा । भवत्यपत्यं हि विबीजिनागिने करा हिमांशोर्विदृशामिवाफलाः ॥ १३॥ दिवाकरेन्द्वोः स्मरगौ कुजर्कजौ गदप्रदौ पुङ्गलयोषितोस्तदा । व्ययस्वगौ मृत्युकरौ युतौ तथा तदेकदृष्त्या मरणाय कल्पितौ ॥ १४॥ विवाऽर्कशुक्रौ पितृमातृसंज्ञितौ शनैश्चरेन्दू निशि तद्विपर्ययात् । पितृव्यमातृष्वसृसंज्ञितौ च तावथौजयुग्मर्क्षगतौ तयोः शुभौ ॥ १५॥ शीतज्योतिषि ज्योषितोऽनुपचयस्थाने कुजेनेक्षिते । जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् । दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निवेकं पुमान् । अत्याज्ये च समूलभे शुभगुणे पर्वादिकालोज्भिते ॥ १६॥ अथ स्त्रीणामृतुकालपरिमाणम् । विभावरीषोडश भामिनीनामृतुद्रमाद्या ऋतुकालमाहुः । नाद्याश्चतस्रोऽत्र निशेकयोग्याः पराश्च युग्माः सुतदाः प्रशस्ताः ॥ १७॥ अथ तुर्यादिरात्रिषु निषेके सताने विशेषः । पुत्रोऽल्पायुदारिका वंशकर्ता बन्ह्या पुत्रः सुन्दरीशो विरूपा । श्रीमान् पापा धर्मशीलस्तथा श्रीःसर्वज्ञः स्यातुर्यरात्रात् क्रमेण ॥ १८॥ अथ सुतादियोगकरी ग्रहस्थितिः । अष्टमाष्टमगे सूर्ये निषेकर्क्षात्सुतोद्भवाः । अथवाऽधानलग्नात्तु त्रिकोणस्थे दिनेश्वरे ॥ १९॥ अस्मिन्नाधनलग्ने तु शुभदृष्टियुतेऽथवा । दीर्घायुर्भाग्यवान् जातः सर्वविद्यान्नमेष्यति ॥ २०॥ ओजर्क्षे पुरुषांशकेषु बलिभिर्लग्नार्कगुर्विन्दुभिः पुङ्जन्म प्रवदेत्समांशकगतैर्युग्मेषु तयोर्षितः । गुर्वर्कौ विषमे नरं शशिसितौ वक्रश्च युग्मे स्त्रियम् द्व्याङ्गस्था बुधवीक्षणाच्च यमलौ कुर्वन्ति पक्षे स्वके ॥ २१॥ विहाय लग्नं विषमर्क्षसंस्थः सौरोऽपि पुंजन्मकरो विलग्नात् । प्रोक्तग्रहाणावलोक्य वीर्यं वाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥ २२॥ अथ क्रीयत्वकरा योगाः । अन्योन्यं यदि पश्यतः शशिरवी यद्यार्किसौम्यावपि वक्रो वा समगं दिनेशमसमे चन्द्रोदयौ चेत्स्थितौ । युग्मौजर्क्षगतावपिन्दुशशिजौ भूम्यात्मजेनेक्षितौ पुंभागे सितलग्नशीतकिरणाः षट् क्लीबयोगस्त्विमे ॥ २३॥ अथ थमलादिजनिकरा योगाः । युग्मे चन्द्रसितौ तथौजभवने स्युर्ज्ञारजीवोदयाः लग्नेन्दू नृनरीक्षितौ च समगौ युग्मेषु वा प्राणिनः । कुर्युस्ते मिथुनं गृहोदयगतान्द्व्यंगांशकान्पश्यति स्वांशे ज्ञे त्रितयं ज्ञगांशकवशाद्युग्मं त्वमिश्चैः समम् ॥ २४॥ अथ व्यदिकजननयोगः । धनुर्धरस्यान्त्यगते विलग्ने ग्रहैस्तदंशोपगतैर्बलिष्टैः । ज्ञेनार्किणा वीर्ययुतेन दृष्टे सन्ति।प्रभूता आपि कोशसंस्थाः ॥ २५॥ द्विशरीरांशसंयुक्तान् ग्रहान् लग्नं च पश्यति । कन्यांशकगतश्चान्दिर्गर्भस्थं त्रितयं वदेत् ॥ २६॥ युग्मांशकस्तु कन्यैका द्वौ पुमांसौ च गर्भजाः । युग्मांशगान्विलग्नं च गर्भस्थाः पुरुषास्त्रयः ॥ २७॥ कन्यायुग्मांशकोपेतांस्तय्हा युग्मांशगो बुधः । कन्यानवांशकः सौम्यस्तिस्त्रो गर्भगताङ्गनाः ॥ २८॥ द्विस्वभावगतार्कगुरू बुधनिरीक्षितौ । पुंयुग्मं कुरुतस्तद्वत् शशिशुक्रमहीसुताः ॥ २९॥ कुर्वन्ति स्त्रीयुगं तत्र बलाबलविशेषतः ॥ २९ १/२॥ स्त्रीनपुंसकदश्चान्द्रिः पुंनपुंसक्दोऽर्कजः ॥ ३०॥ निषेककाले चन्द्रार्कावन्योन्यं यदि पश्यतः । तथैव चन्द्रमन्दौ वा क्लीबजन्मप्रदौ तथा ॥ ३१॥ निषेके भ्रातृलग्नेशयोगे यमलसम्भवः । लग्नेशे भ्रातृपक्षस्थे स्वोच्चे वा यमलोद्भवः ॥ ३२॥ षष्ठेशो देहसम्बन्धी बुधः षष्ठगतो यदि । बुधक्षेत्रे च यस्य स स्त्रीनपुंसकः ॥ ३३॥ बुधस्थानेन शनिना पुंनपुंसकता भवेत् ॥ १/२॥ निषेकलग्नेशतृतीयनाथौ लग्नस्थितौ चेद्यमलोद्भवः स्यात् ॥ १/२॥ अथ पादजातस्वप्रदौ योगौ । तृतीनाथेन युते निषेके भोगीशयुक्ते यदि पादजातः ॥ ३४॥ राहूदये लग्ननाथे कर्मस्थे पादपूर्वजः ॥ १/२॥ अथ सर्पवेष्टितदेहयदा योगाः । सराहौ रन्ध्रपे लग्ने जातः स्यात् सर्पवेष्टितः ॥ ३५॥ रन्ध्रेश्वरे पापयुते विलग्ने जातो नगोर्वेष्टिदेहवान्स्यात् । केन्द्रे सरहौ गुलिकेन युक्ते लग्नेश्वरे वावा निधनेशयुक्ते ॥ ३६॥ क्रूरग्रहाणां च दृगाणल्ग्ने जातो नगैर्वेष्टितदेहवान् स्यात् । लग्नत्रिभागेऽण्डजसर्पकोलास्रन्नाथयुक्तस्तु तथा त्रिभागः । शुभप्रदाणां च दृशा विहीने जातो नगैर्वेष्टितदेहवान् स्यात् ॥ ३७॥ यशांके पापल्ग्ने वा वृश्चिकेशत्रिभागगे । शुभैः स्वायस्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा ॥ ३८॥ चतुष्पादगते भानौ शेषैर्वीर्यसमन्वितैः । द्वितनुस्थैश्च यमलौ भवतः कोशवेष्टितौ ॥ ३९॥ छागसिंहवृषे लग्ने तत्स्थे सौरेऽथवा कुजे । राश्यंशसदृशे गात्रे जतस्थेनालवेष्टितः ॥ ४०॥ लग्ने सपापे बहुपापदृष्टे राहुध्वजाभ्यां सहितेऽथवाऽत्र । पापग्रहाणां विलग्नभे वा जातो नरो नालविदेष्टिताङ्गः ॥ ४१॥ क्रूरान्तरे लनगते सराहौ लग्ने कुजे वासरनाथदृष्टे । लग्ने शनु भुमिसुतेन दृष्टे जातो नरो नालविवेष्टिताङ्गः ॥ ४२॥ अथ प्रसूतिकालज्ञापिका ग्रहस्थितिः । तत्काल इन्दुसहितो द्विरसंशको यस्ततुल्यराशिसहिते पुरतः शशाङ्के । यावानुदेति दिनरात्रिसमानभागस्तावद्रते दिननिशोः प्रवदन्ति जन्म ॥ ४३॥ उदयति मृदुभांशे सप्तमस्थे च मन्दे । यदि भवति निषेकः सूतिरब्दत्रय्ण । शशिनि तु विधिरेष द्वादशाब्दैः प्रकुर्यात् । निगदितमिह चिन्त्यं सूतिकालेऽपि युक्त्या ॥ ४४॥ अथ संस्कारविहीनपुत्रजन्मज्ञापका योगाः । पितृकर्मेश्वरौ दुःस्थौ देहेशे बलसंयुते । विना सीमन्तकमादि जातः पुत्रो न संशयः । लाभे पापे पापगृहे न सीमन्तयुतो भवेत् ॥ ४५ १/२॥ अथ पितुरसन्निधौ जन्मयोगाः । पितुर्जातः परोक्षस्य लग्नमिन्दावपश्यति । विदेशस्थस्य चरभे मध्याद्दष्टे दिवाकरे ॥ ४६॥ उदयस्थेऽथवा मन्दे वाऽस्तं समागते । स्थिते वाऽन्तः चपानाथे शशाङ्कसुतशुक्रयोः ॥ ४७॥ पितरय्रसः क्षेत्रजो वेति ज्ञपिका द्युचरस्थितिः । लग्ने वा यदि शीतांशौ शुभखेचरराशिगे । ओरसोऽयं भवेज्जातो गुरुर्गसमन्विते ॥ ४८॥ जीवो न भौमसंदृष्टः स्ववर्गे चार्कचन्द्रमाः । क्षेत्रजोऽयं भवेज्जातः ससौम्यो वा बलान्वितः ॥ ४९॥ मन्दवर्गगते चन्द्रे मन्दयुक्ते तु पङ्चमे । भानुभार्गवसंदृष्टे पुत्रः पौनर्भवो भवेत् ॥ ५०॥ अथ अनूढापत्यत्व्सराधको ग्रहयोगः । व्यये भास्करसंदृष्टे वर्गे भास्करचन्द्रयोः । चन्द्रसूर्ययुते वाऽपि कानीनोऽयं भवेन्नरः ॥ ५१॥ अथ दत्तपुत्रत्वसाधको योगः । चन्द्रदृष्टियुतो मान्दिर्भानुपुत्रसमन्वितः तद्वीक्षणयुतो वाऽपि दत्तपुत्रो भवेन्नरः । शन्यङ्गारकसंयुक्ते सप्तमे वाऽथ पङ्चमे अन्यैरवीक्षिते खेटैः कृत्रिमं तु विनिर्दिशेत् ॥ ५२॥ अथ जारजत्वसाधका योगाः । परस्परक्षेत्रगतौ तु होरारसातकेशौ यदि जन्मलग्नात् । लग्नेश्वरो वा हिबुकेश्वरो वा ध्वजाहियुक्तो जननं परेण ॥ ५४॥ लग्नं शशाङ्कं सुरराजमन्त्री न वीक्षते नैकगृहस्थितौ वा । न जीववर्गगेण युतौ तदानीं जातं वदेदन्यसमागमेन ॥ ५५॥ स्वातीद्वितीया रविवारयुक्ता ससप्तमी सोमजरेवती च । सद्वादशीभानुसुतश्रविष्ठा चैतेषु जातः परतो वदन्ति ॥ ५६॥ भद्राण्यतिथियुक्तेषु त्रिपादर्क्षन्वितेषु च । मन्दार्कभौमवारेषु जात्मन्योद्भवं विदुः ॥ ५७॥ न लग्नमिन्दु च गुरुनिरीक्षते न वा शशाङ्कं रविणा समागतम् । सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात् ॥ ५८॥ गुरुक्षेत्रगते चन्द्रे तद्युक्ते चान्यराशिगे । तद्द्रेष्काणे तदंशे वा न परैर्जात इष्यते ॥ ५९॥ अथ जन्मनि पितुर्बद्धत्वादि । क्रूरर्क्षगतावशोभनौ सूर्याद् द्यूननवात्मजस्थितौ । बद्धस्तु पिता विदेशगः स्वे वा राशिवशात्तथा पथि ॥ ६०॥ अथ जन्मदेशाः । पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे । लग्ने जलजोऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते ॥ ६१॥ आओयोदयमाप्यगः शशी सम्पूर्णः समवेक्षतेऽथवा । मेषूरणबन्धुलग्नगः स्यात् सूतिः सलिले न संशयः ॥ ६२॥ उदयोडुपयोर्व्ययस्थिते गुप्त्यां पापनिरीक्षिते यमे । अलिकर्कियुते विलग्नगे सौरे शीतलरेक्षितेऽवटे ॥ ६३॥ मन्देऽब्जगते विलग्नगे बुधसूर्येन्दिनिरीक्षिते क्रमात् । कीडाभवने सुरालये जननं* चोषरभूमिषूदिशेत् ॥ ६४॥ नृलग्नगं प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे । रविर्नरेन्द्रामरगोकुलेषु शिल्पालयो ज्ञः प्रसवं करोति ॥ ६५॥ राश्यंशसमानगोचरे मार्गे जन्म चरे स्थिरे गृहे । स्वर्क्षाशगते स्वमन्दिरे बलयोगात्फलमशकर्क्षयोः ॥ ६६॥ अथ मात्रा स्यक्तस्य दीर्घयुष्टम् । आरार्कजयास्त्रिकोणगे चन्द्रोऽस्ते च विसृज्यतेऽम्बया । दृष्टेऽमरराजमन्त्रिणा दीर्घयुः सुखभाक् च स स्मृतः ॥ ६७॥ अथ मात्रा स्यक्तस्य विनाशयोगः । पापेक्षिते तुहिनगाबुदये कुजेऽस्ते स्यक्तो विनश्यति कुजार्कजयोस्तथाऽये । सौम्येऽपि पश्यति तथाविधहस्तमेति सौम्ये तरेषु परहस्तगतोऽप्यनायुः ॥ ६८॥ अथ प्रसवस्थानम् । पितृमातृगृहेषु तद्बलात्तरुशालाइषु नीचगतैः शुभैः । यदि नैकगतैश्च वीक्षितौ लग्नेन्दू विजने प्रसूयते ॥ ६९॥ मन्दर्क्षाशे शशिनि हिबुके मन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयनं नीचसंस्थैश्च भूमौ । यद्भद्राशिर्ब्रजति हरिजं गर्भमोक्षस्तु तद्वत् ॥ ७०॥ अथ सूतीगृहे दीपज्ञानं द्वारज्ञानं च । स्नेहः शशाङ्कादुदयाच्च वर्ती दीपोऽर्कयुक्तर्क्षवशाणराद्यः । द्वारं च तद्वास्तुनि केन्द्रसंस्थैर्क्ष्यं ग्रहैर्वीर्यसमनिव्तैर्वा ॥ ७१॥ अथ सूतीगृहस्वरूपम् । जीर्ण संस्कृतमर्कजे क्षितिसुते दग्धं नवं शीतगौ काष्ठाढ्यं सुदृढं रवौ शशिसुते चानेकशिल्प्युद्भवम् । रम्यं चित्रयुतं नवं च भृगुजे जीवे दृढं मन्दिरं चक्रस्थैस्तु यथोपदेशरचनां सामन्तपूर्वां वदेत् ॥ ७२॥ अथ सुतीगृहदिशा । मेषकुलीरतुलालिघतैः प्रगुत्तरते गुरुसौम्यगृहेषु । पश्चिमतश्च वृषेण निवासो दक्षिणभागकरौ मृगसिंहौ ॥ ७३॥ अथ सूतीगृहे जन्मस्थानम् । प्राच्यादिगृहे क्रियादयो द्वौ द्वौ कोणगता द्विमूर्त्तयः । शय्यास्वपि वास्तुवद्वदेत् पातैः षट्त्रिनवान्त्यसंस्थितैः ॥ ७४॥ अथ उपसुतिकाज्ञानम् । लग्नचन्द्रान्रगतैर्ग्रहैः स्युरुपसूतिकाः । बहिरन्तश्च चक्रार्द्धे दृशादश्येऽन्षवा परे ॥ ७५॥ अथ जातकस्य स्वरूपादिज्ञानम् । लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा । चन्द्रसमेतनवांशपर्वणः कादिविलग्नविभक्तभगात्रः ॥ ७६॥ कन्दृक्ष्रोत्रनसाकपोलहनवो वक्त्रं च होरादय- स्ते कण्ठांसकबाहुपाश्वहृदयक्रोडानि नाभिस्ततः । बस्तिः शिश्नगुदे ततश्च वृषणावूरू ततो जानुनी जडाङ्ध्रीत्युन्जयत्र वाममुदितैर्द्रेक्काणभागैर्स्त्रधा ॥ ७७॥ अथ जाताङ्गे चिह्वज्ञानम् । तस्मिन्पापयुते व्रणं शुभयुते दृष्टे च लक्ष्मादिशेत् स्वर्क्षंशे स्थिरसंयुते च सहजः स्यादन्यथाऽगन्तुकः । मन्देऽश्मानिलजोऽग्निशस्त्रविषजो भौमे बुधे भूभवः सूर्ये काष्ठचतुष्पदेन हिमगौ शृङ्ग्यब्जजोऽन्यैः शुभम् ॥ ७८॥ समनुपतिता यस्मिन् भागे त्रयः सबुधा ग्रहा भवति नियमातस्यावाप्तिः शुभेष्वशुभेषु वा । व्रणकृदशुभः षष्ठे देहे तनोर्भसमाश्रिते तिलकमशकृद्दृष्टः सौम्यैर्युतश्च स लक्ष्मवान् ॥ ७९॥ वियोनिजन्मविज्ञानं निषेकोदयजं फलम् । जन्मकालप्रिज्ञानं यत्तदाचार्यभाषितम् ॥ ८०॥ इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते आधानजन्माध्यायस्तृतीयः ॥ ३॥
अथारिष्टाध्यायः ॥ ४॥ तत्रादौ द्वादशाप्दीमध्ये आयुषोऽनिश्वितता आद्वादशाब्दान्तयोनिजन्मनामायुष्कला निश्चयुतिं न शक्यते । मात्रा च पित्रा कृतपापकर्मणा बालप्रहैर्नाशमुपैति बालकः ॥ १॥ आद्ये चतूष्के जननीकृताधैर्मध्ये तु पित्राऽजितपापसैः । बालस्तदन्त्यासु चतुः समासु स्वकीयदोषैः समुपैति नाशम् ॥ २॥ अथारिष्टपूर्वकमायुषां भेदाः । अष्टौ बालारिष्टमादौ नराणां योगारिष्टं प्राहुराविंशतिः स्यात् । अल्पं चान्द्रात्रिंशतान्मध्यमायुरासप्तत्याः पूर्णमायुः शतान्तम् ॥ ३॥ अथ अरिष्टदा ग्रहस्थितिः । विलग्नगतस्त्वपि देवमन्त्री विनाशरिःफारिगते शशाङ्के । विलोकिते पापवियचरेण विभानुना मृत्युमुपैति ग्र॥॥ः ॥ ४॥ गण्डान्ततारासहिते मृगाक्के पापेक्षिते पापसमन्विते वा । बालो लयं यति समृत्युभागे चन्द्रे तथा पापनिरीक्षिते वा ॥ ५॥ ताताविकासोदरभातुलाश्च मातामही मातृपता च बालः । सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥ ६॥ रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः । यदा यदा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥ ७॥ अथ पित्रादीनामरिष्टयोगाः । तातान्विकासोदरमातुलाश्च मातामही मातृपिता च बालः । सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥ ६॥ रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः । यदा य्(व्)दा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥ ७॥ क्रूरेक्षितौ चन्द्रविलग्नराशी सौम्यग्रहैर्वीच्चणयोगहीनौ । केन्द्रच्युतो यद्यमरेशमन्त्री जातस्य भाता समुपैति नाशम् ॥ ८॥ अथ सगर्भामृत्युयोगौ । सभानुजे शीतकरे विलग्नाद् दिवाकरे रिःफगृहोपयाति । धरासुते नधुगते तदानीं विपद्यते तज्जननी सगर्भा ॥ ९॥ विलग्नचन्द्रौ शुभदृक्विहीनावशोभनव्योमचरान्तरस्थौ । विनाशमेति प्रमदा सगर्भा वदन्ति सर्वे युगपत् पृथग्वा ॥ १०॥ षष्ठावसानाष्टमभावगेषु क्रूरेषु सौम्यग्रहवर्जितेषु । पापान्तरस्थे भृगुजे गुरौ वा नारी सपुत्रा म्रियते तु सद्यः ॥ ११॥ लग्नास्तयातौ यदि पापखेचरौ शुभैरयुक्तौ शुभदृईष्टिवर्जितौ । शस्त्रेण मृत्यु समुपैति गर्भिणी मासाधिपो नष्टकरो यदा वदेत् ॥ १२॥ अथ जातस्य मातृमरणयोगाः । चन्द्राचतुर्थोपगतैरसद्भिर्वा नस्थितैः शोभनदृष्टिमुक्तैः । व्यापारगैर्वा यदि वासरेशाज्जातस्य माता निधनं प्रयाति ॥ १३॥ शुक्राद्रवौ विक्रमगे बलाध्ये मन्देक्षिते मन्दसमन्विते वा । क्षीणे शशाङ्ले यदि वा सपापे माता सपुत्रा म्रियते,अचिरेण ॥ १४॥ लग्नादिने वाऽष्टमगे धराजे पापेक्षिते सौम्यदृशा विहीने । ताराधिपे वृद्धिकलाविहीने माता कृतान्तस्य पदं समेति ॥ १५॥ शुक्रात् कुजेऽहनि तपः सुतराशियात् चन्द्रात्रिकोणगृहगे रविजे रजन्याम् । पापेक्षिते च शुभयोगदृशा विहीने नाशं समेति जननी विबले शशाङ्के ॥ १६॥ अथ गर्भस्य मासधिपाः(होरायाम्) कललग्ननाक्कुरास्थिचर्माङ्गज्चेतनताः सितकुजजीवरविचन्द्रार्कुबुधाः परतः । उदयकुजजीवरविचन्द्रार्किंबुधाः गदिता वदन्ति शुभाशुभं च मासाधिपतेः सदृशम् ॥ १७॥ अथ गर्भ सुखम् । शशाङ्कलग्नोपगतैः शुभग्रहैस्त्रिकोणजायार्थसुखास्पदस्थितैः । तृतीयलाभर्क्षगतैश्च पापकैः सुखी च गर्भो रविणा निरीक्षितः ॥ १८॥ अथ जातस्य पितृमरणयोगाः । व्ययस्थितेऽर्के ससुते विलग्नादपि क्षयेन्दौ मदनोपयाते । पितुर्वियोगं प्रव्दन्ति सद्यः शुभेक्षिते तु त्रिभिरब्दमानैः ॥ १९॥ चरोपगे चन्द्रमसि क्षपायां बुधेक्षिते दूरदिशं प्रयातः । चरे शनौ भानुयुते निशायां विदेशगो वाति पिता विनाशम् ॥ २०॥ अथ जातस्य मृत्युयोगाः । क्षीणे शशिन्युदयगे यदि कण्टकस्थे पापेऽथवा निधनगे म्रियतेऽथ बालः । रन्ध्ररिगैरशुभखेटदृशा समेतैः सौम्यैः कृतान्तनगरं समुपैति मासात् ॥ २१॥ एकत्र मन्दावनिनन्दनार्का रन्ध्रस्थिता वा रिपुराशियाताः । सौम्यैरयुक्ता अविलोकितास्ते जातस्य सद्यो मरणप्रदाः स्युः ॥ २२॥ चन्द्रांशे सओप्तमे भौमे सौम्यदृष्टिविवर्जिते । सप्तसप्ततितारायामुपैति मरणं शिशुः ॥ २३॥ मन्दावनिजमार्तण्डैः पुत्रस्यानसमन्वितैः । सप्तसप्ततिनक्षत्रे जातस्य मरणं वदेत् ॥ २४॥ धरसुते चन्द्रनवांशकस्थे लग्नांशके वा न च जीवदृष्टे । सुधाकरे नन्दनराशियाते समेति याम्यं पदभाशु बालः ॥ २५॥ नीचं गते लग्नपतौ विलग्नान्नाशं गते वा रविजे तथाऽस्ते । जातो मृतप्रायकलेवरः सन्कृच्छेण वैवस्वतलोकमिति ॥ २६॥ अपोक्लिमस्थानगता न भोगा विधूतवीर्यां यदि भानुमुख्याः । मासद्वयं तस्य वा जातस्य चायुः कथयन्ति तज्ज्ञाः ॥ २७॥ लग्नारिरन्ध्रव्ययगे शशाङ्के पापेन दृष्टे शुभदृष्टिहीने । केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैवियोगं व्रजति प्रजातः ॥ २८॥ सौरे मदस्थे यदि वा विलग्ने जलोदयऽब्जे यदि कीटगे वा । सौम्येषु केन्द्रोपगतेषु सद्यो जातस्य नाशं यवनोपदिष्टम् ॥ २९॥ भौमक्षेत्रगते जीवे नीचराशिगतेऽथवा । सन्ध्यात्रये च सङ्जातो मासान्मृत्युमुपैति सः ॥ ३०॥ रन्ध्रे धरासूनुदिनेशसौरा जातस्तु मृत्युं समुपैति मासात् । केतुस्तु यस्मिन्नुदितोऽत्र जातो मासद्वयेनैव यमं प्रयाति ॥ ३१॥ पापाबुदयास्तगतौ क्रूरेण युतश्च शशी । दृष्टश्च शुभैर्न यदा मृत्युश्च भवेदचिरात् ॥ ३२॥ क्षीणे हिमगौ व्ययगे पापैरुदयाष्टमगैः । केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत् ॥ ३३॥ क्रूरेण संयुतः शशी स्मरान्त्यमृत्युलग्नगः । कण्टकाद्विःशुभैरवीक्षितश्च मृत्युदः ॥ ३४॥ शशिन्यरिविनाशगे निधनमाशु पापेक्षिते । शुभैरथ समाष्टकं दलमतश्च मिश्रेक्षिते । असद्भिरवलोकिते बलिभिरत्र म्(भ)आसं शुभे कलत्रसहिते च पापविजिते विलग्नाधिपे ॥ ३५॥ अशुभसहिते ग्रस्ते चन्द्रे कुजे निधनाश्रिते जननिसुतयोर्मृत्युलग्ने रवौ तु सशस्त्रजः । उदयति रवौ शीतांशौ वा त्रिकोणविनाशगै- र्निधनमशुभैर्वीर्योपेतैः शुभैरयुतेक्षिते ॥ ३६॥ असितरविशशाङ्कभूमिजैर्व्ययनवमोदयनैधनाश्रितैः । भवति मरणमाशु देहनां यदि बलिना गुरुणा न वीक्षितैः ॥ ३७॥ सुतमदननवान्त्यलग्नरन्ध्रेष्वशुभयुते मरणाय शीतश्मिः । भृगुसुतशशिपुत्रदेवपूज्यैर्यदि बलिभिर्न युतोऽवलोकितां वा ॥ ३८॥ अथ वर्षमध्ये मरणम् । योगे स्थानं बलनश्चन्द्रे स्वं वा तनुगृहमथवा । पपैर्दृष्टे बलवति मरणं वर्धस्यान्तः किल मुनिगदितम् ॥ ३९॥ अथ वर्षद्भयमायुः । वक्री शनिभौमगृहोपयातः केन्द्रेऽथवा शत्रुगृहे विनाशे । कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥ ४०॥ अथ वर्षत्रयमायुः । बृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूनिः । अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रजातम् ॥ ४१॥ अथ चतुर्थवर्ष मरणम् । षष्ठाष्टमे कर्किणि जन्मलग्नात् सौम्ये सुधारश्मिनिरीक्ष्यमाणो । अब्दैश्चतुर्भिः समुपैति नाशं जातो नरः सर्वबलान्वितोऽपि ॥ ४२॥ अथ पङ्चमेऽब्दे मरणम् । रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्दुभिः सहैकस्थैः । रविशनिभौमशशाङ्कैर्मरणं खलु पङ्चमिवर्षैः ॥ ४३॥ अथ षद्वर्षमायुः । यदा सुधारशिमनवांशकस्थे निरीक्षिते शीतकरेण मन्दे । लग्नाधिपे चन्द्रदृशा समेते जातस्य षद्वर्षमितं तदाऽयुः ॥ ४४॥ अथ सप्तमेऽब्दे मरणम् । लग्ने यद्द्रेक्काणो निगलाहिहिहङ्गपाशधरसूज्ञः । मरणाय सप्तवर्षैः क्रूरयुतो न स्वपतिसंदृष्टः ॥ ४५॥ अथ सप्ताष्टवर्षे मृत्युः । लग्ने रविशनिभौमाः शुक्रगृहे सप्तमे शशी क्षीणः । दृष्टो न देवगुरुणा सप्तभिरष्टभिरब्दकैर्वा स्यात् ॥ ४६॥ अथ नवमेऽब्दे मृत्युः । दिवकरेन्दुभूपुत्रः पुत्रस्यानसमन्विताः । जातो यमपुरं याति नवमाब्दे न संशयः ॥ ४७॥ पापो विलग्नाधिपतिः शशांकादन्यस्थतः क्रूरनिक्षितश्चेत् । चन्द्रांशकस्थे यदि वा तदीशो जातः शिशुर्याति लयं नवाब्दैः ॥ ४८॥ अथ दशवर्शायुः । मृगांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते । जन्मप्रभृतिशत्रुत्वं तस्यायुर्दशवत्सरम् ॥ ४९॥ अथ एकादशे वर्षे मरणम् । रविणा युक्तः शशिजः सौम्यैर्दृष्टो विनाशयति । एकादशभिर्वर्षैर्जातं नृपतुल्यभोगसम्पन्नम् ॥ ५०॥ अथ द्वादशेऽब्दे मरणम् । चन्द्रलग्नाधिपः सूर्यः स्वपुत्रेण समन्वितः । लग्नादष्तमराशिस्थो द्वादशाब्दे सितेक्षितः ॥ ५१॥ अल्यांशकस्थिते मन्दे सूर्येणैव निरीक्षिते । पितृद्वषसमायुक्तो द्वादशाब्दं च जीवति ॥ ५२॥ अथ त्रयोदशेऽब्दे मृत्युः । लग्नांशकस्थिते मन्दे जीवदृष्टिसमन्विते । त्रयोदशाब्दे मरणम् जातस्य पितृवैरिणः ॥ ५३॥ अथ चतुर्थदशऽब्दे मृत्युः । कन्यांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते । चतुर्दशाब्दे मरणं जातः कोपी समेति च ॥ ५४॥ अथ पङ्चदशाब्दय्युः । सिमांशकस्थिते मन्दे राहुणा च निरीक्षिते । शस्त्रपीडा भवेत्तस्य चायुः पङ्चदशाब्दकम् ॥ ५५॥ अथ षोदशेऽब्दे मरणम् । कर्काशकस्थिते मन्दे जीवदृष्टिसमन्विते । सर्पपीडा भवेत्तस्य षोडशाब्दान्मृतिं वदेत् ॥ ५६॥ अथ सप्तदशेऽब्दे मृत्युः । यमांशकस्थिते मन्दे लग्ननाथेन वीक्षिते । रणशूरो महाभोगी मृतः सप्तदशाब्दके ॥ ५७॥ अथ अष्टादशेऽब्दे मृत्युः । परस्परक्षेत्रसमन्वितौ वा रन्ध्रेशलग्नाधिपती न सौम्यौ । रिःफारिभे वा गुरुणा वियुक्ते त्वष्टादशाब्दे निधनं प्रयाति ॥ ५८॥ अथ सद्यो मृत्युः । जीवांशकस्थिते मन्दे राहुणा च निरीक्षिते । देहाधिपे शुभादृष्टे जातः सद्यो वुनश्यति ॥ ५७॥ अथ १९ वर्षे मृत्युः । तदीशस्तुङ्गभागश्चेदायुरेकोनविंशतिः ॥ ५८॥ अथ २० वर्षे मृत्युः । केन्द्रेषु पापेषु निशाकरेण सौम्यग्रहैरीक्षणवर्जितेषु । षष्ठाष्टमे वा यदि शीतरश्मौ जातः सुखी विंशतिवत्सरान्तम् ॥ ५९॥ अथ २२ वर्षे मृत्युः । जीवेन सहितः सूर्यो लग्नस्थः कीटराशिगः । अष्टमाधिपतौ केन्द्रे द्वाविंशत्यब्दके मृतिः ॥ ६१॥ २६/२७ वर्षे मृत्युः । मन्दोद्ये शत्रुराशौ सौम्यैरापोक्लिमोपगैः । षड्विंशत्यब्दके वा स्यात् सप्तविंशतिवत्सरे ॥ ६२॥ अथ २८ वर्षे मरणम् । रन्ध्रेशे जीवसंदृष्टे पापे पापनिरीक्षिते। रन्ध्रस्थे जन्मपे मृत्युरष्टाविंशतुवत्सरे ॥ ६३॥ अथ २९ वर्षे मृत्युः । चन्द्रे मन्दसहायस्तु सूर्यश्चाष्टमसंस्थितः । एकोनत्रिंशके वर्षे जातो यम्पुरं व्रजेत् ॥ ६४॥ अथ २९ वा ३० वर्षे मृत्युः । जन्मरन्ध्रपयोर्मध्ये निशानाथे व्यये गुरौ । सप्तविंशतिवर्षे वा त्रिंशद्वयसि वा मृतिः ॥ ६५॥ अथ ३२ वर्षे मरणम् । अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते । त्रिंशद्वर्षमितायुष्मान् द्वात्रिंशद्वत्सरे मृतिः ॥ ६६॥ क्षीणे शशाङ्के यदि पापयुक्ते रन्ध्राधिपे केन्द्रगतेऽष्टमे वा । पापान्विते हीनबले विलग्ने द्वात्रिंशदब्दे निधनं प्रयाति ॥ ६७॥ अथ अल्पायुर्योगाः । षष्ठाष्टमे व्यये पापे लग्नेशे दुर्बले सति । अल्पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥ ६८॥ क्रूरषष्ठ्यंशकए वाऽपि रन्ध्रेशे भानुजेऽपि वा । पापान्विते पापखेटे चाल्पमायुर्विनिर्दिशेत् ॥ ६९॥ व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ । क्रूरषष्ठ्यंशसंयुक्तौ वाऽल्पमायुर्विनिरिदिशेत् ॥ ७०॥ इति द्वात्रिंशद्वत्सरान्तर्भूतबालारिष्टयोगारिष्टस्वल्पायुर्भेदाः समाप्ताः । अथआरिष्टभङ्गाः । अत्यन्तसत्त्वे यदि लग्ननाथे सौम्यान्विते तादृशदृष्टियोगे । केन्द्रस्थिते पापदृशा विहीने सद्भाग्ययुग् जीवति दीर्घमायुः ॥ ७१॥ अथ चन्द्रकृतोऽरिष्टभङ्गः । चन्द्रः सन्पूर्णगात्रस्तु सौम्यक्षेत्रांशगोऽपि वा । सर्वारिष्टनिहन्ता स्याद् विशेषाच्छुक्रवीक्षितः ॥ ७२॥ अथ शुभग्रहकृतोऽरिष्टभङ्गः । जीवभार्गवसौम्यानामेकः केन्द्रगतो बली । पापकृद्योगहीनश्चेत्सद्योऽरिष्टस्य भङ्गकृद् ॥ ७३॥ अथ चद्रकृतोऽरिष्टभङ्गः । स्वोच्चस्थः स्वगृहेऽथवापि सुहृदां वर्गे च सौम्यस्य वा । सम्पूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽपि वा ॥ ७४॥ शत्रूणामवलोकनादिरहितः पापैरयुक्तेक्षितो। अरिष्टं हन्ति उदुस्तरं दिनमणिः प्रालेयराशिं यथा ॥ ७५॥ पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभदृष्टमूर्तिः । तं चन्द्रमा रिपुविनाशग्तोऽपि नूनमापत्सु रक्षति पितेव शिशुं प्रजातम् ॥ ७६॥ अथ गुरुकृतोऽरिष्टभङ्गः । केन्द्रोपगोऽतिबलवान् स्फुरदंशुमली स्वर्लोकराजसचिवः शमयेदवश्यम् । एको बहुनि दुरितानि उदुतराणि भक्त्या प्रयुक्त इव शूलधरे प्रणामः ॥ ७७॥ अथ लग्नेशकृतोऽरिष्टभङ्गः । लग्नेशे बलयुक्तश्चेत् त्रिकोणे वा चतुष्टये । अरिष्टयोगजातोऽपि बालो जीवति निश्चयः ॥ ७७॥ अथ ग्रहकृतोऽरिष्टभङ्गः । यस्य जन्मनि तुङ्गस्याः स्वक्षेत्रस्थान्माश्रिताः । चिरायुषं शिशु जातं कुर्वन्त्यत्र न संशयः ॥ ७८॥ अथ राहुकृतोऽरिष्टभङ्गः । राहुस्त्रिषष्ठलाभे लग्नत्सौम्यैर्निरीक्षितः सद्यः । नाश्यति सर्वदुरितं मारुत् इव तलसङ्गातम् ॥ ७९॥ अजव्वृषकर्किविलग्ने रक्षति राहुर्निरन्तरं बालम् । वृथिवीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥ ८०॥ अथ पुमश्चन्द्रकृतोऽरिष्टभङ्गः । निशाकरः शोभनवर्गयुक्तः शुभेक्षितः पूरितदीप्तिजालः । जानस्य निःशोषमरिष्टमाशु निहन्ति यद्वद् गरलं गरुत्मान् ॥ ८१॥ अथ राशीशकृतोऽरिष्टभङ्गः । चन्द्राधिष्ठतराशीशे लग्न्स्थे शुभवीक्षिते । भृगुणा वीक्षिते चन्द्रे स्वोच्चेऽरिष्टं हरेत्तदा ॥ ८२॥ अथ लग्नेशकृतोऽरिष्टभङ्गः । लग्नाधिपोऽतिबलशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः । मृत्युंविधूय विदधाति स दीर्घमायुः सार्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या ॥ ८३॥ अथ मध्यमायुःप्रदता जीवस्य । बलहीने विलग्नेशे जीवे केन्द्रत्रिकोणगे । षष्ठामव्यये पापे मध्यमायुरुदाहृतम् ॥ ८४॥ द्वात्रिंशद्वत्सरादुपति सप्ततिपर्यन्तं मध्यमायुर्योगः । अथ पूर्णयुःप्रदा योगाः । चतुष्टये शुभैर्युक्ते लग्नेशे शुभसंयुते । गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत् ॥ ८५॥ केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते । ताम्यां निरिक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ ८६॥ उच्चान्वितैर्स्त्रिभिः खेटैर्लग्नरन्ध्रेशसंयुतैः । रन्ध्रे पापविहीने च दीर्घमायुविनिर्दिशेत् ॥ ८७॥ रन्ध्रेस्थितैर्स्त्रिभिः खेटैः स्वोच्चमित्रस्ववर्गगैः । लग्नेशे बलसंयुक्ते दीर्घमायुविनिर्दिशेत् ॥ ८८॥ स्वोच्चस्थितेन केनापि खेचरेण समन्वितः । शनिर्वा रन्ध्रनाथो वा दीर्घमायुविनिर्दिशेत् ॥ ८९॥ त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः । लग्नेशे बलसंयुक्तः पूर्णमायुर्विनिर्दिशेत् ॥ ९०॥ षट्सप्तर्न्ध्रभावेषु उभेषु सहितेषु च । त्रिषडायेषु पापेषु दीर्घमायुर्विनिर्दिशेत् ॥ ९१॥ रिःफशत्रुगताः पापा ल्ग्नेशे यदि केन्द्रगः । रन्ध्रस्थानगता पापाः कर्मेशः बहुसम्मतम् ॥ ९२॥ रन्ध्रे शस्थगृहाधीशो यस्मिन् राशौ व्यवस्थितः । तदीशो लग्ननाथश्च केन्द्रगो यदि ताद्दशम् ॥ ९३॥ द्विस्वभावं गते लग्ने तदीशे केन्द्रगेऽपि वा । स्वोच्चमूलत्रिकोणे वा चिरं जीवति भाग्यवान् ॥ ९४॥ द्विस्वभावं गते लग्ने लग्नेशात् केन्द्रगौ यदि । द्वौ पापौ यस्य जनने तस्यायुर्दीर्घमादिशेत् ॥ ९५॥ चरांशकस्था रविमन्दभौमाः स्थिरांशकस्थौ गुरुदानवेज्यौ । शेषाश्च युग्मांशगता यदि स्युस्तदा समुद्भूतनरः शतायुः ॥ ९६॥ अथ पूर्णयुषः प्रमाणम् । सप्तत्युपरिशतान्तं पूर्णमायुः । अथ योगविदेषात् युगान्तमायुः । मन्दांशकस्था रविजीवभौमा धर्मस्थितास्तन्नवभागसंस्थाः । बलान्विता लग्नगतो हिमांशुर्युगान्तमायुः श्रियमादधाति ॥ ९७॥ अथ मुनित्वप्रदो ग्रहयोगः । एकांशभागौ गुरुसूर्यपुत्रौ धर्मस्थितौ वा यदि कर्मसंस्थौ । अर्कोदये सौम्यनिरीक्ष्यमाणौ मुनिर्भवेदत्र भवश्चिरायुः ॥ ९८॥ अथ अमितमायुः । गुरुशशिसहिते कुलिरलग्ने शशितनये भृगुजे च केन्द्रयाते । भवरिपुहजोपगैश्च शेषैरमितमिहायुरनुक्रममाद्विना स्यात् ॥ ९९॥ अथ देवसादृश्यप्रदा ग्रहस्थितिः । त्रिकोणे पापनिर्मुक्ते केन्द्रे सौम्यविवर्जिते । रन्ध्रे पापविहीने च जातस्त्वमरसन्निभः ॥ १००॥ शन्यादिभौमपर्यन्तं लग्नादौ खेचराः स्थिताः । वैशेषिकांशसंयुक्ता जातस्त्वमरसन्निभः ॥ १०१॥ अथ श्रसङ्ख्यायुःप्राप्तिः । मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोगृहमध्यमांशे । सिंहासनांशे यदि वा धराजे जातस्त्वसङ्ख्यातमुपैति मन्त्रैः ॥ १०२॥ अथ मुनिसमत्वम् । देवलोकांशके मन्दे भौमे पारावतांशके । सिंहासने गुरौ लग्ने जातो मुनिसमो भवेत् ॥ १०३॥ अथ युगान्तमायुः । गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके । त्रिकोणे कर्कटे लग्ने युगान्तं स तु जीवति ॥ १०४॥ अथ ब्रह्मपदप्राप्तिः । चापांशे कर्कटे लग्ने तस्मिन् देवेन्द्रपूजिते । त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं व्रजेत् ॥ १०५॥ लग्ने सेव्ये भृगौ कामे कन्यायामुडुनायके । चापे मेषांशके लग्ने जातो याति परं पदम् ॥ १०६॥ अथ आयुषः सप्तविधता । बालारिष्टं योगसङ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः । दिव्यं योगाम्यासमन्त्रक्रियाद्यैरायुः सपतैतानि सङ्कीर्तितानि ॥ १०७॥ इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते बालारिष्टाध्यायः चतुर्थः ॥ ४॥
अथ आयुर्दायाध्यायः ॥ ५॥ निसर्गपैड्यांशकरश्मिच्क्रनक्षत्रदायाष्टवर्गजाति । पराशराद्यिः कथितानि यानि संगृह्य तानि क्रमशः प्रवच्मि ॥ १॥ अथ निसर्गायुषो वर्षसङ्ख्यह् । नरवाः ययी द्वु धृतिय्च धृतिय्च कृतिः खबाणा राविपूर्वकाणाम् । इमा निरुक्ताः क्रमयो ग्रहाणां नैसर्गिके ह्वायुषि वर्षसंख्याः ॥ २॥ अथ पिण्डायुषो वर्षसंख्यः । नवेन्दवो वाणयमाः शरक्ष्मा दिवाकराः पश्चभुवः कुपक्षाः । नखाश्च भाखत्प्रमुखप्रहाणां पिण्डायुषोऽब्दा निजतुङ्गानाम् ॥ ३॥ अथ पिण्डायुषः स्पष्टीकरणविधिः । निजोश्चशुद्धः खचरो विशोध्योः भमणडलात् षड्भवनोनकश्चेत् । यथास्थितः षड्भवनाधिकश्चेल्लीकृतः सङ्गुणितो निजाब्दैः ॥ ४॥ तत्र खाभ्ररसचन्द्रलोचनैरुद्धृते सति यदाप्यते फलम् । वर्षमासदिननाडिकार्दकं ताद्धि पीण्डभवमायुरुच्यते ॥ ५॥ स्वोच्चोनस्फुटखेचरं यदि रसादल्पं भचक्रोद्धृतम् लिप्तीकृत्य निजायुरब्दगुणितं तच्चक्रलिप्ताहृतम् । लब्धं वासरनायकादिखचरैर्दृत्तायुरब्दादिकम् नीचार्द्धक्रमशो वदन्ति भुनयः पैण्डये च नैसर्गिके ॥ ६॥ अथायुषो हरणं होरायाम् । नीचेऽतोऽर्त्द्धं ह्वसति हि तत्श्वान्तरस्थेऽनुपातो होरा त्वांशप्रतिभमपरे राशितुल्यं वदन्ति । हित्वा वक्रं रिपुगृहगतैर्हीयते स्वत्रिभागः सूर्योचिक्षत्रद्युतिषु च दलं प्रोज्भूय शुक्रार्कपुत्रौ ॥ ७॥ क्षोणीपुत्रं वर्जियत्वा रिपुस्थार्व्यंशं नीचस्थानगास्ते तदर्धम् । अस्तं याताः शर्व एवार्द्धहानिं कुर्युहित्वा शुक्रमार्तण्डपुत्रौ ॥ ८॥ अथ व्ययादिहरणम् सर्वार्द्धत्रिचरणपश्चषष्ठभागाः क्षीयन्ते व्ययभवनादसत्सु वामम् । सत्स्वर्धं हसति तथैकराशिगानामेकोऽम्श हरति बली तथाऽह सत्यः ॥ ९॥ एकर्क्षोपगानां यो भवति बलाधिको विशेषेण । क्षपयति यथोत्कभंशं स एव नान्योऽपि तत्रस्थः ॥ १०॥ अथ क्रुरोदयहरणम् । सार्द्धोदितोदितनवांशहतात्समस्ताद् भागोऽष्टयुक्तशतसद्ख्य उपैति नाशम् । क्रूरे विलग्नसहिते विधिना त्वनेन सौम्येक्षिते दलमतः प्रलयं प्रयाति ॥ ११॥ लिप्रिभूतैर्लग्नभावैर्नहन्यादायुर्द्धयं खेचराणां पृथक्स्यम् । व्योमाकाशत्विन्दुपक्षैर्भजेत्तत् स्वायुर्दायाच्छोध्यमब्दादि लब्धम् ॥ १२॥ एतत् क्रूरे लग्नके सौम्यदृष्टे तस्मिन्पापे तत्फलार्द्धं विशोध्यम् । एतरायेनां शसङ्ज्ञे विधेयं पिण्डायुर्वत् कर्म नैसर्गिके च ॥ १३॥ अथ लग्नायुःसाधनम् । आयुस्थैतेषु बलाढ्यलग्ने विहाय राशीन् कृतलिप्तिकेऽत्र । भक्ते द्विशत्या फलमब्दपूर्वं यत्स्याद्विलग्नायुषि तञ्च योज्यम् ॥ १४॥ लग्नराशिसमाश्वाब्दास्तन्मासाद्यनुपाततः । लग्नायुर्द्ष्यमिच्छन्ति होराशास्त्रविशारदाः ॥ १५॥ अथ षड्विधरणम् । क्रूरोदयास्तरिपुनीचस्वगीपगानां रिःफायमाननवरन्ध्रकलत्रगानाम् । कृत्वा यथाहरणषत्कमिनादिकानां लग्नायुषा सह युते यदि तुल्यमायुः ॥ १६॥ अथ अंशकायुः । स्वमतेन किलाह जीवशर्मा ग्रहदायं परमायुपः स्वरांशम् । ग्रहभुक्तनवांशराशितुल्यं बहुसाम्यं समुपैति सत्यवाक्यम् ॥ १७॥ सत्योक्ते ग्रहमिष्टं लिप्तिकृत्वा शतद्वयेनास्तम् । मण्डलभागविशुद्धेऽब्दाः स्युः शेषात्तु मासाद्याः ॥ १८॥ स्वतुङ्गवक्रोपगतैर्स्त्रसंगुणो द्विरुत्तमस्वाम्शकभत्रिभागगिः । इयान् विशेषस्तु मदन्तभाषिते समानमन्यत् प्रथमेऽप्युदीरितम् ॥ १९॥ किन्त्वत्र भांशप्रतिमं ददाति वीर्यान्विता राशिसमं च होरा । क्रूरोदये चोऽपचयः स नात्र कार्यं च नाब्दैः प्रथमोपदिष्टैः ॥ २०॥ सत्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्यं बहुवर्गणाभिः । वाचार्यकं त्वत्र बहुघ्नतायामेकं तु शद् तदेव कार्शम् ॥ २१॥ अथ राश्मिजायुः । दशगोशरबाणाद्रिवसुसायकरश्मयः दिननायकमुख्येषु निजतुङ्गतेषु च ॥ २२॥ स्वोच्चोनमिष्टखचरं यदि षड्गृहोनं चक्राद्विशोध्य कृलिप्तकमंशुमानैः ॥ हत्वा भचक्रकलिकाहृतमच्दपूर्वं रव्यादिरशिभजनितायुरिति ब्रुषन्ति ॥ २३ अथ रश्मेर्हरणम् । स्वराशिकुमतिसुहृत्गृहस्थे वक्रोपगे तद्राद्विगुणिकृताम्युः? । वक्रवसानेऽष्टमभागर्कज्यां सपत्नगे द्वादयभागहानिः ॥ २४॥ अस्तङ्गतेषु द्युचरेषु चार्द्धं हित्वा शानिं दानवपूजितं च । तद्राश्मियोगे ग्रहदत्तमायुर्महेन्द्रशास्त्रोदितमाहुरार्याः ॥ २५॥ अथ चक्रायुः । रव्यादिसप्तग्रहतारकांशभुक्तावशेषाब्दसमूहमायुः । सव्यापसव्योपगवाक्यजं वा वदन्ति चक्रायुरिनादिकानाम् ॥ २६॥ अथ दशायुः । आदित्यसुख्यनवखेचरयोगताराभुक्तावशिष्टघटिकाजनिवत्सराद्यम् । आयुर्दशाजनितमष्टकवर्गजातं यत्प्रोक्तमेव सकलं प्रवदन्ति तज्ज्ञाः ॥ २७॥ अथ बलोपेते शुभदृष्टेऽशसम्भवम् । रवौ पिण्डोद्भवं कुर्याच्चन्द्रे नैसर्गिकं क्रमात् ॥ २८॥ जच्चङ्गते रवौ चान्ये बलिष्ठाः केन्द्रकोणगाः । सर्वेषु स्वोच्चभावेषु बलिष्ठे शशहंसके ॥ २९॥ एवं चिरायुषां योगोष्वन्येषु गणितेषु च । चान्द्रयोगेषु त्र्ये तु चन्द्रे च बलसंयुते ॥ ३०॥ महापुरुषयोगेषु वीर्योत्कटयुतेषु च । राजयोगेषु सर्वेषु पैणड्यमाह पराशरः ॥ ३१॥ लग्ने गुरौ कर्मगते च भानौ चन्द्रे सुखे वाऽस्तगते बलाढ्ये । केन्द्रत्रिकोणोपचये च सौम्ये पापेष्चथापोक्लिमगेषु पैणड्यम् ॥ ३२॥ पैणड्यं भानौ निसर्गप्रभवमुडुपतौ रश्मिजं सोमपुत्रे भौमे भिन्नाष्टवर्गोदितमसुरगुरौ कालचक्रोद्भवायुः । देवाचार्ये दशायुर्दिनकरतनये सामुदायं बलिष्टे लग्ने यद्यंशकायुर्भवति बलयुते चाहुराचार्यमुख्याः ॥ ३३॥ अथायुषः पष्टीकरणम् । आयुरब्दादिकं सर्वं निश्चलेन गुणिकृतम् । मातङ्गेन हृतं लब्धं सौरमानायुरुच्यते ॥ ३४॥ आयुषोऽधिकारिणः । ये धर्ममार्गनिरता द्विजदेवभक्ता ये पव्यभोजनरता विजितेन्द्रियश्च । येमानवाद्वृतिसत्कुलशीलसीमास्तेषामिदं कथितमायुरुदारधीभिः ॥ ३५॥ ये पापलुब्धाश्वोराश्च देवब्राह्मणनिन्दकाः । सर्वाशिनश्च ये तेषामकालमरणं नृणाम् ॥ ३६॥ धर्मे विकल्पबुद्धीनां दुःशीलानां च विद्विषाम् । ब्राह्मणानां च देवानां परद्रव्यापहारिणाम् ॥ ३७॥ भयक्कराणां सर्वेषां मूर्खाणां पिशुनस्य च । स्वधर्माचारहीनानां पापकर्मोपजीविनाम् ॥ ३८॥ शास्त्रेष्वनियतानां च मूढानामपमृत्यवः । अन्येषामुत्तमायुः स्यादिति शास्त्रविदो विदुः ॥ ३९॥ अथ नानाजातीयमायुः । गृध्रोलुकशुकष्त्राड्क्षसर्पाणां च सहस्रकम् । श्येनवानरमल्लुकमणडुकानां शतत्रग्रम् ॥ ४०॥ पश्चाशदुत्तरशवं राक्षसानां प्रकीर्तितम् । नराणां कुञ्जराणां च विंशोत्तरशतं विदुः ॥ ४१॥ द्युत्रिंशदायुरश्चानां पश्चविंशत् खरोष्टूयोः । वृषमाहिषयोश्वैश्व चतुर्वशतिवत्सराः ॥ ४२॥ विंशत्यायुर्मयूराणां छागादीनां च षोडश । हंसस्य पङ्चनवकं द्वादशाब्दाः पिकाः शुकाः ॥ ४३॥ तद्वत्पारावतानां च कुक्कूटस्याष्टवत्सराः । बुद्बुदानामणडजानां सप्तसङ्गथाः समाः स्मृताः ॥ ४४॥ आरिष्टदशा । त्रिमणडलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः । न सौम्यग्रहसंयुक्तस्तदशान्ते मृतिं वदेत् ॥ ४५॥ राशिसन्धिस्थखेटानां दशा रोगप्रदा भवेत् । त्रिंशद्भागमनुक्रान्तदशायां मरणं नृणाम् ॥ ४६॥ षष्ठाष्टमस्थो रिपुदृष्टमूर्त्तिः पापग्रहः पापगृहोपगश्चेत् । स्वान्तर्दशायां मरणं नराणां वदन्ति युद्धे विजितस्य दाये ॥ ४७॥ पङ्चम्यारदशा मृत्युं दद्यात्षष्ठी गुरोर्दशा । शनेश्चतुर्थी मृत्युः स्यादशा राहोस्तु पञ्चमी ॥ ४८॥ नीचारातिविमूढस्य विपत्प्रत्यारिनैधनाः । दशा दद्युर्मृतिं तस्यं पापयुक्ता विशेषतः ॥ ४९॥ तत्तद्भावार्थकामेशदशास्वन्तर्दशासु च । तत्तद्भावविनाशः स्यात् तद्युक्तेक्षितकारकैः ॥ ५०॥ अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ । तदीशानवभागर्क्ष गते वा मरणं भवेत् ॥ ५१॥ अथ च्छिद्रग्रहाः । रन्ध्रेश्वरो रन्ध्रयुक्तो रन्ध्रष्टा स्वरेश्वरः । रन्ध्राधिपयुतश्चैव चतुःषष्टयंशनायकः ॥ ५२॥ रन्ध्रे श्वरातिशत्रुश्च सप्त च्छिद्रग्रहाः स्मृताः । तेषां मध्ये बली यस्तु तस्य दाये मृतिं वदेत् ॥ ५३॥ तत्तद्भावाद्वपयस्त्थस्य तद्भावाधीश्वरस्य वा । वीर्योर्पेतस्य खेटस्य पाके मृत्युर्न संशयः ॥ ५४॥ अथ द्रेक्काणस्वरूपम् । कुलीरमीनालिगता दृगाणाः मध्यावसानप्रथमा भुजङ्गाः । अलिद्वितीयो मृगलेयपूर्वः क्रमेण पाशो निगडो विहङ्गः ॥ ५५॥ विलग्नजन्मद्रेक्काणाद्यस्तु द्वाविंशाति स्वरः । सुधाकरोपगांशर्क्षात् चतुःषष्ट्यंशको भवेत् ॥ ५६॥ अथ जीघदेहमृत्युसंज्ञाः । लग्नं पश्चहतं च मान्दिसहितं प्राणस्फुटं प्राणिनाम् चन्द्र्स्य स्फुटमष्टकेन गुणितं देहं समान्दिस्फुटम् । सप्तघ्नं गुलिकस्तुटं सह दिवानथेन मृत्युर्भवेत् तस्माज्जीवकलेवरैक्यविपुले जातश्विरं जीवति ॥ ५७॥ अथ निर्याणसमयाः जीवमृत्युतनुयोगराशिगे गोचरेण रविजे धनक्षयः । तन्त्रिकोणगृहगेऽथवा नृणां तन्नवांशकयुते मृतिं वदेत् ॥ ५८॥ भावत्रिकोणगे मन्दे भावनाशं वदेद्वुधः । भावाधिपतिकोणे वा गुरौ प्राप्ते मृतिर्भवेत् ॥ ५९॥ लग्नाकर्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु । तद्राशिसंस्थे पुरुहूतवद्ये तत्कोणगे वा मृतिमेति जातः ॥ ६०॥ स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् । तदेआशिवभागस्थे जीवे मृत्युर्न संशयः ॥ ६१॥ मान्दिस्फुटे भानुस्फुतं विशोध्य राश्यंशकोणे रविजे मृतिः स्यात् । धूमादिपङ्चग्रहयोगराशिद्रेक्काणयातेऽर्कसुते च मृत्युः ॥ ६२॥ मान्दिस्फुटोदितनवांशगतेऽमरेज्ये तद्द्वादशांशसहिते दिननाथसूलौ । द्रेक्कणकोणभवने दिनपे च मृत्युर्लग्नेन्दुमान्देयुतभेऽश॥ओदये स्यात् ॥ ६३॥ विलग्नमान्दिस्फुटयोगमांशं निर्याणमांसं प्रवदन्ति तज्ज्ञाः । निर्याणचन्द्रे गुलिकेन्दुयोगो लग्नं विलग्नार्क्किसुतेन्दुयोगम् ॥ ६४॥ गुलिकं रविसूनुं च गुणित्वा नवसङ्गयया । उभयोरैक्यराशगृहगे रविजे मृतिः ॥ ६५॥ षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते । तत्रिकोणोपगे वाऽपि मन्द् मृत्युभयं नृणाम् ॥ ६६॥ जीवे नन्दहते विरिङ्चिगुणितं मन्दं च मान्दिस्फुटम् संयोज्यं पुनरक्कवृद्धिभिनजं मन्दात्मजं योजयेत् ॥ तदेवेशपुरोहितस्फुटचयप्राप्तं नवांशं गते जीवे गोचरगे यदि नृणां निर्याणकालो भवेत् ॥ ६७॥ भानुस्फुटे नवहते रविजं च मान्दिं हत्वा ग्रहैरतदिनराशिगणेषु योज्यम् । मान्दि पुनश्च नवकेन हतं च युव्ज्यात् तद्राशिकांशगतपूषणि मृत्युकालः ॥ ६८॥ सुतेशसंयुक्तनभश्वराणाम् दशाब्दसङ्गया दिननायकाप्ताः । तच्छेषिते मासि मृतिं नराणां वदन्ति लग्नेशयुतग्रहैर्वा ॥ ६९॥ चन्द्रस्फुटे नवकसङ्गुणिते तु मान्दिं मन्दं च नन्दहतमिन्दुनियोजनीयम् । कृत्वा पुर्ननवहतार्कसुतं समेतं यत्तन्नवांशकशशी मरणप्रदः स्यात् ॥ ७०॥ जतोऽह्नि चेदर्कशानिस्फुटौक्यतारादिनिर्याणदशा प्रकल्प्या । तारेशराद्दुस्फुटयोगतारापूर्वा दशाऽनिष्टकरा रजन्याम् ॥ ७१॥ अथ निर्याणहेतुः ॥ उदयाद्द्वाविंशतिकं द्रेक्काणं कारणं मृत्योः । तस्याधिपस्य निर्याणं सूच्येद्विधिवत्तमः ॥ ७२॥ ज्ञेया जन्मानि यन्नवांशकगतो मान्दिस्तदोयास्तके राशौ तिष्ठति चेत् शुभस्तु बलवान् सौख्येन नूनं मृतिः । भूपुत्रे समरेण सूर्यतनये चोरादिभिर्दानवैः सर्पाद्यैश्च तथा नृपभयात्क्षिणोडुपे तोशजात् ॥ ७३॥ रन्ध्रं येन निरीक्षितं बलवता तद्धातुकोपन्मृतिः सूर्यादभ्रिजलायुधव्वरककक्षुत्तृट्कृतैश्चामयैः । लग्नादष्टमधामपे तनुगते कालस्य कालस्य यदेहजैः छिद्राम्शे च चरस्थिरोभयगते देशान्तरे स्वे पाथि ॥ ७४॥ शून्यागारे रन्ध्राशौ बलिष्ठैरादित्याद्यैर्वीक्षिते स्वेचरेन्दैः । नो चेन् छिद्रस्थानयातैश्च नो चेत् तद्रद्रेक्काणस्वामिना मृत्युमेति ॥ ७५॥ रव्यादिखेटनिजधातुभवामयेन जातस्तदीयखललींकरपीडया वा । रन्ध्रे शुभग्रहयुते तु विलापहेतुं सौख्येन मृत्युभुपयाति शुभोपयाते ॥ ७६॥ तुलायां रुधिरे प्राप्ते वृषभस्थे दिवाकरे । चन्द्रे मन्दगृहं प्राप्ते विणमध्ये मरणं भवेत् ॥ ७७॥ बलिना शानिना दृष्टे क्षीणेन्दौ निधनाश्रिते । गुदाक्षिरुकपीडया वा मृत्युः शस्त्रकृतो भवेत् ॥ ७८॥ लग्नाच्छिद्रत्रिकोणस्थैरर्कारार्किनिशाकरैः । मृत्युः स्याच्छैलपातेन वज्ञकुढ्यादिभिश्च वा ॥ ७९॥ भौमारुणौ यदि परस्परराशियुक्तौ केन्द्रस्थितौ निधननावकखेचरेन्द्रात् । जातोऽघसानसमये क्षितिपालकोपात् शूलादिकायुधवरैनिधनं समेति ॥ ८०॥ चन्द्रे तनौ दिनकरे विबलेऽष्टमस्थे लग्नाद्व्यये सुरगुरौ सुखगे च पापे । जातस्य तस्य शयनाच्च्युतहेतुमृत्युः शस्त्रेण वा निशि निधादकृतेन वा स्यात् ॥ ८१॥ लग्नेशे निधनांशस्थे मूढे षष्ठगतेऽथवा । क्षुवाधया च मरणं बन्धुहीने महीतले ॥ ८२॥ आयुर्विलग्नाधिपती बलेन हीनौ धरासूनुरृणोशयुक्तः । युद्धे मृतिं तस्य वदन्ति तज्ज्ञाः शस्त्रेण जातस्य मृतिं विशेषः ॥ ८३॥ लग्नेश्वरे वाहननाथयुक्ते वागीश्वरेणापि युते त्वजीर्णात् । दारेश्वरे वाहनावित्तराशिनाथान्विते वा मरणं त्वजीर्णात् ॥ ८४॥ भुक्त्यंशपो भानुसुतेन युक्तो दुःस्थानगो वा विषभक्षणे । सहार्हना वा शिखिना च तस्य मृत्युर्भवेद्रज्जुनिबन्धने ॥ ८५॥ पिशाचपीडाऽग्निजले विपत्स्याद्भौमहिमन्दान्यतमेन युक्त । क्षीणे शशाङ्के निधनस्थिते च दुःस्थे त्वपस्मारभयान्मृतिः स्यात् ॥ ८६॥ रन्ध्रस्यानगते सूर्ये भौमे वा बलवजिते । वित्ते पापग्रहैर्युक्ते पित्तरोगान्द्मृतिं वदेत् ॥ ८७॥ जलराशिगते चन्द्रे चाष्टमस्थेऽथवा गुरौ । पापग्रहेण संदृष्टे क्षयरोगान्मृतिं वदेत् ॥ ८८॥ अष्टमस्थानगे शुक्रे पापग्रहनिरीक्षिते । वातरोगात्क्षयाद्वाऽपि प्रमेहाद्वा मृतिं वदेत् ॥ ८९॥ सूर्यस्थानगते सौम्ये पापग्रहनिरीक्षिते । त्रिदोषान्मरणं विन्द्याज् ज्वररोगेण वा वदेत् ॥ ९०॥ मृत्युस्थानगते राहौ पापग्रहनिरीक्षिते । पिटकाद्युष्णरोगाद्वा सर्पदोषान्मृतिर्भवेत् ॥ ९१॥ पराभवगते राहौ पापग्रहनिरीक्षिते । मसूरिकादिरोगाद्वा पित्तभ्रंशान्मृतिं वदेत् ॥ ९२॥ अथ हस्तादिविच्छेदयोगाः । धर्मे शनौ चाथ गुरौ तृतीये करच्छिदः स्याग्निधने व्यये वा । कर्मस्थिताश्चेद्यदि राहुन्मन्दसौम्याः करच्छेद्युतोऽत्र जातः ॥ ९३॥ शुक्रेण दृष्टे यदि रन्ध्रनाथे सूर्ये शनौ वा फाणिनाथयुक्ते । क्रूरादिषष्ट्यंशसमन्विते वा विच्छेदनं तच्छिरसो वदन्ति ॥ ९४॥ मन्दे विलग्ने मदने सराहौ कन्यान्विते भार्गवनन्दने च । क्षीणे शशाङ्के मदराशियुक्ते विच्छिन्नहस्तश्च पदेन सार्द्धम् ॥ ९५॥ भूसूनुलग्ने यदि वा तदंशे सूर्यान्विते कृष्णानिशाकरे तु । फणीशचन्द्रात्मजसंयुतेऽर्कराशौ यदा तर्ह्युदरप्रभेदम् ॥ ९६॥ मन्दोदये सौम्यदृशा विहीने सर्पार्कयुक्ते यदि कृष्णचन्द्रे । नाभिप्रवेशोदरभेदमाहुः शस्त्रेण जातस्य प्राशराद्याः ॥ ९७॥ अथ दुर्मरणयोगाः । षष्ठाष्तमव्यये चन्द्रे लग्ननाथेन वीक्षिते । मन्दमान्द्यगुसंयुत्क्ते तस्य दुर्मरणं वदेत् ॥ ९८॥ मेषुरणस्थे यदि चित्रभानौ भौमे चतुर्थे न च सौम्युयुक्ते । सौम्ये विलग्नोपगते तु मृत्यु गोशृङ्गतः शूलनिपाततो वा ॥ ९९॥ दशमसुखसमेतैः पापदृष्तैश्च सय्म्यै- रुदयनिधनयातैः शूलपातान्मृतिः स्यात् । शशिनि तनुगृहस्थे बन्धुगे न्भानुपुत्रे कलहजनितदोषैरम्बरस्थे च भौमे ॥ १००॥ लग्नं गते दिनकरे तरुणीगतेन्दौ पापेक्षिते कलहतोयभयान्मृतिः स्यात् । लग्ने दिनेशशशिनौ द्विशरीरकेऽन्ये पापेक्षिता यदि बहुदकशृङ्गदष्टात् ॥ १०१॥ तुहिनकिरणलग्नात् पापखेटोपयाते नवमतनयराशौ पापखेटेक्षिते वा । भुजगनिगडपाशे रन्ध्रजन्मत्रिमागे जननसमयलग्नान्मृत्युद्बन्धनेन ॥ १०२॥ मीनोदये शशिरवी यदि पापयुक्तो पापेऽष्टमे च मरणं रभणीकृतं स्यात् ॥ भौमे सुखे दिनकरे यदि वा मदस्थे मन्देऽष्टमे शशिनि चान्नविशेषजन्यम् ॥ १०३॥ मन्दे धने सुखगते शशिनि क्षमाजे मानस्थिते व्रणकृतेन मृतिं समेति । बन्धुस्थेऽवनिसुते धनगे शशाङ्के भानौ नभस्थलगते तु गजाश्वयानात् ॥ १०४॥ रन्ध्रे शनौ वियति हीनबले शशङ्के भानौ सुखे निभृतकाष्ठहतेन मृत्युः । पापान्तरे जनलग्नपतौ सकेतौ लग्नाष्तमे खलयुते साति मातृकोपात् ॥ १०५॥ सुखास्प्दस्थैरशुभैर्ग्रहेन्दैस्त्रिकोणगैर्वाऽथ विलग्नराशौ । रन्ध्रेश्वरे भूतनयेन सार्द्ध उद्बन्धनात्तस्य मृतिं वदन्ति ॥ १०६॥ लग्ने रवौ सुते मन्दे रन्ध्रस्थे तृडुनायके । धर्म गते धरासूनौ वृक्षाशबिभयान्मृतिः ॥ १०७॥ पापेष्वाज्ञाबन्धुराशिस्थितेषु क्षीणे तारान्गयके शत्रुराशौ ॥ लग्नाच्छिद्रस्वानराशि गते वा यात्राकाले शत्रुदोषान्मृतिः स्यात ॥ १०८॥ लग्नान्त्यगौ भानुधराक्रमारौ दिनेशचन्द्रेन्दुसुता मदस्थाः । सुरालथोद्यानवनप्रदेशे प्रवासभूमौ भ्रियते तु जातः ॥ १०९॥ लग्नाष्तमे पापयुतेऽष्टमेशे रिःफोपयाते यदि केन्द्रगे वा । लग्नेश्वरे हीनबलेन युक्ते दुर्मार्गर्दोषात्प्रवदन्ति मृत्युम् ॥ ११०॥ भौमार्कजक्षेत्रगते शशाङ्के पापेक्षिते पापखगान्तरस्थे । कन्यागृहे वा हिबुकोपयाते मृतिं वदेदग्निजशस्त्रपातैः ॥ १११॥ यादि विषघटिकायामष्टमे पापयुक्ते विंषशिखिभवसस्त्रैर्जायते तस्य मृत्युः । बहुदिविचरयुक्ते लग्नपे साष्टमेशे बहुजनमृतिकाले मृत्युमेति प्रजातः ॥ ११२॥ लग्नेशस्थनवांशस्य राशिकोपोद्भवामयैः । मृत्युं तस्य वदन्त्येके हौरिका मुनिपुङ्ग्रवाः ॥ ११३॥ होरेशऽशगते तु तुम्दुरगृहे तापस्वराग्न्युद्भवै- रूक्षे श्वासविकारशूलजनितैर्युग्मे शिरशूलजैः । वातोन्मादमवैः कूलीरभवने सिंहे विषस्फोटकैः कन्यवां जठराम्निगुह्यजनितैर्जातस्य मृत्युं वदेत् ॥ ११४॥ जूकेशोकचतुष्पदज्वरभषैः कीटेऽस्मशस्त्रादिभि- चापे तीव्रमरूद्भषैर्मृगसुखे ज्वाघ्रादिशूलामयैः । कुम्भे ज्याघ्रवधूकृतैरनिभिषे तोयातिसायिर्मृतिम् संघ्रस्थांशगता प्रचारधरणी जातस्य मृत्युप्रदा ॥ ११५॥ अथ बिर्याणदिग्ज्ञनानम् । निशि बलयुतराशौ लग्नयातेऽह्निकाले यदि दिनबलयुक्ते जन्मलग्ने रजन्याम् । उदयगनवभागे स्वामियोगेक्षितानाम् दिशि मृतिमुपयाति स्थानवीर्याधिकस्य ॥ ११६॥ अथ मोहकालः शषपरिणामश्च । होरशेषनवांशमानघटिका मोहः स्वभांशेक्षिते पापैस्तद्द्विगुणीकृतस्त्रिगुणितः सौम्यैरवस्थात्मकः । क्रूरापश्वरसौम्यमिश्रतनुगैर्द्वाविंशतित्र्यंशकै- र्न्नशं याति शशीरमग्निजलसंभिश्रश्वमुख्यैः क्रमात् ॥ ११७॥ अथ मरणानन्तरं गतिज्ञनम् । देवमर्त्यपितृनारकालयप्राणिनो गुरुरिनक्षभासुतौ । कुर्युरिन्दुभृगुजौ बधार्कजौ मृत्युकालभवलग्नगा यदि ॥ ११८॥ भूश्वक्रं स्यात् तुम्बुराद्यं चतुष्कं सिंहागाराद्यं भुवश्वक्रमाहुः । चापादिस्थं तत्सुवश्वक्रजन्यं जीवो मृत्युक्षेत्रलोकं समेति ॥ ११९॥ रिःफाधीशे पापषष्त्यंशयाते पापैर्दृष्टे नारकं लोकमेति । राहौ रिःफे मान्दिरन्ध्रेशयुक्ते शत्रुस्थानस्वामिदृष्टे तथा स्यात् ॥ १२०॥ उच्चस्थे शुभखेचरे व्ययगते पापग्रहैः शोभनैः सन्दृष्टे शुभवर्गके च विपुलं स्वर्गादिभोगं वदेत् । कर्मस्थानपतौ पुरन्दरगुरौ रिःफोपयातेऽथवा सौम्यव्योमनिवासदृष्टिसहिते तस्यामरत्वं भवेत् ॥ १२१॥ बृहस्पतौ चापनवांशकस्थे बलान्विते कर्कटलग्नयाते । त्रिभिश्वतुभिः सह कण्टकेषु नभश्वरैर्ब्रह्मपदं प्रयति ॥ १२२॥ धनुविलग्ने यादि तुम्बुरांशके लग्ने गुरौ दानवपूजितेऽस्तगे । कन्यागते शीतकरे बलान्विते परं पदं लोकमुपैति शावतम् ॥ १२३॥ अध्यायोपसंहारः निसर्गदायप्रमुखायुरब्दस्फुटक्रियामृत्युदशाप्रभेदाः । निर्याणकालप्रभवाश्व सर्वे सक्कीर्तिता भानुमुखप्रसादात् ॥ १२४॥ इति क्षीनवप्रहकृपया वैद्यनाथविरचिते जातकपारिजाते आयुर्दायाध्यायः पङ्चमः ॥ ५॥
अथ जातकभङ्गाध्यायः ॥ ६॥ तत्रादौ जातकभङ्गपरिभाषा । केचिद् योगा राजयोगस्य भङ्गाः केचिद्रेका नाम दारिद्र्ययोगाः । केचित्प्रेष्याः के च केमद्रुमाख्यास्ते चत्वारो जातभङ्गाकराः ॥ १॥ राजभङ्गाः । मेषे जूकनवांशके दिनकरे पापेक्षिते निर्धनः कन्याराशिगते यदा भृगुसुते क्न्यांशके भिक्षुकः । नीचर्क्षे त्वातिनीचभागहिते जातो दिवानायके राजश्रेष्ठकुलाग्रजोऽपि विगतश्रीपुत्रदाराशनः ॥ २॥ मन्दाराहिसमन्वितेऽमरगुरौ शुक्रेन्दुपुत्रेक्षिते जातः शूद्रकलेवरोऽपि निखिलां विद्यामुपैति श्रियम् । तारानाथविकर्तनौ गदगतौ सौरेण संवीक्षितौ जातोऽसौ समुपैति नीचविहितोपायेन सप्तीवनम् ॥ ३॥ केन्द्रस्थे वा विलग्ने दिनकरतनये सौम्यखेतैरदृष्टे भूसूनोः कालहोरासमयजमनुजो भिक्षुको दासभूतः । सौम्यादृष्टेऽर्क्किदृष्टे शशिनि सरुधिरे मेषगे भिक्षुकः स्या- दर्क्कीन्द्वर्क्कैः सकेन्द्रैर्जडतनुरधनश्चान्यभुक्ताशनः ॥ ४॥ मन्दे केन्द्रगते विलग्नगृहगे चन्द्रेऽन्त्यभे वाक्पतौ जातो भिक्षुक एव शोकजलधौ भग्नो विदेशं गतः । धर्मस्थानपतौ तु रिःफगृहगे पापग्रहे केन्द्रगे जातः पापरतः परन्नधनभुग् विद्याविहीनो भवेत् ॥ ५॥ जीवे रहुयुतेऽथवा शिखियुते पापेक्षिते नीचकृन् नीचे नीचसमीक्षिते सुरगुरौ विप्राऽतिदुष्कर्मकृत् । निद्री चन्द्रविलग्नपौ सह दिवानाथेन मन्देक्षितौ प्रेष्यः स्यादशुभैः शुभग्रहदृशा हीनैश्च मानस्थितैः ॥ ६॥ भागुएशेऽन्त्यगते सहादरगतैः पापैर्व्ययेशेऽर्थगे दुर्भोजी परिबन्धनादिसहितो जातोऽन्यजायारतः । सर्वैनीचसपत्नभागाहितैः कर्मेतस्थानगै- र्विद्याबुद्धिकलत्रपुत्ररहितः कोपी सदा भैक्षकृत् ॥ ७॥ लग्नस्वामिनि रिःफगे तु वियति क्रूरे सचन्द्रे कुजे जातोऽसौ परदेशगः सुखधनत्यागी दरिद्रो भवेत् । होराजन्मपती न शोभन्युतावस्तंगतावन्त्यगे भाग्येशे यदि नष्टदारतनयो जातः कुलध्वंसकः ॥ ८॥ सौम्यासौम्ययुतेषु केन्द्रभनेष्विन्दौ तनुस्वामिना दृष्टे मन्दनवांशके सति कुलध्वंसी विदारात्मजः । कामेबोधनशुक्रयोः सुतगृहे जीवे सुखस्थे शुभे पापे रन्ध्रगते च चन्द्रभवनाज्जाताः कुलघ्वंसिनः ॥ ९॥ चरावसाने शशिनि स्थिरादौ द्विदेहमध्ये बलवर्जिते च । हीने विलग्ने यदि केचरेन्द्रैर्विनाशमेति क्षितिपालयोगात् ॥ १०॥ लग्नराशिनवभावनायका भानुशीतकरदेवपूजिताः । शत्रुभागसहिताः स्वनीचभस्वामिभांशसहिताः परानुगः ॥ ११॥ शशिनि गगनआते कामगे दानवेज्ये नवमभवनयाते पापखेटे कुलघ्नः । भृगुजशशिजचन्द्राः केन्द्रगा जन्मलग्ने तमसि विहितकर्मघ्वंसको नीचतुल्यः ॥ १२॥ नीचे भ्रिगौ म्न्दनवांशके वा दुःथानगे भानुसुतेक्षिते च । कामस्थिते शीतकरे सभानौ मात्रा सह प्रैष्यभुपैति नित्यम् ॥ १३॥ नीचे गुरौ वासर्नायके वा केन्द्रस्थिते पापयुते शिशुघ्नः । केन्द्रे सपापे शुभदृष्टिहीने रन्ध्रे गुरौ गोमृगजातिहन्ता ॥ १४॥ शशाङ्कसौम्यौ दशमोपयातौ पापेक्षितौ पापसमन्वितौ च । नीचांशगौ सौम्यदृशा विहीनौ जातस्तु नित्यं खलु पक्षिहन्ता ॥ १५॥ चन्द्रात्सुते लग्नपतौ धने वा सौम्येतरेष्वष्टमराशिगेषु । मानस्थिते शीतकरे तदग्नी जातस्तु जीवत्यतिहेयवृत्त्या ॥ १६॥ नीचारिभांशौ भृगुदेवपूज्यौ तदंशके वासरनाथपुत्रे । जातः सुदुःखःसुतदारहीनः कृच्छेण संजीवति भाग्यहीनः ॥ १७॥ सर्वे पापाः केन्द्रनीचारिसंस्थाः सौम्यर्दृष्टा रिःफरन्ध्रारियातः । निघ्नत्येते राजयोग्ं ग्रहेन्द्रा नीचारातिक्रूरषष्ठ्यंशकाश्च ॥ १८॥ केन्द्रस्थिता मन्दनिशाकरार्काः शुभैरदृष्टा यदि मद्यपायी । क्रूरारिषष्ठ्यंशकनीचभागा दुष्कर्मयुक्तोऽन्यकलत्रगामी ॥ १९॥ नीचे भृगौ धर्मगते सपापे द्विजप्रहर्ता यदि पापदृष्टे । व्यये शुभर्क्षेऽर्कसुतांशकस्थे भृगौ च दासीवरनन्दनः स्यात् ॥ २०॥ अथ रेकायोगाः । लग्नेशे बलवर्जिते परिभवस्थानाधिपेनेक्षिते सूर्योच्छन्नकरे पुरन्दरगुरौ रेकाख्ययोगो भवेत् । बन्धुस्थानप्संयुतांशकपतौ तिग्मांशुलुप्तद्युतौ रिःफेशेन निरीक्षिते सति यदा योगस्तु रेकाडयः ॥ २१॥ षष्थस्वामिनिरीक्षिते सुखपतौ रन्ध्रेशयुक्ते तथा मानेशे सुतगे विलग्नरमणे नीचं गते रेकभाक् । रन्ध्रारिव्ययराशिगा यदि शुभाः केन्द्रत्रिकोणोपगाः पापा लाभगृहाधिपे च विबले रेकाभिशस्तो भवेत् ॥ २२॥ होरशः खलसंयुतः सित गुरु चास्तं गतौ तद्वदेद् बन्धुस्थानपतिः शुभेतरयुतश्चास्तं गतो रेकदः । भाग्यस्थानपतौ विकर्तनकरच्छत्ने विलग्नाधिपे नीचस्थे धनपे च नीचगृहगे रेकाभिधानो भवेत् ॥ २३॥ नीचस्था यदि वा दिनेशाकिरणच्छन्नास्त्रयो लग्नपे दुष्टस्थानगतेऽथवा गतब्ले योगस्तु रेकप्रदः । होरावित्तनवास्पदायसुखधीकामानुस्थाः खला- स्तस्यायुर्नवभागरेकफलदा नीचारिपापेक्षिताः ॥ २४॥ एकद्विकत्रिकस्वलद्यचरा नराणां कल्पेस्वेविक्रमगताः परतस्तथैव । आदौ तु मध्यवयसि क्रमशस्तदन्त्ये रेकप्रदाः रिपुस्वलग्नहनीचदृष्टाः ॥ २५॥ रेकायोगफलम् । निर्विद्यो विधनो दरिद्रसहितो रेकोद्भवः कामुकः क्रोधी दुःखितमानसो रुचिकरः सौभाग्यहीनः पटुः । भिक्षाशी मलिनो विवादनिरतो मात्सर्यरोपान्वितो देवब्राह्मणदूषकः प्रतिदिनं दारात्मजैर्निदितः ॥ २६॥ दुष्टात्मा कुनखी कुमर्गनिरतो अभागायोगान्वितो बन्धूनामपकारदूषणपर्ः स्वल्पाधुराभिक्षुकः । मृकोऽन्धो बधिरः प्रमत्तह्वद्यः कामाहुरो रोषवाण् पङ्गुर्नेत्रविकारभावसहितो रेकोद्भवः स्यान्नरः ॥ २७॥ अथ दरिद्रयोगाः । भाग्येश्वरादतिबलो निधनेश्वरो वा लग्नाधिपस्त्रिदशनाथगुरुर्यदि स्यात् । केन्द्राद्वहिदिनकरस्य करामितप्तो लाभाधिपो यदि विहीनबलो दरिद्रः ॥ २८॥ लाभारिव्ययरन्ध्रपुत्रगृहगा जीवारमन्देन्दुजा नीचस्थानगता यदा रविकरच्छन्नास्तदा भिक्षुकः । भाग्यस्थानगतो दिनेशतनयः सौम्येतरैरीक्षितो लग्नस्थः शशिनन्दनो रवियुतो नीचांशगो भिक्षुक ॥ २९॥ जीवज्ञशुक्ररविनन्दनभूमिपुत्रा रन्ध्रारिरिःफसुरकर्मगता यदि स्यात् । लग्नेश्वरादतिबली व्ययभावनाथो नीचस्थितो रविकराभिहितो दरिद्रः ॥ ३०॥ शुक्रार्यद्विजराजभूमितनया नीचस्थिता जन्मनि व्योमाये नवमे कलत्रतनये जातो दरिद्रो भवेत् । लग्ने दानवपूजितेऽमरगुरौ पुत्रे धरानन्दने लाभे रात्रिकरे तृतीयभवने नीचं गते भिक्षुकः ॥ ३१॥ लग्ने चरे चरनवांशगतेऽसितेन दृष्टे च नीचगुरुणा यदि भिक्षुकः स्यात् । जातो विनाऽमरपुरोहितलग्नराशि जीवे रिपुव्ययगते तु भवेद्दरिद्रः ॥ ३२॥ जातः स्थिरे लग्नगते तु पापाः केन्द्रत्रिकोणोपगताश्च सर्वे । केन्द्राद्वहिःस्थानगतास्तु सौम्या भिक्षाशनः स्यात्परपोषितश्च ॥ ३३॥ चरे विलग्ने निशि सौम्यखेटस्त्रिकोणकेन्द्रोपगता नवीर्याः । स्वलग्नहाः केन्द्रबहिःस्थिताश्चेद् भिक्षाशनं नित्यमुपैति जातः ॥ ३४॥ पापा नीचस्थानगाः पापकर्मा, सौम्या नीचस्थानगा गूढपापः । जीवे नीचस्थानगे कर्मराशौ, नीचे भौमे मन्दनस्थे तथैव ॥ ३५॥ नीचांशगस्तुङ्गगृहोपयाता जातस्य नीचं फलमाशु दद्युः । नीचङ्गतास्तुङ्गनवांशकस्थाः सौम्यं फलं व्योमचराः प्रकुर्युः ॥ ३६॥ अथ दरिद्रयोगफलम् । निर्भाग्यो विलएन्द्रयो विषमढीर्दारात्मजैर्निन्दतो भिक्षाशी विषमस्थितो विषमवाक् शिश्रोदरे तत्परः । अन्यायर्जनतत्परस्त्वनुदिनं मात्सर्यवाक् कण्टकी नित्यं त्यात्परदारसक्तहृदयो नीचोऽन्धमूको जडः ॥ ३७॥ दारिद्रयोगे कलहप्रियः स्यात् कुष्टी परेषां हिरह्वत् कृतघ्नः । वाचालको भूसुरभक्तिहीनः कुदारयुक्तः कुनस्वी च जातः ॥ ३८॥ अथ प्रेष्ययोगाः । माने रवौ मन्मथगे निशीशे गेहे शनौ सोदरगे धराजे । लग्ने चरे देवगुरौ धनस्थे जातो निशायां परकार्यकृत्स्यात् ॥ ३९॥ धर्मे भृगौ कामगते मृगाङ्के वाचस्पतौ वित्तविलग्नपे वा । रन्ध्रस्थिते भूतनये च कीर्त्या लग्ने स्थिरे प्रेष्यभवा भवन्ति ॥ ४०॥ प्रेष्यश्चरोदयपतौ निशि सन्धियाते केन्द्रस्थिते यदि प्खलद्युच तु जातः मन्देन्दुजीवभृगुजा दिवि केन्द्रकोणे सन्धिस्थिताः स्थिरविलग्नयुते तथा स्यात् । ऐरावतांशेन्द्रगुरौ ससन्धौ शीतद्युतौ चोत्तमवर्गयुक्ते । केन्द्राद् वहिःस्थे निशि कृष्णपक्षे शुक्रे विलग्ने परकर्मजीवी ॥ ४२॥ प्रेष्यो भवेदरिसुखास्पदसन्धियाता भूपुत्रदेवगुरुवासरनायकाश्चेत् । पापांशके शशिनि शोभनराशियुक्ते जीवे विलग्नपयुतेपरकार्यकृत्स्यात ॥ ४३॥ मृगाननस्थे पुरुहूतवन्द्ये सपत्नभावाष्टमरिःफराशौ । रसातलस्थे हिमगौ विलग्नाज्जातः परप्रेष्यमुपैति नित्यम् ॥ ४४॥ अथ प्रेष्ययोगफलम् । पापात्मा कलहप्रियः काठिनवाह् भूदेवतादूषको विद्याभाग्यविहीनदुष्टरसिको मात्सर्यकोपान्वितः । मिथ्यावादविनोदवङ्चनरतः शिश्नोदरे तत्परः कारुण्यास्थिरमानभङ्गिचतुरो योगे परप्रेष्यके ॥ ४५॥ अथ अङ्गहीनयोगाः । मेषे वृषे चापधरे विलग्ने विकारदन्तो यदि पापदृष्टे । मन्दे मन्दस्थेऽहियुते कुजे वा बलैर्विहीनेऽङ्गविहीनवान् स्यात् ॥ ४६॥ लग्नाद्दशमगश्चन्द्रः सप्तमस्थो धरासुतः । द्वितीयस्थानगो भानुरङ्गहीनो भवेन्नरः ॥ ४७॥ त्रिकोणगे ज्ञे विबलैस्ततोऽपरैर्मुखाङ्घ्रिहस्तैर्द्विगुणैस्तदा भवेत् । अवाग्गवीन्दावशुभैर्भसन्धिगैः शुभेक्षिते चेत् कुरुते गिरं चिरात् ॥ ४८॥ सौम्य्र्क्षाशे रविजरुधिरौ चेत् सदन्तोऽत्र जातः कुब्जः स्वर्क्षे शशिनि तनुगे मन्दमाहेयदृष्टे । पङ्गुर्मीने यमशशिकुजैर्वीक्षिते लग्नसंस्थे सन्धौ पापे शशिनि च जडः स्यान्न चेत्सौम्यदृष्टिः ॥ ४९॥ सौरशशाङ्कदिवाकरदृष्टे वामनको मकरान्त्यविलग्ने । धीनवमोदयगैश्च दृगाणैः पापयुतैरभुजाङ्ध्रिशिराः स्याट् ॥ ५०॥ लग्नद्रेक्काणगो भौमः सौरसूर्येन्दुवीक्षितः । कुर्यद्विशिरसन्तद्वत् पङ्चमे बाहुवर्जितम् ॥ ५१॥ रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते नयनरहितः सौम्यासौम्यैः सबुद्बुदलोचनः । व्ययगृहगतश्चन्द्रो वामं हिनस्त्यपरं रवि- र्न शुभगदिता योगा याप्या भवन्ति शुभेकिताः ॥ ५२॥ शूरः स्तब्धो मध्यदृष्टिर्विलग्ने मेषे स्वोच्चे रोगदृक् सिंहगेऽर्के । रात्रावन्धस्तौलिगे निर्द्धनी स्यात् कर्किण्यर्के लग्नगे बुद्बुदाक्षः ॥ ५३॥ व्यये रवीन्दूयुगपत् पृथक्स्थौ नेत्रे हरेतामपसव्यसव्ये । षट्छिद्रगाश्चाक्षि हरन्ति सव्यं रिपौ दक्षिणमष्टमस्थाः ॥ ५४॥ विकर्तनो लग्नगतोऽस्तगो वा दिनेशपुत्राभियुतेक्षितश्चेत् । तस्येक्षणं दक्षिणमाशु हन्यादहीक्षमासूनुयुतस्तु वामम् ॥ ५५॥ दिनेशचन्द्रौ यदि रिष्फयातौ सपत्नरन्ध्रव्ययगास्त्वसौम्याः । हन्यादरिस्थो नयनं हि वामं रन्ध्रस्थितो दक्षिणभागनेत्रम् ॥ ५६॥ कुजे धनेशे निधने रवीन्द्वोः शत्रुव्ययस्थानगते,अर्कजेऽन्धः । रन्ध्रावसानारिते शशाङ्के शनौ सभौमे यदि नष्टनेत्रः ॥ ५७॥ षष्थे चन्द्रेऽष्टमे भौमे लग्नादन्त्यगतेऽर्क्कजे । वित्तस्थानगते भौमे शक्रोऽप्यन्धो भवेद् ध्रुवम् ॥ ५८॥ लग्नेश्वरेण सहिते यदि चित्तनाथे दुःस्थेऽक्षिनाशनमथास्फुजिदिन्दुयुक्ते । नेत्रेश्वरे तनुगते यदि नैशिकोऽन्घः स्वोच्चे शुभग्रहयुते न तथा वदन्ति ॥ ५९॥ अथ रोगयोगाः । राहौ विलग्ने सकुजेऽर्कपुत्रे साहौ बृहद्वीजमिवाहुएआर्याः । लग्नेश्वरे मृत्युगते सराहौ रन्ध्रे समान्दौ च तथैव वाच्यम् ॥ ६०॥ लग्ने सराहौ गुलिके त्रिकोणे रन्ध्रे कुजे मन्दयुते तथैव । लग्नेश्वराक्रन्ततदंशनाथे राह्वारमान्द्यादियुते तथैव ॥ ६१॥ लग्ने रवौ भूमिसुतेन दृष्टे गुल्मक्षयश्वासनिपीडितः स्यात् । भौमे विलग्ने शानिसूर्यदृष्टे वसूरिरोगाभिहतो मनुष्यः ॥ ६२॥ पापेक्षिते रविसुते धनराशियुक्ते पापान्विते शुनकभीतिमुपैति मर्त्यः । तद्भावनाथसहिते दिननाथपुत्रे दृष्टेऽथ वा शुनकभीतिमुपैति जातः ॥ ६३॥ वीर्यान्विते राहुसमेतराशिनाथान्विते राहुयुते विलग्ने । सर्पाद् भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगमेति ॥ ६४॥ नीचे तृतीयेऽरिगृहे विभूढे पापेक्षिते तद्रलरोगवान् स्यात् । विषप्रयोगाद्विषभक्षणाद्वा तेषामभावेऽर्थविनाशनार्थः ॥ ६५॥ पापे तृतीये लग्नरोगमत्र वदन्ति चान्द्रादियुते विशेषात् । भौमान्विते प्रेतपुरीशसूनौ तृतीयराशौ यदि कर्णरोगम् ॥ ६६॥ पापेक्षिते सोदरभे सपापे कर्णोद्भवं रोगमुपैति जातः । क्रूराविषष्ट्यंशयुते तदीशे कर्णस्य रोगं कथयन्ति तज्ज्ञाः ॥ ६७॥ पैतोल्बणं याति रवौ रिपुस्थे पापेक्षिते पापमन्विते च । भानौ सरन्ध्रे विबले धराजे पापे धनस्थे तु तथैव वाच्यम् ॥ ६८॥ श्लेष्माभयं बुधयुतेऽवनिजे रिपुस्थे क्रुरांशके यदि सितेन्दुसमीक्षिते च । पापेक्षितेऽवनिसुते निधनोपयाते केतौ धनाष्टमगते व्रणरोगमेति ॥ ६९॥ षष्ठेश्वरे पापयुते विलग्ने रन्ध्रस्थिते वा व्रणयुकशरीरः । कर्मस्थिते ताद्दशखेचरेन्द्रे व्रणाक्कितः स्याच्छुभदृग्विहीने ॥ ७०॥ लग्नेशभूपुत्रशशाङ्लपुत्राः सह स्थितः सौम्यतरान्य्भावाः । अपानरोगं स्व्थवाऽपवित्रं पश्यन्ति षष्ठं मुनयो व्दन्ति ॥ ७१॥ लग्नेशषष्ठाधिपती दिनेशयुक्तौ ज्वरं चन्द्रसमन्वितौ चेत् । जलप्रमादं क्षितिसूनुयुक्तौ युद्धेन वा स्फोटकराशिभिर्वा ॥ ७२॥ पित्तात्प्रमादं यदि सौम्ययुक्तौ निर्व्याधिकः सूरसमन्वितौ चेत् । शुक्रेण भार्याविपदं वदन्ति मन्देन नीचानिलरोगमाहुः ॥ ७३॥ सराहुकेतु यदि सर्पपीडां चोरादिभिर्भीभिर्तिमुपैति जातः । केन्द्रत्रिकोणे यदि साहिकेतू वदन्ति तज्ज्ञा निगलं तदानीम् ॥ ७४॥ षष्ठेश्वरश्चन्द्रसुतेन युक्तः सागुविलग्ने स्वयमत्र शिश्नम् । छिनत्त्यसौ सौम्यद्दशा विहीनः सभूमिपुत्रो यदि लिङ्गरोगी ॥ ७५॥ कामेश्वरः शुक्रयुतो रिपुस्थः कलत्रषण्ढत्वभुदीरयन्ति । षष्ठेशलग्नाधिपती समन्दौ केन्द्रत्रिकोणे यदि बन्धनं स्यात् ॥ ७६॥ चरे विलग्ने रिपुनाथदृष्टेकुजे च लाभे स्थिरगे च धर्मे । द्वन्द्वेऽस्तराशौ प्रवदेन्नराणां रोगं रिपूणां कृतमाभिचारम् ॥ ७७॥ जीवे समन्दे दशमेअर्धचन्द्र् वैकल्यभङ्गे क्षितिजे कलत्रे । दिनेशचन्द्रौ रविराशियुक्तौ चन्द्रर्क्षगौ वा यदि शोषणं स्यात् ॥ ७८॥ लग्ने रवौ भूमिसुते कलत्रे सून्मादभाक् तत्र नरो हि जातः । उन्मादबुधिं समुपैति लग्ने शनौ कलत्रे सकुजे त्रिकोणे ॥ ७९॥ लग्नत्रिकोणे दिननाथचन्द्रौ शौर्ये गुरौ केन्द्रसमन्विते वा । सोन्मादबुद्धिः स भवेत्तदानीं शरासनादौ यदि जन्मलग्ने ॥ ८०॥ कन्द्रस्थितौ सौम्यनिशाक्रौ वा सौम्यांशहीनौ भ्रमसंयुतः स्यात् । केन्द्रस्थिता मन्दनिशाकरार्का जडो भवेदत्र मधूपभोक्ता ॥ ८१॥ कुलीरकुम्भालिनवांशयुक्ते चन्द्रे समन्दे यदि गुह्यरोगी । चन्द्रे सुखे तद्भवनांशयुक्ते पापान्विते स्याद्यदि कुण्ठरोगी ॥ ८२॥ चन्द्रे सपापे फणिनाथयुक्ते रिःफे सुते रन्ध्रगतेऽथवाऽपि । जन्मादभक् तत्र सरोषयुक्तो जातस्तु नित्यं कलहप्रियः स्यात् ॥ ८३॥ चन्द्रेव्यये वा यदि वासुरेशे मन्दे त्रिकोणे मदरन्ध्रगेऽर्के । दन्ताक्षिरोगी च भवेत्तदानी नीचारिपापांशगतास्तथैव ॥ ८४॥ सुताम्बुगौ पापखगौ विशेषाच्चेदष्टरिःफारिगतेऽन्धता स्यात् । शुभग्रहाणामवलोकहीने चान्धो भवत्येव शुभैर्न दोषः ॥ ८५॥ हित्वा लग्नपति विलग्नसहितेष्वन्त्येषु कुष्ठं वदेत् नीलं भानुसुते तु चण्डकिरणे रक्तं सितं भूमिजे । मन्देन क्षितिजेन वा यदि युते कर्क्यन्त्यनक्रांशके केन्द्रे शोभनयोगदृष्टिरहिते कुष्टं वदेद् देहिनाम् ॥ ८६॥ पापान्विते शशिनि रन्ध्रपलग्नराशौ सर्पेक्षिते निधनपे यदि गुह्यरोगी । रन्ध्रे चतुस्त्रितयपापयुते तथैव सौम्यग्रहेण सहिते यदि रोगहीनः ॥ ८७॥ जलचरगृहरोगेन्दौ तत्पतौ षष्ठ्याते जलगृहगतखेटैरीक्षिते मूत्रकृच्छम् । परिभवरिपुयाते शीतगौ भौमदृष्टे रविसुतयुतलग्ने शोणितं रोगमेति ॥ ८८॥ क्षीणे मन्दगृहोदये हिमकरे पापग्रहैरन्विते रन्ध्रारातिगतेऽथवा पवनकृद् गुल्मादिरोगं वदेत् । चन्द्रे पापवियच्चरान्तरंगते मन्दे मदस्थानगे जातो विद्रधिजन्मशोषजनितैः सन्तप्तदेहो भवेत् ॥ ८९॥ अजीर्णगुल्मामयशूलमेति कुजे विलग्ने विबलेऽरिनाथे । लग्ने सपापे फणिनायके वा मन्देऽष्टमे कुक्षिरुगदितः स्यात् ॥ ९०॥ ह्वच्छुलरोगमुपयाति सुखे फणीशे पापेक्षिते गतबले यदि लग्ननाथे । शूलाभयं तनुपतौ रिपुनीचराशौ भौमे सुखे रविसुते यदि पापदृष्टे ॥ ९१॥ जातो भुक्तिविरोधरेगनिहतो रन्ध्रेश्वरे दुर्बले लग्ने पापनिरीक्षिते परिभवस्ताने समन्देक्षिते । वान्तिभ्रान्तिजपाण्डुमेति सकुजे चन्द्रे रिपुस्थान्गे जातः शूलविसर्पमेति दिनकृच्चन्द्रारयुक्ते यदा ॥ ९२॥ आरेक्षिते यदि विलग्नगृहेऽरिनाथे भानेऽथवाऽस्ततनुगे कृतमाभिचारम् । लग्नाधिपेन सहितेऽवनिजे विलग्ने केन्द्रेऽथवा रिपुपतौ तनुगे तथा स्यात् ॥ ९३॥ जातो निर्जरदर्शनेन जनितं रोगं सुखस्थानगे माने लग्नगतेऽथवाऽमरगुरौ केन्द्रे समन्दात्मजे । मन्देऽस्ते चरलग्नगे यदि शुभे पापेक्षिते शीतगौ भूतप्रेतपिशाचदर्शनवशाद् रोगं समेति ध्रुवम् ॥ ९४॥ चन्द्रे पापनिरीक्षिते रिपुगते पापान्विते वातजम् जातः शोणितपित्तमेति वसुधापुत्रे तथाऽस्ते सति । सौम्ये वातकफाभयं भृगुसुते मूलातिसारं तथा मन्दे गुल्ममुपैति राहुशिखिनोः पैशाचरोगं वदेत् ॥ ९५॥ कासश्वासक्षयजनिरुजं भानुभौमाहिदृष्टे षष्ठे सौरे गुलिकसहिते सौम्यदृग्योगहीने । रिःफे पापे शशिनि रिपुगे मानुजे रन्ध्रयाते पापांशस्थे तनुगृहपतौ मीनसं रोगमेति ॥ ९६॥ मन्दे कुलीरभवनोपगते मृगस्थे चन्द्रे जलोदररुजं समुपैति जातः । सारे शनौ रिपुगते रविराहुदृईष्टे लग्नाधिपे च विबले सति दीर्घरोगी ॥ ९७॥ हस्वः कुजे निजगृहे सुखविक्रमस्थे चन्द्रात्मजे रविसुते यदि लग्नगे स्यात् । स्वर्क्षे कुजे सुखसहोदरगेन्दुसूनौ होरधिपे शनियुते तु तथा वदन्ति ॥ ९८॥ अथ होरायाम् लग्नाद्व्ययारिगतयोः शशितिग्मरश्म्योः पत्न्या सहैकनयनस्य वदन्ति जन्म । द्यूनस्थयोर्नवमपङ्चमसंस्थयोर्वा शुक्रार्कयोर्विकलदारभुशन्ति जातम् ॥ ९९॥ नवमायतृतीयधीयुता न च सौम्यैरशुभा निरीक्षिताः । निथमाच्छवणोपघातदा रदवैकृत्यकराश्च सप्तमे ॥ १००॥ वर्गोत्तमादिशुभवर्गयुतेऽमरेज्ये लग्ने रसातलगते यदि वा बलाध्ये । वित्तायवृद्धिगृहगेषु वियच्चरेषु लग्नाधिपे बलयुते सुखमेति जातः ॥ १०१॥ ये जातभङ्गा नृपयोगभङ्गाः प्रेष्या दरिद्राङ्गविहीनरेकाः । ये रोगभेदाः परिकीर्तितास्ते सूर्यादिसर्वद्युचरप्रसादात् ॥ १०२॥ इति वैद्यनाथविरचिते जातकपारिजाते जातकभङ्गास्थे षष्ठाध्यायः ॥ ६॥
अथ राजयोगाध्यायः ॥ ७॥ कन्यमीननृयुग्मगोहरिधनुः कुम्भस्थितैः खेचरैः सेनामत्तमतङ्गचाजिविपुलो राजा यशस्वी भवेत् । तौलिच्छागवृधावसानगृहगैर्जातोऽखिलक्ष्मापति- र्गिचापान्त्यमकेन्द्रगैः पृथुयशाः पृथ्वीश्चरो जायते ॥ १॥ कन्यामेषतुलामृगेन्द्रघटगैर्जतो महीपालको दुश्चिक्यप्रतिभारसातलगतैर्बहुर्र्थदेशाधिपः । खेटा विक्रमबन्धुपुत्रगृहगा द्वौ वित्तधर्मस्थितौ शेषौ लग्नकलत्रराशिसहितौ राजा भवेद्द्वार्मिकः ॥ २॥ तारेशहोरासहिता गभोगा जातो यशस्वी मनुजाधिपः स्यात् । सौम्यास्तपोलाभगृहोपयाताः पापा रिपुव्योमगता नरेशः ॥ ३॥ लग्नास्पदानङ्गगृहोपयाता बलान्वितः शोभनखेचरेन्द्राः । कुजार्कपुत्रौ नवमायसंस्थौ नृपो भवेत्सर्वगुणाभिरांअः ॥ ४॥ वर्गोत्तमांशोपगते विलग्ने चन्द्रेऽथवा चन्द्रविमुक्तखेटैः । सुखास्पदानङ्गगृहोपयातैर्विलोकितैर्भानवनायकः स्यात् ॥ ५॥ अश्विन्यामुदयस्थिते भृगुसुते सर्वग्रहैरीक्षिते जातो राजकुलाग्नजो रिपुकुलघ्वंसी बहुस्त्रीरतः । हित्वा नीचनवांशमम्बरचरैस्त्र्याद्यैः स्वमागान्वितै- रेको लग्नगतो यदि क्षितिपतिः पङ्चादिकैर्वित्तवान् ॥ ६॥ शुक्रेऽरिनीचमपहाय कुतुम्बसंस्थे लग्नेश्वरे बलयुते पृथिवीपतिः स्यात् । चन्द्रेऽतिमित्रनिजभागगते निशायां शुक्रेक्षिते नृपतिरन्यविलोकहीने ॥ ७॥ मीने मीननवांशके भृउगुसुते लग्नस्थिते भूपतिः स्वोच्चे लग्नगृहाधिपे बलयुते राजा शशाङ्केक्षिते । लग्नस्वामिनि तुङ्गमन्दिरगते नीचारिभागंविना विना केन्द्रस्थानगते नभोगवियुते जातो महीपालकः ॥ ८॥ भाग्यस्थे निजतुङ्गमित्रभवने सम्पूर्णगात्रे विधौ लग्नादास्पदवित्तराशिगतयोः शन्यारयोर्भूपतिः । चन्द्रे पूर्णकलान्विते बलयुते लग्नं विना केन्द्रगे दृष्टे दानवमन्त्रिणा च गुरुणा राजा महीदानकृत् ॥ ९॥ एकस्मिन्परमोच्चगेऽतिसुहृदा दृईष्टे यदि क्ष्मापति- स्तत्तुल्यो भृगुनन्दने बलयुते लाभेऽथवा रिःफगे । द्वित्रिव्योमचरेषु तुङ्गगृहगेष्विन्दौ कुलीरे स्थिते लग्ने पूर्णबलान्विते नरपतिः सर्वत्र पूज्यो भवेत् ॥ २०॥ सर्वे चोपचयस्थिताः शुभस्वगाः पापा विलग्नस्थिता मानस्था यदि वा जितारिनिचयः क्रूरो महीपालकः । भानौ सप्तमगे निशाकरयुते तुङ्गादिवर्गस्थिते सौम्यासौम्यनिरीक्षितेऽतिचपलो राजाऽथवा तत्समः ॥ २१॥ नीचङ्गतो जन्मनि यो ग्रहः स्यात्तद्राशिनाथोऽपि तदुच्चनाथः । स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धर्मिकचक्रवर्ती ॥ २३॥ नीचस्थितग्रहनवांशपतौ त्रिकोणे केन्द्रेऽथवा चरगृहे यदि जन्मलग्ने । तद्भावपे चरगृहांशसमन्विते वा जातो महीपतिरतिप्रबलोऽथवा स्यात् ॥ २४॥ मानस्थनपतौ पराभवगते पारावतांशेऽथवा स्वोच्चस्वर्क्षसुहृन्नवांशकगते राजाधिराजो भवेत् । लग्ने नीचगृहे पुरन्द्दरगुरौ रन्ध्रे सपापग्रहे तद्राश्यंशसमन्विते यदि तदा राजाधिराजो भवेत् ॥ २५॥ जीवस्य व्ययगे शनौ सहजपे लाभेऽथवा भास्करे रिःफे लग्नपतौ तु निर्जरगुरावुर्वीशराजो भवेत् । भाग्येशस्थन्वांशपे तनयगे बन्धुस्थिते वा नृपो दृष्टे वा शशिजे सुरेन्द्रगुरुणा युक्ते स राजप्रियः ॥ २६॥ भाग्शेयेन निरीक्षिते ययिसुते केन्द्रस्थिते भृगुजाम् तुल्शत्वं समुपैति जातमनुजो लग्नस्थिते वाक्पतौ । केन्द्रे वा शदि कोणगे रविसुते मूलत्रिकोणोच्चगे लाभेयेन निरीक्षिते बलशुते भूपालतुल्शो भवेत् ॥ २७॥ लग्ने शीतकरे गुरौ सुखगते कर्मस्थिते भार्गवे तुङ्गस्वर्क्षगते दिवाकरसुते राजाऽथवा तत्समः । अन्त्योपा न्त्वविलग्नवित्तसहजव्यापारगेहेषु वा सौम्यव्योमचरेपु भूपतिसमो राजाधिराजप्रियः ॥ २८॥ मन्दे चोत्तमवर्गके बलयुते नीचा<शवर्ज्ये गुरौ भानौ शोभनदृष्तिभागसहिते राजप्रियस्तत्समः । राहौ कर्मणि लाभगे रविसुते भाग्याधिपेनेक्षिते लग्नेशे यदि नीचखेटरहिते पृथ्वीशतुल्यो भवेत् ॥ २९॥ नीचं गता द्वित्रिचतुर्ग्रहेन्द्राः षष्ठ्यंशके शोभनभागयुक्ताः । स्वतुङ्गराश्यांशसमन्विता वा धरापतिर्धर्मिकचक्रवर्ती ॥ २०॥ लग्नात्कर्मशुभाहिपौ शुभगृहाद्वयापारधर्मेश्वरौ मानादास्पदभाग्यपौ च सहित्तावन्योन्यराशिस्थितौ । अन्योन्यक्षणकेन्द्रगौ धनपतेः सम्बन्धिनौ चेद्धनी जातो यानपकायपिक्षितयुतौ बहुर्थयनाधिपः ॥ २१॥ षतसु ग्रहेषुच्चगृहस्थितेषु राजाधिराजोऽखिलभूपतिः स्यात् । उच्चं गतैः पङ्चभिरिन्द्रवन्द्ये लग्नस्थिते सर्वजनावनीशः ॥ २२॥ कुम्भोदयस्थे रविजे चतुर्भिः स्वोच्चंगतैः सर्वमहीपतिः स्यात् । मेषोदयस्थे यदि चन्द्रपुत्रे स्वोच्चं गते देवगुरौ नृपालः ॥ २३॥ चन्द्रे वृषोदयगते यदि षड्भिरन्यैर्दृष्टेऽतिबाल्यवयसि क्षितिनायकः स्यात् । तुङ्गस्थितैकस्वचरे निजमित्रयातैरन्यैः समेति नरपालसमानभोग्यम् ॥ २४॥ वर्गोत्तमे वा यदि पुष्करांशे सारेन्दुदेवेन्द्रगुरौ नृपालः । कर्मस्थिते शोभनदृष्तियुक्ते सम्पूर्णगात्रे शशिनि क्षितीशः ॥ २५॥ गुरुसितयुतचन्द्रे चापगे चन्द्रसूनौ यदि तनुगृहयाते भूमिजे कन्यकायाम् । मृईगसुखभवनस्थे भानुपुत्रे नृपः स्यादतिशयबलयुक्तः सर्वभूपालपूज्यः ॥ २६॥ कन्यावसानयुगचापमृगाननस्थैः सौम्येन्दुभौमगुरुभानुसुतैर्नृपालः । मीनोदये शशिनि पूर्णतनौ बलाढ्ये स्वोच्चे कुजे रविसुते घटगे नरेशः ॥ २७॥ मृगोदयस्थे यदि भुकुमारे कुलीरगे चन्द्रमसि क्षितीशः । धराजपूषामरवन्द्यमाना मृगाजकुम्भोपगता नरेशः ॥ २८॥ लग्नाधिपेतरयुते यदि पूर्णचन्द्रे शुक्रज्ञदेवगुरुदृईष्टियुते तु राजा । वर्गोत्तमांशसहिता गुरुशुक्रभौमाः पापा न केन्द्रभवनोपगता नरेशः ॥ २९॥ शीर्षोदयेषु निखिलद्युचरेषु चन्द्रे सौम्यग्रहेक्षणयुते कटके महीपः । लग्नाधिपे नवमगे दशमस्थिते वा लग्ने सुधाकरयुते पृथिवीपतिः स्यात् ॥ ३०॥ चापार्धं गतवान् सहन्नकिरणस्तत्रैव ताराधिपो लग्ने भानुसुतेऽतिवीर्यसहिते स्वोच्चे च भूनन्दनः । यद्येवं भवति क्षितेरधिपतिः सन्त्यज्य शौर्यं भयाद् दूरादेव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥ ३१॥ उपचयगृहसंस्थो जन्मपो स्यस्य चन्द्रात् शुभगृहनवांशे केन्द्रयाताश्च सौम्याः । सकलबलवियुक्ता ये च पापाभिधानाः स भवति नरनाथः शक्रतुल्यो बलेन ॥ ३२॥ उच्चामिलाषी सविता त्रिकोणे स्वर्क्षे शशी जन्मनि यस्य जन्तोः । स शास्ति पृथ्वी बहुरत्नपूर्णा बृहस्पतिः कर्कटकोपगश्चेत् ॥ ३३॥ स्वस्य त्रिकोणे रविरुच्चगोऽपि वा स्वस्वांशस्था रविशुक्रसोमजाः । तृतीयषष्ठमगा निशाकरात् कुर्वन्ति गोपालमिव क्षितीश्वरम् ॥ ३४॥ रविशाशिबुधशुक्रैर्व्योम्नि मित्रांशकस्थैर्न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नीचैः । स भवति नरपुत्रो भुपतिर्यत् प्रयणे गजमदजलसेकैः सिच्यते यस्य रेणुः ॥ ३५॥ क्षमासुतः स्वोच्चमुपाश्रितो बली रवीन्दुवाचस्पतिभिर्निरिक्षितः । भवेन्नरेन्द्रो यदि कुत्सितस्तदा समस्तपृथ्वीपरिरक्षणक्षमः ॥ ३६॥ भ्धोदये सप्तमगे बृहस्पतौ चन्द्रे कुलीरे सुखराशिगेऽमले । वियद्रते भार्गवनन्दने ग्रहे प्रशास्ति पृठ्वीमगदो निराकुलः ॥ ३७॥ प्रधानबलसंयुक्तः सम्पूर्णः शशलाङ्छनः । एकोऽपि कुरुते जातं नराधिपमरिन्दमम् ॥ ३८॥ देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः । करोति बहुधानाथं निर्जितारातिमण्डलम् ॥ ३९॥ लग्नेशे केन्द्रराशिस्थे कर्मेशे वृधिराशिगे । भाग्येशे लाभगे जातश्चिरञ्जिवी महीपतिः ॥ ४०॥ रविलुप्तकरः सौम्यः स्वस्थो मूलत्रिकोणगः । सर्वविद्याधिको राजा नेतरेषां स्वचारिणाम् ॥ ४१॥ अर्कज्ञौ सुखराशिश्थौ मन्देन्दू दशमस्थितौ । कुजोदये च सङ्जातो यदिराजा न संशयः ॥ ४२॥ दिवाकरोदये सिंहे शुक्रांशक्विवर्जिते । कन्यागते बुधे जातो नीचोऽपि पृथिवीपतिः ॥ ४३॥ मा(भा)नपुत्रोदयस्थौ वा मन्दावनिसुतौ यदि । पूर्णेन्दौ गुरुराशिस्थे जातो राजा भविष्यति ॥ ४४॥ बली विलग्नाधिपतिश्च केन्द्रे भूपालयोगं कुरुते नराणाम् । तन्मित्रदृष्टे यदि नीचवंशे जातोऽपि राजा नृपवन्दितो वा ॥ ४५॥ जन्माधिपः स्वोच्चगृहे मृगाङ्कं पश्यत्यवश्यं यदि भूमिपालः । गजादिसेनातुरगादिसङ्धैर्जितारिकोटिर्जगति प्रजातः ॥ ४६॥ लग्नं विहाय केन्द्रस्थे चन्द्रे पूर्णकलान्विते । गुरुभार्गवसन्दृष्टे जातो राजा भवेन्नरः ॥ ४७॥ लग्नेशे केन्द्रमावस्थे नीचमूढारिभं विना । नान्यग्रहयुक्ते राजा सार्वभौमो भविष्यति ॥ ४८॥ गुरुचन्द्रदिवानाथाः सुतविक्रमधर्मगः । जातो यदि महीपालः कुबेरसमवित्तवान् ॥ ४९॥ चापोदयस्थे बलिनि प्रभाकरे महीसुते कर्मगते सशीतगौ । उपान्त्यगे वा भृगुजे व्ययस्थिते सुरेन्द्रतुल्यो नृपतिः प्रजायते ॥ ५०॥ विक्रमायारिगाः पापा जन्मपः शुभवीक्षितः । राजा भवति तेजस्वी समस्तजनवन्दितः ॥ ५१॥ मृगोदयस्थे बलिनि क्षमासुते शनौतपःस्थानतेऽथवाऽन्त्यगे । देवाकरे सप्तमगे सशीतगौ महीपतिश्चङ्चलमानसो भवेत् ॥ ५२॥ लाभे सुखे वा दशमे समन्दश्चन्द्रमा यदि । जातो नृपकुले राजा तत्समो वा धनीभवेत् ॥ ५३॥ जातश्चोपचयस्थिते तनुपतौ चन्द्रे तपःस्थानगे केन्द्रस्थाः शुभवर्गगा यदि शुभा वीर्यन्विता भूपतिः । जीवेन्दू वृषभस्थितौ बलयुतः कोणस्थितो लग्नपः शान्यारेक्षणवर्जितो यदि तदा जातोऽवनीशो भवेत् ॥ ५४॥ विवाकरे मीनगृहोपयाते कुलीरलग्ने शशिनि क्षितीशः । अरातिनीचग्रहदृष्टियुक्ता भूपालयोगं न दिशन्ति सर्वे ॥ ५५॥ जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः प्रचुरगुणसमेतं मित्रयोगाच्च सिद्धम् । विवसुखमूढव्याधितो बन्धुतप्तो वधदुरितसमेतः शत्रुनिम्नर्क्षगेषु ॥ ५६॥ धनुर्मीनतुलामेषभृगकुम्भोदये शनौ । चार्वङ्गो नृपतिविद्वान् परुग्रामाप्रणिर्भवेत् ॥ ५७॥ स्वोच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगैः । शुभं सम्पूर्णपादोनदलपादालप्निष्फलम् ॥ ५८॥ अथ पङ्च महापुरुषयोगाः । मूलत्रिकोणनिजतुङ्गगृहोपगाता भौमज्ञजीवसितभानुसुता बलिष्ठाः । केन्द्रस्थिता यदा रुचभद्रहंसमालव्यचारुशशयोगकरा भवन्ति ॥ ५९॥ अथ रुचक-योगफलम् । जातः श्रीरुचके बलान्वितवपुः श्रीकीर्तिशीलान्वितः शस्त्री मन्त्रजपाभिचारकुशलो राजाऽथवा तत्समः । लावण्यारुणकान्तिकोमलतनुस्त्यागी जीतारिर्धनी सप्तत्यब्दमितायुषा सह सुखी सेनातुङ्गाधिपः ॥ ६०॥ धर्मेशलाभेशधनेश्वराणामेकोऽपि शीतद्युतिकेन्द्रवर्ती । स्वयं च लाभाधिपतिर्गुरुश्चेदखण्डसाभ्राज्यपतित्वमेति ॥ ६१॥ अथ भाद्रयोगफलम् । शारूउलप्रतिमाननो गजगातिः पीनोरुवक्षस्थलो लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छयः । मानी बन्धुजनोपकारनिपुणः श्रीभद्रयोगोद्भवो राजाऽशीतिभितायुरेति विपुलप्रज्ञायशोवित्तवान् ॥ ६२॥ अथ हंसयोगफलम् । रक्तास्योन्नतनासिकः सुचरणो हंसखरः श्लेष्मको गौरङ्गः सुकुमारदारसहितः कन्दर्पतुल्यः सुखी । शास्त्रज्ञानपरायणोऽतिनिपुणः श्रीहंसयोगे गुणी जातोऽशीतिकमायुरेति सयुगं ८४ साधुक्रियाचारवान् ॥ ६३॥ अथ मालव्ययोगफलम् । स्त्रीचेष्टो ललिताङ्गसन्धिनयनः सौन्दर्यशाली गुणी तेजस्वी सुतदारवाहनधनी शास्त्रार्थवित्पण्डितः । उत्साहप्रभुशक्तिमन्त्रचतुरस्त्यागी परस्त्रीरतः सप्तत्यब्दमुपैति सप्तसहितं (77) मालव्ययोगोद्भवः ॥ ६४॥ अथ शशयोगफलम् । भूपो वा सचिवो वनाच्लरतः सेनापतिः क्रूरधी- र्घतोवार्दविनोदङ्चनपरो दाता सरोषेक्षणः । तेजस्वी निजमातृभक्तिनिरतः शूरोऽसिताङ्गः सुखी जातः सप्ततिरायुरेति शशके जारक्रियाशीलवान् ॥ ६५॥ गर्गहोरायाम् । यस्य योगस्य यः कर्ता बलवान् जितदृग्युतः । अधियोगादियोगेषु स्वदशायां फलप्रदः ॥ ६६॥ अथ भास्करादियोगाः । भानोरर्थगते बुधे शशिसुताल्लाभस्थितश्चन्द्रमा- श्चन्द्रात्कोणगतैः पुरन्दरगुरुर्योगस्तदा भास्करः । शूरो भास्करयोगजः प्रभुसमः शास्त्रार्थविद्रुपवान् गान्धर्वश्रुतिवित्तवान् गणितविद्धीरः समर्थो भवेत् ॥ ६७॥ अथ चन्द्रयोगः । चन्द्राद्विक्रमगः कुजोऽवनिसुतादस्ते शनिः सूर्यजा- दस्ते दैत्यगुतुः सितान्मदनगो जीवो यदीन्द्राह्वयः । स्यातस्तत्रभवः सशीलगुणवान् भूपोऽथवा तत्समो वाग्मी वित्तविचित्रभूषणयशोरूपप्रतापान्वितः ॥ ६८॥ अथ मरुद्योगः । शुक्रात् कोणगतो गुरुः सुरगुरोः पुत्र शशी शीतगोः केन्द्रस्थानसमाश्रितो दिनकरो योगो मरुत्संज्ञकः । वाग्मी वायुभवो विशालह्वदयः स्थूलोदरः शास्त्रवित् सम्पन्नः क्रयविक्रयेषु कुशलो राजाऽथवा तत्समः ॥ ६९॥ अथ बुधयोगः । लग्नेज्ञो गुरुकेन्द्रगो हिमकरश्चन्द्रादहिर्वित्तगः सौर्यस्थानगतौ च भानुरुधिरौ योगो बुधः कीर्तितः । राजश्रीबुधयोगजोऽतुलप्रख्यातनामा विदुः शास्त्रज्ञानकरक्रियासु चतुरो भीमानशत्रुर्भवेत् ॥ ७०॥ अथ सुनफा-अनफा-धुरन्धुरा-केमद्रुमयोगाः । लग्नस्थिते हिमकरे यदि वा मदस्थे केमद्रुमो भवति जीवदृशा विहीने । अत्यल्पबिन्दुसहिता यदि खेचरेन्द्राः केमद्रुयोगफलदा विबलाश्च सर्वे ॥ ७१॥ द्वितीये द्वादशे पार्श्वे द्वये खेचरसंयुते । शीतांशोः सुनफायोगस्त्वनफानाम् कीर्तितः ॥ ७२॥ योगो धुरन्धुराख्यः स्याद्वीना सर्वत्र भास्करम् । एतद्योगत्रयाभावे केमद्रुमफलं वदेत् ॥ ७३॥ चन्द्रे सभानौ यदि नीचदृष्टे पापांशके यादि दरिद्रयोगम् । क्षीणेन्दुलग्नान्निधने निशायां पापेक्षिते पापयुते तथा स्यात् ॥ ७४॥ विधुन्तुदादिग्रहपीडितेन्तौ पापेक्षिते चाशु दरिद्रमेति । लग्नाचतुष्केन्द्रगृहे सपापे निशाकराद्वाऽशु दरिद्रमेति ॥ ७५॥ चन्द्रे पराजितशुभग्रहदृष्टियुक्ते राह्वादिपीडिततनौ तु दरिद्र एव । नीचारिवीक्षणयुते रिपुराशिवर्गे चन्द्रे तुलाधरगते तु तथा वदन्ति ॥ ७६॥ केन्द्रे वा यदि कोणगे हिमकरे नीचारिवर्गस्थिते चन्द्रादन्त्यसपत्नरन्ध्रगृहगे जीवे दरिद्रो भवेत् । पापांशे रिपुवीक्षिते चरगृहे चन्द्रे चरांशेऽथवा जातो याति दरिद्रयोगमतुलं देवेज्यदृग्वर्जिते ॥ ७७॥ अन्योन्यदृष्तौ शनिदानवेज्यौ नीचारिपापग्रहवर्गयातौ । एकर्क्षगौ वा यदि राजवंशे जातोऽपि लेमद्रुमयोगमेति ॥ ७८॥ चन्द्रे पापयुते तु पापभवने पापाम्शके वा निशि व्योमेशेन निरिक्षिते गतबले केमद्रुयोगो भवेत् । भाग्यस्थानपवीक्षिते खलयुते नीचांशकेऽब्जे तथा चन्द्रे नीचयुते निशि क्षयतनौ जातस्य केमद्रुमः ॥ ७९॥ अथ केमद्रुमयोगापवादः । निशाकरे केन्द्रगते भृगौ वा जीवेक्षिते नैव दरिद्रयोगः । शुभान्विते वाऽशुभमध्यगेन्दौ जीवेक्षिते नैव दरिद्रयोगः ॥ ८०॥ चन्द्रेऽतिमित्रनिजतुङ्गांशकस्थे जीवेक्षिते यदि दरिद्रतया विहीनः । चन्द्रेऽतिमित्रनिजतुङ्गगृहांशकस्थे जीवेक्षिते यदि दरोद्रतया विहीनः ॥ ८१॥ योगे केमद्रुमे प्राप्ते यस्मिन् कस्मिश्च जातके । राजयोगा विनश्यन्ति हरिं दृईष्वा यथा द्विपाः ॥ ८२॥ होरायाम् । हित्वाऽर्कं सुनफाऽनफादुरुधुरा स्वान्त्योभयत्थैर्ग्रहः शीतांशोः कथितोऽन्यथा तु बलिभिः केमद्रुमोऽन्यैस्त्वसौ । केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रुमो नेष्यते केचित् केन्द्रनवांशकेषु च वदन्त्युक्तिप्रसिद्धा न ते ॥ ८३॥ अथ सुनफादियोगफलम् । स्वयमधिगतवित्तः पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च । प्रभुरगदशरीरः शीलवान् ख्यातकीर्तिविषयसुखसुवेषो निर्वृतश्चानफायाम् ॥ ८४॥ दत्पङ्गभोगसुख भाग्धनवाहनाच्यस्त्यागान्वितो दुरुधुराप्रभवः सुभृत्यः । केमद्रुमे मलिनदुःखितनीचनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥ ८५॥ अथ कुजादिकृतसुनफायोगफलानि । जातश्च भूपतिश्चण्डो हिंस्त्रो हिम्भः सुधीरधीः । धनविक्रमवान् कोपी चन्द्राद्धनगते कुजे ॥ ८६॥ वेदशास्त्रकलागेयकुशलः सुशरीरवान् । मनस्वी हितवाग् धर्मी चन्द्राद्वित्तगते बुधे ॥ ८७॥ सर्वविद्याधिकः श्रीमान् कुटुम्बी नृपल्लभः । राजतुल्यशस्त्री च चद्रात्वित्तगते गुरौ ॥ ८८॥ विक्रमस्त्रीधनक्षेत्रकर्मवान् बहुवित्तवान् । च्तुष्पदाढ्या राजस्त्रीः सिते चद्रात् कुतुम्बगे ॥ ८९॥ पुरग्रामस्थिताशेषैः पूजितो धनवान् सुधिः । निपुणः सर्वकार्येषु चन्द्राद्वित्तगते शनौ ॥ ९०॥ अथ कुजादिग्रहकृतानफयोगफलानि । मानी रणोत्सुकः क्रोधी धृष्टश्चोरजनप्रभुः । धीरः स्वतनुलोभी स्याच्चन्द्रादन्त्यगते कुजे ॥ ९१॥ गान्धर्वलेख्यपटुवाक् कविर्वक्ता सुदेहवान् । यशःस्वी राजपूज्यः स्यात् चन्द्राद्व्ययगते बुधे ॥ ९२॥ राजपूज्योऽतिमेधावी गाम्भीर्यगुणसत्त्ववान् । शुचिः स्थानधनाढ्यः स्याद् चन्द्राद् द्वादशगे गुरौ ॥ ९३॥ युवतीजनकदर्पुः पश्चादिधनवान् सुधीः । धन्धान्याधिकश्चन्द्रादन्त्यस्थानगते भृगौ ॥ ९४॥ विस्तीर्णबाहुर्गुणवान् नेता पश्चादिवित्तवान् । गृहीतवाक्यो दुस्त्रीकश्चन्द्रादन्त्यङ्गते शनौ ॥ ९५॥ अथ दुरन्धरयोगफलानि । असत्यवादी गुणवान् बिपुणोऽतिषठो गुणी । लुब्धो वृद्धोऽसतीसक्तश्चन्द्रे सौम्यारमध्यगे ॥ ९६॥ स्वकर्मविभवो दृष्टो यशस्वी रिपिपीडितः । स्वगेहशीलकृच्चन्द्रे मध्यगे कुजजीवयोः ॥ ९७॥ व्यायानी सुभगः क्रूरो हृष्टः सत्कामवित्तवान् । भयादशीलः शीतांशौ मध्यगे कुजशुक्रयोः ॥ ९८॥ कुत्सितस्त्रीरतः क्रोधी धनवान् पिशुनोऽरिमान् । असन्तृप्तो निशानाथे मध्यगे कुजमदयोः ॥ ९९॥ धर्मात्मा शास्त्रविद्वाग्मी सत्कविः सज्जनान्वितः । यशस्वी च निशानाथे मध्यगे बुधजीवयोः ॥ १००॥ नृत्य्गानरतः कान्तः प्रियवाक् शुभगः सुधिः । शूर्प्रकृतिकश्चन्द्रे मध्यगे बुधशुक्रयोः ॥ १०१॥ देशाद्देशं गतः पूज्यो नातिविद्याधनान्वितः । स्वबन्धुजनविद्वेषी चन्द्रे मन्दज्ञमध्यगे ॥ १०२॥ नृपतुल्यकरः श्रीमान् नीतिज्ञो विक्रमान्वितः । ख्यारोऽदुष्टमतिश्चन्द्रे मध्यगे गुरुशुक्रयोः ॥ १०३॥ सुखी विनयविज्ञानविद्यारूपगुणान्वितः । धनी शान्तिकरश्चन्द्रे मध्यगे शनिजीवयोः ॥ १०४॥ वृद्धाचारः कुलाढ्यश्च निपुणस्त्रीजनप्रभुः । धनी नृपप्रियश्चन्द्रे सितादित्यसुतान्तरे ॥ १०५॥ अवोच्चस्वमित्रभवनोपगतेषु सर्वं प्राप्नोति जातमनुजो नियतं युदक्तम् । स्वांशेषु वा निजसुहृद्गृहसंयुतेषु प्राहुस्थैव फलमस्ति पराशरद्याः ॥ १०६॥ चन्द्रः सराहुर्यदि वा सकेतुश्चन्द्रादहिर्वा यदि रिःफयातः । नीचास्तगो वा यदि योगकर्ता जातस्य मिश्रं फलमाहुरार्याः ॥ १०७॥ अथ शकटयोगः । षष्ठामगतश्चन्द्रात्सुरराजपुरोहितः । केन्द्रादन्यगतो लग्नाद्योगः शकटसंज्ञितः ॥ १०८॥ अपि राजकुले जातो निःस्वः शकटयोगजः । क्लेशायासवशान्नित्यं सन्तप्तो नृपविप्रयः ॥ १०९॥ अथ पारिजातादियोगफलानि । सपारिजारद्युचरः सुखानि नीरोगतामुत्तमवर्गयातः । सगोपुरांशो यदि गोधनानि सिंहासनस्थः कुरुते विभूतिम् ॥ ११०॥ करोति पारावतभागयुक्तो विद्यायशःशीविपुलं नराणाम् । सदेवलोको बहुयानसेनामैरावतस्थो यदि भूपतित्वम् ॥ १११॥ अथ अधमादि योगः । अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे शशिनि विनयवित्तज्ञानधीनैपुणानि । अहनि निशि च चन्द्रे स्वाधिमित्रंशके वा सुर्गुरुसितदृष्टे वित्तवान् स्यात् सुखी च ॥ ११२॥ अथ चन्द्राधियोगा । सौम्यैः स्मरारिनिधनेष्वधियोग इन्द्रोस्तस्मिश्चमूपसचिवक्षितिपालजन्म । सम्पत्तिसौम्ख्यविभवा हतशत्रवश्च दीर्घयुषो विगतरेगभयाश्च जाताः ॥ ११३॥ अथ लग्नाधियोगः । लग्नादरिद्यूनगृहाष्टमस्थैः शुभैर्न पापग्रहयोगदृष्टैः । लग्नाधियोगो भवति प्रसिद्धिः पापः सुखस्थानविवर्जितैश्च ॥ ११४॥ लग्नाधियोगो बहुशास्त्रकर्ता विद्याविनीतश्च बलाधिकारी । मुख्यस्तु निष्कापटिको महात्मा लोके यशोवित्तगुणान्वितः स्यात् ॥ ११५॥ अथ गजकेसरीयोगः । केन्द्रस्थिते देवगुरौ मृगाङ्कायोगस्तदाहुर्गज्केसरीति । दृष्टे सितार्येन्दुसुतैः शशाङ्के नीचास्तहीनैर्गजकेसरी स्यात् ॥ ११६॥ गजकेसरिसङ्जातस्तेजस्वी धनधान्यवान् । मेधावी गुणसम्पन्नो राजप्रियकरो भवेत् ॥ ११७॥ अथ अमलायोगः । यस्य जन्मसमये शशिलग्नात् सद्ग्रहो यदि च कर्मणि संस्थः । तस्य कीर्तिरमला भुवि तिष्ठोदायुषोऽन्तमविनाशनसम्पत् ॥ ११८॥ लग्नाद्वा चन्द्रलग्नाद्वा दशमे शुभसंयुते । योगोऽयमभला नाम कीर्तिराचन्द्रतारकी ॥ ११९॥ राजपूज्यो महाभोगी दाता बन्धुजनप्रियः । परोपकारी गुणवान् अमलायोगसम्भवः ॥ १२०॥ अथ वास्यादियोगाः । व्ययधनयुतखेटैर्वासिवेवेशी दिनेशादुभयचरिकयोगश्चोभयस्थानसंस्थैः । निजगृहसुहृदुचस्थानयातैश्च जाता बहुधनसुखयुक्ता राजतुल्या भवन्ति ॥ १२१॥ वास्यादियोगफलानि । जातः सुशीलः शुभवेसियोगे वाग्मी धनी वीतभयो जितारिः । पापग्रहे दुष्टजनानुरक्तः पापार्मकरो वित्तसुखादिहीनः ॥ १२२॥ वासौ शुभग्रहयुते निपुणः प्रदाता विद्याविनोदसुखवित्तयशोबलाढ्यः । पापान्विते यदि विदेशगतोऽतिमूर्खः कामातुरो वधरुचिर्विकृताननः स्यात् ॥ १२३॥ सौम्यान्वितोभयचरीप्रभवा नरेन्द्रास्तत्तुल्यवित्तसुखशीलदयानुरक्ताः । पापान्वितोभयचरौ यदि पापकृत्या रोगाभिभूतपरकर्मरता दरिद्राः ॥ १२४॥ अथ शुभादियोगाः । शुभाशुभाढ्ये यदि जन्मलग्ने शुभाशुभाख्यौ भवतस्तदानीम् । व्ययस्वगैः पापशुभैर्विलग्नात् पापाल्ह्यसौम्यग्रहकर्त्तरी च ॥ १२५॥ शुभयोगभवो वाग्मी रूपशीलगुणान्वितः । पापयोगोद्भवः कामी पापकर्मा परार्थभुक् ॥ १२६॥ शुभकर्तरिसङ्जातस्तेजोवित्तबलाधिकः । पापकर्तरिके पापी भिक्षाशी मलिनो भवेत् ॥ १२७॥ अथ पर्वतयोगः । सौम्येषु केन्द्रगृहगेषु सपत्नरन्ध्रे शुद्धे,अथवा शुभयुते यदि पर्वतः स्यात् । लग्नान्त्यपौ यदि परस्परकेन्द्रयातौ मित्रेक्षितौ भवति पर्वतनाम योगः ॥ १२८॥ भाग्यान्वितः पर्वतयोगजातो विद्याविनोदाभिरतः प्रदाता । कामी परस्त्रीजनकेलिलोलस्तेजोयशस्वी पुरनायकः स्यात् ॥ १२९॥ अथ काहलयोगः । अन्योन्यकेन्द्रगृहगौ गुरुबन्धुनाथौ लग्नाधिपे बलयुते यदि काहलः स्यात् । कर्मेश्वरेण सहिते तु विलोकिते वा स्वोच्चस्वके सुखपतौ यदि ताद्दशः स्यात् ॥ १३०॥ ओजस्वी साहसी मूर्खश्चतुरङ्गबलैर्युतः । यत्किङ्चिद्ग्रामनाथस्तु जातः स्यात् काहले नरः ॥ १३१॥ अथ मालिकायोगः । लग्नादिसप्तगृहगा यदि सप्त खेटा जातो महीपतिरनेकगजाश्वनाथः । वित्तादिगो निधिपतिः पितृभक्तियुक्तो धीरोऽग्नरूपगुणवान् नरचक्रवर्ती ॥ १३२॥ जातो चदा विक्रममालिकायां भूपः स शूरो धनीकश्च रोगी । सुखदिकषेद् बहुदेशभाम्यभोगी महादानपरो महीपः ॥ १३३॥ पुत्राथा यदि मालिका नरपतिर्यन्वाऽथका कीर्तिमान् । लातः चष्ठगृहात् कचिद् धनसुखप्राप्तो दरिद्रो भवेत् । कामादिग्रहमालिका यदि बहुस्त्रीयज्ञभो भूपतिः । दीर्घर्धनवर्जितो नरवरस्त्रीनिर्जितश्चाष्टमान् ॥ १३४॥ धर्मादिग्रहमालिका गुणनिधिर्यज्वा तपस्वी विभुः । कर्माद्या यदि धर्मकर्मनिरतः सम्पूजितः सज्जनैः । लाभाद्राजवराङ्गनामनिपतिः सर्वक्रियादक्षको । जातो रिःफगृहाद्बहुव्ययकरः सर्वत्र पूज्यो भवेत् ॥ १३५॥ अथ चामरयोगः । लग्नेश्वरे केन्द्रगते स्वतुङ्गे जीवेक्षिते चामरनाम् योगः । सौम्यद्वये लग्नगृहे कलत्रे नवास्पदे वा यदि चामरः स्यात् ॥ १३६॥ योगे जातश्चामरे राजपूज्यो विद्वान् वाग्मी पण्डितो वा महीपः । सर्वज्ञः स्वाद्वेदशास्त्राधिकारी जीवेल्लोके सप्ततिर्वत्सराणाम् ॥ १३७॥ अथ शङ्कयोगः । अन्योन्यकेद्न्रगृहगौ सुतशत्रुनाथौ लग्नाधिपे बलयुते यदि शङ्कयोगः । लग्नाधिपे च गगनाधिपतौ चरस्थे भाम्याधिपे बलयुते तु तया वदन्ति ॥ १३८॥ श॥ए जातो भोगशीलो दयालुः स्त्रीपुत्रार्थक्षेत्रवान् पुण्यकर्मा । शास्त्रज्ञानाचारसाधुक्रियावान् जीवेल्लोके वत्सराणाभशीतिः ॥ १३९॥ अथ भेरीयोगः । स्वान्त्योदयास्तभवनेषु वियचरेषु कर्माधिपे बलयुते यदि भेरियोगः । केन्द्रं गतौ सुरगुरोः सितलग्ननाथौ भाग्येश्वरे बलयुते तु तथैव वाच्यम् ॥ १४०॥ दीर्घायुषो विगतरोगभया नरेन्द्राः बह्वर्थभूमिसुतदारयुताः प्रसिद्धः । आचारभुरिसुखशौर्यमहानुभावाः भेरीप्रजातमनुजा निपुणाः कुलीनाः ॥ १४१॥ अथ् मृदङ्गयोगः । उच्चग्रहांशकपतौ यदि कोणकेन्द्रे तुङ्गस्वकीयभवनोपगते बलाढ्ये । लग्नाधिपे बलयुते तु मृदङ्गयोगः कल्याणरुपनृपतुल्ययशःप्रदः स्यात् ॥ १४२॥ अथ श्रीन्नाथयोगः । कामेश्वरे कर्मगते स्वतुङ्गे कर्माधिपे भाग्यपसंयुते च । श्रीनाथयोगः शुभदस्तदानीं जातो नरः शक्रसमो नृपालः ॥ १४३॥ अथ शारदयोगः । योगः शारदसंज्ञकः सुतगते कर्माधिपे चन्द्रजे केन्द्रस्थे दिननायके निजगृहप्राप्तेऽतिवीर्यान्विते । चन्द्रात् कोणगते पुरन्दरगुरौ सौम्यत्रिकोणे कुजे लाभे वा यदि देवमन्त्रिणि बुधात्तच्छारदासंज्ञकः ॥ १४४॥ स्त्रीपुत्रबन्धुसुखरूपगुणानुरक्ताः भूपप्रिया गुरुमहीसुरदेवभक्तः । विद्याविदोदरतिशीलतपोबलाढ्या जाताः स्वधर्मनिरता भुवि शारदाख्ये ॥ १४५॥ अथ मत्स्ययोगः । लग्नधर्मगते पापे पङ्चमे सदसद्युते । चतुरस्त्रं गते पापे योगोऽयं मत्स्यसंज्ञकः ॥ १४६॥ कालज्ञः करुणासिन्धुर्गुणधीबलरुपवान् । यशोविद्यातपस्वी च मत्स्ययोगसमुद्भवः ॥ १४७॥ अथ कुर्मयोगः । कलत्रपुत्रारिगृहेषु सौम्याः स्वतुङ्गमित्रांशकराशियाताः । तृतीयलाभोदयगास्त्वसौम्या मित्रोच्चसंस्था यदि कूर्मयोगः ॥ १४८॥ विख्यातकीर्तिर्भुवि राजभोगी धर्माधिकः सत्त्वगुणप्रधानः । धीरः सुखा वागुपकारकर्ता कुर्मोद्भवो मानवनायको वा ॥ १४९॥ अथ खाङ्गयोगः । भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे । लग्नेशे केन्द्रकोणस्थे खङ्गयोग इतीरितः ॥ १५०॥ वेदार्यशास्त्रनिखिलागमतत्त्वयुक्तिभ्द्धिप्रतापबलवीर्यसुखानुरक्ताः । निर्मत्सराश्च निजवीर्यमहानुभावाः खङ्गे भवन्ति पुरुषाः कुशलाः कृतज्ञाः ॥ १५१॥ अथ लक्ष्मीयोगः । केन्द्रे मूलत्रिकोणस्थे भाग्येशे परमोच्चगे । कग्नाधिपे बलाढ्ये च लक्ष्मीयोग इतीरितः ॥ १५२॥ गुणाभिराभो बहुदेशनाथो विद्यामहाकीर्तिरनङ्गरूपः । दिगन्तविश्रान्तनृपालवन्द्यो राजाधिराजो बहुदारपुत्रः ॥ १५३॥ अथ कुसुमयोगः । स्थिरलग्ने भृगौ केन्द्रे त्रिकोणेन्दौ शुभेतरे । मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ॥ १५४॥ दाता महीमण्डलणथवन्द्यो भोगी महावंशजराजमुख्यः । लोके महाकीर्तियुतः प्रतापी नाथो नराणां कुसुमोद्भवः स्यात् ॥ १५५॥ अथ पारिजातयोगः । विलग्ननाथस्थितराशिनाथस्थानेश्वरो वाऽपि तदंशनाधः । केन्द्रत्रिकोणोपगतए यदि स्यात्स्वतुङ्गगो वा यदि परिजातः ॥ १५६॥ मध्यान्तसौख्यः क्षितिपालवन्द्यो युद्धप्रियो वारणवार्जितयुक्तः । स्वकर्मधर्माभिरतो दयालुर्योगो स्याद्यदि पारिजातः ॥ १५७॥ अथ कलानिधियोगः । द्वितीये पङ्चमे जीवे बुधशुक्रयुतेक्षिते । क्षेत्रे तयोर्वा सम्प्राप्ते योगः स्यात्स कलानिधिः ॥ १५८॥ कामी कलानिधिभवः सगुणाभिरामः संस्तूयमानचरणो नरपालमुख्यैः । सेनातुरङ्गमदवारणशङ्खभेरीवाद्यान्वितो विगतरेगभयारिसङ्घः ॥ १५९॥ अथ अंशावतारयोगः । केन्द्रगौ सितदेवेज्यौ स्वोचे केन्द्रगतेऽर्कजे । चरलग्ने यदा जन्म योगोऽयभवतारजः ॥ १६०॥ पुण्यश्लोकस्तीर्थचारी कलाज्ञः कामासक्तः कालकर्ता जितात्मा । वेदान्तज्ञो वेदशास्त्रधिकारी जातो राजश्रीधरोऽंशावतारे ॥ १६१॥ अथ हरि-हर-विवियोगाः । वित्तेशाद्भनरिःफरन्ध्रभवनप्राप्ताश्च सौम्यग्रहाः कामेशात् सुखभाग्यरन्ध्रगृहगा जीवाब्जचन्द्रात्मजाः । देहेशाद्यदि बन्धुमानभवगा सूर्यास्फुजिद्भूमिजाः प्रोक्तास्तत्र पुरातनैर्हरिहरव्रह्माख्ययोगा इमे ॥ १६२॥ निखिलनिगमविद्यापारगः सत्यवादी सकलसुखसमेतश्चारुवाक् कामशीलः । जितरिपुकुलसङ्धः सर्वजीवोपकारी हरिहरविधियोगे सम्भवः पुण्यकर्मा ॥ १६३॥ अथ नाभसयोगः । यूपेषुशक्तियवदण्डगदासमुद्रच्छत्रार्द्धचन्द्रशकटाम्बुजपक्षियोगाः । नौचक्रवज्नहलकार्मुककूटवापीशृन्गाटकाश्च विविधाकृतिविंशतिः स्युः ॥ १६४॥ रब्जुर्नलश्च मुसलस्त्रित यास्रयाख्याः स्रग्भोगिनौ तु दलयोगभवौ भवेताम् । वीणादयश्च कथिता दरदामपाशकेदारशूलयुगगोलकसप्तसङ्ख्याः ॥ १६५॥ होरायाम् । रब्जुर्मुसलं नल चराद्यैः सस्यस्त्वाश्चयजान् जगाद् योगान् । केन्द्रैः सदसद्युतैर्दवाख्यौ स्वक्सर्पौ कथितौ पराशरेण ॥ १६६॥ योगा व्रजन्त्याश्रयजाः समत्वं यावाब्जवश्राण्डजगोलकाद्यैः । केन्द्रोपगप्रोक्तफलौ दलाख्यावित्यहुरन्ये न पृथक् फलौ तौ ॥ १६७॥ इदानी गदाशकटविहगशृन्गाटकहलान् पञ्च योगानाह । आसन्नकेन्द्रभवनद्वयगैर्गदाख्यस्तन्वस्तगेषु शकटं विहगः स्वबन्ध्वोः । शृईङ्गटकं नवमपङ्चमलग्नसंस्थैर्लग्नान्यगैर्हलमिति प्रवदन्ति तज्ज्ञाः ॥ १६८॥ शकटाण्डजवच्छुभाशुभैर्वज्नन्तद्विपरीतगैर्यवः । कमलं तु विमिश्रसंस्थतैर्वापी तद्यादि केन्द्रबाह्यतः ॥ १६९॥ कण्टकादिप्रवृत्तैश्च वतुर्गृहगतैर्ग्रहैः । यूपेषुशक्तिदण्डाख्या होराद्यैः कण्टकैः क्रमात् ॥ १७०॥ नौकूटच्छत्रचापानि तद्वत्सप्तर्क्षसंस्थितैः । अर्धचन्द्रस्तु होराद्यैः प्रोक्तादन्यर्क्षसंस्थितैः ॥ १७१॥ एकान्तरगतैरर्थात्समुद्रः षड्गृहाश्रितैः । विलग्नादिस्थितैश्चक्रभित्याकृतिजसङ्ग्रहः ॥ १७२॥ सङ्ग्यायोगाः सप्त सप्तर्क्षसंस्थैरेकापायद्वल्लकीदामपाशाः । केदाराख्यः शूलयोगो बुगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥ १७३॥ अथ आश्रयदलयोगफलम् । ईर्ष्युविदेशनिरतोऽध्वरतश्च रज्जवाम् मानी धनी च मुसले बहुभृत्यसक्तः । व्यङ्गः स्थिराढ्यनिपुणो नलजः स्नगुत्थो भोगान्वितो भजगतो बहुदुःखभाजः ॥ १७४॥ अथ गदादियोगफलम् । यज्वाऽर्थभाक् सततमर्थरुचिर्गदायां तद्वृत्तिभुक् शकतः सरुजः कुदारः । दूतोऽटनः कलकृद्विहगे प्रदिष्टः, शृण्गाटके चिरसुखी कृषकृद्धलाख्ये ॥ १७५॥ वज्नेऽन्त्यपूर्वसुखितः सुभगोऽतिशूरः, शौचान्वितोऽपि च यत्रे सुखितो वयोऽन्तः विख्यातकीर्त्यमितसौख्यगुणाश्च पद्मे वाप्यां तनुस्थिरसुखी निधिपोऽन्नदाता ॥ १७६॥ त्यागात्मवान् क्रतुरैर्यजते च यूपे हिंस्रोऽथ गुप्त्याधिकृतः शरकृच्छराख्ये । नीचोऽलसः सुखधनैर्वियुतश्च शल्तौ दण्डे प्रियैर्विरहितः पुरुषोऽन्त्यवृत्तिः ॥ १७७॥ क्षत्रे चाद्यन्तसौख्यातुलधनबलवान् नौभस्तोयजीवी चक्रे राजा यशस्वी जलाधिभवनरस्तोयवृत्तिः क्षितीशः । अर्धेन्दौ भोगशाली गिरिविपिनचरः क्रूरकर्मा च कूटे चापे जाता मनुष्या यदि गहनचराश्चौर्यनिष्ठा निकृष्टाः ॥ १७८॥ वीणायां सकलक्रियासु निपुणः सङ्गीतनृत्यप्रियो- दामिह्यामुपकारकृत्पटुमतिः प्रख्यातविद्याधनी । पाशे शीलधनार्जनेऽतिचतुरो वाचालकः पुत्रवान् केदारे कृषिवित्तवानलसदीर्बन्धूपकारी भवेत् ॥ १७९॥ शूले कोपरत्तन्वितो धनरुचिः शूरः क्षतो निर्धनी भिक्षाशी युगयोगजोऽतिचपलः पापण्डको मद्यपः । गोले निर्द्वनकोऽलसोऽटनपरः स्वल्पायुरज्ञानधी- द्वत्रिंशन् कथिता वराहमिहिराचार्येण योगा इये ॥ १८०॥ भूपालयोगरुचपङ्चकभास्कराद्याः केमद्रुमाधमसनग्रहमालिकाश्च । लक्ष्मीहरीशविधिकाहलनाभसद्याः सूर्यादिदेवकृपया परिकीर्तितास्ते ॥ १८१॥ इति श्रीवैद्यनाथदैवज्ञविरचिते जातकपारिजाते राजयोगासये सप्तमेऽध्याये ॥ ७॥
अथ द्व्यादिग्रहयोगाध्यायः ॥ ८॥ जातः स्त्रीवशगः क्रियासु निपुणश्चन्द्रन्विते भास्करे तेजस्वी बलसत्त्ववाननृतवाख़् पापी सभौमे रवौ । विद्यारूपबलान्वितोऽस्धिरमतिः सम्यान्विते पूषणि श्रद्धाकर्मपरो नृपप्रियकरो भानौ सजीवे धनी ॥ १॥ स्त्रीमूलार्जितबन्धुमाननियुतः प्राज्ञः सशुक्रेऽरुणे मन्दप्रायमतिः सपत्नवशगो मन्देन युक्ते रवौ । शूरः सत्कुलधर्मवित्तगुणवानिन्दौ धराजन्विते धर्मी रास्त्रपरो विचित्रगुणवान् चन्द्रे सतार्सुते ॥ २॥ जातः साधुजनाश्रयोऽतिमतिमानायेर्ण युक्ते विधौ पापास्मा क्रयविक्रयेशु कुशलः शुक्रे सशीतद्युतौ । कुस्त्रीजः पितृदूपको गतधनस्तारापतौ सार्कजे वाग्मी चौषघशिल्पशास्त्रकुशलः सौम्यान्विते भूसुते ॥ ३॥ कामी पूज्यगुणान्वितो गणितविद् भौमे सदेवाच्चिंते, धानोर्वादरतः प्रपङ्चरसिको धूर्तः सभौमे भृगौ । वादी गानविनोदविज्जडमतिः सौरेण युक्ते कुजे वाग्मी गानविनोदविज्जतोऽधिकधनी वाचस्पतौ सेन्दुजे ॥ ४॥ शास्त्री गानविनोदहास्यरसिकः शुक्रे सचन्द्रात्मजे विद्यावित्तविशिष्टधर्मगुणवानर्कात्मजे सेन्दुजे । तेजस्वी नृपतिप्रियोऽतिमतिमान् शूरः सशुक्रे गुरौ शिल्पी मन्त्रिणि साकजे पशुपतिर्मल्लः सिते सासिते ॥ ५॥ अथ त्रिग्रहयोगाः । सूर्येन्दुक्षितिनन्दनैररिकुलघ्वंसी धनी नीतिमान् जातश्चन्द्ररवीन्दुजैर्नृपसमो विद्वान् यशस्वी भवेत् । सोभाकार्मन्त्रिभिर्गुणनिधिविद्वान् नृपालप्रियः शुक्रार्केन्दुभिरन्यदारनिरतः क्रूरोरिभीतो धनी ॥ ६॥ मन्देन्द्वर्कसमागमे खलमतिर्मायी विदेशाप्रियो भास्वद्भूसुतबोधनैर्गतसुखः पुत्रार्धदारान्वितः । जीवार्कवनिजैरतिप्रियकरो मन्त्री चमूपोऽथवा भौमार्कासुरवन्दिर्नयनरुग् भोगी कुलीनोऽर्थवान् ॥ ७॥ मन्दार्कावनिजैः स्वबन्धुरहितो मुर्खोऽधनो रोगभाक् इन्द्राचार्यरवीन्दुनैः पटुमतिर्विद्यायशोवित्तवान् । भानुज्ञासुरपूजितैर्मृदुतनुर्विद्यांशस्वी सुखी सौरादित्यबुधैर्विबन्धुरधनो द्वेषी दुराचारवान् ॥ ८॥ जीवादित्यसितैः सदारतनयः प्राज्ञोऽक्षिरुग् वित्तवान् मन्देन्द्राचिंतभानुभिर्गतभयो राजप्रियः सात्विकः । जातो भानुसितासितैः कुचरितो गर्वाभिमानान्वित- श्चन्द्रारेन्दुसुतैः सदाऽशनपरो दुष्कर्मकृद् दूपकः ॥ ९॥ जीवेन्दुक्षितिजैः सरोषवचनः कामातुरो रूपवा- निन्दुक्ष्माजसितैर्विशीलतनयः सङ्चारशीलो भवेत् । तारेशार्कजभूसुतैश्चलमतिर्दुष्टात्मको मातृहा जीवेन्दुज्ञसमागमे बहुधनख्यातोऽवनीशप्रियः ॥ १०॥ विद्यावानपि नीचकर्मनिरतः सेव्यः सितज्ञेन्दुभि- स्त्यागी भूपतिपूजितश्च गुणवानिन्दुज्ञतिग्मांशुजैः । प्राज्ञः साधुसुतः कलासु निपुणः शुक्रेन्दुदेवाच्चिन्तैः शास्त्री वृद्दबधूरतो नृपसमो वाचस्पतीन्द्वर्कजैः ॥ ११॥ वेदी राजपुरोहितोऽतिसुभगः शुक्रेन्दुचण्डांशुजै- र्गान्धर्वश्रुतिकाव्यनाटकपरो जीवज्ञभूनन्दनैः । हीनाङ्गः खलवंशजश्चलभतिः शुक्रारचन्द्रात्मजः प्रेश्यः सामयलोचनोऽटनपरस्ताराजभौमासितैः ॥ १२॥ शुक्रारेन्द्रपुरोहितैर्नरपतेरिष्टः सपुत्रः सुखी जीवारार्कसुतैः कृशोऽसुखतनुर्मानी दुराचारवान् । सौरारसुरपूजितैः कुतनये नित्यं प्रवासान्वितः शुक्रज्ञामरमन्त्रिभिजितरिपुः की तिप्रतापान्वितः ॥ १३॥ देवेज्येन्दुजभानुजैरतिसुखश्रिकः स्वदारप्रियो मन्दज्ञासुरवन्दितैरनृतवाग् दुष्टोऽन्यजायारतः । जातो जीवसितासितैरमलधीविख्यातसौख्यान्वित- चन्द्रे पापयुते सदाल्पसुखवान् भानौ पितुस्तद्वदेत् ॥ १४॥ अथ चतुर्ग्रहयोगाः । एकर्क्षगैरिननमुचाकरभूसुतज्ञैर्नयी प्रणञ्चकुशलो लिपिकश्च रोगी । चन्द्रारभानुगुरुभिधनवान्यशन्वी धीनान्नृपप्रियकरो गतशोकरोगः ॥ १५॥ आरार्क्चन्द्रभृगुजैः सुतदारबन्धु विद्वान् निताशनसुखी निपुणः कुपालुः । सूर्येन्दुभानुनभूमिसुतैरशान्तनेत्रओऽटनश्च कुतटापतिरर्थनीनः ॥ १६॥ तारासुतेन्दुरविमन्त्रिभिरिष्टपुत्रहारार्धवान् गुणवशेबलवानुदायः । शुक्रेन्दुभानुशशिजैविकलश्च भग्नी मन्देन्दुविहिनकरैरधनः कृतघ्नः ॥ १७॥ तोयाटविक्षितिचरोऽवनिपालपुज्यो भग्नी दिनेशतुदिनद्युतिजीवशुक्रैः । जातो विशालनयनो बहुवित्तपुत्रो वाराङ्गनापनिविनेन्दुसुरेज्यनन्दैः ॥ १८॥ मन्देन्दुभानुभृगुजैविबलोऽतिभीरः कन्याज्नाश्रयधनाशनत्त्परश्च । आतारुणज्ञगुरुभिः सवलो विपन्ने दरार्धवान् नयन्रोगयुतोऽनुगः स्यात् ॥ १९॥ रविकुजबुधशुक्रैरन्यदारानुरक्तो विषमनयनचेपश्चोरधीर्वीतसत्त्वः । दिनकरकुजतारासूनुमन्दैश्चमूपो नरपतिसचिवो वा नीचकृद् भोगशीलः ॥ २०॥ सूर्यारार्यसिअतिर्मद्दीपतिसमः ख्यातोऽतिपूज्यो भनी जीवारार्किदिवकरैर्गतधनो भ्रान्तः मृदुद्बन्धुमान् । भूपुत्रार्कसितासितैः परिभवप्राप्तो विकर्मागुणः शुक्रार्केन्दुजसूरिभिर्धनयशोमुख्यप्रधानो भवेत् ॥ २१ जीवार्किज्ञदिवाकरैः कलहकृन् मानी दुराचारवान् मदज्ञारुणभार्गवैः सुवदनः सत्यव्रताचारवान् । अर्कार्किज्यसितैः कलासु निपुणो नीचप्रभुः साहसी जीवेन्दुज्ञकुजैर्नृपप्रियकरो मन्त्री कविः क्ष्मापतिः ॥ २२॥ चन्द्रारज्ञसितैः सुदारतनयः प्राज्ञो विरुपः सुखी- मन्दरेन्दुभ्धैद्विमातृपितृकः शूरो बहुस्त्रीसुतः । चन्द्रारार्यसितैरधर्मकुशलो निद्रालुरर्थानुरो जीवारार्किनिशाकरैः स्थिरमतिः शूरः शुखी पण्डितः ॥ २३॥ शुक्रज्ञेन्दुसुरार्जितैः स वधिरो विद्वान्यशस्वी धनी चन्द्रार्किज्ञसुराच्चितैरतिधनो बन्धुप्रियो धार्मिकः । शीतांशुज्ञसितासितैर्बहुजनद्वेषी परस्त्रीपति- जीर्वेन्द्वर्कजभार्गवैर्गतसुखः श्रद्धादयावर्जितः ॥ २४॥ कुजबुजगुरुशुक्रैरर्थवान्निन्दितः स्यात् बुधगुरुशनिभौमैः सामयो वित्तहीनः । गुरुसितशनिसौम्यैरेकगेहोपयातैरतिशयधनविद्याशीलमेति प्रजातः ॥ २५॥ अथ पङ्चग्रहयोगाः । एकर्क्षगैरिनशशिक्षितिजज्ञजीवैर्जातस्तु युद्धकुशलः पिशुनः समर्थः । शुक्रारभानुबुधशीतकरैर्विधर्मश्रद्धालुरन्यजनकार्यपरो विबन्धुः ॥ २६॥ भनन्दनेन्दुरविमन्दपुरन्दरेज्यैराशालुइष्टर्मणीबिरहाभिभूतः । चन्द्रारभानुशशिसूनुदिनेशपुत्रैरल्पायुरर्जनपरो विकलत्रपुत्रः ॥ २७॥ जीवेन्दुभौमसितभानुभिराततायी त्यक्तः स्वमातृपितृनधुजनैरनेत्रः । मन्देन्दुशुक्ररविभूमिसुतैर्विनामवित्तप्रभावकुशलो मलिनोऽन्यदारः ॥ २८॥ तारेशभानुगुरुबोधनदानवेज्यैर्मन्त्री धनी बलयशोनिजदण्डनाथः । भास्वद्बुधेन्दुगुरुभानुसुतैः परान्नभोजी सुभीरुरतिपापरतोग्रवृत्तिः ॥ २९॥ सौम्यासितेन्दुसितभानुभिरर्थहीनो दीर्घाकृतिर्गतसुतो बहुरोगगात्रः । जीवेन्द्रशुक्ररविभानुसुतैः सदारो वाग्मीन्द्रजालचतुरो विभयः सशत्रुः ॥ ३०॥ शुक्रारभानुगुरुचन्द्रसुतैर्विशोकः सेनातुरङ्गपतिरन्यवधूविलोलः । भूसूनुजीवरविबिधनभानुपुत्रैभिक्षाशनो मलिनजीर्णतराम्बरः स्यात् ॥ ३१॥ पूज्यः कलासु निपुणो वधबन्धनाढ्यो रोगी सितासितगुरुज्ञधराकुमारैः । श्रेष्ठोऽतिदुःखभयरोगयुतः क्षुधार्तः शन्यारबोधनविकर्तनदानवेज्यैः ॥ ३२॥ प्रेष्योऽधनो मलिनवेषयुतोऽतिमूर्खश्वोरः कुजेन्दुगुरुशुक्रदिनेशपुत्रैः । मन्त्राक्रियासुरतधातुबलप्रसिद्धिकर्मा गुरुज्ञशनिचन्द्रवसुन्धराजैः ॥ ३३॥ ज्ञानी सदेवगुरुसन्मतिधर्मशीलः शास्त्री दिनेशगुरुर्शुक्रशनीन्दुपुत्रैः । साधुः सुखी बहुधनप्रबलश्च विद्वानिन्दुज्ञदेवगुरुदानवपूजितारैः ॥ ३४॥ पङ्चग्रहिरेकगृहोपयातैस्चन्द्रज्ञजीवासुग्वन्द्यमन्दैः । सर्वत्र पूज्यो विकलेक्षणश्च महीपतुलुअः सचिवोऽथवा स्यात् ॥ ३५॥ अथ षड्ग्रहयोगाः । सूर्येन्द्वारबुधामरेज्यभृगुजैरेकर्क्षगैस्तीर्थकृ- लातोऽरण्यागिरिप्रदेशनिलयः स्त्रीपुत्रवित्तान्वितः । शुक्रेन्द्वर्कबुधामरेज्यदिनकृत्पुत्रैः शिरोरोगवा- नुन्मादप्रकृतिश्च निर्जनधरावासो विदेशं गतः ॥ ३६॥ जीवज्ञारुणभूमिजासितसितैः सङ्चारशीलः सुधी- रिन्दुज्ञारसितार्किदेवगुरुभिस्तीर्थाटनः स्याद् व्रती । जीवारेन्दुरवीन्दुजारुणसुतैश्चोरः परस्त्रीरतः कुष्ठी बान्धवदूषितो गतसुतो मूर्खो विदेशं गतः ॥ ३७॥ नीचोऽन्यकर्मनिरतः क्षयपीनसार्तो निन्द्यो महीसुतरवीन्दुसितासितज्ञैः । मन्त्री कलत्रधननन्दनभोदहीनः शान्तः सितासितकुजारुणजीवचन्द्रैः ॥ ३८॥ अथ मेषादिराशिस्थाग्रहफलम् जातः स्वल्पधनस्तु गानरसिको विद्याधनक्लेशधी- रज्ञः सर्वकलारसज्ञैचतुरो हैरण्यर्कः साहसी । सम्पूज्यः कुवणिक्क्रियासु कुशलः पुत्रादिभाग्यच्युतः श्रीमांस्तोयकृषिक्रियादिभिरिने मेषादिराशिस्थिते ॥ ३९॥ स्वर्क्षे भूपकृषिक्रियाटन्धनः शुक्रर्क्षगे कामधीः सौम्यर्क्षे परिदीनवाक्कर्टकभे राजप्रियो वित्तवान् । सिंहे भूमिसुते तु निर्भयधनो जैवे जितारिः सुखी कुम्भे दुर्जनसेवितो मृगगते भूपोऽथवा तसमः ॥ ४०॥ कौजे चन्द्रसुतेऽधनः सितगृहे विद्वान्नृयुग्मे सुखी कर्किस्थे निजवित्तहा हरिगते जातो वधूनिजितः । कन्यास्थे सुगुणाकरो गतभयश्चापे नृपालप्रियो मीनस्थे जितसेवकः शनिगृहे शिल्पी परप्रेश्यकः ॥ ४१॥ सेनावित्तसुताधिकः गुरुणवान् दाता कुजर्क्षे गुरौ तेजस्त्री सितभे परिच्छद्सुहृत्ताराउतर्क्षं गते । प्राज्ञः पुत्रधनश्च कर्किणि घटे भोगी यशस्वी हरौ राजा राजसमोऽथवा निजगृहे नीचोऽटनः केशधीः ॥ ४२॥ जारः श्रीमतिमित्रबन्धुविभवो विद्याधनज्ञानवान् भीरुर्मन्दसुतोऽतिनीचविहिताचारो नृपालंप्रियः । दुष्टस्त्रीगणसेवितो जनपतिर्भोगी कमारीरतः श्रीविद्यागुणशीलवान् भृगुसुते मेषादिराशिस्थिते ॥ ४३॥ मुर्खो नातिधनो गतस्वसुतधीरम्बासुखप्रच्युतोऽ- नार्ययः स्वल्पधनात्मजो गुणपुरग्रामाग्रणीरुग्रधीः । जातः पुत्रकलत्रवित्तविभवो राजप्रियो वित्तवान् तेजोराजगुणाधिको रविसूते मेषादिराशिस्थिते ॥ ४४॥ यदुक्तमुडुनाथस्य फलं मेषादिराशिषु । तदंशकफलं चात्र परिचिन्त्य वदेद् बुधः ॥ ४५॥ अथ दृष्टिफलम् । पापेक्षिते गगनगामिनि दुष्टरोगी जातः स्वधर्धगुणविचयशोविहीनः । पापान्विते तु परवित्तवधूविलोलः पारुष्यवाक्कपटबुद्धियुतोऽलसः स्यात् ॥ ४६॥ यदि शुभकरदृष्टे खेचरे जातमर्तः सुतधनयुतभोगी सुन्दरो राजपूज्यः । परिभवरहितः स्थात्सौम्यखेतोपयाते जितरिपुरिह धर्माचारवानिङ्गितज्ञः ॥ ४७॥ अथ चन्द्रस्य दृष्टिफलम् । चन्द्रे मेषगते कुजादिस्वचरैरालोकिते भूपति- र्विद्वान् राजसमः समस्तगुणवान् चोरो दरिद्रो भवेत् । निस्वस्थेयनृमान्यभूपधनिकप्रेष्यो वृषस्थे तथा युग्मस्थे विकलो नृपः सुमतिमान् धीरः खलो निर्धनः ॥ ४८॥ कर्कस्थे शशिनि क्षमासुतमुस्वैरालोकिते शौर्यवा- नार्यश्रेष्ठलविर्महीपतिर्योजीवी सनेत्रामयः । भुपः पण्डितवाग् धनी नरपतिः पापी विभुः सिंहगे कन्यायां धनिको विभुः प्रभुसमो विद्वान् विशीलः सुखी ॥ ४९॥ तौलिस्थे हिमगौ बुधादिशुभदैरालोकिते स्यात् क्रमाद् भूपः स्वर्णकरो वणिक्कुजरविच्छायासुनैर्वङ्चकः । कीटस्थे शशिनि द्विमातृपितृको राजप्रियो नीचकृ- द्रोगी निर्वनिको नृपालसचियो दृष्टे बुधादिग्रहैः ॥ ५०॥ चन्द्रे धनुःस्थे शुभदृष्तियुक्ते विद्याधनज्ञानयशोबलाढ्यः । दृष्टे कुजादित्यदिनेशपुत्रैः सभाशठः पण्यवधूरतः स्यात् ॥ ५१॥ राजा महीपतिर्विद्वान् धनी निर्धनिको विभुः । कुजादिग्रहसन्दृष्टे मकरस्थे निशाकरे ॥ ५२॥ कुम्भस्थिते निशानाथे शुभदृष्टे यशोधनः । जातः परवधूलोलः पापखेटनिरीक्षिते ॥ ५३॥ मीनस्थे शुभवीक्षिते हिमकरे हास्यप्रियो भूपति- र्विद्वान् पापनिरीक्षिते परुषवाक् पापात्मको जायते । पापांशे खलवीक्षिते शठमतिर्जातोऽन्यजायारतः सौम्याम्शे शुभवीक्षिते हिमकरे जातो यशस्वी भवेत् ॥ ५४॥ राशिदृष्टिफलं यत्तदंशकेपु च योजयेत् । भवन्ति शुभदाः सर्वे शुभदृग्योगसंयुता ॥ ५५॥ अथ लग्नादिभावगतग्रहफलम् । मार्तण्डो यदि लग्नगोऽल्पतनयो जातः सुखी निर्घृणः स्वल्पाशी विकलेक्षणो रणतलश्लाधी शुशीलो नटः । ज्ञानाचाररतः सुलोचनशयःस्वातन्त्र्शकस्तूच्चगे मीने स्त्रीजनसेवितो हरिगते राव्यान्धको वीर्यवान् ॥ ५६॥ क्षीणे रशिन्युदयगे वधिरोऽङ्गहीनः प्रेष्यश्च पापसहिते तु गतायुरेव । स्वोच्चस्वर्के धनयशोबहुरूपशाली पूर्णे तनौ यदि चिरायुरुपैति विद्वान् ॥ ५७॥ क्रूरः साहसिकोऽटनोऽतिचपलो रोगी कुजे लग्नगे विद्यावित्ततपःस्वधर्मनिरतो लग्नस्थिते बोधने । जीवे लग्नगते चिरायुरमलज्ञानी धनी रूपवान् कामी कान्तवपुः सदारतनयो विद्वान् विलग्ने भृगौ ॥ ५८॥ दुर्नासिको वृद्धकलत्ररोगी मन्दे विलग्नोपगतेऽङ्गहीनः । महीपतुल्यः सुगुणाभिरामो(आभो)जातः स्वतुङ्गोपगते चिरायुः ॥ ५९॥ क्रूरो दयाधर्मविहीनशीलो राहौ विलग्नोपगते तु रोगी । केतौ विलग्ने सरुजोऽतिलुब्धः सौम्येक्षिते राजसमानभोगी ॥ ६०॥ रविक्षेत्रोदये राहू राजभोगाय सम्पदि । स्थिरार्थपुत्रान् कुरुते मन्दक्षेत्रोदये शिखी ॥ ६१॥ अथ द्वितीयस्थग्रहफलम् । त्यागी धातुद्रव्यवानिष्टशत्रुवार्ग्मी वित्तस्थानगे चित्रभानौ । कामी कान्तश्चारुवागिङ्गितज्ञो विद्याशीलो वित्तवान् वित्तगेन्दौ ॥ ६२॥ धतोर्वादकृषिक्रियाटनपरः कोपी कुजे वित्तगे बुद्ध्योपर्जितवित्तशीलगुणवान् साधुः कुटुम्बे बुधे । वाग्मी भिजनसौम्ख्यवित्तविपुलस्त्वागी धनस्थे गुरौ विद्याकामकलाविलासधनवान्वित्तस्थिते भार्गवे ॥ ६३॥ असत्यवादी चपलोऽटनोअधनः शनौ कुतुम्बोपगते तु वङ्चकः । विरोधवान्वित्तगते विधुन्तुदे जनापराधी शिखिनि द्वितीयगे ॥ ६४॥ अथ तृतीयस्थग्रहफलम् । शूरो दुर्जनसेवितोऽतिधनवान् त्यागी तृतिये रवौ चन्द्रे सोदरराशिगेऽल्पधनिको बन्धुप्रियः सात्त्विकः । स्व्यातोऽपारपराक्रमः शठमतिर्दुश्चिक्ययाते कुजे भायाकर्मपरोऽटनोऽतिचपलो दीनोऽनुजस्थे बुधे ॥ ६५॥ भ्रातृस्थानगते गुरौ गतधनः स्त्रीनिर्जितः पापकृत शुक्रे सोदरगे सरोषवचनः पापी वधूनिजितः । अल्पाशी धनशीलवंशगुणवान् भ्रातृस्थिते भानुजे राहौ विक्रमगेऽतिवीर्यधनिकः केनौ गुणी वित्तवान् ॥ ६६॥ सोदरारातिगः शुक्रः शोकरोगभयप्रदः । तत्रैव शुभकारी स्यात् पुरतो यदि भास्करात् ॥ ६७॥ अथ चतुर्थस्थग्रहफलम् । हृद्रोगी धनधान्यबुद्ध्गिरहितः क्रूरः सुखस्थे रवौ विद्याशीलसुखान्वितः परवधूलोलश्चतुर्थे विधौ । भौमे बन्धुगते तु बन्धुरहितः स्त्रीनिर्जितः शौर्यवान् बन्धुस्थे शशिजे विबन्धुरमलज्ञानी धनी पण्डितः ॥ ६८॥ वाग्मी धनी सुखयशोबलरूपशाली जातः शठप्रकृतिरिन्द्रगुरौ सुखस्थे । स्त्रीनिर्जितः सुखयशोधनबुद्धिविद्यावाचालको भृगुसुते यदि बन्धुयाते ॥ ६९॥ आचारहीतः कपटी च माटृक्लेशान्वितो भानुसुते सुखस्थे । राहौ कलत्रादिजनावरोधी केतौ सुखस्थे च परापवादी ॥ ७०॥ अथ पङ्चमस्थग्रहफलम् । राजप्रियश्चलबुद्धियुक्तः प्रवासशीलः सुतगे दिनेशे । मन्त्रक्रियासक्तमना दयालुर्धनी मनस्वी तनये मनीन्दौ ॥ ७१॥ क्रूरोऽटनश्चपलसाहसिको विधर्मा भोगी धनी च यदि पङ्चमगे धराजे । मन्वाभिचारकुशलः सुतदारवित्तविद्यायशोबलयुतः सुतगे सति ज्ञे ॥ ७२॥ मन्त्री गुणी विभवासार समन्वितः स्यादल्पात्मजः सुरगुरौ सुत राशियाते । सत्पुत्रमित्रधनवानतिरूपशाली सेनातुरङ्गपतिराय्मजगे च शुक्रे ॥ ७३॥ मत्तश्चिरायुरसुखी चपलश्च धर्मि जातो जितारिनिचयः सुतगेऽर्कपुत्रे । भीरुर्द्दयालुरधनः सुतगे फणीशे केतौ शठः सलिलभीरुरतीव रोगी ॥ ७४॥ अथ षष्ठस्थग्रहफलम् । कामी शूरो राजपूज्योऽभिमानी ख्यातः श्रीमान् शत्रुर्याते दिनेशे । अल्पायुः स्यात् क्षीणचन्द्रेऽरिसंस्थे पूर्णे जातोऽतीव भोगी चिरायुः ॥ ७५॥ स्वामी रिपुक्षयकरः प्रबलोदराग्निः श्रीमान् यशोबलयुतोऽवनिजे रिपुस्थे । विद्याविनोदकलहप्रियकृशालो बन्धूपकाररहितः शशिजेऽरियाते ॥ ७६॥ कामी जितारिरबलोऽरिगतेऽमरेज्ये शोकापवादसहितो भृगुजे रिपुस्थे । बह्वशनो विषमशीलसपवभीतः कामी धनी रविसुते सति शत्रुयाते ॥ ७७॥ राहौ रिपुस्थानगते जीतारिश्चिरायुरत्यन्तसुखी कुलीनः । बन्धुप्रियोदारगुणप्रसिद्धविद्यायशस्वी रिपुगे च केतौ ॥ ७८॥ अथ सप्तमस्थग्रहफलम् । स्त्रीद्वेषी मदनस्थिते दिनकरेऽतीव प्रकोपो खल- श्चन्द्रे कामगते दयालुरटनः स्त्रीवश्यको भोगवान् । स्त्रीमूलप्रविलापको रणरुचिः कामस्थिते भूमिजे व्यङ्गः शिल्पकलाविनोदचतुरस्तारासुतेऽस्तं गते ॥ ७९॥ धीरश्चारुकलत्रवान् पितृगुरुद्वेषी मदस्थे गुरौ देश्यास्त्रीजनवल्लभश्च सुभगो व्यङ्गः सिते कार्मगे । भाराध्वश्रमतसप्तधीरधनिको मन्दे मदस्थानगो गर्वी जारशिस्वामिनिः कणिपतौ कामस्थिते रोगवान् ॥ ८०॥ अनङ्गभावोपगते तु केतौ कुदारको वा विकलत्रभोगः । निद्री विशीलः परिदीनवाक्यः सदाऽटनो मूर्खजनाग्नगण्यः ॥ ८१॥ अथ आष्यमस्थग्रहफलम् मनोऽभिरामः कलहप्रवीणः पराभवस्थे च रवौ न तृप्तः । रणोत्सुकस्त्यागविनोदविद्याशीलः शशाङ्के सति रन्ध्रयाते ॥ ८२॥ विनीतवेषो धनवान् गनेषो महीसुते रन्ध्रगते तु जातः । विनीतबाहुल्यगुणप्रसिद्धो धनी सुधारश्मिसुतेऽष्ट्मस्थे ॥ ८३॥ मेधावी नीचकर्मा यदि दिविजगुरौ रन्ध्रयाते चिरायु- र्दिर्घयुः सर्वसौख्यातुलबलधनिको भार्गवे चाष्टमस्थे । शूरो रोषाग्न्गण्यो विगतबलधनो भानुजे रन्ध्रयाते रहौ क्लेशापवादी परिभवगृहगे दीर्घसूत्रश्च रोगी ॥ ८४॥ केतौ यदा रन्ध्रगृहोपयाते जातः परद्रव्यवधूरतेच्छुः । रोगी दुराचाररतोऽतिलुब्धः सौम्येक्षितेऽतीव धनी चिरायुः ॥ ८५॥ अथ नवमस्थग्रहफलम् । आदित्ये नवमस्थिते पितृगुरुद्वेषी विधर्मश्रित- श्चन्द्रे पैत्रिकदेवकार्यनिरतस्त्यागी गुरुस्थे यदा । भूसूनौ यदि पित्र्यनिष्टसहितः ख्यातः शुभस्थानगे सौम्ये धर्मगते तु धर्मधनिकः शास्त्री शुभाचारवान् ॥ ८६॥ ज्ञानी धर्मपरो नृपालसचिवो जीवे तपःस्थानगे विद्यावित्तकलत्रपुत्रविभवः शुक्रे शुभस्थे सति । मन्दे भाग्यगृहस्थिते रणतलक्यातो विदारो धनी भाग्यस्थे भुजगे तु धर्मजनकद्वेषी यशोवित्तवान् ॥ ८७॥ केतौ गुरुस्थानगते तु कोपी वाग्मी विधर्मी परनिन्दकः स्यात् । शूरः पितृद्वेषकरोऽतिदम्भाचारो निरुत्साहरतोऽभिमानी ॥ ८८॥ अथ दशमस्थग्रहफलम् । मानस्थिते दिनकरे पितृवित्तशील-विद्याशोबलयुतोऽवनिपालतुल्यः । चन्द्रे यदा दशभगो धनधान्यवस्त्र-भूषावधूजविलासकलाविलोलः ॥ ८९॥ मेषूरणस्थेऽवनिजे तु जाताः प्रतापवित्तप्रबलप्रसिद्धाः । व्यापारगे चन्द्रसुते समस्त-विद्यायशोवित्तविनोदशीलः ॥ ९०॥ सिद्धारम्भः साधुवृत्तः स्वधर्मी विद्वानाद्यो मानगे चामरेज्ये । शुक्रे कर्मस्थानगे कर्षकाङ्च स्त्रीभूलाद्वा लब्धवित्तो विभुः स्यात् ॥ ९१॥ मन्दे यदा दशमगे यदि दण्डकर्ता मानी धनी निजकुलप्रभवश्च शूरः । चोरक्रियानिपुणबुद्धिरतो विशीलो मानं गते फणिपतौ तु रणोत्सुकः स्यात् ॥ ९२॥ सुधीर्बली शिल्पविदात्मबोधी जनानुरागी च विरोधवृत्तिः । कफात्मकः शूरजनाग्नगण्यः सदाऽटनः कर्मगते च केतौ ॥ ९३॥ अथ लाभस्थग्रहफलम् । भानौ लभगते तु वित्तविपुलस्त्रीपुत्रदासान्वितः सन्तुष्तश्च विषादशीलधनिको लाभस्थिते शीतगौ । आर्थस्थे धरणीसुते चतुरवाक्कामी धनी शौर्यवान् सौम्ये लाभगृहं गते निपुणधीविद्यायशस्वी धनी ॥ ९४॥ आयस्थेऽमरमन्त्रिणि प्रबलधीविख्यातनामा धनी लाभस्थे भृगुजे सुखी परवधूलोलाटनो वित्तवान् । भोगी भूपतिलब्धवित्तविपुलः प्राप्ति गते भानुजे राहौ श्रोत्रविनाशको रणतलश्लाधी धनी पण्डितः ॥ ९५॥ उपान्त्ययाते शिखिनि प्रतापी परप्रियश्चान्यजनाभिवन्द्यः । सन्तुष्टचित्तः प्रभुरल्पभोगी शुभक्रियाचाररतः प्रजातः ॥ ९६॥ अथ व्ययस्थग्रहफलम् । व्ययस्थिते पूषणि पुत्रशालो व्यङ्गः सुधीरः पतितोऽटनः स्यात् । चन्द्रेऽन्व्ययाते तु विदेशवासी भौमे विरोधी धनदारहीनः ॥ ९७॥ बन्धुद्वेषकरो धनी विगतधीस्तारासुते रिष्फगे चार्वाकी चपलोऽटनः खलमतिर्जीवे यदाऽन्त्यं गते । शुक्रे बन्धुविनाशकोऽन्त्यगृहगे जारोपचारोऽधनी मन्दे रिष्फगृहं गते विकलधीर्मूर्खो धनी वङ्चकः ॥ ९८॥ विधुम्तुदे रिष्फगते विशीलः सम्पत्तिशाली विकलश्च साधुः । पुराणवित्तस्थितिनाशकः स्याच्चलो विशीलः शिखिनि व्ययस्थे ॥ ९९॥ उच्चस्थे दिननायके यदि धनी सेनापतिः शीतगौ मिष्टान्नान्बरभूषणः कुतनयो भूनन्दने शौर्यवान् । सौम्ये वंशविवर्द्धनो जनपतिर्धीमाङ्जितारिः सिखी जीवे वंशकरः सुशीलचतुरो विद्वान्नृपालप्रियः ॥ १००॥ शुक्रे स्वोच्चगते विलासव्नितासङ्गितनृत्यप्रियो मन्दे ग्रामपुराटवीक्षितिपतिर्जातः कुमारीरतः । राहौ चोरजनाधिपः कुलवरः शूरः कुकर्मी धनी केतौ चोररतस्तु हीनधरणीपालप्रियो जायते ॥ १०१॥ एकः स्वतुङ्गगः स्वेटो मित्रग्रहनिरीक्षितः । जनयत्यवनीशं तं पूज्यं शस्यं सुहृद्युतम् ॥ १०२॥ तुङ्गस्थैकवियच्चरे बलयुते जातः स धन्यो धनी साम्न्त्ः स्वचरद्वये त्रिषु थदा जातोऽवनीशो भवेत् । उच्चस्थेषु चतुर्ग्नद्देषु बलवान् केन्द्रेषु भूपालरात् पङ्चव्योमचरेषु तुङ्गभवनप्राप्तेषु लोकेश्वरः ॥ १०३॥ अथ मूलत्रिकोणगतफलम् । मार्तण्डे यदि मूलत्रिकोणगृहगे जातो धनी वन्दित- श्चन्द्रे वित्तसुखान्वितश्च रुधिरे कोपी दयावर्जितः । ताराजे धनिको जपी सुरगुरौ भोगी नृपालप्रियः शुक्रे ग्रामपुराधिपस्तणिजे शूरस्तु राहौ धनी ॥ १०४॥ अथ स्वक्षेत्रस्थफलम् । स्वर्क्षे भास्वति चारुमन्दिरदुराचारोऽग्नकामी विधौ तेजोरूपधनी कुजे कृषिबलख्यातो बुधे पण्डितः । जीवे काव्यकलागमश्रतपरः शुक्रो मनस्वी धनी मन्दे चण्डपराक्रमो गतसुखी राहौ यशोवित्तवान् ॥ १०५॥ स्वजातिकल्पाधिकपूज्यवित्तो धनाधिकः क्ष्मापतितुल्यभूपः । एकादिभिः स्वर्क्षगतैर्ग्रहेन्द्रैर्जालक्रमेणैव भवेन्मनुष्यः ॥ १०६॥ अथ मित्रक्षेत्रस्थफलम् । मित्रक्षेत्रगते रवौ दृढसुहृदाता यशस्वी भेवे- त्तारेशे बहुमानसौख्यधनिको जातो धरानन्दते । वित्तागारसुहृत्प्रियः शशिशुते चातुर्यहास्याग्रणी- जीवे शिष्टरतः सिते सुतसुखी मन्दे परान्नो धनी ॥ १०७॥ स्व्यातः सुखी सुहृत्प्रीतश्वातुर्यगुणवान् सुधीः । भोगी परान्नभोक्ता च मित्रराशिफलं क्रमात् ॥ १०८॥ परद्रव्योपभोक्ता स्यादेको मित्रक्षगो ग्रहः । द्वौ सुहृद्वित्तभोगी स्यात् त्रयः स्वार्जितवित्तभुक् ॥ १०९॥ सुहृच्चतुष्तये दाता गणपः पङ्चखेचराः । चमूपः पङ्ग्रहाः सप्त ग्रहाः स्याद्धरणिपतिः ॥ ११०॥ त्रिभिरुच्चंगतैर्भूपस्त्रिभिर्मन्त्री स्वराशिगैः । त्रिभिरस्तं गतैर्दासः त्रिभिनर्चिं गतैर्जडः ॥ १११॥ अथ शत्रुक्षेत्रस्थफलम् । शत्रुक्षेत्रगते रवौ पितृसुखत्यागी च सेवापरः शीतांशौ यदि मातृदुःखनिरतो हृद्रोगशाली भवेत् । भूसूनौ विकलोऽकृतज्ञमलिनः सौम्ये सुखी पापधी- र्जैवे भव्यरतः सिते तु भृतको मन्देऽध्वशोकाकुलः ॥ ११२॥ मिश्रदा रिपुगाः पङ्च षड् ग्रहा हीनसौख्यदाः । सर्वदुःकराः सप्त मूढाः कुर्वन्त्यशोभनम् ॥ ११३॥ अथ नीचस्थफलम् । नीचस्थे दिननायके तु पतितोऽबन्धुः प्रवासे रतः शीतांशौ सरुजोऽल्पपुण्यधनवान् भौमे कृतघ्नो धनी । क्षुद्रो बन्धुविरोधकृच्छ्शिसुते जीवेऽपवादी खलः शुक्रे दुःखरतः शनौ गतधनस्त्रीको विप्रन्नः खलः ॥ ११४॥ स्वेषूच्चभावेषु फलं समग्नं त्रिकोणवत्स्यात्फलमंशकेषु । स्वराशितुल्यं सुहृदंशकेषु नीचारिमूढेष्वरिराशितुल्यम् ॥ ११५॥ स्वोच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगैः । फलं सम्पूर्णपादोनदलपादाल्पनिष्फलम् ॥ ११६॥ केन्द्रत्रिकोणगाः सर्वे शुभदा बलिनः शुभाः । त्रिषदायगताः पापा बलिनो यदि शोभनाः ॥ ११७॥ षड्पङ्चकत्रिचतुरक्षिवियङ्चरेन्द्रसम्पर्कजद्यचरभावभवानि यानि । तुङ्गादिकग्रहफलानि च कीर्तितानि प्रद्योतनप्रसुखलब्धवरप्रसादात् ॥ ११८॥ इति जातकपारिजाते द्व्यादिग्रहयोगासयेऽष्टमेऽध्याये विमला हिन्दी टिका समाप्ता ॥ ८॥
अथ मान्द्यब्दादिफलाध्यायः ॥ ९॥ मान्द्यब्दादिफलानि वाच्मि गुलिके लग्नस्थिते मन्दधी रोगी पापयुते तु वङ्चनपरः कामी दुराचारवान् । वित्तस्थे विषयातुरोऽट्नपरः क्रोधी दुरालापवान् पापव्योमचरान्विते गतधनो विद्यार्विहीनोऽथवा ॥ १॥ विरहगर्वभदादिगुणैर्युतः प्रचुरकोपधनार्जनसम्भ्रमः । विगतशोकभयश्च विसोदरः सहजैधामनि मन्दसुते यदा ॥ २॥ हिबुक्रभवनसंस्थे मन्दजे वीतविद्याधनगृहसुखबन्धुक्षेत्रयातोऽटनः स्यात् । तनयैभवनयाते मन्दसूनौ विशीलश्चलमतिरधबुद्धिः स्वल्पपुत्रोऽल्पजीवी ॥ ३॥ बहुरिपुगणहन्ता भूपविद्याविनोदी यदि रिपुर्गृहयाते मन्दपुत्रे तु शूरः । कलहकृदिनपैत्रे कामयाते कुदारः सकलजनविरोधी मन्दबुद्धिः कृतघ्नः ॥ ४॥ विकलनयनवक्रः स्वल्पदेहोऽष्टमस्थे गुरुजनपितृहन्ता नीचकृत्यो गुरुस्थे । अशुभशनसमेतः कर्मगे मन्दसूनौ निजकुलहितकर्माचारहीनो विमानः ॥ ५॥ अतिसुखधनतेजोरूपवान् लाभयाते दिनकरसुतपुत्रे चाग्नजं हन्ति जातः । विषयरहितवेषो दीनवाक्यः प्रवीणो निखिलधनहरः स्यान्मदजेरिःफयाते ॥ ६॥ मान्दित्रिकोणोपगते विलग्ने रद्द्वादशांशे यदि वा नवांशे । मान्द्यान्विता मान्दियुतर्क्षनाथाह् सर्वे सदाऽनिष्टकरा भवन्ति ॥ ७॥ अथ ग्रहयुक्तमान्दिफलम् । संयुक्ते यदि भास्करेण गुलिके जातः पिटृद्वेषको मातृक्लेशकरस्तु शीतरुचिना भौमेन वीतानुजः । सोन्मादः शशिजेन देवगुरुणा पास्वण्डको दूषकः शिक्रेण प्रमदाकृतामयहतो नीचाङ्गनावल्लभः ॥ ८॥ जातः सौख्यरतस्तु मन्दतनये मन्देन युक्ते यदा सर्पेणैव विध(घ)प्रदस्तु शिखिना वह्निप्रदो जायते । भिक्षुः स्याद्विषनाडियुक्तगृहगे भूपालकोऽपि ध्रुवं जातस्योपखगान्विता गगनगाः कुर्वन्त्यनिष्टं फलम् ॥ ९॥ अथ संवत्सरफलम् । प्रभवशरदि जातः साहसी सत्यवादी सकलगुणसमेतः कालविधर्मशाली । विभवशरदि कामी निर्मलो नित्यतुष्टः प्रबलधनसमेतो बन्धुविद्यायशस्वी ॥ १०॥ शुक्लाब्दे परदारको गतबलस्त्यागी मनस्वी भवे- न्मन्त्री कार्यपरोऽतिभाषणपटुर्जातः प्रमोदाभिधे । धर्मी दानपरायणः सुतधनः शान्तः प्रजोत्मत्तिजो नितिज्ञो निपुणः कृपालुरनिशं चाङ्गिरसाब्दे धनी ॥ ११॥ जातः श्रीमुखत्रत्सरे परवधूलोलः शुचिर्वित्तवान् योगी राजकरो महाधनबलख्यातो भवाब्दे भवः । लुब्धश्चङ्चलधीः कृशामयतनुः क्रोधी युवब्दे भिषक् जातो धातुभवोऽन्यदारनिरतः कार्यार्थवादी शठः ॥ १२॥ श्रीमानीश्चरवत्सरे बलमतिजार्तो गुणग्राहकः सत्कर्मा बहुधन्यवत्सरभवो भोगी वणिगवृत्तिमान् । क्रूरः पापरतः प्रभाथिशरदि क्रोधी विबन्धुः सुखी जातो विकमवत्सरे यदि धनी सेनापतिः शौर्यवान् ॥ १३॥ वृषरदि दरिद्रोवीतलज्जो विकर्मा दिनकरसमतेजोरूपवान् वित्रभानौ । यदि निजकुलविद्याचारधर्मः सुभानौ बहुधनबलशाली तारणब्दे धिवेकी ॥ १४॥ जातः पार्थिववत्सरे नरपतिः श्रीमानतुल्यः श्सुखी कामी भीरुरशीलवित्तगुणवान् पापी व्ययाब्दे यदि । वाग्मी सर्वजिदब्दकेऽतिबलवान् शास्त्री गुणी तत्त्ववित् सम्पन्न्प् यदि सर्वधरिजनितः शिल्पी नृपालप्रियः ॥ १५॥ शोकी दुष्टपरोऽतिपापनिरतः क्रूरो विरोध्यब्दके मायावी मदनातुरो विकृतिजो मन्त्रक्रियातन्त्रधीः । निर्मोही विगुणोऽतिदीनवचनः पापी स्वराब्दे खलः स्रवानन्दकरो नृपप्रियनरो मन्त्रार्थविन्नन्दने ॥ १६॥ विजयशरदि धर्मो सत्यसम्पन्नशाली यदि जयशरदिस्याद्राजतुल्यो नृपो वा । मदनरतिविलो९लो मन्मथाब्दे जितारि- र्गुणधनरहितः स्याद्दुर्भस्वाब्दे विशीलः ॥ १७॥ दुष्टास्मा यदि हेमलम्बिजनितः कृष्यादिकर्मोत्सुकः श्रीमान्विप्रजनाश्रितः फलपरित्यागी विलम्ब्यब्दके । रोगी भीरुरवित्तवान चलमतिर्नीचो विकार्यब्दके शार्वर्यामतिवित्तभोगसुमनाः सत्यव्रताचारवान् ॥ १८॥ शान्तोदारकृपाकरः प्लवभवेः शूरः स्वधर्माश्रितो जातः स्त्रीजनवङ्चितः शुभकृति प्राज्ञः शुभाङ्गः सुधीः । ज्ञानी शोभकृति क्षितीशगुणवान् विद्याविनोदप्रियो दुर्भोगी परदारकः शठभतिः क्रोध्यब्दजः क्रोधयुक् ॥ १९॥ मानी हास्यरसप्रियो गुणधनश्लाधी च विश्वावसौ दुष्टाचारपरः पराभवशरज्जातः कुलघ्वंसकः । कामी बन्धुरतः प्लवङ्गजनितो बालप्रियो मन्दधी- देर्वाराधनतत्परोऽतिसुभगः शौर्यान्वितः कीलके ॥ २०॥ शान्तः सर्वजनप्रियोऽतिधनिकः सौम्यान्दजो धैर्यवान् नानाशास्त्रविशारदो विकलधीः साधारणाब्दे नरः । आशालुश्च विरोधकृद्भवनरः क्रोधी दरिद्रोऽटनो दुशीलः परिधाविवत्सरभवः पारुष्यवाग्वित्तवान् ॥ २१॥ जातो बन्धुविरागकृत् परवधूलोलः प्रमादीजनि- मोर्दात्मा निखिलागमश्रुतिपरश्चानन्दजस्तत्त्ववित् । पापी राक्षसवत्सरे यदि वृथालापोऽपकारी सतां दाता दानगुणान्वितोऽनलभवः शान्तः सदाचारवान् ॥ २२॥ योगी पिङ्गलवत्सरे जितमना जातस्तपस्वी भवेत् कालज्ञो यदि कालयुक्तशरदि श्रीभ्प्गसत्कर्मवान् । सिधार्थो गुरुदेवभक्तिनिरतः सिद्धाथिजातः सुधी- र्जरो रौद्रेसमुद्रवः कुटिलधीर्मानी दुराचारवान् ॥ २३॥ कामी दुर्गतिवत्सरे जडमतिः शोकाभितप्तः खलः स्थूलोरूदरबाहुमस्तकतनुः स्थाद्दुदुभौ वित्तवान् । प्राज्ञः सत्यरतः सुखी च रुधिरोद्रार्यब्दजो वित्तवान् शान्तो बन्धुजनप्रियोऽतिसुभगो रक्ताक्षिजः शीलवान् ॥ २४॥ जातो जारः क्रोधनाब्दे कुमार्गी बन्धुद्वेषी चोरनिष्ठारतः स्यात् । शिष्टाचारः सुप्रसन्नः सुरूपो मानी वीतारातिरिगः क्षयाब्दे ॥ २५॥ अथायनफलम् । उत्तरायनसमुद्भवः पुमान् नयोगनिरतश्च निष्ठिकः । दक्षिणयनभवः प्रगल्भवः भेदबुद्धिरभिमानतत्परः ॥ २६॥ अथर्तुफलम् । दीर्घानिको वसन्तसमये जातः सुगन्धप्रियो ग्रिष्मतै धनतोयसेव्यचतुरो भोगी कृशाङ्गः सुधी । क्षारशीरकटुप्रियः उवचनो वर्षर्तुजः स्वच्छधीः पुण्यात्मा सुभ्खः सुखी यदि शरत्कालोद्भवः कामुकः ॥ २७॥ योगी कृशाङ्गः कृषक्ष्च भोगी हेमन्तकालप्रभवः समर्थः । स्नानक्रियादानरतः स्वधर्मी मानी यशस्वी शिशिरर्तुजः स्यात् ॥ २८॥ अथ मासफलम् चैत्रे स्र्वकलागमश्रुतिपरो नित्योत्सवः श्रीरतो वैशाखे यदि सर्वशास्त्रकुशलः स्वातन्त्रिको भूपतिः । ज्येष्ठे मासि चिरायुरर्थतनयी मन्त्रक्रियाकोविद- श्राषाढेऽतिधनी कृपालुरनिशं भोगी परद्वेषकः ॥ २९॥ जातः श्रावणमासि देवधरणीदेवार्चने तत्परो नानादेशरतश्च भाद्रपदजस्तन्त्री मनोराज्यवान् । मासो चाश्चयुजि स्वक्रीयजनविद्वेषी दरिद्रश्चलः पुष्टाङ्गः कृषको विशालनयनो वित्ताधिकः कार्तिके ॥ ३०॥ सुरगुरुपितृभक्तो मार्गशीर्षो च धर्मी धनगुणबलशाली तुङ्गनासस्तु पुष्ये । खलमतिरतिधर्माचारवान् माधमासि प्रतिदिनमुपकर्ता फाल्गुने गानलोलः ॥ ३१॥ अथ पक्षफलम् । व(ब)क्षपक्षे यदि पुत्रपौत्रधनाधिको धर्मरत्ः कृपालुः । स्वकार्यवादी निजभातृभक्तः स्वबन्धुवैरी यदि कृष्णपक्षे ॥ ३२॥ अथ कालफलम् । जातः प्रत्युषसि स्वधर्मनिरतः सत्कर्मजीवी सुखी मध्याह्वे यदि राजतुल्यगुणवान् जातोऽपराहे धनी । सायंकालभवः सुगन्धवनितालोलः खलात्माऽटनो रात्रौ तत्फलमेव सौख्यबहुलः सूर्योदये जायते ॥ ३३॥ अथ तिथिफलम् महोद्योगी जातः प्रतिपदि तिथौ पुण्यचरितो- द्वितीयायां तेजःपशुबलयशोवित्तविपुलः । तृतीयायां पुण्यप्रबलभयशीलश्च पटुवाक् चतुर्थामाशालुस्त्वटनवतुरो मन्त्रनिपुणः ॥ ३४॥ पश्चम्यामखिलागमश्रुतिरतः कामी कृशाङ्गश्चलः षष्ठ्यामल्पबलो महीपतिसमः प्राज्ञोऽतिकोपान्वितः । सप्तम्यां कठिनोरुवाग् जनपतिः श्लेष्मप्रधानो बली चाष्टम्यामतिकामुकः सुतवधूलोलः कफात्मा भवेत् ॥ ३५॥ ख्यातो दिव्यतनुः कुदारतनयः कामी नवम्यां तिथौ धर्मत्मा पटुवाक्कलत्रत्नयः श्रीमान् दशम्यां धनी । देवब्राह्मणपूजको हरितिथौ दासान्वितो वित्तवान् द्वादश्यामतिपुण्यकर्मनिरतस्त्यागी धनी पण्डितः ॥ ३६॥ त्रयोदश्यां लुब्धप्रकृतिरतिकामी च धन्वान् चतुर्दश्यां कोपी परधनवधूको गतमनाः । अमायामाशालुः पितृसुरसमाराधनपरो धनी राकाचन्द्रे यदि कुलयशस्वी च सुमनाः ॥ ३७॥ अथ वारफलम् । मानी पिङ्गलकेशलोचचनतनुश्चादित्यवारे विभुः कामी कान्तवपुर्दयालुरनिशं शीतांशुवारोद्भवः । क्रूरः साहसवादकार्यनिरतो भूसूनुवारे सदा देवब्राह्मणपूजक्ः सुव्रचनः सौम्य्स्य वारोदये ॥ ३८॥ यज्वा भूपतिवल्ल्भश्च गुणवान् स्यातो गुरोर्वसरे धान्यक्षेत्रधनाश्रितः सितदिने सर्वप्रियः कामधीः । मन्दप्रायमतिः परान्नधनभुग् वादप्रवादान्वितो द्वेषी बन्धुजनावरोधकुशलो मन्दस्य वारोद्भवः ॥ ३९॥ अथ नक्षत्रनामानि । तुरङ्गदस्त्राश्वियुगश्विनीहया यमः कृतान्तो भरनी च याम्यभम् । हुताशनओऽग्निर्बहुला च कृत्तिका विधिर्विरिङ्चः शकटं च रोहिणी ॥ ४०॥ सौम्यश्चान्द्राग्र्हायण्युडुपमृगशिरस्तारका रौद्रमार्द्रा चादित्यं तत्पुर्नवस्विति सुरजननी तिष्यपुष्यामरेज्याः । आश्लेपाहिर्भुजङ्गः पितृजनकमघाः फल्गुनी भाग्यभं स्य- र्दयम्णश्चोत्तराख्यं भगमिति कथिनं भानुहस्तारुणार्काः ॥ ४१॥ त्वष्टा च चित्रासुरवर्द्धकी तु स्वाती मरुद्वातसमीरणाख्याः । वायुः समीरः परतो विशाखा द्विदैवतेन्द्राग्निकशूर्पभानि ॥ ४२॥ अनूराधा मैत्रं त्वथ कुलिशताराः शतमस्वः सुरस्वामी जेष्ठा परमसुरमूलक्रतुभुजः । पयःपूर्वाषढा सलिलजलतोयानि च समु- त्तराषाढा विश्वं परमभिजिदाहुर्मुनिगणाः ॥ ४३॥ श्रोणाविष्णुहरिश्रुतिश्रवणभान्याहः श्रविष्ठा वसु प्राचेताः शततारका वरुणभं चाजैकपादोऽजपान् । पूर्वप्रोष्ठपदर्क्षकं परमहिर्बुघ्न्योत्तरा प्रोष्ठपान् पूषारेवतिपौष्णमानि मुनिभिः सक्कीर्तितानि क्रमात् ॥ ४४॥ अथ गण्डान्तताराः मूलावासवयोर्मघाभुजगयोः पौष्णाश्वयोः सन्धिजं गण्डान्तं प्रहरप्रमाणमधिकानिष्टप्रदं प्राणिनम् । ज्येष्ठादानवतारसन्धिघटिका चाभुक्तसंज्ञा भवेत् तन्नाहीप्रभवाङ्गनासुतपशुप्रेष्याः कुलघ्वंसकाः ॥ ४५॥ अथ ज्येष्ठाफलानि विभक्ता दशभिर्ज्येष्ठानक्षत्राखिलनाडिकाः । आद्यंशे जननीमाता द्वितीये जननीपिता ॥ ४६॥ तृतीये जननीभ्राता यदि माता चतुर्थके । पङ्चमे जाततनयः षष्थे गोत्रविनाशकः ॥ ४७॥ सप्तमे चोभयकुलं त्वष्टमे वंशनाशनम् । नवमे स्वशुरं हन्ति सर्व हन्ति दशांशके ॥ ४८॥ भौमवासरयोगेन ज्येष्ठाजा ज्येष्ठसोदरम् । भानुवासरयोगेन मूलजा स्वशुरं हरेत् ॥ ४९॥ ज्येष्ठाद्यपादेऽग्रजमाशु हन्याद् द्वितीयपादे यदि तत्कनिष्ठम् । तृतीयपादे पितरं निहन्ति स्वयं चतुर्थे मृतिमेति जातः ॥ ५०॥ अथ मूलफलानि । मूलाद्यपादे पितरं निहन्याद् द्वितीयके मातरमाशु हन्ति । तृतीयजो वित्तविनाशकः स्याच्चतुर्थपादे समुपैति सौख्यम् ॥ ५१॥ मूलर्क्षनिखिला नाड्यस्तिथिसङ्ख्याविभाजिताः । आद्ये पिता पितृभ्राता तृतीये भगिनीपतिः ॥ ५२॥ पितामहश्चतुर्थे तु माता नश्यति पङ्चमे । षष्ठे तु मातृभगिनी सप्तमे मातुलस्तथा ॥ ५३॥ अष्ठमांशे पिऋव्यस्त्री निखिलं तु नवांशके । दशमे पशुसंधतो भृत्यस्त्वेकादशांशके ॥ ५४॥ द्वादशे तु स्वयं जातस्तज्ज्येष्टस्तु त्रयोदशे । चतुर्दशे तद्भगिनी त्वन्ते मातामहस्तथा ॥ ५५॥ आश्लेषाद्ये न गण्डं स्याद्धनगण्डं द्वितीयके । तृतीये मातृगण्डम् तु पितृगण्डं चतुर्थके ॥ ५६॥ मूलामधाश्रिचरणे प्रथमे पितुश्च पौष्णेन्द्रयोश्च फणिनस्तु चतुर्थपादे । मातुः पितुः स्ववपुषोऽपि करोति नाशं जातो यथा निशि दिनेऽप्यथ सन्ध्ययोश्च ॥ ५७॥ दिवा जातस्तु पितरं रात्रिजो जननी तथा । आत्मानं संध्ययोर्हन्ति नास्ति गण्डे विपर्ययः ॥ ५८॥ ऋक्षस्यान्ते भवेद्रात्रावादौ यदि दिने तथा । संध्यासु ऋक्षसन्धौ तु तदेतद् गण्डलक्षणम् ॥ ५९॥ पूर्वाषाडे धनुर्लग्ने जातः पितृविनाशकः । पुष्ये कर्कटके लग्नेपितृमृत्युकरो भवेत् ॥ ६०॥ पूर्वाषाढे तु पुष्ये च पितरं मातरं सुतम् । मातुलं च शिशुर्हन्यात्प्रथमांशकतः क्रमात् ॥ ६१॥ उत्तराफाल्गुनीताराप्रथमे चरणे यदि । तिष्यनक्षत्रमध्यस्थपादयोरुभयोर्यदि ॥ ६२॥ पादे तृतीये चित्रायाः पूर्वार्द्धे यमभस्य च । तृतीयांशेऽर्कतारायश्चतुर्थाशेऽन्त्यभस्य च । जातस्तु पितरं हन्ति जाता चेन्मातरन्तथा ॥ ६३॥ अथ गण्डकालः । षोडशाब्दास्तुरङ्गाद्ये मघाद्ये चाष्टवत्सराः ॥ ६४॥ एकाब्दः शक्रतारायां चत्वारस्त्वाष्द्रमूलयोः । सार्पे वर्धद्वयं चैव रेवत्यामेकवत्सरः ॥ ६५॥ द्वौ मासौ चोत्तरादोषः पुष्यर्क्षे तु त्रिमासकम् । नवमे मासि पितरं पूर्वाषाढोद्भवं हरेत् ॥ ६६॥ हस्तर्क्षे यदि जातस्तु पितरं द्वादशाब्दके । अभुक्तमूलजः पुत्रः पितरं हन्ति तत्क्षणात् ॥ ६७॥ अभुक्तमूलजनितो यदि जीवति मानवः । निजवंशकरः श्रीमान् बहुसेनाधिपोऽथवा ॥ ६८॥ अथ तिथिदोषः । कृष्णपक्षे चतुर्दश्यां षडण्शे प्रथमे शुभम् । द्वितीये पितरं हन्ति तृतीये मातरं तथा ॥ ६९॥ चतुर्थे मातुलं हन्ति पङ्चमे भ्रातृनाशनम् । षष्ठे यदि शिशुं हन्ति गण्डदोष इतीरितः ॥ ७०॥ अमायां तु प्रजातानां गजानां वाजिनां तथा । गवां च महिषादीनां मनुष्यानां विशेषतः ॥ ७१॥ सिनीवालीप्रजातानां त्याग एव हि सर्वदा । विशेषाञ्च कुहूत्थानां शान्तिं कुर्याद्विधानतः । नारी विनाऽवशेषाणां परित्यागो विधीयते ॥ ७२॥ अथ योगदोषः । पितृजन्मर्क्षकर्मर्क्षजातः पितृविनाशकः ॥ ७३॥ जन्मर्क्षशकतक्कग्नजातः सद्यो मृतिप्रदः । मुसले मुद्गरे योगे जातः शोभननाशकृत् ॥ ७४॥ विष्टयां दरिद्रमाचष्टे गुलिकेऽङ्गविहीनवान् । रिक्ताय पिण्ढतां यानि पहुः स्याद्यमकण्टके ॥ ७५॥ ग्रहपीडितनक्षत्रे जातो रोगनिपीदितः । ग्रहमुक्ते कान्क्षितर्क्षे दत्तपुत्रो भवेत्सुतः ॥ ७६॥ व्यतीपातेऽङ्गहीनः स्यात् परिधे मृत्युमाप्नुयात् । धैधृतौ पितरं हन्ति विष्कम्भे चार्थहानिकृत् । शूले तु शूलरोगी स्याद् गण्डे गण्डमवाप्नुयात् ॥ ७७॥ अथ दन्तोद्रमफलम् । सदन्तजातः कुलनाशकरी द्वितीयमासादिचतुष्टयान्ते । दन्तोद्भवो मृत्युकरः पितुः स्यात् षष्ठे शिशोस्तत्परतः शुभं स्यात् ॥ ७८॥ अथ जन्मतारादयः । जन्मर्क्षमाद्यं दशमन्तु कर्म सांज्ञतिकं षोडशभं वदन्ति । अष्टादश स्यात् समुदायसंज्ञमाधानमेकोनितविंशतिः स्यात् ॥ ७९॥ त्रयोविंशतिनक्षत्रं वैनाशिकमिनि न्मृतम् । जातिदेशाभिकात्व्याः पङ्चविशादिनारकाः ॥ ८०॥ ज्न्मतारादयो यन्य विद्धः पापवियञ्चरैः । सद्यो मृत्युकरास्तस्य शुभैः शुभफलप्रदाः ॥ ८१॥ अथ गण्डदोषापवादः । वैशाखे श्रावणे माधे फाल्गुन्यां व्योमसम्भवम् । आषाढपुज्यसौम्येषु ज्योष्ठे मासि च मानुषम् ॥ ८२॥ अश्वयुक्चैत्रकार्तिक्यां भाद्रे च विलसम्भवम् । मर्त्ये मृत्युर्गण्डदोषः पाताले नास्ति पुष्करे ॥ ८३॥ जातमात्रे कुमारस्य सुखमालोकयेत्पिता । पितृईणात्स विभुच्येत पुत्रस्य मुखदर्शनात् ॥ ८४॥ अथ नक्षत्रफलम् । अश्विन्यामतिबुद्धिवित्तविनयप्रज्ञायशस्वी सुखी याम्यर्क्षे विकलोऽन्यदारनिरतः क्रूरः कृतघ्नो धनी । तजस्वी बहुलोद्भवः प्रभुसमोऽमुर्खश्च विद्याधनी रोहिण्यां पर्रन्ध्र्वित्कृशतनुर्वोधी परस्त्रीरतः ॥ ८५॥ चान्द्रे सौम्यमनोऽटनः कुटिलद्रक् कामातुरो रोगवान् आर्द्रायामधनश्चलोऽधिकबलः क्षुद्रक्रियाशीलवान् मूढात्मा च पुनर्व्सौ धनबलख्यातः कविः कामुक- स्तिष्ष्ये विप्रसुरप्रियः सधनधी राजप्रियो बन्धुमान् ॥ ८६॥ सार्पे मूढमतिः कृतघ्नवचनः कोपी दुराचारवान् गर्वी पुण्यरतः कलत्रवशगो मानी मघायां धनी । फल्गुन्यां चपलः कुकर्मचरितस्त्यागी द्रिढः कामुको भोगी चोत्तरफल्गुनीभजनितो मानी कृतज्ञः सुधीः ॥ ८७॥ हस्तर्क्षे यदि कामर्धमनिरतः प्राज्ञोपरर्ता धनी चित्रायामतिगुप्तशीलनिरतो मानी परस्त्रीरतः । स्वात्यां देवमहीसुरप्रियकरो भोगी धनी मन्दधी- र्गर्वी दारवशो जितारिरधिकक्रोधी विशाखोद्भवः ॥ ८८॥ मैत्रे सुप्रियवाग् धनी सुखरतः पूज्यो यशस्वी विभु- र्ज्येष्ठायामतिकोपवान् परवधूसक्तो विभुधार्मिकः । मूलर्क्षे पटुवाग्विधूतकुशलो धूर्तः कृतघ्नो धनी पूर्वापाढभवो विकारचरितो मानी सुखी शान्तधीः ॥ ८९॥ मान्यः शान्तगुणः सुखी च धनवान् विश्वर्क्षजः पण्डितः श्रोणायां द्विजदेवभक्तिनिरतो राजा धनी धर्मवान् । आशालुर्वसुमान् वसूडुजनितः पीनोरुकण्ठः सुखी कालज्ञः शाततारकोद्भवनरः शान्तोऽल्पभुक् साहसी ॥ ९०॥ पूर्वप्रोष्ठपदि प्रगल्भवचनो धूर्तो भयार्तो मृदु- श्चाहिर्बुघ्न्यजमानवो मृदुगुणस्त्यागी धनी पण्डितः । रेवत्यामुरुलाङ्छनोपगतनुः कामातुरः सुन्दरो मन्त्री पुत्रकलत्रमित्रसहितो जातः स्थिरः श्रीरतः ॥ ९१॥ अथ राशिफलम् । मेषस्थे यदि शीतगौ च लघुभुक् कामी महोत्थाघ्नजो दाता कान्तयशोधनोरुचरणः कन्याप्रजो गोगते । दिर्घयुः सुरतोपचारकुशलो हास्यप्रियो युग्मके कामासक्तमनोऽटनः सुवचनश्चन्द्रे कुलीरस्थिते ॥ ९२॥ सिंहस्थे पृथुलोचनः सुवदनो गम्भीरदृष्टिः सुखी कन्यास्थे विषयातुरो ललितवाग्विद्याधिको भोगवान् । तौलिस्थेऽम्रविप्रभक्तिनिरतो बन्धुप्रियो वित्तवान् कीटस्थे शशिनि प्रमत्तह्वदयो रोगी च लुब्धोऽटनः ॥ ९३॥ सौम्याङ्गो रुचिरेक्षणः कुलवरः शिल्पी धनुःस्थे विधौ गीतज्ञः पृथुमस्तको मृगगते शास्त्री परस्त्रीरतः । कुम्भस्थे गतशीलवान् बुधजनद्वेषी च विद्याधिको मीनस्थे मृगलाङ्छने वरतनुर्विद्वान् बहुस्त्रीपतिः ॥ ९४॥ अथ राश्यंशकफलम् । सेनानीर्घनवान् पिशङ्गनयनश्चोरश्च मेषांशके पीनस्कन्धमुखांसकोऽसितवपुर्जातो वृपांशे विधौ । चार्वङ्गः प्रभुसेवको लिपिकरो युग्मांशके पण्डितः श्यामाङ्गः पितृपुत्रसौख्यरहितश्चन्द्रे कुलीरांशके ॥ ९५॥ पीनाङ्गोन्नत्नासिको धनबलख्यातश्च सिंहांशके कन्यांशे मृदुभाषणः कृशतनुध्य तक्रियाकोविदः । कामी भूपतिसेवकः सुनयनश्चन्द्रे तुलांशे स्थिते कीतांशे विकलोऽधनः कृशतनुः सेवाऽटनो रोगवान् ॥ ९६॥ चापांशे कृशदीर्घबाहुद्दुतनुगस्त्यागी तपस्वी धनी लुब्धः कृष्णतनुः सदारतनयश्चन्द्रे मृगांशे यदि । मिध्यावादरतः स्वदारववशगः कुम्भांशगे शीतगौ मीनांशे मृदुवाग्दीनवचनस्तीर्थाटनः पुत्रवान् ॥ ९७॥ अथ योगफलम् । विष्कम्भे जितशत्रुरथपशुमान् प्रीतौ परस्त्रीवश- ज्वार्युष्मन्प्रभवश्रिरायुरगदः सौभाग्यजातः सुखी । भोगी शोभनयोगजो वधरुचिर्जातोऽतिगण्डे धनी धर्माचाररतः सुकर्मजनितो धृत्यां परस्त्रीधनः ॥ ९८॥ शूले कोपवशानुगः कलहकृद्गण्डे दुराचारवान् वृद्धौ पण्डितवाग् ध्रुवेऽसिधनवान् व्याधातजो घातकः । ज्ञानी इर्षणयोगजः पृईथुयशा विज्ञे धनी कामुकः सिद्धौ सर्वजनाश्रितः प्रभुसमो भायी व्यतीपातजः ॥ ९९॥ दुष्कामी च वरीयजस्तु परिधे विद्वेषको वित्तवान् शास्त्रज्ञः शिवयोगजश्च धनवान् शान्तोऽवनीशप्रियः । सिद्धे धर्मपरायणः क्रतुपरः साध्ये शुभाचारवान् चार्वङ्गः शुभयोगजश्च धनवान् कामातुरः श्लेष्ंअकः ॥ १००॥ शुक्ले धर्मरतः पटूत्ववचनः कोपी चलः पण्डितो मानी ब्रह्मभवोऽतिगुप्तधनिकस्त्यागी विवेकप्रभुः । ऐन्द्रे सर्वजनोपकारचरितः सर्वज्ञधीवित्तवान् मायावी परदूषकश्च बलवान् त्यागी धनी वैकृतौ ॥ १०१॥ अथ करणफलम् । भवकरणभवः त्याद्वालकृत्यः प्रतापी-विनयचरितवेषो बालवे राजपूज्यः । गजतुरगसमेतः कौलवे चारुकर्मा-मृदुपटुवचनः स्यात्तैतिले पुण्यशीलः ॥ १०२॥ गरजकरणजातो वीतशत्रुः प्रतापी-वणिजि निपुणवक्ता जारकान्ताविलोलः । निखिलजनविरोधी पापकर्माऽपवादी-परिजनपरिपूज्यो विष्टिजातः स्वतन्त्रः ॥ १०३॥ कालज्ञः शकुनीभवः स्थिरसुखी जातस्त्वनिष्टाकरः सर्वज्ञश्च चतुष्पदे तु ललितप्रज्ञायशोवित्तवान् । तेजस्वी वसुमानतीव बलवान् वाचालको नागके किंस्तुध्रेपरकार्यकृच्चपलधीर्हास्यप्रियो जायते ॥ १०४॥ अथ लग्नफलम् । बन्धुद्वेषकरोऽटनः कृशतनुः क्रोधी विवाद्प्रियो मानी दुर्बलजानुरस्थिरधनः शूरश्च मेषोदये । गोमान् देवगुरुद्विजार्च्चनरतः स्वल्पात्मजः शान्तधी- विद्यावादरतोऽटनश्च सुभगो गोलग्नजः कामुकः ॥ १०५॥ भोगी बन्धुरतो दयालुरधिकः श्रीमान् गुणि तत्त्वविद् योगात्मा सुजनप्रियोऽतिसुभगो रोगी च युग्मोदये । मिष्टान्नाम्बरभूषणो ललितवाक्कापट्यधीर्धर्मवान् जातः स्थूलकलेवरोऽन्यभवनप्रीतः कुलीरोदये ॥ १०६॥ जातः सिंहविलग्नकेऽल्पतनयः सन्तुष्टधीहिंसकः यूरो राजवयीकरो जितरिपुः कामी विदेयं गतः । कन्शालग्नभवः क्रिशासुनिपुणः श्रीमान् सुधीः पण्डितः मेधावी वनिताविलासरसिको बन्धुप्रियः सात्त्विकः ॥ १०७॥ ललितवदननेत्रो राजपूज्यश्च विद्वान्-मदनरतिविलोलः स्त्रीधनक्षेत्रशाली । विरलदशनमुख्यः शान्तबुद्धिर्विषादी-चलमतिरतिभीरुर्जायते तौलिलग्ने ॥ १०८॥ मूर्खः क्रूरविलोचनोऽतिचपलो मानी चिरायुर्धनी विद्वान् वृश्चिकलग्नजश्च सुजनद्वेषी विवादप्रियः । प्राज्ञस्चापविलग्नजः कुलवरः श्रीमान् यशोवित्तवा- न्ना कुम्भीरसमुद्भवश्च रमणीलोलः शठो दीनवाक् ॥ १०९॥ अन्तःशठः परवधूरतिकेलिलोलः-कार्पण्यशीलधनवान् घटल ग्रजातः मीनोदयेऽल्परतिरिष्टजनानुकूल०स्तेजोबलप्रचुरधान्यधनश्च विद्वान् ॥ ११०॥ अथ होराफलम् । ओजे राशौ भानुहोराप्रजातः-क्रूरः कामी वित्तवान् राजपूज्यः वाग्मी दाता चारुदेहो दयालु-र्जारस्त्रीकश्चन्द्रहोरा यदि स्यात् ॥ १११॥ मार्तण्डहोराजनितः सभर्क्षे-मन्त्री कृतज्ञचपलोऽतिभीरुः । चन्द्रस्य होराप्रभवः प्रगल्भ-वाक्योऽलसः पुण्यवधूरतः स्यात् ॥ ११२॥ अथ द्रेष्काणफलम् । कण्ठीरवाजघटकीटमृगाननाद्या मीनालिसिंहवणिगन्त्यगता दृकाणाः । क्रूरा भवन्ति कटकस्य सरीसृपस्य-मध्यस्थितश्च बहुशः प्रवदन्ति सन्तः ॥ ११३॥ कुलीरमीनादिगतौ दृकाणौ-मीनाङ्गनामन्दिरमध्यगौ च । मोयुग्मयोरन्त्यगतत्रिभागौ-भवन्ति षट् तोयचरा दृकाणाः ॥ ११४॥ मेषास्विगोकुम्भगद्वितीय-स्तुलाधरस्त्रीयुगपूर्वभागः । चापाङ्गनातोयधरान्त्याता-दृकाण्संज्ञाः प्रभवन्ति सौम्याः ॥ ११५॥ मृगाजकर्क्यन्त्यगता दृकाणा-वृषस्य चापस्य च पूर्वयातौ । नृयुग्मतौलीहरिमध्यगास्ते/विमिश्रसंज्ञा इति संवदन्ति ॥ ११६॥ क्रूरद्रेष्काणजातः स्वलमतिरटनः पापकर्माऽपवादी दाता भोगी दयालुः कृषिसलिलधनस्तोयभागे विशीलः । सौम्यद्रेष्कणजो यः सुखधनतनयश्चारुरूपो दयालु- जार्तो मिश्रे कुशीलः परयुवतिरतः क्रुरदृष्टिश्चलात्मा ॥ ११७॥ अथ बवांशफलम् । मार्तण्डांशे खलात्मा बलसुतधनवान् पिङ्गाक्षश्च कामी चन्द्रांशे भोगशाली परयुवतिरतः पण्डितो गोधनाढ्यः । भौमांशे क्रूरकर्मा चलमतिरटनः पित्तरोगी च लुब्ध- स्त्यागी रोगी बुधांशे ललिततनुरतिख्यातविद्यायशस्वी ॥ ११८॥ जीवांशे यदि हेमकेशतनुगः श्रेष्ठः सुधी रूपवान् मन्त्री पण्डितवाक् प्रसन्नवदनो राजाधिराजप्रियः । शुक्रांशे परकामिनीजनरतस्त्यागी सुखी पण्डितो मन्दांशे यदि पापबुद्धिरधनः स्थूलदिजो रोगवान् ॥ ११९॥ अथ द्वादशांशफलम् । जाती मेषद्वादशांशे खलात्मा-चोरः पापाचारधर्मानुरक्तः । स्त्रीवित्ताढ्यो रोगवानुक्षभाम्शे-युग्मांशे तु द्यूतकृत्यः सुशीलः ॥ १२०॥ दुष्टाचारः क्र्कटांशे तपस्वी-सिंहे भागे राजकृत्यः सुशूरः । द्यूताचारः स्त्रीरतः कन्यकांशे-व्यापारी स्यात् तौलिभांशे धनाढ्यः ॥ १२१॥ कीतांशके धनरुचिर्विटचारनाथ-श्रापांशके पितृमहीसुरदेवभक्तः । सस्याधिपो मृगमुखांशभवः सभृत्यः-कुम्भे खलस्त्वनिमिषे धनिकश्च विद्वान् ॥ १२२॥ अथ त्रिंशांशफलम् । त्रिंशांशे धरणिसुतस्य चपलः काठिन्यवाक् क्रूरधी- र्मन्दस्याटनतत्परो मलिनधीर्जीवांशके वित्तवान् । सौम्यांशे गुरुदेवभाक्तिनिरतः साधुप्रियो बन्धुमान् कामी कान्तवपुः सुल्ही च भृगुजत्रिंशांशके जायते ॥ १२३॥ अथ वेलाफलम् । वाग्मी शिष्टाचारधर्मस्तपस्वी नित्योत्साही निर्मलो दानशीलः । तेजोविद्यारूपवान् सत्यवादी वीतारातिः सत्त्ववेलाप्रजातः ॥ १२४॥ रजोवेलाजातः सुखधनयशोरूपबलवान् जितारातिः कामातुरमतिरबन्धुप्रियमनाः । तमोवेलाजातः परधनवधूको गतसुखः शठस्वामी बन्धुद्विजगुरुविरोधी चपलधीः ॥ १२५॥ तमः सत्त्वरजोवेलास्तमः सत्त्वं रजस्तमः । भवन्त्यर्कदिनादीनामर्धयामैरनुक्रमात् ॥ १२६॥ अथ कालहोराफलम् । मन्त्रिमङ्गलमार्तण्डशुल्क्रज्ञेन्दुशनैश्चराः । आरभ्य वारतो होरा रात्रौ पङ्चमवारतः ॥ १२७॥ क्लेशायासः सम्पदः शोकरोगं विद्यावित्तं सर्वसम्पत् प्रभुत्वम् । जायासौख्यं वित्तनाशं दिनेशाज्जातस्यैतत्कालहोराफलं स्यात् ॥ १२८॥ मार्तण्डसूनुतनयाश्रयभावजानि संवत्सरायनमुखप्रभवाखिलानि । होरादिवर्गजनितानि फलानि यानि संकीर्तितानि र्विमुख्यवरप्रसादात् ॥ १२९॥ इति नवमोऽध्यायः ॥ ९॥
अथाष्टकवर्गाध्यायः ॥ १०॥ चक्रं विलिव्य मह लग्नदिवाकराद्यैः सूर्यादिलग्नभवनान्तवियच्चराणाम् । वाक्याष्टकोपगनवर्णनियोजिनाश्चेद्भिन्नाष्टवर्गजनिनाग्विलबिन्धवः स्युः ॥ १॥ देवो धवो धीगवशस्तमो रमा धूलिः क्रमाडुणकादिबिन्दवः । सालोलमंख्याः भमुदायांबन्दवः भवाष्टवर्ग गमुदायसंज्ञकः ॥ २॥ मेषादियद्गृहगता वसुसङ्ख्ययातास्तद्भावपुष्टिबलवृद्धिकरा भवन्ति । षद्पङ्चसप्तसंहितानि शुभ्रप्रदानि त्रिद्व्येकबिन्दुयुतभानि न शोभनानि ॥ ३॥ मिश्रं फलं भवति सागरबिन्दुयोगे रोगापवादभयदा यदि शून्यभावाः । एकादिबिन्दुयुतभानुमुखग्रहाणां भिन्नाष्टवर्गजनि सर्वफलं प्रवचिम् ॥ ४॥ करोति नानाविधरोगदुःखभयाटनादीनि च सैकबिन्दुः । द्विको मनस्तापनृपालचोरकुताण्वादाशननाशनानि ॥ ५॥ त्रिकस्त्वसङ्चारकृशावलम्बकतेञ्रव्यकुलमानसानि । सुखासुखार्थव्ययवित्तलाभफलदः सागरबिन्दुकः स्यात् ॥ ६॥ सद्वस्त्रलाभसुतलालनसाधुसङ्गविद्याधननि कुरुते च सपङ्चबिन्दुः । षड्बिन्दुकस्तु नवमोहनरूपशीलसङ्ग्रामजिद्धनयशोबलवाहनानि ॥ ७॥ ससप्नबिन्दुस्तुरगादियानसेनाधनप्राभवशोभनानि । बिन्द्वष्टकः सप्तगुणाभिरामराजप्रतापं प्रकटीकरोति ॥ ८॥ शरादिबिन्दुस्थितराशियातः स्वकीयवर्गे शुभदस्तु नित्यम् । अतोऽन्यथा चेदफलप्रदाता गोचारतः शुन्यफले प्रमादी ॥ ९॥ स्वोच्चमित्रादिवर्गस्थाः केन्द्रादिबलसंयुताः । अनिष्टफलदाः सर्वे स्वल्पबिन्दुयुता यदि ॥ १०॥ दुष्टस्थानस्थिता ये च ये च नीचारिभांशगाः । ते सर्वे शुभदा नित्यमधिबिन्दुयुता यदि ॥ ११॥ दिनेशमुख्यग्रहवर्गकेषु यदा शनिः शून्यगृहं प्रयातः । करोति पित्रादिकभावजानामतीव रोगारिभयाकुलानि ॥ १२॥ लग्नं गते दिनकरे रिपुनीचभागे जातः कृशानुयुगबिन्दुयुते च रोगी । वाणादिबिन्दुसहितोदगे दिनेशे स्वोच्चेऽथवा निजगृहे नृपतिश्चिरायुः ॥ १३॥ केन्द्रत्रिकोणोपगते दिनेशे षट्पङ्चसप्ताष्टकबिन्दुवर्गे । रुद्रामलानीचलाब्दकेषु जातस्य् वा तज्जनकस्य मृत्युः ॥ १४॥ शोध्यावशिष्टद्वयबिन्दुयाते केन्द्रस्थिते सेन्दुशनीन्दुसूनौ । भानौ दशाब्दात्परतः समृद्धां तातस्य राज्यश्रियमाहुरार्याः ॥ १५॥ अथ चन्द्रफलम् । शून्यागारं तरणिशशिनोरष्टवर्गे तदीयो मासो राशिः सकलशुभदे कर्मणि त्याज्य आहुः । यक्ष्मालस्यं शशिनि तनुगे सौकलोकाक्षिबिन्दौ सप्तत्रिंशच्छरदि मरणं वित्र्खेटान्विते च ॥ १६॥ केन्द्रत्रिकोणायगते शशाङ्के निचारिगे वृद्धिकलाविहीने । बिन्दुद्विके वा यदि सत्रिबिन्दौ तद्भावनाशं कथयन्ति तज्ज्ञाः ॥ १७॥ देवादिबिन्दुयुतकोणचतुष्टये वा लाभे विधौ बलयुते यदि भाववृद्धिः । बिन्दुद्वष्टके शशिनि केन्द्रगते तु जाता विद्यायशोधनबलप्रबला नरेन्द्राः ॥ १८॥ अथ भौमफलम् । स्वोच्चस्वके गुरुसुखोदयमानयाते बुन्द्वष्टके च यदि कोटिघनप्रभुः स्यात् । चापाजसिंहमृगकीटविलग्नसंस्थे भौमे चतुष्टयफलोपगते च राजा ॥ १९॥ बिन्द्वष्टके धरणिजेऽतिलघुक्षितीशो मानेऽथवा तनुगते च महीपतिः स्यात् । जातोऽवनीशकुलजो यदि देशनाथः स्वोच्चस्वराशिसहिते नृपचक्र्वर्ती ॥ २०॥ अथ बुधफलम् । केन्द्रत्रिकोणे वसुबिन्दुके ज्ञे जातीयविद्याधिकभोगशाली । स्वोच्चादिकैकद्वितयत्रिबिन्दौ तद्भाववृद्धिर्नच भावहानिः ॥ २१॥ बिन्द्वाधिक्यं यत्तदागारमासे विद्यारम्भः सर्वविद्याकरः स्यात् । गोचारेण ज्ञस्यं शुन्यालयस्थे मन्दे बन्धुज्ञातिसम्पद्विनाशः ॥ २२॥ अथ गुरुफलम् । जीवाष्टवर्गाधिकबिन्दुराशौ लग्ने निषेकं कुरुते सुतार्थी । तद्राशिदिग्भागगृहस्थितानि गोवित्तयानानि बहूनि च स्युः ॥ २३॥ जीवाष्टवर्गलघुबिन्दुगृहोपयाते भानौ कृताखिलशुभानि विनाशितानि । पङ्चादिबिन्दिन्करिपुव्ययरन्ध्रगेज्ये जातश्चिरायुरतिवित्तजितारिकः स्यात् ॥ २४॥ स्वोच्चेऽथवा निजगृहे वसुबन्धुयुक्ते केन्द्रस्थिते सुरगुरौ गुरुभावगे वा । नीचारिभावमपहाय विमूढराशौ जातः स्वकीययशसा पृथिवीपतिः स्यात् ॥ २५॥ यदा महीदेवकुलप्रजाता तदीययोगे नरपालतुल्याः । कृतानि पुण्यप्रभवप्रसिद्धबुद्धिप्रतापानि गुणाभिरामाः ॥ २६॥ ससप्तबिन्दौ सह लक्ष्मणेन जीवे बहुस्त्रीधनपुत्रवन्तः । षड्बिन्दुके वाहनवित्तवन्तः सपङ्चबिन्दौ जयशीलवन्तः ॥ २७॥ अथ शुक्रफलम् । साष्टबिन्दुफलकोणकेन्द्रगे भार्गवे तु बलवाहनाधिपः । आयुरन्तमविनाशभोगवान् वित्तरव्नविभुरद्रिबिन्दुके ॥ २८॥ नीचास्तरिष्फनिधनोपगते तु काव्ये पूर्वोदितक्षितिपयोगविनाशनं स्यात् । शुक्रोऽल्पबिन्दुयुतमन्दिरदिग्वभागे स्त्रीवश्यहेतुशयनीयगृहं प्रशस्तम् ॥ २९॥ अथ शनिफलम् । कोणस्य शून्यतरराशिगते तु मने जातस्य मृत्युफलमाशुधनक्षयो वा । एकद्विलोकयुगबिन्दुयुते च केन्द्रे मुक्ते स्वतुङ्गभवने रविजेऽल्पमायुः ॥ ३०॥ षट्पङ्चनिदुसहिते तनुगे बलाढ्ये जन्मादिदुःखबहुलं धननाशमेति । मन्दे शरादिफलनीचसपत्नभावे जातश्चिरायुरतिभनवर्गकेन्द्रौ ॥ ३१॥ मूढारिनीचगृहगे शरवेदबिन्दौ दास्युष्ट्रवित्तहितास्तनये तनुस्थे । सौरेऽष्टबिन्दुगणिते परमन्त्रतन्त्रग्नामाधिपास्तु गिरिबिन्दुगृहे धनाढ्यः ॥ ३२॥ अथ प्रस्तारकम् । आलिख्य चक्रं नवपूर्वरेखा याम्योत्तरस्था दश च त्रिरेखाः । प्रस्तारकं षण्ण्वतिप्रकोष्टं पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् ॥ ३३॥ होराशशीबोधनशुक्रसूर्यभौमामरेन्द्राचिंतभानुपुत्राः । याम्यादिपङ्क्त्यष्टकराशिनाथाः क्रमेण तद्विन्दुफलप्रदाः सुय्ः ॥ ३४॥ सबिन्दुगः सर्वफलप्रदः स्यादबिन्दुको यद्यफलप्रदः स्यात् । अरातिनीचास्त्गतो नभोगः सबिन्दुकोऽपि प्रविलोपकर्ता ॥ ३५॥ अथ त्रिकोणशोधनम् । पङ्च प्राचीरालिखे(स्वे)द्वाणरंख्यास्तिर्यघेखा वर्जितान्तश्चतुष्काः । प्रागादीशा द्वादश व्योमवासा ज्योतिश्चक्रस्वामिनस्तूबराद्याः ॥ ३६॥ अजहरितुरगाङ्गैरुक्षकन्यामृगस्थैर्युगधटघटरूपैः कर्किकीटावसानैः । दिनकरसुखवर्गे तत्त्रिकोणोपयाता लघुतरसमशून्या बिन्दवः शोधिताः स्युः ॥ ३७॥ त्रिकोणभावेषु यदल्पबिन्दवस्तदीयबिन्दु भवतस्तु तावुभौ । न बिन्दुको यस्तु न शोधितेतरौ समानसंख्या यदि सर्वमुस्सृजेत् ॥ ३८॥ अथैकाधिपत्यशोधनम् । कण्ठीरवं कटक्भं च विना कुजादिकावासराशियुगलोपगबिन्दुसङ्घ्याः ॥ तत्तुल्यशून्यविघमाग्नसहग्रहाद्यास्त्वेकाधिपत्यपरिशोधितशेषिताः स्युः ॥ ३९॥ राशिद्वयं सद्युचरं न शोधयेदेकं द्वयोः शून्यममप्यशोधयेत् । कलाधिके खेटयुते परं त्यजेत् तुल्यानभोगद्वितयं परित्यजेत् ॥ ४०॥ सखेचराखेचरबिन्दुसाम्ये विशोधयेदग्रहबिन्दुसङ्ख्याम् । विखेटराशिद्वयबिन्दवो ये न्यूनाधिका न्यूनसमा विधेयाः ॥ ४१॥ खेटोपयाते लघुबिन्दुराशौ तत्तुल्यमायान्ति तदन्यसंख्याः । पूर्वं त्रिकोणं परिशोध्य पश्चादेकाधिपत्यस्य ततः प्रकल्प्याः ॥ ४२॥ शोध्यावशिष्टानि गुणीकृतानि मेषादिमानैर्गुणकं हि भानाम् । सूर्यादिकास्ते गुणिताः स्वमानैरेषाम् ग्रहाणां गुणकं वदन्ति ॥ ४३॥ शैलाशावसुसागराम्बरशरैः शैलाहिगोसायकै- रीशद्वादशमिश्र राशिगुणकैर्मेषादिभानां क्रमात् । बाणैः पङ्चभिरष्ट्कैः शरनभःशैलेषुभिर्भिस्वरा- देवं व्योमतलाधिवासगुणकैरायुर्विधानोदितैः ॥ ४४॥ तद्राशिखेटगुणकैक्यफलानि हृत्वा त्रिशद्भिरब्दचयमासदिनादिकाः स्युः । तद्द्वादशाधिकसमा यदि राशिमानैराहृत्य तत्समतयाऽनुहरेत्तदायुः ॥ ४५॥ उच्चं गतस्य द्विगुणं तदीयं नीचं गतस्यास्तगतस्य चार्द्धम् । अतोऽन्तराले त्वनुपात्यमायुरारस्य वक्रे द्विगुणिकृतं स्यात् ॥ ४६॥ मूलत्रिकोणनिजमित्रगृहोपगानां तुङ्गादिवर्गशुभयोगनिरीक्षितानाम् । उक्तप्रकारगणितागममायुरेव पापारिवर्गसहितस्य विपादमायुः ॥ ४७॥ रविमुख्यनभोगदत्तसंख्याः परमायुः शरदस्तु मानवानाम् । सविलग्नसमाश्च केचिदाहुर्गुरुमूलात्समुपैति तुल्यमायुः ॥ ४८॥ केन्द्रादन्यगते चन्द्रे सखेटे चाष्टवर्गजम् । आयुरेव नभःस्थाने शुभपापयुतेऽथवा ॥ ४९॥ रव्यादिखेटस्थितराशियाताः स्वकीयवर्गोपगबिनुसंख्याः । वेधाष्टवर्गप्रभवायुरब्दा भवन्ति सर्वे हरणक्रियाश्च ॥ ५०॥ तत्तत्कारकभावबिन्दुगुणितं शोध्यावशिष्टं फलं विम्शत्या सह सप्तभिश्च विहृतं तच्च्जेषताराशनौ । तातस्तज्जननी सहोदरजनो बन्धुः सुतः स्त्रीस्वयं तत्तुल्या विलयं प्रयान्ति विपुलश्रीनाशहेतुश्च वा ॥ ५१॥ इति भिन्नाष्टवर्गः । अथ समुदायाष्टकवर्गः । ततः समालिख्य भगोलचक्रं समस्तबिन्दुस्थितराशिकोष्ठम् । रव्यादिकानामजपूर्वकाणां बिन्दूपगस्थानफ्लं वदामि ॥ ५२॥ आपङ्चविंशति फलान्यफलान्यसत्यमात्रिंशदक्षसहितानि समध्यमानि । त्रिंशत्पराणि सुखवित्तयशस्कराणि तद्भाववृद्धिफलदानि च सामुदाये ॥ ५३॥ ये तुङ्गराशिस्वसुहृद्गृहत्वा ये कोणकेन्द्रोपचयस्थितश्चः ये सौम्यवर्गादिबलोपयातास्ते नाशदाः लाघवबिन्दुकाश्चेत् ॥ ५४॥ ये मान्दिराशिपतिना सह बोधकाश्च ते सर्वमुख्यफलदास्त्वदिबिन्दुकाश्चेत् ॥ ५५॥ मानस्थिताल्लाभगृहे बहुत्वे लाभाल्लघुत्वे यदि रिष्फराशौ । रिष्फोपयातादधिके विलग्ने जातः सुखी वित्तयशोबलाढ्यः ॥ ५६॥ खण्डत्रयं शफरकर्कटकीटकाद्यं तत्तच्चतुष्टयगृहोपगबिन्दुयुक्तम् । आद्यं च मध्यमवसानभिति प्रयुक्तं केचिद्व्ययादिकमिति प्रवदन्ति लोके ॥ ५७॥ बिन्दुं स्यक्त्वा रिष्फरन्ध्रोपयातं शिष्टं खण्डं केचिदिच्छन्ति सन्तः । तुल्यवल्पाधिक्यबिन्दुक्रमेण मिश्रं दुःखं सम्पदः स्यूर्नराणाम् ॥ ५८॥ सौम्याक्रान्तं यदि सुखकरं मिश्रदं मिश्रयोगं । खण्डं पापद्युचरसहितं क्लेशयोगाकरं स्यात् । बिन्दुस्वल्पे यदि निजमनस्तापवान् पापवादी बिन्द्वाधिक्ये वयसि विपुलः श्रीसमेतः प्रजातः ॥ ५९॥ यावद्विन्दुर्लग्नगस्तावदीयसङ्ख्यातीते वत्सरे राजयानम् । वित्तं पुत्रं चातिविद्यामुपैति जातः सपद्योगशाली नरश्चेत् ॥ ६०॥ रिःफाधीशे मन्दगेहोदयस्थे होरारन्ध्रस्वामिनौ दुर्बलौ च । लग्ने यावदिबिन्दुसंख्यास्तदीया जातस्यायुर्वत्सराः सम्भवन्ति ॥ ६१॥ यानाधीशे लग्नगे वाहनस्थे लग्नाधीशे तद्ग्रहोपेतराश्योः । त्रिशत्संख्या बिन्दुवः सत्रयश्चेज्जाता राजश्रीनिदाना नरेशाः ॥ ६२॥ होराबन्धुप्राप्तिभावत्रयेषु त्रिंशन्मानाधिक्यबिन्दूपगेषु । जातस्तेजःश्रीबहुत्वं च राज्यं चत्वारिशद्वत्सरादूर्घ्वमेति ॥ ६३॥ यत्यङ्चविंशतिमुखास्त्रिदशान्तसंख्या बन्धुस्थिता नवमराशिकबिन्दवश्च । यद्यष्टकेन सह विशतिवत्सराणामन्ते परे शरदि वा नरवाहनाढ्यः ॥ ६४॥ देवाचार्ये वहनस्थे स्वतुङ्गे चत्वारिंशद्बिन्दुसङ्ख्यवत्सरेशे । मेषगते लग्नगे वासरेशे जातो राज लक्षसंख्याश्चनायः ॥ ६५॥ चत्वारिंशद्बिन्दुयुक्ते विलग्ने चापे जीवे भार्गवे मीनराशौ । स्वोच्चे भौमे कुम्भगे भानुपुत्रे जातः सर्वश्रीधरः सार्वभौमः ॥ ६६॥ क्रियादिराशित्रितयोपयाता भवन्ति पूर्वादिचतुर्दशश्च । फलाधिकं यदिशी तत्प्रदेशे धनादिवृद्धि समुपैति जातः ॥ ६७॥ लग्नादिशन्यन्तगतं तुरङ्गैः सङ्गुण्य ताराहृतलब्धयाते । रव्यादिपापे यदि कोणगे वा रोगादिपीडाविपुलं नराणाम् ॥ ६८॥ मन्दाइलग्नान्तफलं च तद्वल्लग्नान्तमारादुदयात्कुजान्तम् । शुभैक्यसंख्यागततारकायां शुभग्रहे सौख्यफलं वदन्ति ॥ ६९॥ शोध्यं राशिद्युचरणगुणकैः संगुणय्यैतदैक्यं हत्वा शैलैरुडुगणहृतं लब्धमब्दादिकं स्यात् । मानाधिक्ये विशतमशते तारकायुर्वराङ्गैः सगुण्याप्तं दिवसनिचयैमार्तुलैः शुद्धमायुः ॥ ७०॥ स्वल्पमध्यबहुमानव्त्सरा मण्डलोनयुतकर्मकल्पिताः । तुल्यकालमुपयान्ति सर्वतः सद्गुणोदयकटाक्षवीक्षणात् ॥ ७१॥ श्रीवैद्यनाथकृतजातकपारिजाते पराशरादिफलसाररसोपयाते । प्रस्तारभिन्नसमुदायकबिन्दुशीलः संकीर्तितस्तु सकलद्युचरप्रसादात् ॥ ७२॥ इति दशमोऽध्यायः ।
अथ प्रथमद्वितीयभावफलाध्यायः ॥ ११॥ होरलग्नात्मुख्यप्रभवशुभफलादीनि सर्वाणि पुंसां चत्तद्भावोद्भवानि ह्यचरबलवशाद्यार्न नानि प्रवचिम् । ये ये भावाः सितज्ञामर्गुरुपतिभिः संयुता वीक्षिता वा नान्यैर्दष्टा ज युक्ता यादि शुभफलदा मूर्तियावादिदेषु ॥ १॥ तन्वादिभावेषु शुभोदयेषु तद्भावनाथोपगतेक्षितेषु । तदुक्तभाबस्य समृद्धिरुक्ता नपापखेटेक्षितसंयुतेषु ॥ २॥ नीचस्थो रिपुराशिस्थः खेटो भावविनाशकः । मूलस्वतुङ्गमित्रस्थो भाववृद्धिकरो भवेत् ॥ ३॥ यद्भावनाथो रिपुरिष्फरन्ध्रे दुःस्थानपो तद्भवनस्थित॥। तद्भावनाशं कथयन्ति तज्ज्ञाः शुभग्रहेण ॥॥॥॥॥॥। ॥ ४॥ यद्भावपे केन्द्रगते विलग्नात्त्रिकोणगे वा यदि सौम्यदृष्टे । तुङ्गादिवर्गोपगते बलाढ्ये तद्भावपुष्टिं फलमाहुरार्याः ॥ ५॥ तत्तद्भावत्रिकोणे सुखमदनगृहे वाऽस्पदे सौम्ययुक्ते पापानां दृष्टेहीने भवनपसहिते पापखेटैरयुक्ते । भावानां पुष्टिमाहुः सकलशुभकरं चान्यथा चेत्प्रणाशं मिश्रं मिश्रग्रहेन्दैरखिलमापि तथा मूर्तिभावादिकानाम् ॥ ६॥ नाशस्थानगतो दिवाकरकरच्छग्रस्तु यद्राशिपो नीचारातिगतोऽथवा यदि शुभैः खेटैर्युक्तेक्षितः । तद्रावस्य विनाशनं मुनिगणाः शंसन्ति खेटैर्युतो यद्यत्रापि फलप्रदो नहि तथा मूत्यार्दीभानां क्रमात् ॥ ७॥ दुःस्थाने वाअरिगे मूढे दुर्बले भावनायके । भावस्य सम्पदं कर्तुं न शक्ता भावमाश्रिताः ॥ ८॥ दुष्टस्थितो वापि यदा नभोगः पापोऽरिनीचांशकसंयुतो यः । स्वतुङ्गमित्रांशकराइयुक्तः शुभेक्षितो वा यदि शोभनः स्यात् ॥ ९॥ भवेशाक्रन्तराशीशे दुःस्थे भावस्य दुर्बलम् । स्वोव्च्चमित्रस्वराशिस्थे भावपुष्टिं वदेद् बुधः ॥ १०॥ वद्भावलाभधनविक्रमराशियाता यद्भावनाथसुहृदश्च तदुच्चनाथाः । तद्रभावपुष्टिबलमम्बरचारिणस्ते कुर्वन्ति मूढरिपुनीचविवर्जिताश्चेत् ॥ ११॥ भाविंशतुल्यः स्वलु वर्तमानो भावोद्भवं पूर्णफलं विघत्ते । भावोनके चाप्यधिके च खेटे त्रैराशिकेनात्र फलं विचार्यम् ॥ १२॥ अथ तनुभावफलम् । शरीरवर्णाकृतिलक्षणानि यशोगुणस्थानसुखासुखानि । प्रवासतिजोबलदुर्बलानि फलानि लग्नस्य वदन्ति सन्तः ॥ १३॥ नरश्विरायुर्नृपपूजितः सुखी लग्ने भवेत्सौम्यगृहं यया तथा । लग्ने यदा स्वामिनिरीक्षिते धनी कुशाग्रबुद्धिः कुलकीर्तिंवर्द्धनः ॥ १४॥ लग्नांशपाद्वीर्ययुतग्रहाद्वा तनुस्वरूपाकृतिलक्षणानि । वर्ण वदेच्चान्द्रनवांशनाथाद्विलग्नभात्सर्वशुभाशुभानि ॥ १५॥ त्रिकोणकेन्द्रे यादि लग्ननाथे शुभान्विते शोभनवीक्षिते वा । शुभग्रहागारगते बलाढ्ये चतुःसमुद्रान्तयशः समेति ॥ १६॥ होराधिनाथे रिपुरन्ध्ररिष्फे पापान्विते पापनिरीक्षिते वा । पापग्रहाणां भवनोपयते जातोऽप्रकाशो भवतीह भर्त्यः ॥ १७॥ कीर्तिस्थानपतौ विलग्नभवने जातः स्वयं कीर्तिमान् । वित्तस्थे तु विशेषकीतिसहितः स्वोच्चादिवर्गान्विते । दुःस्थे चङ्चलयात्रया हततनुर्जातोऽथवा दुर्जनः केन्द्रे कोणगते शुभग्रहयुते यात्रासुखं जायते ॥ १८॥ होरास्वामिनि पङ्चमे यदि सुतस्थानेशयुक्तेऽथवा भाग्ये वा यादि भाग्यपेन सहिते लग्ने यशस्वी पिता । भ्रात्रृस्थानपतौ विलग्नगृहगे तत्कारकभ्रातृपा- वेकस्थौ कलशालिनौ च यदि वा तत्सोदरः कीर्तिसान् ॥ १९॥ विद्याधिपे वा यदि चन्द्रसूर्ना लग्ने सुखे लग्नपासंयुते वा । बलान्विते पापदृशा विहीने विद्यायशस्वी भवति प्रजातः ॥ २०॥ धर्मोदयेशौ नवमोदयस्थौ धर्मोदयेशौ तनुधर्मगौ वा । सुरेन्द्रवन्द्येक्षितसंयुतौ चेत् समेति जातश्चिरकालभाग्यम् ॥ २१॥ लग्नाधिपस्य व्ययगे तदुच्चमित्रे सुहृत्तङ्गस्वगेक्षिते वा । तद्राशिगे वा यदि मित्रखेटे तस्य स्थितिर्जन्मवसुन्धरायाम् ॥ २२॥ लग्नेशाद्व्ययपे विलग्नपरिपौ नीचेऽथवा दुर्बले जातो याति विदेशमिष्टदनुजाचार्येण दृष्टे यदि । तत्रैव स्थितिरन्त्यपे राविकरच्छन्ने विलग्नाधिपा- दल्पग्नामचरो बलिन्यापि धनप्रामाधिवासो भवेत् ॥ २३॥ होरेशाद्वययपे विलग्नभवनात् केन्द्रत्रिकोणस्थिते मित्रस्योषगृहोपगे शुभयुते पार्श्वद्वये मानवः । चेतोरम्यमहीचरो दिवचराचार्येन्दुशुक्रेक्षिते दिव्यक्षेत्रमुपैति जन्मधरणीवासस्तदर्थे रिपौ ॥ २४॥ विदेशभाग्यं चरभे विलग्ने चरे तदीशे चरखेटदृष्टे । स्थिते स्वदेशे बहुभाग्ययुक्तः स्थिरहैर्भूरिधनान्वितः स्यात् ॥ २५॥ होराधीशे पापस्वेटे रिपुस्थे पापक्षेत्रे भानुपुत्रेण युक्ते । शूद्रप्रायो राहुणा केतुना वा जातश्चाण्डालोऽथवा नीचतुल्यः ॥ २६॥ लग्नाधिपे शोभनराशियुक्ते बलोपयते तनुपुष्टिमेति । लग्नस्थखेटे रिपुणिचभागे दुःस्थानपे देहसुखं न याति ॥ २७॥ विलग्नदर्शी तनुपो विलग्नगस्त्रयोऽपि षष्ठाष्टमरिष्फराशिपाः । सपत्ननीचोपगताश्च दुर्बला यदि स्वपाके न फलं प्रकुर्युः ॥ २८॥ लग्ने जलर्क्षे शुभखेचरेन्दैर्युक्ते तनोः स्थौल्यमुदाहरन्ति । लग्नाधिपे तोयरव(स्व)गे बलाढ्ये सौम्यान्विते तत्तनुपुष्टिमाहुः ॥ २९॥ लग्नाधिपे नाशगते तु शुष्कराशौ तनोः कष्टमतीव कृच्छ्रम् । लग्नांशपस्थांशपराशिनाथः शुष्कग्रहः स्यात्तनुशुष्कमाहुः ॥ ३०॥ मध्यस्थे रिपुस्वेटयोस्तनुपतौ जातोऽरिभीतो भवेत् केतौ लग्नगतेऽथवा फणिपतौ दुःस्थे विलग्नाधिपे । तत्पाके तदरीशभुक्तिसमये वैकल्यमङ्गे वदेत् लग्ने शत्रुपतौ फाणिघ्वजयुते देहव्रणं देहिनाम् ॥ ३१॥ बलाइर्विहीने यदि लग्ननाथे केन्द्रत्रिकोणे सति लग्नभाक् स्यात् । लग्नेश्वराधिष्ठितराशिनाये दुःस्थानगे दुर्बलदेहवान् स्यात् ॥ ३२॥ सक्रूरो देहपोइ देहसौख्यहाऽन्त्यआरिरन्ध्रगः । सारीशे देहपे दुःस्थे लग्नस्थे वाऽथ रोगवान् ॥ ३३॥ लग्ने सपापे लग्नेशे बलहीनोऽपि रोगवान् । लग्नेशे दुर्बले कोपी निर्व्याधिः केन्द्रकोणगे ॥ ३४॥ देहेशस्थितराशीशे नाशगे दुर्बलो भवेत् । भावेशाक्रान्तराशईशैदुःस्थैर्भार्वाश्च दुर्बलाः ॥ ३५॥ सर्पारयोर्बृहद्वीजो योगो वा सर्पमन्दयोः । लग्ने कुजे नाभिगुल्फव्रणस्थौल्यं समादिशेत् ॥ ३६॥ लग्नेशे यदि रिष्फगे दिनकरस्थारातिनाथान्विते जायावान् बहुरोगवान् कृशतनुः संरक्तगौरद्युतिः । लग्नर्क्षादरिनाथपेन च युते जातोऽसिताङ्गो यदा साहौ लग्नपतौ तु वञ्चनविषाद्भीतिं समेति ध्रवम् ॥ ३७॥ लग्ने शुभे शोभनदृष्तेयुक्ते बाल्यात् सुखं तन्नहि पापयोगात् । दुःखी भवेत्पापबहुत्वयोगे लग्ने तु बाल्यान्मरणान्तमाहुः ॥ ३८॥ देवलोकांशके शुक्रे लग्नेशे गोपुरांशके । लग्ने शुभग्रहैर्दृष्टे मध्येऽन्ते सौख्यभाप्नुयात् ॥ ३९॥ लग्ने शुभे धने पापे केन्द्रे पापसमन्विते । लग्नेश्वरोत्तमांशस्थे चादौ दुःखमतः सुखम् ॥ ४०॥ लग्नेशे शुभराशिस्थे शुभग्रहनिरीक्षिते । गोपुरांशगते वापि षोडशाब्दात्परं सुखम् ॥ ४१॥ लग्नेशस्थानाथे तु केन्द्रकोणोच्चसंयुते । लाभे वा बलसंयुक्ते त्रिंशद्वर्षात्परं सुखम् ॥ ४२॥ लग्ने रव्यादिसंदृष्टे पादशः फलमुच्यते । राजसेवी पितृधनो जलपण्यो महाधनः ॥ ४३॥ धार्मिकः स्थूलशिश्नः स्याद्विद्याशिल्पयशोऽन्वितः । राजपूज्यो व्रतयुतो वेश्यासक्तो धनी सुखी ॥ ४४॥ मन्ददृष्टे विलग्ने तु वृद्धस्त्रीको मली खलः । केनाप्यदृष्टम् लग्नं चेद्राशिग्रहवशाद्वदेत् ॥ ४५॥ लग्ने स्वामीक्षिते राजा तात्प्रियो वा धनी सुखी । सौम्येक्षितेऽखिलं सौम्यं पापदृष्टे त्वशोभनम् ॥ ४६॥ सुखी लग्ने द्व्यादिदृष्टे सर्वदृष्टे नृपो भवेत् । लग्ने त्रयः शुभा राजा दुःखी पापग्रहत्रयम् ॥ ४७॥ लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितः शुभकगौरवलोक्यमानः । मृत्युं विधूय विदघाति सुदीर्घमायुः सार्द्ध गुणैर्बहुभिरुजितया च लक्ष्म्या ॥ ४८॥ अथ द्वितीयभावफलम् । तत्रादौ धनाविचारः । वित्तं नेत्रं मुखं विद्या वाक्कुदुम्बाशनानि च । द्वितीयस्थानजन्यानि क्रमाज्ज्योतिविदो विदुः ॥ ४९॥ वित्तायेदयराशयः पातियुता वित्ताधिको जायते लाभस्थौ धनलाभपौ निजसुहृत्तुङ्गादिगौ चेत्तथा । तद्वन्ताभधनाधिपौ तनुगतावन्योन्यमिष्टग्रहौ लग्नेशे धनलाभराशिपयुते लग्ने बहुद्रव्यवान् ॥ ५०॥ धनोपयातः प्रथमोऽथ दर्शी ग्रहो द्वितीयो धनपत्तृतीयः । तत्पाकभुक्तौ धनलाभमेति क्रमेण तत्कारकवर्गमूलात् ॥ ५१॥ धनस्थे यदि लग्नेशे निधिमान् बलसंयुते । दुर्बले पापसंयुक्ते वङ्चनादिफलं वदेत् ॥ ५२॥ धनस्थितः पापदृशा समेतः सपत्ननीचार्ककराभितप्तः । तत्पाकभुक्तौ धननाशमाहुः स गोचरे दुष्टबलान्विते वा ॥ ५३॥ कुतुम्बभावे बहुखेटयुक्ते धनप्रदव्योमचरे बलाढये । स्वतुङ्गमित्रस्वगृहोपगे वा धनं समेत्यामरणन्तमाहुः ॥ ५४॥ वित्ताधीशे सोदरेशेन युक्ते लग्नस्थे च भ्रातृवित्तं समेति । मातृस्थानस्वामिना मातृवित्तं यद्भावेशेनान्वितस्तद्भनं स्यात् ॥ ५५॥ वित्ताधीशे लग्नगे लग्ननाथे वित्तस्थानेऽयत्नतो वित्तमेव । यद्भावस्थौ लग्नवित्तेश्वरौ चेत्तन्मूला तु द्रव्यवृत्तिर्नरणाम् ॥ ५६॥ चन्द्रः कुटुम्बभवने शुक्रेण निरीक्षितः प्रदाता च । सौम्ये शुभसंदृष्टे स एव धनवान् सदा ज्ञेयः ॥ ५७॥ अर्थाधीशो यत्र संस्थो नराणां तस्मिन् काले तत्र वृद्धिर्विशेषात् । तद्भागे च द्रव्यलाभं करोति वक्रोऽसौ चेदृभु सर्धार्थसिद्धिः ॥ ५८॥ धनेशे लाभसंयुक्ते लाभेशे धनलाभगे । तावुभौ केन्द्रगौ वापि धनवान् ख्यातिभान् भवेत् ॥ ५९॥ धनेशे व्ययषष्ठस्थे व्ययेशे वित्तगेऽथवा । लाभेशे रिपुरन्ध्रस्थे व्यये वा धननाशनम् ॥ ६०॥ व्ययभावगते जीवे वित्तेशे बलवर्जिते । शुभैरनीक्षिते लग्ने वित्तनाशं वदेद् बुधः ॥ ६१॥ लग्नेशे धनराशिस्थे धनेशे लाभराशिगे । लाभेशे वा विलग्नस्थे निध्यादिधनमाप्नुयात् ॥ ६२॥ लग्नायधनभाग्येशाः परमोच्चांशसंयुताः । वैशेषिकांशगा वापि तदा कोटीश्वरो भवेत् ॥ ६३॥ दिनेश्वरकरच्छन्ने धनेशे नीचराशिगे । पापषष्थ्यंशसंयुक्ते शुणग्नस्ते भवेन्नरः ॥ ६४॥ अथ नेत्रविचारः । शुक्रेन्दुनयनाधिशैरिकस्थैस्तु निशान्धकः । सूर्युअशुक्रविलग्नेशैरदृश्यैर्मध्यलोचनः ॥ ६५॥ विलग्नवित्तास्ततपः सुतेशा रिपुव्ययच्छिद्रगृहोपयाताः । विलग्नसम्बन्धकरः सितश्वेद्विलोचनाभावमुपैति जातः ॥ ६६॥ सितः सुतारीशयुतो विलग्ने निरेशकोपान्नयनप्रमादः । धनेशभौमौ यदि लग्नयातौ कर्णस्य रोगं कथयन्ति तज्ज्ञाः ॥ ६७॥ शन्यारयोगे गुलिकेन युक्ते नेत्रेश्वरे तत्र तु नेत्ररोगः । नेत्र् यदा पापबहुत्वयोगे यमेन दृष्टे सति रुग्णनेत्रः ॥ ६८॥ नेत्रेश्वरे शुभयुते शुभदृष्टियुतेऽथवा । शुभांशकस्थिते वाऽपि शुभदृक स नरो भवेत् ॥ ६९॥ अथ मुखविचारः जातोऽसौ सुमुखः शुभे धनगते तुङ्गदिवर्गन्विते तद्भावे यदि सौम्यवर्गसहिते वाल्सिद्धिमेति ध्रुवम् । आज्यस्पर्शमुपैति वित्तगृहगे भौमे च पापेक्षिते जातः किद्रवमुख्यभुग् धनगते रहौ च पापेक्षिते ॥ ७०॥ लग्नास्तार्थाष्टमस्थेऽर्के भौमे वाऽन्यतरेक्षिते । आव्यस्पर्शोऽग्निभीतिर्षा सम्भवन्ति मसूरिकाः ॥ ७१॥ पापैर्युते मुखस्थाने दुर्मुखः पापवीक्षिते । कोधाननो नरः पापी तदीशे गुलिकान्विते ॥ ७२॥ प्रफुल्लवदनः श्रीमान् केन्द्रे मुखपतौ यदा । स्वोच्चस्वमित्रवर्गस्थे सुमुखः शुभवीक्षिते ॥ ७३॥ वाग्भावेशे राहुयुक्ते च दुःस्थे राहुक्रान्तस्थाननाथान्विते च । पाके भुक्तौ तस्य दन्ताभयः स्याद् जिह्वारोगं तारकामूनुभुक्तौ ॥ ७४॥ राहुद्वितीयगृहपौ सहजेशयुक्तौ जातः समेति गलरोगमतीव कष्टं । दारिद्रयदौ शशिरवी धनराशियातौ भौमार्कजौ सकलरोगकरौ भवेताम् ॥ ७५॥ अथ विद्या-वग्विचारः । वाग्भावेशे गुरुयुते नाशस्ये मूकता भवेत् । देषकृन्नतु सर्वत्र स्वोच्चस्वर्क्षगतो ग्रहः ॥ ७६॥ वागीशबुधजीवेषु निर्विद्यो नाशगेषु च । केन्द्रेषु ते त्रिकोणे वा स्वर्क्षे वा विद्ययाऽन्वितः ॥ ७७॥ द्वितीये दुर्बले सौम्ये द्वन्द्वयुद्धहतो भवेत् । जीवार्थेशौ दुर्बलौ वा पवनव्याधिभान्नरः ॥ ७८॥ वाक्स्थानपे देवपुरोहितेन युक्ते यदा नाशगते तु मूकः । वाक्स्थानपे सौम्ययुते त्रिकोणे केन्द्रस्थिते वा शुभदे च वाग्मी ॥ ७९॥ वागीशस्थांशपे औम्ये स्वोच्चे वा शुभवीक्षिते । पारावतांशके वाऽपि वाग्मी पटुतरो भवेत् ॥ ८०॥ केन्द्रत्रिकोणगे जीवे शुक्रे स्वोच्चं गते यदि । वाग्भावपेन्दुपुत्रे वा गणितज्ञो भवेन्नरः ॥ ८१॥ गणितज्ञो भवेज्जातो वाग्भावे भूमिनन्दने । ससौम्ये बुधसन्दृष्टे केन्द्रे वा सोमनन्दने ॥ ८२॥ वाग्भवपे रवौ भौमे गुरुशुक्रानिरीक्षिते । पारावतांशके वापि तर्कयुक्तिपरायणः ॥ ८३॥ सम्पूर्णबलसंयुक्ते गुरौ तद्भवनेश्वरे । दिनेशभृगुसन्दृष्टे शाब्दिकोऽयं भवेश्वरः ॥ ८४॥ वेदान्तपरीशीली स्यात्केन्द्रकोणे गुरौ यदि । बुधेन भृगुणा दृष्टे शनौ पारावतांशके ॥ ८५॥ षट्शास्त्रवल्लभः केद्न्रे जीवे दानवपूजिते । सिंहासने गोपुराम्शे वाग्भावस्यांशपे बुधे ॥ ८६॥ अथ कुटुम्बविचारः । उपजीव्य नरं सर्वे तदीशे गोपुरांशके । वर्द्धन्ते मुदितास्तस्य भृगौ पातावतांशके ॥ ८७॥ जायाकुटिम्बगृहपौ सितपापयुक्तौ दुःस्थौ च तत्समकलत्रहरौ भवेतम् । वित्ताधिपे बलवति स्मरराशिपे वा तुङ्गादिगे यदि समेति कलत्रमेकम् ॥ ८८॥ अथ पात्राशनयोविंचारः । भिक्तिस्थानपतौ सितेन्दुसहिते लग्नादिकेन्द्रस्थिते रौप्यं पात्रमुपैति कालश्चनमयं जीवेन्दुशुक्रान्विते । भुक्तिस्थानपदेहपौ शनियुतौ लोहादिपात्रं वदेद् भौमे पापनिरीक्षिते धनगते जातः कदग्नादिभुक् ॥ ८९॥ वह्नाशनो भुक्तिपतौ सपापे दावाग्निदण्डायुधकालभागे । नीचांशके पापनिरीक्षिते च शुभैर्न दोषः सहितेक्षिते वा ॥ ९०॥ भुक्तिस्थाने शुभयुते तदीशे शुभसंयुक्ते । शुभग्रहेण सन्दृष्टे सुखभुक् स नरो भवेत् । पराग्नभुक् तदीशेऽपि नीचशत्रुसमन्विते । नीचखेचरसन्दृष्टे तद्दूषणपरायणः ॥ ९२॥ कालोचिताशनो भुक्तिनाथे लग्नेशवीक्षिते । पापग्रहेण सन्दृष्टे नीचांशादियुते न तु ॥ ९३॥ स्वल्पाशी रुचिकामः स्याद् भुक्तिनाथे शुभे गृहे । स्वोच्चे शुभेन सन्दृष्टे मृद्वंशादिसमविते ॥ ९४॥ भुक्तिस्थानाधिपे मन्दे तदीशे वाऽर्किसंयुते । नीचेऽर्कसूनुना दृष्टे श्राद्धभुक् सततं नरः ॥ ९५॥ इति जातकपारिजाते एकादशे तनु-धनभावफलाध्याये विभला हिन्दी टिका समाप्ता ॥ ११॥
अथ तृतीयचतुर्थभावफलाध्यायः ॥ १२॥ तत्र तृतियभावफलम् । ज्योष्ठानुजस्थितिपराक्रमसाहसानि कण्ठ्खरज़्रुतिवराभरणांज़ुकानि । धैर्य च वीर्यबलमूलफलाज़नानि वक्ष्ये तृतीयभवनात् क्रमज़ोऽखिलानि ॥ १॥ अथ भ्रातृविचार । भ्रातृस्थानं तृतीयं च नवैकदशसप्तमम् । तत्तदीशादशायां च भ्रतृलाभो भवेन्नृणाम् ॥ २॥ भ्रातृस्थानेशतद्राशितद्भावस्थद्युचारिणाम् । मध्ये बलसमेतस्य दशा सोदरकृद्धिदा ॥ ३॥ भौमो बलविहीनश्चेदीर्घायुर्भ्रातृगो भवेत् । विलग्नगो बली यस्य कारकः स प्रभुः त्मृतः ॥ ४॥ जन्मकाले गुणी प्राणी कारको यः समृदकृत् । क्षयकारी विपर्याते भावपो विपकोऽहिकः ॥ ५॥ सोदरेशेकुजौ नाशं गतौ चेत्मोदरक्षयः पापर्क्षगौ सपापौ वा भ्रातृनुत्पाद्य नाशदौ ॥ ६॥ नीचास्तगौ सोदरनायकाख्यौ(सोदरनायकारव्यौ)नीचंशगौ पापसमगतौ वा । क्रूरादिषष्टर्यंशगतौ तदानीं भ्रातृन्समुत्पाद्य विनाशहेतुः ॥ ७॥ अतिक्रूरसमायुक्ते भावे वा कारकेऽपि वा । तद्भावनायके वाऽपि बल्ये सोदरनाशनम् ॥ ८॥ धनेश्वरे नग्शगते बलाढ्ये पापान्विते सोदरकारकाख्ये । तन्मातृकारमहसंयुते च सापत्नमातुः सहजा वदन्ति ॥ ९॥ भ्रातृस्थाने यदि शुभयुते सोदराणं चिरायुः पापाक्रन्ते सहजभवने पापदृष्टे विनाशम् । ज्येष्टं हन्ति द्युमणिरनुजस्थानगः पापदृष्टः सौरस्तस्यानुजमवनिजो हन्ति सर्वन् कनिष्टान् ॥ १०॥ त्रिकोणकेन्द्रे यदि पापखेटे तृतीयभावादनुजस्य नाशम् । शुभोपयाते सहजाभिवृधिः शुभाशुभं मिश्रफलं वदन्ति ॥ ११॥ दुःस्थे चन्द्रे सोदरस्वायुक्ते जातस्यान्यस्तन्यपानं वदन्ति । मातृभ्रातृस्थानपौ बन्धुयातौ नास्ति भ्रातृस्थानवृद्धिर्नराणां ॥ १२॥ भौमान्वितौ सोदरदौ भवेतामन्यैः समेतौ यदि नानुजः स्यात् । सौरस्तृतीयेऽनुजनाशकर्ता विधुन्तुदः सोदरवृद्धिकृत्स्यात् ॥ १३॥ अदृश्यराशौ यदि वा सपापे वधूगृहस्थे सहजाधिनाथे । जातानुजस्योपरि नानुजः स्यात् पुंवर्गगे दृश्यगते तथैव ॥ १४॥ भ्रातृस्थानपतौ तु पुंभवनगे तस्यानुजो जायते युग्मर्क्षे यदि भार्गवेण शशिना युक्तेऽथवा वीक्षिते । सौम्यर्क्षे शुभखेचरेक्षितयुते केन्द्रत्रिकोणस्थिते पश्चाज्जातसहोदरिश्वरसुखी दीर्घायुरारोग्यभाक् ॥ १५॥ सहोदरस्थानपतौ तनुस्थे सलग्नपे सोदरनायके वा । गर्भोऽभयोऽनन्तरमस्य मातुस्तृतीयराशौ सपतौ तथैव ॥ १६॥ अथ सोदरसङ्ख्याशानम् । लाभावसानभवनोपगतग्रहेन्द्रसङ्ख्यास्तदग्रजजनाः सहजा भवन्ति । लग्नात्तृतीयधनयातवियच्चरेन्द्रैः संख्याजनाः स्युरनुजाः कथयन्ति तज्ज्ञाः ॥ १७॥ भ्राटृस्थानपकारकेक्षितयुता वीर्याधिका यद्यदा तद्युक्तप्रहसंख्ययाऽनुजजनिं जातः समेति ध्रवम् ॥ चत्वारो यदि नीचमुढरिपुगा निघ्नन्ति जातानुजां स्ते कुर्वन्ति चिरायुरिष्टबलिनः सर्वानुजानां ग्रहाः ॥ १८॥ भ्रात्रृस्थानपमुख्यखेचरगणे द्वौ वीर्यवन्तौ यदा नाशानाशफलप्रदौ समतया वीर्याधिकाश्चेत्त्रयः । खेटः स्त्रल्पसहोदरक्षयकरा दुःस्थानगाः स्त्रीग्रहाः यद्यल्पानुजवृद्धिदास्तदनुजस्वाम्यंशसंख्यानुजाः ॥ १९॥ भूमिजे सहजस्थाने यवतां विद्यते बलम् । शत्रुनीचग्रहं स्यक्त्वा तावन्तः सहजाः स्मृताः ॥ २०॥ भ्रात्रीदौ खीग्रहर्क्षस्थौ भ्रातृदौ पुंग्रहर्क्षगौ । सोदरेशकुजौ स्यातां भ्रातृभ्रात्रिसुखप्रदौ ॥ २१॥ स्वीहोरया वा युवतिग्रहेण युक्ते यदि भ्रातृहे विलग्नात् । सहोदरीलाभमुपैति जातः सहोदरं तत्परतोऽन्यथा चेत् ॥ २२॥ कारकः सहजाधिशस्तदृर्शे(तद्दर्शे)तत्र संस्थितः । इष्टानिष्टकरास्तेषां स्वदशान्तर्दशासु च ॥ २३॥ कारकादिचतुःखेटफुटयोगांशकानुजाः । वर्ज्या नीचारिमूढांशाः स्वोच्चांशा द्वीगुणिकृताः ॥ २४॥ तृतीयात्सप्तमर्क्षेण भ्रातृभार्याफलं वदेत् । लग्नेशकुजसोत्थेशा भ्रात्रनिष्टशुभप्रदाः ॥ २५॥ अन्योन्यामिष्टविपुलं तु सहोदराणां लग्नाधिपेन साहिते यदि सोदरेशे । अन्योन्यामिष्टस्वचरां यदि तौ बलाढ्यौ लग्नेऽथवा सहजभे न विभागमाहुः ॥ २६॥ अथभ्रात्ररिष्टम् । लग्नेशानुजनायकौ विबलिनावन्योन्यशत्रुग्रहौ दुश्चिक्यस्थितकारकौ च यदि वा दुःस्थानगौ दुर्बलौ । तत्पाके सहजप्रमादकलहं तन्नाशभर्थक्षयं तत् खेटोपगकोपहेतुकलहस्नेहादि सर्वं वदेत् ॥ २७॥ गुरुदृष्टेऽनुजे शुक्रे भ्रातृरक्षणतत्परः । रविदृष्टे बुधे सोत्थे सुहृन्नाशकरो भवेत् ॥ २८॥ भ्रातृस्थातन्नायककारकाणां नीचरिदुःस्थानसमन्वितानाम् । भुक्तौ दशायां भनसत्त्वनाशं पराजयं भ्रातृविनाशमाहः ॥ २९॥ लग्नेशस्फुटतो विशोध्य सहजस्थानाधिपस्य स्फुटम् तन्वक्षत्रगते शनौ तु मरणं तस्मोदराणां वदेत् । तस्माद्धि स्फुटतस्तु मानगृहपे भौमे च संशोधिते राशौ भानुसुते तथैव च चतुर्थोगस्फुतांशेऽथवा ॥ ३०॥ चतुःस्फुटाक्रान्तदृकाणराशिं गते गुरौ सोदरनाशमाहुः । तत्तारकानाथदशाऽनुजानामतीव सम्पत्सुखदायिनी स्यान् ॥ ३१॥ भूसूनुस्फुटतो विशोध्य फणिनं शेषत्रिकोणे गुरौ जातस्यानुजनाशनं क्षितिसुतं राहुस्फुटाच्छोधयेत् । तद्राशिस्थनवांशकेऽमरगुरौ तज्ज्येष्ठनाशं वदेद् जन्माधानपकर्मपस्फुटगृहे जीवेऽनुजो जायते ॥ ३२॥ पराक्रमविचारः विक्रमाधिपतौ स्वोच्चे नाशस्थे पापसंयुते । चरराशौ चरांशस्थे युद्धात्पूर्व दृढो भवेत् ॥ ३३॥ कारके बलहीने वा क्रूरषष्टयंशसंयुते । शुभदृग्योगसम्बन्धे विजयी विक्रमेश्वरे ॥ ३४॥ सौम्यार्धिपे भानुयुतेऽत्र वीरश्वन्द्रान्विते भानस्तधैर्यजातः । दुष्टो जहो भौमयुते प्रकोपी सौम्यन्विते सात्त्विकषुद्धियुक्तः ॥ ३५॥ जीवान्वते धीरगुणाभिरामः समस्तशास्त्रार्थविशारदः स्यात् । कामातुरः शुक्रसमन्विते तु तन्मूलकोपत् कलहप्रवीणः ॥ ३६॥ जडो भवेद्वासरनाथस्तूनुयुक्तेऽतिभीतो फाणिसंयुते स्यात् । बाहिर्गदो हृद्रदजाड्ययुक्तः केत्वन्विते मान्दियुते तथैव ॥ ३७॥ लग्ने गुरौ विक्रमनाथयुक्ते चतुष्पदानां प्रवदन्ति भीतिम् । गवां भयं जलराशिलग्ने जलप्रमादं समुपैति जातः ॥ ३८॥ कुजेन युक्ते स्वचरे विलष्ठे सत्त्वं बलं गानौखं समेति । कुजानुजस्यानुजराइनाथास्त्रयो बलीष्ठा रणरङ्गशूराः ॥ ३९॥ तेषां त्रयाणामपहारकाले पाकेऽथवा मूलफलार्दसौख्यम् । श्रोत्रद्वयं भूषणसत्कथादिसम्पत्करं भ्रातृसुतादिलामम् ॥ ४०॥ सात्त्विको भवति सोदराधिपे सौम्यवर्गसहिते बलान्विते । नीचमूढरिपुपापराशिगे पापखेचरयुते तु साहसी ॥ ४१॥ अथ कण्ठविचारः शौर्याधिपे राहुसमेतराशिनाथान्विते राहुयुते विलग्ने । सर्पाद्भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगभाक् स्यात् ॥ ४२॥ पापे तृतीये गलरोगमत्र वदन्ति मान्द्यादियुते विशेषात् । भौमान्विते भानुसुते बलाढ्ये तृतीयराशौ यदि कण्तुरोगम् ॥ ४३॥ विक्रमेशगुरू लग्नं गतौ गोभीतिसूचकौ । राहुणा वा फणिक्रान्तराशिपेन युतौ यदि ॥ ४४॥ सुबुधो विक्रमपतिर्गलरोगकरो भवेत् । सोत्थेऽरिनीचगे पापे सोत्थाभावो विषादिभुक् ॥ ४५ बुधेन जीवेन युतेक्षिते वा तृतीयराशौ बलसंयुते च । तत्क्न्द्रगे मन्त्रिणि बोधने वा कण्ठस्वरं चारुतरं समेति ॥ ४६ ॥ अथ श्रुतिभूषाणाविचारः तृतीये सौम्यसंयुते सौम्यखेचरवीक्षिते । तदिशे शुभसंयुक्ते कर्णयोर्भूषणं वदेत् ॥ ४७॥ शुक्रे तृतीये यदि मौक्तिकं तु जीवे तुलस्याभरणं वदन्ति । सरक्तमानीलमयं दिनेशे चन्द्रे बहु त्वाभरणं बलाढ्ये ॥ ४८॥ सौम्ये श्यामं कुजक्षेत्रे विचित्राभरणं वदेत् । तत्पतौ स्वोच्चवर्गस्थे दिव्यभाभरणं ॥ ४९॥ अथ वस्त्रविचारः मानस्थे गुरगेऽथवाऽनुजपतौ सौम्यर्क्षगे तद्यते दिव्यं वस्त्रमपूर्वमेति सहजे सौम्ये सुवस्त्रं लभेत् । वीर्याथौ बहुवस्त्रभूषणक्रौ शुक्रानुजस्थानपौ स्यातां धर्मकथारसश्रवणदौ जीवज्ञायुक्तेक्षितौ ॥ ५०॥ अथ धैर्यविचारः । धैर्यान्वितो विक्रमेशे सौम्यग्रहनवांशके । शुभेक्षिते शुभयुते वैशेषिकसमन्विते ॥ ५१॥ धैर्याधिपे पातयुतेक्षिते वा दुःस्थानगे धैर्यविनाशमेति । केन्द्रत्रिकोणे शुभखेटयुक्ते शुभेक्षिते वा यदि धैर्यशाली ॥ ५२॥ अथ बलविचारः वीर्याधिपे भूमुसुतेन युक्ते पापर्क्षगे वीर्याविनाशहेतुः । केन्द्रत्रिकोणे ससिते बलाढ्ये वीर्याधिको भोगगुणप्रकाशः ॥ ५३॥ अथ अशनंविचारः शुक्रं निशाकरं स्यात्वा लग्नात्सोदरभे शुभे । शुभराश्यांशगे जातः समेति सुखभोजनम् ॥ ५४॥ जीवस्य राशिनवभाग़ाडॄख़नाषाम्स्थे वीर्याधिपे यदि सुराचिंतवीक्षिते वा । तत्केन्द्रकोणगृहगेऽवनिजे बलाढ्ये जातस्तु कन्दफलमूलरसप्रियः स्यात् ॥ ५५॥ सोदरारातिगः शुक्रः शोकरोगभयप्रदः । तत्रैव शुभकारी स्यात्पुरतो यदि भारकरात् ॥ ५६॥ गुरुशुक्रयुते भुक्तौ नाथे सौम्ययुतेक्षिते । बलवच्छुभदृष्टे वा त्वन्नदाता भवेन्नरः ॥ ५७॥ सौम्ये स्वोच्चं गते भुक्तौ सौम्यग्रहनिरीक्षिते । नाथे वैशेषिकांश वा सुखभुक्तिप्रदो भवेत् ॥ ५८॥ इति तृतीयभावफलानि । अथ चतुर्थभावफलम् । वदन्ति विद्याजननीसुखानि सुगन्धगोबन्धुमनोगुणानि । महीपयानक्षितिमन्दिराणि चतुर्थभावप्रभवानि तज्ज्ञाः ॥ ५९॥ अथ विद्याधिचारः । विद्याराशौ निजपतियुते सौम्ययुक्तेक्षिते वा जातो विद्याविनयचतुरश्चन्द्रसूनौ बलिष्ठे । दुःस्थे पापद्युचरसहिते पापदृष्टे तदीशे विद्याहीनो भवति मनुजः पापराशिस्थिते वा ॥ ६०॥ विद्यास्थानपजीवचन्द्रत्नयाः षट्त्रिव्ययायुःस्तिता विद्याबुद्धिविवेकहीनफलदा नीचारिगा वा यदि । स्वोच्चस्वर्क्षगतास्त्रिकोणगृहगाः केन्द्रस्थिता वा यदि शीविद्याविनयादियुक्तिनिपुणो राजाधिराजप्रियः ॥ ६१॥ अथ मातृविचारः । शुक्रे बलिष्ठे यदि वा शशाङ्के सौम्येक्षिते शोभनभागयुक्ते । चतुष्टये मातृगृहे बलाढ्ये मातुश्विरायुष्टमुदाहरन्ति ॥ ६२॥ मातृस्थानाधिपे षष्ठे व्यये वा वलवर्जिते । लग्ने पापे पापदृष्टे मातृनाशं वदेद् बुधः ॥ ६३॥ क्षीणे चन्द्रेऽष्टभे षष्ठे व्यये वा पापसंयुते । पाताले पापसंयुक्ते मातृहानिर्न संशयः ॥ ६४॥ मातृस्थानगते मन्दे पापग्रहनिरीक्षिते । रन्ध्रनाथेऽरिनीचस्थे मातृनाशं विनिर्दिशेत् ॥ ६५॥ भ्रातृपुत्रगते पापे पातालेशेऽरिनीचगे । चन्द्रे पापसमायुक्ते मातृरोगं विनिर्दिशेत् ॥ ६६॥ षष्ठेश्वरेण सहितः सुखराशिनाथो धर्मस्थितो जनकमत्र विटं करोति । भाग्यधिपेन सहितो यदि मातृनाथः सौख्यस्थितो जन्कमत्र विटं करोति ॥ ६७॥ षण्मातृपौ पितृस्थने पितुश्व व्यभिचारदौ । मातृतातारिदेहेशैरेकस्थैः परजातकः ॥ ६८॥ पापेक्षिते पापशुते शशाङ्के दिवाकरे वा यदि केन्द्रराशौ । क्रूरे सुखे वा यदि पापदृष्टे जातो नरः स्याद्यदि मातृगमी ॥ ६९॥ चन्द्रे भृगौ वा केन्द्रस्थे पापदृईष्टेऽथवा द्वयोः । क्रूरे सुखे मातृगामी यदि वा गुरुदारभाक् ॥ ७०॥ सुखस्थे सारषष्थेशे चन्द्रे माताऽन्यमैथुनी । व्यभिचरप्रदो मातुः सरादुदिननायकः ॥ ७१॥ शीतांशौ राहुकेतुभ्यां युक्ते नीचेन सङ्गमः । मन्दयुक्ते च शूद्रेण वैश्येन बुधयोगतः ॥ ७२॥ रवियुक्ते क्षेत्रियेन्ण मन्त्रिभ्यां द्विजसङ्गमः । एवं चन्द्रः कुजारीशयुक्तस्तत्फलदो भवेत् ॥ ७३॥ चन्द्रोऽनिष्टस्थानगः सानुजेशो जातस्यास्तन्यपानं करोति । दुःस्थानस्थौ मातृपितृईक्षनाथौ पित्रोर्मृत्युर्लग्ननाथे बलाढ्ये ॥ ७४॥ पितृकर्माधिपे दुःस्थे लग्नेशे बलसंयुते । पित्रोरनिष्टकारी स्यात् सीमन्तरहितोऽथवा ॥ ७५॥ मातृस्थानेशलग्नेशौ तत्र कोणगतौ यदि । तदीशो लग्नगो माता पित्रा सह मृता भवेत् ॥ ७६॥ मातृलग्नेशपितृपाः केन्द्रकोणस्थिता यदि । तदृशान्तर्दशकाले जन्न्यास्त्वनुमृत्युदाः ॥ ७७॥ रवीन्दू पितृमातृस्थौ यदि तावनुमृत्युदौ । तदीशोक्षितयुक्ता वा रविसम्बन्धिनस्तथा ॥ ७८॥ ये मातृभावमतिकारकतत्समेता-स्तन्मातृराशिगतवीक्षितखेचरेन्द्राः । तेषामनिष्टकरखेटदशापहारे-जातस्य मातृमरणं प्रवदन्ति सन्तः ॥ ७९॥ मार्तण्डस्फुटतो विशोध्य शशिणं तच्छेषराश्यंशके जीवे भानुसुते च मातृमरणं तत्कोनगे वा नृणाम् । संशोध्यं यमकरुटकं हिमकराद्रन्ध्राधिपस्य स्फुटं तद्राशौ रविनन्दने मृतिमुपैत्यम्बा तदंशे रवौ ॥ ८०॥ अथ सुखविचारः । गोपुराद्यंशके जीवे सुखस्थानगतेऽपि वा । धनायवृद्धिभावेषु खेटेषु च सुखी भवेत् ॥ ८१॥ बुधदृष्टियुते सौख्ये सौम्यमध्यगतेऽथवा । जीवराश्यंशके वाऽपि पुण्यकर्मरतः सदा ॥ ८२॥ सुखस्थितः शोभनराशिगो बली विलग्नसम्बन्धगुणाधिको यदि । तज्जातिवर्गेण सुखं तदीयधातुश्रियमेति मानवः ॥ ८३॥ चतुर्थगो नीचसपलयातस्त्वनिष्टभावाधिपतिर्विलग्नात् । लग्नेशशत्रुर्यदि तत्प्रकोपान् शरीरसौख्यादिविनाशमाहुः ॥ ८४॥ चतुर्थभावस्थितदर्शिकारका बलान्विता यद्यतिसौख्यद्रेतुकाः । अनिष्टदा नीचसपत्नमुढगाः सुखं शुभेनाशुभमन्यखेचरैः ॥ ८५॥ चतुर्थगे भाग्शपतौ सयुक्रे बलाधिके स्याच्चिरकालभोगी । शुभान्विते रन्ध्ररिपुव्ययस्थे जातोऽल्पकालं समुपैति सौख्यम् ॥ ८६॥ अथ सुखादिविचारनिर्णयः । सुखाचिन्ता गृहेज्याभ्याण् मातृचिन्ता सुखेन्दुतः । सुगन्धं गृहशुक्राभ्यां वस्त्रवहानभूषणम् ॥ ८७॥ अथ सुगन्धविचारः । सुखेश्वरे शोभनराशियुक्ते शुक्रेण दृष्टे सति संयुते वा । अरातिनीचग्रहदृष्तिहीने सुगन्धमाल्यादिसुखं समेति ॥ ८८॥ अथ वस्त्रविचारः । वीर्यान्विते शीतकरे सुवस्त्रं साहिध्वजे जीर्णतरं समेति । कौशेयकं जीवयुते च रत्नचित्रं सशुक्रे सशनौ तु कृष्णं ॥ ८९॥ शुक्रेन्दुवर्गसहिते सुखराशिनाथे शुक्रेण शीतरुचिना सहितेक्षिते या । नीचारिपापगगनाटनडृष्टिमुक्ते पङ्चादिवित्तमखिलं लभते मनुष्यः ॥ ९०॥ अथ बन्धुविचारः । बन्धुस्थानेश्वरे सौम्ये सौम्यग्रहनिरीक्षिते । कारके बलसम्पूर्णे बन्धुपूज्यो भवेन्नरः ॥ ९१॥ बन्धूपकर्ता तन्नाथे केन्द्रकोणायसंयुते । वैशेषिकांशसंयुक्ते पापदृईग्योगवर्जिते ॥ ९२॥ बन्धुद्वेषी भवेन्नित्यं पापाक्रान्ते रसातले । नीचास्तखेटसंयुक्ते शुभदृग्योगवर्जिते ॥ ९३॥ अथ यनोविचारः । सपापे रन्ध्रपे सौख्ये कपटी पापसंयुते । स्वोच्चमित्रस्वर्गस्थे निष्कानव्यं शुभेक्षिते ॥ ९४॥ विशुद्धह्वदयः शान्तो हृदयंशे बलान्विते । गोपुराद्यंशके वाऽपि मृद्वंशादिसमन्विते ॥ ९५॥ अथ वाहनविचारः । वाहनेशे बलयुते यानराशौ बलान्विते । शुभग्रहेण संदृष्ते वाहनादि फलं वदेत् ॥ ९६॥ वाहनेशे वाहनस्थे सेन्दुजे शुभवीक्षिते । शुभखेचरराश्यंशे वाहनादि फलं वदेत् ॥ ९७॥ चन्द्रो विलग्नसम्बन्धी वाहनेशसमन्वितः ॥ तुरङ्गवाहनं तस्य वदन्ति मुनिपुङ्गवाः ॥ ९८॥ द्वितीये वा चतुर्थे वा चन्द्रे शोभनराशिगे । शुभखेचरसंयुक्ते समुपैत्यश्ववाहनम् ॥ ९९॥ सेन्दौ चतुर्थाधिपतौ विलग्नेलग्नेश्वरेणापि युतेऽश्वलाभम् । शुक्रेण युक्ते यदि वाहनेशे देहान्यते वा नरवाहनं स्यात् ॥ १००॥ आन्दोलिकाभरणदौ सितपूर्णचन्द्रौ केन्द्रत्रिकोणगृहगौ बलिनौ भवेतां । रक्ताम्बराभरणदः सुरपूजितर्क्षे चन्द्रे सुरेन्द्रसचिवेक्षितसंयुते वा ॥ १०१॥ आन्दोलिकातुरगलाभभुपैति जातः शुक्रेन्दुयानपतयस्तनुनाथयुक्ताः । एकत्र देवगुरुयानपचन्द्रशुक्राः केन्द्रत्रिकोणगृहगाश्वतुरङ्गयानं ॥ १०२॥ वाहनेशे गुरुयुते चतुरङ्गाख्यवाहनम् । यानेशे सशुभे माने चामरच्छत्रसंयुतः ॥ १०३॥ सुखेश्वरे केन्द्रगते तदीशे लग्नस्थिते वाहनयोगवन्तः । कर्मेश्वरे लाभगते तदीशे कर्मस्थिते भूषणयानवन्तः ॥ १०४॥ अथ राज्यविचारः । यानेशे लाभराशिस्थे सुखे वा लाभगे कुजे । अथवा भौमराशिस्थे राज्यप्राप्तिर्न संशयः ॥ १०५॥ लग्नाद्वाहनराशिगस्तदधिपस्तद्वीक्षकश्च त्रयः स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः केन्द्रत्रिकोणायगाः । दीर्घायुः शायनासनाम्वरबबन्धुक्षेत्राणी सन्मन्दिरं बन्धुस्नेहमनोज्ञवाहनयशह्सौख्यानि कुर्वन्ति ते ॥ १०६॥ स्वोच्चराशिगतश्चान्द्रिः केन्द्रकोणसमन्वितः । विद्यावाहनसम्पतिं करोति विपुलं धनम् ॥ १०७॥ लग्नेशात्सुखनाथतद्भवनगौ भाग्येशभाग्यस्थितौ चत्वार्ः शुभवर्गगाः सुबलिनस्ते लग्नसम्बन्धिनः । अन्योन्याश्रितवीक्षिता यदि महीपालिश्वरायुः सुखी तेजस्वी चतुरङ्गयानविपुलश्रीराजचिहाङ्कितः ॥ १०८॥ ग्रहत्रयं स्थानबलाधिकं चेद्विचित्रत्नाभरणादि यानम् । खेटद्वये वीर्ययुते विलग्ने रदीयपाके समुपैति सौख्यम् ॥ १०९॥ उक्तस्थानत्र्येष्वेको बली वाहनराशिपः । लग्नलग्नेशसम्बन्धी तद्दशा वाहनप्रदा ॥ ११०॥ चतुर्थधर्मायधनाधिनाथा विलग्नसम्बन्धिबलाधिकाश्वेत् । तदीयपाके समुपैति राश्ज्यं क्रमेण भाग्यं धनलाभमर्थम् ॥ १११॥ ते चत्वारोऽधिकबलयुता देहसम्बन्धिनश्चे- देतत्सर्वं भवति विपुलं दुर्बला दुःखदाः स्युः । मिश्रं मिश्रैस्तनुपरिभवः कारको भावनाथो भावाक्रान्तो विगतबलिनश्वेदतिक्लेशदास्ते ॥। ११२॥ वाहनेशेऽरिनीचस्थे दुःस्थे धर्माधिपेक्षिते । सुदुर्वाहनसम्प्राप्तिश्वलवाहनताऽपि वा ॥ ११३॥ धर्मकर्मविलग्नस्थास्तुङ्गोपगशुभग्रहाः । लग्नाधिपेन संदृष्ता यानान्ते दुःखमाप्नुयात् ॥ ११४॥ जीवे वा सुखपे शुभग्रहयुते लग्नात्तपःस्थानगे सौम्यर्क्षे नरवहानं चिरतरं राजप्रतापान्वितम् । दुःस्ते पापयुतेऽस्तनीचरिपुगे यानादिभाग्यं नहि स्वर्क्षे सर्वबलाधिके चिरसुखं चान्दोलिकारोहणम् ॥ ११५॥ बन्धुकर्मगृहाधीशौ लाभस्थानगतेक्षकौ । बलवन्तौ यदि स्यातां सर्वभाग्यफलग्नदौ ॥ ११६॥ लाभस्थौ सुखभाग्येशौ पश्यन्तौ वा सुखस्थलम् । वाहिनीसर्वभाग्याढ्यो राजप्रीतिकरो भवेत् ॥ ११७॥ धर्मवाहनराशीशौ लग्नसम्बान्धुनौ यदि । जीवदृष्तियुतौ तस्य राजवश्यादिभूषणं ॥ ११८॥ शुभवाहनराशीशौ शुभखेचरसंयुतौ । बहुसेनाधिपः श्रीमान् बलिनौ यदि जायते ॥ ११९॥ भाग्यस्थिते वाहनराशिनाथे सशुक्रजीवे शुभखेटराशौ । भाग्याधिपे कोणचतुष्टये बहुत्वदेशाभरणार्थयानम् ॥ १२०॥ कामारियानसहजतपोलग्नव्ययेश्वराः । सुखाधिपेन संयुक्तारत्वसंख्याकरदेशभाक् ॥ १२१॥ सुखाधिपो देवगुरुः सितो वा बली विलग्नान्नवमोपयातः । त्रिकोणकेन्द्रेपगतः शुभेशः समेति जातो बहुवाहनानि ॥ १२२॥ सशुक्रजीवो गेहेशो भाग्यस्थो भाग्यपे सुखे । केन्द्रत्रिकोणयोर्वाऽपि बहुवाहनदेशभाक् ॥ १२३॥ अथ राजयोगाः । लग्नकेन्द्रस्थिते सौम्ये धर्मे तुङ्गगृहाश्रिते । धनेशे केन्द्रभावस्थे योगः सिंहासनप्रदः ॥ १२४॥ भाग्ये शुभेक्षिते केन्द्रे शुभैः सह धनाधिपे । उच्चग्रहे द्वितीयस्थे जन्म सिम्हासनप्रदम् ॥ १२५॥ लग्नवाहनभाग्येशाः कर्मस्थाः कर्मपस्तनौ । लग्नं पश्यति वा खेटः सिंहासनफलप्रदः ॥ १२६॥ कर्मलग्नसुखाधीशाः कर्मस्थानगता यदि । कर्मपो लग्नसम्बन्धी सिंहासनपतिर्भवेत् ॥ १२७॥ गुरुशुक्रशुभाधीशाः केन्द्रकोणयगा यदि । अनेकयानसम्पन्नो मण्डलाधिपतिर्भवेत् ॥ १२८॥ थानेशकर्मोपगतौ बलिष्टौ धर्मेशदृष्टौ यदि तद्युतौ वा । परस्परक्षेत्रसमागतौ वा सिंहासनप्राप्तिकरौ भवेताम् ॥ १२९॥ तद्दशान्तर्द्दशाकाले तद्राशिपदशागमे । तदीशभुक्तिसम्प्रासौ सिंहासनपतिर्भवेत् ॥ १३०॥ अथ भाग्यविचारः । शुभोदयेशौ सुखरावातौ सुखाधिपो लग्नगतः शुभर्क्षे । अतीव सौख्यं समुपैति नित्यं सपत्नयातू यदि शत्रुभाग्यम् ॥ १३१॥ सपत्नभावाधिपतौ तपःस्थे शुभैरदृष्टे बलसंयुते वा । स्वकीयभाग्यादिकमल्पकालं ददाति शत्रौ उखनाथदाये ॥ १३२॥ सुखाधिपे शोभनखेटयुक्ते तदीयपाकान्तमरातिगं तत् । पापान्विते तस्य दशावसाने पुनः स्वभाग्यं समुपैति सर्वम् ॥ १३३॥ अथ क्षेत्रविचारः । चेत्रस्थाने शुभक्षेत्रे तदीशे शुभसंयुते । तत्कारके तथा प्राप्ते बहुक्षेत्रधनान्वितः ॥ १३४॥ क्षेत्रेश्वरे नीचसम्पन्नभागे कालाग्निशूलान्तकषष्टिभागे । पापान्विते पापमीक्षिते वा क्षेत्रादिनाशं कथयन्ति तज्ज्ञाः ॥ १३५॥ लग्नाधिपस्य गृहपो शत्रुखेटस्तत्पाकभुक्तिसमये गृहभूमिनाशम् । यनेशभुक्तिसमये निजबन्धुहानिः शान्यारमान्दियुतभुक्तिरनर्थहेतुः ॥ १३६॥ वित्तेशः ससुखाधिपो नवमगः सौम्यान्वितः सौम्यभे निक्षेपं समुपैति लाभवनपौ पापालराशिस्थितौ । तन्नाथः शुभराशिगः शुभयुतो निक्षेपसिद्धिर्भवे- लत्वाभेशः सुखराशिगः शुभयुतो निक्षेपवित्तप्रदः ॥ १३७॥ अथ गृहविचारः । अर्थव्ययगृहाधीशा नाशगाः पापसंयुताः । यावाद्भिरशुभैर्युक्तास्तावद्गेहालसत्वदाः ॥ १३८॥ पापेऽरौ वा पाप्दृष्टे सुखे गेहसुखार्तिभाक् । नीचेऽरातौ वा पापदृष्टे सुखे स्याद्गृहो नरः ॥ १३९॥ नीचेऽस्तगे वा गेहस्थे दुःखाम्भोधौ पतिष्यति । सुखे पापे पापभाक् स्यात् सुखे मन्दे सुखक्षयः ॥ १४०॥ गृहेशे व्ययगे लग्नादेन्यगेहेऽन्यदेसगः । रन्ध्रे गृहाद्यभावो वा षष्ठे ज्ञात्यदिसंग्रहः ॥ १४१ ॥ अयत्नतो मन्दिरलाभदः स्यत् चतुर्थपस्तत्र बलाधिको वा । दुःस्थानगो दुष्टबलान्वितश्चेदालस्यगेहं ग्रहपीडितं वा ॥ १४२॥ घट्त्रिव्ययाष्टमोपेता व्ययवित्तगृहाधिपाः । यावत्पापसमोपेतास्तावद्गृहविनाशदाः ॥ १४३॥ लग्नत्रिकोनकेन्द्रस्था यावद्बलसमन्विताः । तावत्संख्य्कगेहानां सामीचीन्यं वदेद् बुधः ॥ १४४॥ चतुर्थभावाधिपतौ विलग्नाद्वययस्थिते जिर्णगृहं समेति । त्रिकोणकेन्द्रेपगते बलाढ्ये विचित्रगेहं रुचिरं तदाहुः ॥ १४५॥ तृतीये सौम्यसम्युक्ते गेहेशे बलसंयुते । गोपुराद्यांशगे वाऽपि समेति दृढमन्दिरम् ॥ १४६॥ आज्ञाक्रियाक्षेत्रविनाशमाहुराज्ञेश्वरे गेहगते सपापे । क्रूरांशके मृत्युकरादिभाग् रन्ध्रेश्वरेणापि युते तथैव ॥ १४७॥ तृतीये सय्म्यसंयुक्ते ग्षेशे स्वबलान्विते । लग्नेशे बलसम्पूर्णे हम्ये प्राकाररसंयुतम् ॥ १४८॥ पारावतांशके गेहनाथे गुविन्दुवीक्षिते । गोपुराद्यंशके वाऽपि दैविकं गृहमादिशेत् ॥ १४९॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजात द्वादशोऽध्यायः ॥ १२॥
अथ पङ्चमषष्ठभावफलाध्यायः ॥ १३॥ अथ पङ्चमभावफलम् पुत्रादेवमहीपपुत्रपितृधीपुण्यानि सज्चिन्तये- द्यात्रामस्तौतखर्कमभवनैर्दूराटनं रिष्फतः । लग्नाद्वन्धुदिनेशतः पितृसुखं जीवात्मजस्थानतः पुत्रप्राप्तिरङ्गवित्तपसितैः स्त्रीसम्पदश्चिन्तयेत् ॥ १॥ अथ देवताविचारः । लग्नादात्मनि पुंग्रहेक्षितयुते पुंदेवताराधनं युग्मे शुक्रेनिशाकरेक्षितयुते स्त्रीदेवतामिच्छति । भानौ भास्करमुख्यमिन्दुसितयोगौरी कुमारं कुजे विष्णुं चन्द्रसुते गुरौ शशिघरं रान्यादियोगे परान् ॥ २॥ लग्नाधिपस्यात्मपतौ सपत्ने तद्देवभक्तिः सुतनाशहेतुः । समानता साम्यतरे सुहृत्त्वे तद्देवताऽपारकृपामुपैति ॥ ३॥ अथ राज्यविचारः । राजस्थाने गुरुबुधसितैरीक्षिते संयुते वा तद्राशीशे बलवति नृपप्रीतिसम्पतिमेति । पापाक्रान्ते विगतबलिनि स्वामिनि क्रूरभागे जातो विद्याविनयगुणधीराजसन्मानहीनः ॥ ४॥ अथ जन्मविचारः लग्न यानपतौ सुखे तनुपतौ दृष्टेऽथवा खेचरैः संयुक्ते तु चतुष्पदस्य जननं राहुध्वजाभ्यामजः । गोजन्मार्यसितेन्दुभिश्च महिषी मन्देन दृष्टे युते जातः पादपुरःसरं तनुपतिमनि तनौ भोगिराट् ॥ ५॥ वित्तास्तगौ पङ्चमयाननाथौ पापेक्षितौ पापसमन्वितौ वा । पुंसस्त्रिभागे पुरुषग्रहेन्द्रे जाताः कपिक्रोडबिडालकाद्याः ॥ ६॥ तस्मिन्दबुधेक्षिते तु जननं पिण्डाकृतिर्वाक्पतिः । साहिर्दुर्बलवीक्षितो यदि महीदेवान्वयो नीचकृत् । एकस्था गुरुराहुभानुतनयाः शुक्रेन्दुपुत्रेक्षिताः शूद्रोऽपि द्विजतौल्यमेति निखिलां विद्यामुपैति द्विजः ॥ ७॥ अथ पुत्रविचारः । लग्नात्पुत्रकलत्रभे शुभपतिप्राप्तेऽथवाऽलोकिते चन्द्राद्वा यदि सम्पदस्ति हि तयोर्ज्ञेयोऽन्यथा।सम्भवः । पाथोनोदयगे रवौ रविसुते मीनस्थिते दारहा पुत्रस्थानगतश्व पुत्रमरणं पुत्रोऽवनेर्यच्छति ॥ ८॥ पुत्रस्यानपतौ तु वा नवमपे लग्नात्कलत्रेऽथवा युग्मक्षिरे शशिशुक्रवीक्षितयुते पुत्रीजनो जायते । पुंवर्गे पुरुषग्रहेक्षितयुते जातस्तु पुत्राधिको जीवात्पङ्चमराशितश्व तनयप्राप्तिं वदेद् दैरिकः ॥ ९॥ शुक्रेन्दुवर्गे सुतभे विलग्नाच्चुक्रेण चन्द्रेण युतेऽथ दृष्टे । पापैरयुक्ते बहुपुत्रशाली शान्यारदृष्टे सति पुत्रहीनः ॥ १०॥ पौत्रप्राप्तिरङ्गभे सुतगृहात्सौम्यस्य राश्यंशके तन्नाथे शुभखेटवीक्षितयुते केन्द्रत्रिकोणेऽथवा । स्वक्षेत्रोपगते तु पुत्रगृहपे जातोऽल्पपुत्रो भवेत् पुत्रेशांशपतिः स्वभाम्शकगतो यद्येकपुत्रं वदेत् ॥ ११॥ केन्द्रत्रिकोणगृहगः सुतपः शुभर्क्षे सौम्यान्वितो यदि सुतं समुपैति बाल्ये । भोगीशयुक्तसुतराशिपभुक्तिजातः स्वल्पायुरति फणिभुक्तिभवश्विरायुः ॥ १४॥ पुत्रस्थानपवित्तपौ ग्तबलौ पापेक्षिते पुत्रभे जातोऽनेककलत्रवानपि सुताभावं समेति ध्रुवम् । तज्जाया यदि पुत्रयोगजनिता सौम्येन वा पङ्चमात् षष्ठेशेन निरीक्षिते सुतवती जारेण सञ्ज्ञायते ॥ १५॥ पुत्रस्थाने तदीशे वा गुरौ वा शुभवीक्षिते । शुभग्रहेण संयुक्ते पुत्रप्राप्तिर्न संशयः ॥ १६॥ लग्नेशे पुत्रभावस्थे पुत्रेशे बलसंयुते । परिपूर्णबले जीवे पुत्रप्राप्तिर्न संशयः ॥ १७॥ पुत्रस्थानगते जीवे परिपूर्णबलान्विते । लग्नाधिपेन संदृष्टे पुत्रप्राप्तिर्न संशयः ॥ १८॥ वैशेषिकांशके जीवे पुत्रेशे च तथास्थिते । शुभनाथेन संदृष्टे पुत्रे तत्प्राप्तिमादिशेत् ॥ १९॥ दशमे शीतगुर्द्युने भृगुजः पापिनः सुखे । तस्य सन्ततिविच्छेदो भवेष्यति न संशयः ॥ २०॥ षष्ठाष्टमस्थो लग्नेशः पापयुक्तः सुताधिपः । दृष्टो वा शत्रुनीचस्थैः पुत्रहानि वदेद् बुधः ॥ २१॥ लग्नसप्तमधर्मान्त्यराशिगाः पापखेचराः । सपत्नराशिवर्गस्था वंशविच्छेदकारिणः ॥ २२॥ बन्ध्या वृद्धा कृशा बाला रोगिणी पुष्पवर्जिता । कर्कशा स्थूलदेहा च नायोर्ऽष्टौ परिवर्जिताः ॥ २३॥ गुरुलग्नेशदारेशपुत्रस्थानाधिपेषु च । सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ २४॥ पुत्रस्थानं गते पापे तदीशे नीचराशिगे । शुभदृष्तिविहीने तु वक्तव्या त्वनपत्यता ॥ २५॥ गुरुलग्नहिमांशूनां पङ्चमस्थैरशोभनैः । शुभदृम्योगरहितैर्वक्तव्या त्वानपत्यता ॥ २६॥ पुत्रस्थानगते पापे तदीशे पापमध्यगे । सौम्यदृग्योगरहिते वक्तव्या त्वनपत्क्ता ॥ २७॥ पापमध्यगते जीवे पुत्रेशे बलवर्जिते । सौम्यदृम्योगरहिते वक्तव्यम् त्वनपत्कता ॥ २८॥ पुत्रस्थाने बुधक्षेत्रे मन्दक्षेत्रेऽथवा यदि । मान्दिमन्दयुते दृष्टे तदा दत्तादयः सुताः ॥ २९॥ मीनस्थोऽत्यल्पसन्तानश्वापस्थः कृच्छ्रसन्ततिः । असन्ततिः कुलीरस्थो जीवः कुम्भे न सन्तति॥ ३०॥ पुत्रस्थाने कुलिरे वा मीने कुम्भे शरसने । स्थितो यदि सुराचार्थस्तत्फलं कुरुते नृणाम् ॥ ३१॥ पापग्रहेन संदृष्टे देवशापत्सुतक्षयः । षष्टाधिपयुते दृष्टे विप्रशापत्मतक्षयः ॥ ३२॥ सुतेशे कुजसंयुक्ते रिपुनाधेन वीक्षिते । शुभदृष्टिविहीने च रिपुदोषत्सुतक्षयः ॥ ३३॥ नवमे पापसंयुक्ते मन्दयुक्ते सुतधिपे । त्रिकोणे मान्दिसंयुक्ते पितृदोषात्सुतक्षयः ॥ ३४॥ मातृस्थानगते पापे सुतेशे मन्दसंयुते । व्ययनाशगते पापे मातृदोशात्सुतक्षयः ॥ ३५॥ राहु केतुयुते दृष्टे पङ्चमे बलवर्जिते । तदीशे वा तथा प्राप्ते सर्पदोषात्सुतक्षयः ॥ ३६॥ गुरुपुत्रेशदारेशभूमिजाः संयुता यदि । दुर्देवपीडया पुत्रीपुत्रनाशं वदेद् बुधः ॥ ३७॥ पुत्रस्थानगतः कश्चित्परिपूर्णबलान्वितः । अदृष्टः पुत्रनाथेन तदा दत्तादयः सुताः ॥ ३८॥ पापक्षेत्रेगते चन्द्रे पुत्रेशे धर्मराशिगे । दत्तपुत्रस्य सम्प्राप्तिर्लग्नेशस्तु त्रिकोनगः ॥ ३९॥ युग्मोदये पुत्रनाथश्चतुर्थस्थानगोऽपि वा । मन्दाशकसमारूढो दत्तपुत्रो भविष्यति ॥ ४०॥ युग्मांशे भानुजांशे वा पुतेशोऽर्केन्दुजान्वितः । दत्तपुत्रस्य सम्प्राप्तिस्तस्मिन्योगे भविष्यति ॥ ४१॥ मन्दांशे पुत्रराशीशः स्वराशौ गुरुभार्गवौ । पूर्वं दत्तसुतप्राप्तिः पुनर्नार्याः पुनः सुतः ॥ ४२॥ मन्दांशकस्थिताः खेटाः शुक्लपक्षबलाधिकाः । गुरुर्यदि सुखस्थाने दत्तपुत्रेण सन्ततिः ॥ ४३॥ विलग्नस्थे धरासूनौ निधनस्थे दिवाकरे । सुखे वा शुभसंदृष्टे पुत्र कालान्तरे भवेत् ॥ ४४॥ लग्ने दिनेशतनये रन्ध्रस्थानगते गुरौ । पङ्चमे दुर्बले रिष्फे भौमे कालान्तरे सुतः ॥ ४५॥ पुत्रान् पङ्चमभातृतीयभवनाद् भ्रातृन् कलत्रात् स्नियो दासीश्च क्षितिराशितः स्वभवनाद्दसांअश्च मित्राणि च । यातांश्चैव नवांशकाज्ञ्च्छुभदृशा हत्वा तथा रोपयेद् । व्योमव्योमकरैर्विभज्य तु भृताश्व पुत्रादयः ॥ ४६॥ पुत्रं सोदरभं कलत्रमुदयं यानं च राशि विना तल्लिप्ताः शुभखेटदृग्बलहताः षष्ट्या विभक्ताः क्रमात् । व्योमाकाशकराप्तपुत्रसहजस्त्रीदासदासीउहृत्- सङ्ख्याः पापनभोगदृग्बलभवाः पुत्रादिनाशप्रदाः ॥ ४७॥ पुत्रस्थानपलग्नपस्फुटयुते राश्यंशकोणे गुरौ पुत्रातिः सचिवेन्द्रनस्फुटयुते राश्यंशसंख्याः सुताः । धीधर्मावनिनायकस्फुटचयप्राप्रांशसंख्याऽथवः धीर्घमक्षितिगस्फुटैक्यभवने यातांशतुल्याः नुताः ॥ ४८॥ जीवाच्चन्द्रमसो विलग्नभवनात्पुत्रप्रदं पश्चमं तस्माद्धर्मगृहं च तत्पतिदशाभुक्तौ मुताप्तिं वदेत् । पुत्रस्थानपकामपस्फुटयुते यत्तारका तद्दशा तत्खेटान्वितविक्षकग्रहदशाभुक्तिश्च पुत्रप्रदा ॥ ४९॥ पुत्रस्थानपकारकेक्षकयुता दुःस्थानपा दुर्बला दुःस्थास्तत्परिपालभूक्तिसमये पुत्रस्य नाशं वदेत् । चत्वारो बलशालिनो यदि शुभास्तत्पाकभ्क्त्यन्तरे पुत्राप्तिं सुतसम्पदः प्रभुजनप्रीतिं च कुर्वन्ति ते ॥ ५०॥ पुत्रेशकारकयुतेक्षकखेचराणां तत्कालजस्फुटयुतांशकराशियातौ । वागीशभानुतनयौ यदि गोचरेण जातस्य पुत्रजनिमृत्युकरौ भवेताम् ॥ ५१॥ अथ पितृविचारः । पितृस्थानेश्वरे सौम्ये कारके शुभसंयुते । भावे वा शुभसंयुक्ते पितृसौख्यं विनिर्दिशेत् ॥ ५२॥ पारावतादौ तन्नाथे कारके च तथा स्थिते । स्वोच्चमित्रांशके वाऽपि पितृदीर्घयुरादिशेत् ॥ ५३॥ क्रूरनीचांशकस्थे वा भावनाथे च कारके । मन्दमान्द्यगुसंयुक्ते पितृदुःखं विनिर्दिशेत् ॥ ५४॥ सौम्ये तदीश्वरे वाऽपि नीचमूढारिराशिगे । क्रूरषष्ट्यंशके वाऽपि पितृदुःखं विनिर्दिशेत् ॥ ५५॥ पित्रिकर्मगृहे जातः पितृतुल्यगुणान्वितः । पितृजन्मतृतीयर्क्षे जातः पितृवशानुगः ॥ ५६॥ पितृषष्ठाष्टमे जातः पितृशत्रुर्भविश्यति । तद्भावपे विलग्नस्थे पितृश्रेष्ठो भवेत्सुतः ॥ ५७॥ लग्नादायतपःस्थनाः शनिमहीपुत्रागवो मृत्युदा- स्तातस्यार्कजभूसुतौ निधनदौ बलस्य रन्ध्रास्थगौ । माने वा यदि पञ्चमे कुजरविच्छायाकुमारेन्दवः सद्यो मातुलतातबालजननीनाशं प्रकुर्वन्ति ते ॥ ५८॥ सबले पितृभावेशे लग्नेशेन्दुचतुर्थपाः । दुर्बला यदि तन्मार्गर्भतो मरणं विदुः ॥ ५९॥ नवमादष्टमाधीशो नवमात्खरपोऽथवा । शनिर्वेधेषु यः क्रूरः संभवेत् पितृमृत्युदः ॥ ६०॥ दिनेशस्थितराश्यंशप्राणितः कोणगे रवौ । पितृमृत्युर्मातृमृत्युरिन्दुस्थांशर्क्षयोर्बलाट् ॥ ६१॥ भानुस्थितांशपारूढनवांशद्वादशांशभम् । गते चन्द्रे भवेन्मृत्युर्मातापित्रोर्यथाक्रमम् ॥ ६२॥ दुष्टस्थानगते भानौ सिंहान्त्यद्वादशांशके । जातश्वेज्जननात्पूर्वं पितृमृत्युं प्रयच्छति ॥ ६३॥ मार्तण्डे गुलिकस्फुटादपहृते राशित्रिकोणे शनौ रागं तज्जनकस्य देवसचिवे मृत्युस्तदंशोपगे । आदित्ये यमकण्टकस्फुटयुते तद्राशिकोणे गुरौ रागं तद्भावनांशकेऽमरगुरौ तातस्य नाशं वदेत् ॥ ६४॥ केन्द्रे चरेऽर्के चन्द्रे वा पितरौ न दहेत्सुतः । केन्द्रे द्विदेहगौ तौ चेन्मृत्युदाहौ द्विकालगौ ॥ ६५॥ अदृश्ययातौ पितृमातृनाथौ पित्रोर्मुखादर्शनदौ भवेताम् । पुत्राधिपोऽडृशुअगृहोपगस्चेत्पुत्राननादर्शनदोऽन्त्यकाले ॥ ६६॥ अथ बुद्धिविचारः । दुःस्थे बुद्धिस्थानपेऽदृश्यगे वा जातो मन्दप्रायबुद्धि समेति । केन्द्रे कोणे सौम्यवागिशयुक्ते वीर्योपेते बुद्धिमानिङ्गितज्ञः ॥ ६७॥ त्रिकालज्ञो भवेज्जीवे स्वाम्शे मृद्वंशसंयुते । गोपुराद्यंशके वाऽपि शुभंशे शुभवीक्षिते ॥ ६८॥ हृद्रोगी पङ्चमे पापे सपपे च रसातले । क्रूरषष्त्यंशसंयुक्ते शुभदृग्योगवर्जिते ॥ ६९॥ अथ पुण्यविचारः । अन्नदानपरो नित्यं पङ्चमेशे शुभांशके । शुभखेचरसंयुक्ते भूमिजे केन्द्रमाश्रिते ॥ ७०॥ इति पङ्चमभावफलानि । अथ षष्थभावफलम् । तत्रादौ रोगविचारः । रोगारिव्यसनक्षतानि वसुधापुत्रारितश्चिन्तये- दुक्तं रोगकरं तदेव रिपुगे जीवे जितारिभवेत् । धण्ढोऽरीशबुधौ विधुन्तुदयुतौ लग्नेशसम्बधिनौ लिङ्गस्यामयकृद् व्रणेन रुधिरः षष्ठे सलग्नाधिपः ॥ ७१॥ पत्नी षण्ढत्त्रमेति क्षतभवन्गते कामपे सासुरेज्ये भौमे मन्देन दृष्टे रिपिभवनगते शत्रुभार्यमुपैति । सौम्यैर्दृष्टे युते वा न भयमरिजनाच्छत्रुभे जन्मलग्नात् पापैः शत्रुक्षतादिव्रणभयविपुलं जायते लाङ्छनं वा ॥ ७२॥ षष्थे भास्वति लग्ननायकरिपौ नीचारिगे दुर्बले जातस्तन्पितृवर्गशसहितो लग्नेशामित्रग्रहे । इष्टस्थानगते निजोच्चसुहृदां वर्गोपयाते सति ज्ञातीनां बहुलं वदन्ति मुनयः शत्रुव्रणाभावभाक् ॥ ७३॥ शत्रस्थानगतोऽरिनीचगृहगो वक्रं गतो वाऽस्तगो।- अनेकारातिजनो बहुक्षततदुः षष्थाधिपो वा तथा । षष्ठस्थानगतेषु भात्करमुखध्योमातनेषु क्रमात् तत्तकारकखेटवर्गरिपुणा सम्पीढितः सन्ततम् ॥ ७४॥ पापव्योमचरास्त्रयोऽरिपतितत्प्राप्तेक्षका दुर्बला- गोवित्तक्षयमामयं रिपुभयं कुर्वन्ति जन्मादितः । ते सर्वे बलशालिने यदि शुभा गोवित्तमश्वदिकं राजान्नं सकलोपदंशसहितं रोगारिनाशं वदेत् ॥ ७५॥ तेषामम्बरचारिणामतिशुभौ केन्द्रत्रिकोणायगौ द्वावेतौ बलशालिनौ यदि लघुव्याध्यादिनाशं नृणाम् । एकोऽपि प्रबलो यदि व्रणरिपुक्लेशादि किङ्चित् फलं यत्तत्कारकवर्गमूलमखिलं भोदं प्रमादं तु वा ॥ ७६॥ पापे लग्नगते सपत्नपयुते देहव्रणं देहिनां पुत्रस्थे पितृपुत्रयोः सुखगते मातुः कलत्रे स्नियाः । धर्मस्थे सति मातुलस्य सहजे तस्यानुजस्य व्रणं लाभस्थे तु तदग्रजस्य निधने जातो गुदार्तो भवेत् ॥ ७७॥ भानुर्मूध्रि शशी मुखेऽवनिसुतः कण्ठे तु नाभेरध- श्चन्द्रः सूरिरनामयं प्रकुरुते नेत्राभयं भार्गवः । मन्दो वातम्हिश्च केतुरुदरव्याधि बुधक्षेत्रगो लग्नेशः शशिजेन वीक्षितयुतो गुह्यव्रणं यच्छति ॥ ७८॥ लग्नाइयद्राशिगते फणीशे शुक्रेक्षिते तत्तनुचिह्नमेति । मन्दाहियुक्ते रिपुराशिनाथे तुरङ्गपश्वादिभयं वदन्ति ॥ ७९॥ पापग्रहेण संदृष्टे बलहीनेऽरिनायके । पापान्तरगते वाऽपि शत्रुपीडा भविष्यति । शत्रुस्थानाधिपे दुःस्थे नीचमूढारिराशिगे । लग्नेशे बलसंयुक्ते शत्रुनाशं व्देद्बुधः ॥ ८०॥ षष्ठेशे गोपुरांशादौ दिवाकरनिरीक्षिते । लग्नेशे बलसम्पूर्णे ज्ञातीनामुपकारकृत् । इति श्रीनवग्रहपवा वैद्यनाथविरचिते जातकपारिजाते त्रयोदशोऽध्यायः ॥ १३॥
अथ सप्तमाष्टमनवमभावफलध्यायः ॥ १४॥ तत्र सप्तमभावफलम् । यात्रापुत्रकलत्रसौख्यमखिलं सङ्चिन्तयेत्सप्तमा- दुक्तं पुत्रसुखासुखागमफलं सर्वं च यत्तद्वदेत् ॥ १/२॥ जारः कामगते सिते मदनपे साहिध्वजे वा तवा कामे जीवय्गीक्षिते शुभगृहे जातो न जारो भवेत् ॥ १॥ दुःस्थे कामपतौ तु पापगृहगे पापेक्षिते तद्युते तज्जायाभवनस्य मध्यफलं सर्व शुभं चान्यथा । कामस्थानपतौ सितेन सहिते पापर्क्षगे कामधीः सौम्यर्क्षे शुभखेटवीक्षितयुते जातः सितच्छत्रवान् ॥ २॥ वित्तास्तारिपभार्गवास्तनुगताः पापान्विताः कामुकः पापव्योमचरान्वितौ तनुरिपुस्थानधिपौ चेत्तथा । कामस्थे रिपुवित्तलग्नपयुते पापे परस्त्रीरतः पापारातिकलत्रपा नवमगाः कामातुरो जायते ॥ ३॥ जारः कर्मधनास्तपा दशमगाः पुत्रादिकारग्रहा- दुःस्था धीगुरुकामपाः सुतगृहे पापेक्षितेऽनात्मजः जीवज्ञौ यदिवा निशाकरसितौ कामे बहुस्त्रीरतः शुक्रे मन्मथराशिगे बलवति स्त्रीणां बहुनां पतिः ॥ ४॥ शुक्रारौ मदगौ कलत्ररहितो धर्मात्मजस्थौ तथा शत्रुस्थानगतौ निशाकरसितौ यद्येकपुत्रो भवेत् । लग्नास्तव्ययगेषु पापखेचरेष्विन्दौ सुते दुर्बले वन्ध्यास्त्रीपतिरेव जातमनुजो जायविहीनोऽथवा ॥ ५॥ बन्ध्यापतिः सितरवी मदनोदयस्थौ चन्द्रेदये समगृहे लल्लनाकृतिः स्यात् । पुंराशिगे पुरुषभावयुतं कलत्रं स्त्रीपुंग्रहेक्षितयुते सति मिश्ररूपम् ॥ ६॥ भौमांशे वा भौमराशौ विलग्नात् कामस्थाने जन्मभे वा वधूनाम् । जाया दासी नीचमूढग्रहांशे दुष्टा वा स्याद्यैवने भर्तृहीना ॥ ७॥ शुभाम्शराशौ यदि सद्गुणाढ्या शुभेक्षिते चारुतरं कलत्रम् । चन्द्रांशके दुर्बलचन्द्रराशौ जाता पतिग्नी सबले तु साध्वी ॥ ८॥ अर्काशे कुलटा निजोच्चगृहगे साध्वी शुभालोकिते लग्ने शीतकरेऽथवा मदनभे नीचारिमूढान्विते । पापव्यालविहङ्गपाशनिगलद्रेक्काणभागान्विते सन्ध्यंशे विगतब्रता च विधवा जातस्य जाया भवेत् ॥ ९॥ कामस्थे तनुपे शुभग्रहयुते सद्वंशजामिच्छति क्रूरर्क्षे मदगे विलग्नरमणे दुर्वशजाताङ्गनाम् । वर्णं रूपगुणाकृतिं च सकलं यतद्गृहोक्तं वदेत् दुङ्यार्पारकरग्रहाकृतिनरप्रीतिं प्रयात्यङ्गना ॥ १०॥ पापाप्रकाशसंयुक्ते कलत्रे दुष्टचारिणी । रवौ बन्ध्या तु शीतांशौ क्षीणे तु व्यभिचारिणी ॥ ११॥ कुजे तु भ्रियते मन्दे दुर्भगाराहुसंयुते । परदारोऽरतिः स्वीयां निषेकाभावकोऽसुतः ॥ १२॥ धूमे विवाहहीनः स्यान्भ्रयते कार्मुके सति । परिवेषे तु दुःशीला केतौ बन्ध्या सती भवेत् ॥ १३॥ काले विदारः पापे तु गर्भस्त्रावेण संयुता । सुशीला स्त्री प्रसूता च पूर्यमाणे सुधाकरे ॥ १४॥ बुधे सुपुत्रा वागीशे गुणयुक्ता सुपुत्रिणी । शुक्रे सौभाग्यसंयुक्ता श्रीमती च बलान्विते ॥ १५॥ स्त्रीपुत्रपे बलिनिशोभनखेटदृष्टे षष्ठाधिपेन सहिते सति विक्षिते वा । जारेण पुत्रनिलाभमुपैति जाया तस्या धवो वहुकलत्रयुतोऽप्यपुत्रः ॥ १६॥ नीचे गुरौ मदनगे सति नष्ट्दारो मीने कलत्रभवने रविजे तथैव । मन्दारराशिनवभागगते सुरेज्ये जारो भवेदिनसुतारसमन्विते वा ॥ १७॥ सुवंशजातं प्रथमं कलत्रं लग्नेश्वरो दारपसंयुतश्चेत् । दिनेशकान्त्याभिहतस्तदानी स्वरूपहीनां सुतरां वदन्ति ॥ १९॥ वित्ते पापबहुत्वे च कलत्रेशे तथास्थिते । अशत्रुस्वानगते केतौ कलत्रत्रयभाग्भवेत् ॥ २०॥ केन्द्रत्रिकोणे दारेशे स्वोच्चमित्रस्ववर्गगे । कर्माधिपेन वा दृष्टे बहुस्त्रीसहितो भवेत् ॥ २१॥ कलत्राधिपतौ केन्द्रे शुभग्रहनिरीक्षिते । शुभाम्शे सुभराशौ वा पत्नी व्रतपरायणा ॥ २२॥ दाराधिपे सोमसुते सपापे नीचारिवर्गे रिपुनाशभावे । पापान्तरे पापदृशा समेते जाया पतिघ्नी कुलनाशिनी स्यात् ॥ २३॥ शुभांशे शुभ्संदृष्टे नाथे जाया सुवंशजा । पापारूढे पापवर्गे तस्य जाया कुवंशजा ॥ २४॥ कामस्थाने सखेटे सितयुतस्वचरैर्दरसंस्व्यां - वदन्ति स्वोच्चस्वङ्षोमवासो न भवति गणने शुक्रयुक्तग्रहैर्वा । जायाधीशे सितर्क्षे सति धनभवने शुक्रसंयुक्तसंख्या शुक्रानङ्गेशयुक्तद्युचरनववधूवल्लभो जायते वा ॥ २५॥ दारेशेन कुटुम्बपेन सहिता यावद्ग्रहा दुर्बला- स्तत्संख्याककलत्रनाशनकरा दुःस्थानाथा यदि । यावन्तो बलशालिनः शुभकरास्तत्तुल्यजायासुखं कुर्वन्त्येकवियच्चरो बलयुतो यद्येकदारो भवेत् ॥ २६॥ अथ विवाहकाज्ञः । लग्नानङ्गपतिस्फुटैव्यगृहगे जीवे विवाहं वदे- च्चन्द्राधिष्ठिततारकावधुपयोरैक्यांशके वा तथा ॥ जीवे मित्रनवांशके बलयुते यद्येकदारान्वितः स्वांशे द्वित्रिकलत्रवान् बहुवधुनाथः स्वतुङ्गांशके ॥ २७॥ कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः । दशागमे द्यूनयुक्तभांशकत्रिकोणगे देवगुरौ करग्रहः ॥ २८॥ शुक्रोपेतकलत्रराशिपदशामुक्तोविवाहप्रदा लग्नाद्वित्तपतिस्थराशिपदशाभुक्तौ च पाणिग्रहः । कर्मायुर्भवनाधिनायकदशाभुक्तौ विवाहः क्रमात् कामेशेन यूतः कलत्रगृहगस्तत्पाकमुक्तौ तु वा ॥ २९॥ सौम्यवुओमचरः स्थितः शुभगृहे चादौ ददाति श्रियं पापर्क्षे शुभखेचरो यदि दशामध्ये विवाहादिकम् । क्रूरः पापगृहोपगो यदि फलं पाकावसाने तथा सौम्य्र्क्षे यदि सर्वकालफलदः सौम्यान्वितः शोभनः ॥ ३०॥ लग्नेश्वरस्थितनवांशपतिः स्वराशौ चन्द्रे पुरन्दरगुरौ च कलत्रलाभम् । कामेशसुक्रगृहगेऽमरमन्त्रिणिन्दौ केन्द्रेऽथवा गुरुयुते सति गोचरेण ॥ ३१॥ यसंख्याकमजादि कामभवनं तद्वत्सरे वा नृणां साष्टाब्दे कृतभौङ्जिकर्मपरतः कन्यानकालो भवेत् । लग्नादस्तविलग्ननायकयुतक्षेत्रांशके सभवा या सा भर्तृमनःप्रसादकरणि भर्ता तथैव स्त्रियाः ॥ ३२॥ कामान्वितेक्षकवियणरराशिजाता चन्द्रादतीव सुभगा च पतिप्रिया स्यात् । स्त्रीजातके च पतिरिष्टकरो वधूनां दिग्देशजा भृगुसुतादबलाधिपय ॥ ३३॥ अथ वरवधूजातकसंयोगः । धनावसानस्मरयानरन्ध्रगो धरासुतो जन्मनि यस्य दारहा । तथिव कन्याजनजन्मलग्नपो यदि क्षमासूनुरनिष्टदः पतेः ॥ ३४॥ क्रूरव्योमचरः स्त्रीणामष्टमस्थो विलग्नतः । नीचारिपापवर्गेषु यदि मृत्युकरः पतेः ॥ ३५॥ द्यूनकुटुम्बगतौ यदि पापौ दारवियोगजदुस्वकरौ तौ । ताद्राशयोगजदारयुतश्चेज्जीवति पुत्रधनादियुतश्च ॥ ३६॥ कलत्रराशित्रितयेऽथवा स्यात्तदीशसंयुक्तभराशिकोणे । कलत्रराशिर्यदि पुत्रशाली तदान्यराशिर्यदि पुत्रहीनः ॥ ३७॥ अथ स्त्रियाः स्तनविचारः । काठिन्योरुकुचा मदे दिनकरे कामाधिपे केन्द्रगे जीवेन्दुज्ञसितान्विते गुरुकुचा शुष्कस्तना भूमिजे । लम्बापीनपयोधरा सगुलिकच्छायासुताहिग़्ह्वजे धूमादौ विषमाकृतिस्तनवती दुःस्थेऽथवा कामपे ॥ ३८॥ अथ गम्यस्त्रीविचारणम् । बन्ध्यासङ्गमिनेऽस्तगे समवधूकेलि निशानायके भूपुत्रे तु रजस्वलाजनरति बन्ध्यावधूमेति वा । वेश्यामिन्दुसुते तु विप्रवनितां जीवे सिते गर्भिणी नीचस्त्रीरतिमर्कजोरगशिस्विप्राप्तेऽथवा पुष्पनीम् ॥ ३९॥ अथ स्त्रीसङ्गमे स्थानविचारः । क्रीडागरमिने वनं सुखगते चारु स्वगेहं विधौ भूपुत्रे सति कुङ्यमिच्छति बुधे जातो विहारस्थलम् । जीवे देवगृअं सिते तु सलिलं मन्देऽथवा पत्नगे केतौ भाधवशक्करप्रियसुतस्थानं वधूसङ्गमे ॥ ४०॥ शुक्रांशे मदनस्थितेऽवनिसुते कामाधिपे पङ्चमे जायारिष्टमुपैति सप्तमगते भानौ कलत्रार्थवाण् । दुःस्थौ कामकुतुम्बपौ सभृगुजौ दुश्चिक्ययात् तु वा तस्मद्ख्याककलत्रहा बलयुतौ वित्तास्तपौ दारवाण् ॥ ४१॥ अथ भगचुम्बनयोगः । जातः समेति भगचुम्बनसन्तनाथे शुक्रेण वीक्षितयुते भृगुमन्दिरे वा । एवं कुतुम्बभववाधिपतौ तथा स्याद् दारर्क्षगे दशमपे ससिते तथैव ॥ ४२॥ अथ स्त्रिया भगविचारः । कामेश्वरे देवगुरुः सितो वा समं भगं चारुतरं तरुण्याः । हस्वं भगं सप्तमराशिनाथे शनीन्दुतारासुतमध्याते ॥ ४३॥ दीर्घ समेति भगमस्तपतौ जलर्क्षे तत्कारके जलगृहोपगते तथैव । सार्द्रं भगं मदनगे भृगुवीक्षितेऽब्जे गुह्यं त्वनार्द्रमुपयाति वधूः सपापे ॥ ४४॥ लग्नेशस्थनवांशनाथगृहगे जीवे समेति स्त्रियं नीचारातिनवांशके सति मृतस्त्रीको विदारेऽथवा । लग्ने कामपतिस्फुटादपह्वते राशित्रिकोणे गुरौ लग्ने सप्तमराशिपस्फुटह्वते जीवे मृतिं योषितः ॥ ४५॥ लग्नात्कामपकारकौ शुभकरौ वीर्याधिके सप्तमे पत्या साकमुपैति भृत्युमबला षापैर्युक्तेक्षिते । कामच्छिद्रदशापहारसमये शुक्राष्टवर्ग्र्दिते राशौ भानुसुते कलत्र करणं जीवे तदाम्शान्विते ॥ ४६॥ मदनभवननाथे परिजातादिवर्गे सुरगुरुयुतदृष्टे शोभनस्थानयाते । दधिमधुधृतसूपक्षीरपकोपदंशैः सह शुचि रुचिरात्नं चारुकान्तामुपैति ॥ ४७॥ इति सप्तमभावविचारः । अथाष्टमभावफलम् । आयुर्दायमनिष्टहेतुमुदयव्योमायुरीशार्कजै- रुक्तं तत्सकलं तथापि निधनप्राप्तिं प्रवक्ष्ये पुनः । चल्पायुर्व्ययगेऽथवा रिपुगते पापान्विते रन्ध्रपे लग्नेशेन युते तु तत्र विबले जातोऽल्पजीवी नरः ॥ ४८॥ स्वस्थे रन्ध्रपतौ चिरायुरुदयाच्छिद्राधिपौ षष्ठगौ रिष्फस्थौ यदि वा समेति मनुजो जातश्विरायुर्बलम् । ज्यापारोदयरन्ध्रराशिपतयः केन्द्रत्रिकोणायगा दीर्घायुविबलाः सभानुतनया यद्यल्पमायुर्वदेत् ॥ ४९॥ कर्मेशरन्ध्रतनुपा बलशालिनश्चेज्जातश्विरायु रिननन्दनयोगहीनाः । द्वावप्यतीव बलिनौ यदि मध्यमायुरेको बली तधुतरायुरनायुरन्यः ॥ ५०॥ रन्ध्राधिपे पापगृहोपयाते दुःस्थानगे पापयुतेऽल्पमायुः । शुभान्विते शोभनराशियुक्ते शुभेक्षिते रन्ध्रगते चिरायुः ॥ ५१॥ नाशस्थे तनुपेऽथवा निधनपे पापेन युक्तेक्षिते मूढेऽदृश्यगतेऽथवा रिपुगृहे जातो गतायुर्भवेत् । जीर्घायुर्निजतुङ्गगे शुभयुते केन्द्रत्रिकोणेऽथवा रन्ध्रे रन्ध्रपतौ चिरायुरुदयं यातो विलग्नाधिपे ॥ ५२॥ लग्नादन्त्यगृहाधिपे बलवति स्वर्क्षे चिरायुः सुखी लग्नेशो यदि रन्ध्रपश्च बलिनौ केन्द्रस्थितौ चेत्तथा । आधानोदयराशिऽष्ट्मगृहान्मेषुरणं जन्मभं शुक्रज्ञामरवन्दितेक्षितयुतं यद्यायुरारोग्यभाक् ॥ ५३॥ अथ मृत्युविचारः रन्ध्रेशे रिपुरन्ध्ररिष्फगृहगे तत्पाकभुक्तौ मृतिं मन्दाकान्तगृहेशपाकसमये रन्ध्रेशभुक्तौ तथा । पाके रन्ध्रगृहाधिपस्य तदनुक्रान्तस्य भुक्तौ तु वा खेटानां बलदुर्बलेन सकलं संचिन्त्य यत्तद्वदेत् ॥ ५४॥ लग्नेशे निधनारिरिष्फगृहगे साहौ सकेतौ तु वा होरारन्ध्रपसंयुतग्रहदशा जातस्य मृत्युप्रदा । तत्खेटान्वितराशिनायकदशा नाशप्रदा देहिनां खेटानां प्रथमागतस्य फणिनः पाकापहारे क्रमात् ॥ ५५॥ व्यापाररन्ध्रतनुनाथशनैश्चराणां मध्ये विधुन्तुदयुतो विबलग्रहो यः । तत्पाकभुक्तिसमये मरणं नराणां तद्युक्तवीक्षकनभोगदशान्तरे वा ॥ ५६॥ नाशे नाशपतौ तु तद्ग्रहदशाभुक्तौ समेत्यामयं लग्ने लग्नपतौ तु लग्नपदशाभुक्तौ शरीरातिभाक् । पश्चादामयनाशनं तनुसुखं मोदश्च सञ्जायते रन्ध्रेशे बलसंयुते तनुपतेर्दाये मृतिर्देहिनां ॥ ५७॥ जातस्य जन्मसमये विबले विलग्ने लग्नेशरन्ध्रपतिपाकलतिव कष्टम् । पश्चादतीव सुखमेति विलग्ननाथे वीर्यान्विते निधनपस्य मृतिं दशायाम् ॥ ५८॥ देहेशे च विनाशपे बलयुते केन्द्रत्रिकोणस्थिते तद्युक्तग्रहपाकभुक्तौसमये रोगापवादः फलम् । रन्ध्रेशस्तनुपश्च खेचरयुतौ केन्द्रत्रिकोणस्थितौ रन्ध्रस्थानगतस्य पाकसमये मृत्युं समेति ध्रुवम् ॥ ५९॥ नो चेदष्टमखेचरौ यदि तनुप्राप्तेन सङ्चिन्तये- न्मन्दे लग्नगतेऽथवाष्टभगते तत्पाकभुक्तौ मृतिः । रन्ध्रेशोदयनायकौ सखचरौ युक्तग्रहो दुर्बलो यस्तस्य द्युचरस्य पाकसमये भुक्तौ च मृत्युं वदेत् ॥ ६०॥ लग्नात्पङ्चमराशिपेन सहितव्योमाटनानां दशा- संख्याभानुह्वतावशेषगृहगे मृत्युं दनेशे सति । पुत्रेशो न वियच्चरेण सहितः स्वाब्देन सङ्चिन्तये- ल्लग्नेशेन युताब्दमङ्गविहृतः संक्रान्तिपूर्वं दिनम् ॥ ६१॥ त्रिकोणे केन्द्रे वा यदि पितृतनुक्षेत्रपतयो दशाभुक्तौ तेषामनुमरणमाहुर्मुनिगणाः । सभौमे मन्दाढ्ये फणियुजि तु वेन्दुअ निधनगे त्वपस्मारस्तस्मान्मरणमथवेन्दौ कृशतनौ ॥ ६२॥ चन्द्रे वित्तगतेऽथवा निधनगे जातो बहुस्वेदवाम् कर्मस्थानगते कुजे बुधयुते दुर्गन्धदेहो भवेत् । पापे रन्ध्रगते तु पापसहिते रोगप्रभादाकरः सौम्यव्योमगृहेऽतिशोभनयुते जातः समोदः सुखी ॥ ६३॥ शीर्षोदयेषु चरभादिषु वित्तपस्य लग्नाधिपस्य भुजगस्य दशापहारे । पृष्ठोदये सति तदीयदृगाणपस्य तद्वीक्षितादिसहितस्य मृतिं वदेद्वा ॥ ६४॥ इति अष्टमभावफलविचारः अथ नवमभावफलम् । भाग्यप्रमावगुरुधर्मतपःशुभानि संचिन्त्येन्नवमदेवपुरोहिताभ्याम् । भाग्येशदेवसचिवौ शुभवर्गयातौ भाग्ये शुभग्रहयुते समुपैति भाग्यम् ॥ ६५॥ पापारिनीचरविलुप्तकरा नभोगा भाग्यस्थिता यदि यशोधनधर्महीनाः । पापेऽपि तुङ्गजमित्रगृहोपगश्चेद्भाग्ये तु भाग्यफलदः सतत्ं नराणाम् ॥ ६६॥ सौम्यस्वामियुतेक्षितं नवमभं भाग्यप्रदं प्राणिनां तद्राशीशसमेतराशिरमणो भाग्यस्य कर्त्ता भवेत् । भाग्येशाः परिपाचको भवति तत्पुत्रेश्वरो बोधक स्तुङ्गस्वर्क्षगृहोपगो यदि चिरं भाग्ये प्रकुर्वन्ति ते ॥ ६७॥ भाग्यस्थे दशवर्गजोच्चभवनस्वांशस्थिते पङ्चके भाग्यं श्रीविपुलं समेति नृपतिस्तत्स्वामियुक्तेक्षिते । चत्वारे बलशालिनो नवमगा भाग्यं प्रयच्छन्ति ते तुङ्गस्वांशगताः स्वदेशविभवं त्वन्यत्र चान्याम्शगाः ॥ ६८॥ अथ नवमे गुरौ ग्रहदृष्टिफलानि । भाग्ये तत्पतोशोभनेक्षितयुते भाग्यं समेति ध्रुवं धर्मे पापयुते भृगौ शशिनि वा जातो गुरुस्त्रीरतः । दृष्टेऽर्केण गुरौ नृपः क्षितिभुवां मन्त्री बुधेनार्थवान् शुक्रेणाश्वपतिः सुखी तु शशिना मन्देन चोष्टादिभाख़् ॥ ६९॥ विद्वान् वारणगोतुङ्गधनवानिन्द्वर्कदृष्टे गुरौ सेनावाहनरत्नवान्नवमगे जीवेकुजार्केक्षिते । विद्यावादविनोदवित्तविपुलः सूर्येन्दुजालोकिते शुक्रादित्यनिरीक्षिते विनयवाग् जीवे तपःस्थानगे ॥ ७०॥ मन्ददित्यनिरीक्षिते गुणनिधिः प्राज्ञो बहुग्रामवान् जीवे चन्द्रकुजेक्षिते पृथुयशाः सेनासुखश्रीयुतः । तारेशेन्दुप्रविलोकिते गृहसुखश्रेष्ठार्थशय्यासनः शुक्रेन्दुप्रविलोकिते वितनयः शूरो धनी कर्मकृत् ॥ ७१॥ चन्द्रादित्यसुतेक्षिते तु गुणवान् वादी विदेशं गतो- जीवे शुक्रबुधेक्षिते नवमगे विद्याधिको जायते । सर्वव्योमचरेक्षिते नरवरो राजा बहुद्रव्यवान् सौभाग्याचरराज्यवित्तफलदाः सर्वे तपःस्थानगाः ॥ ७२॥ नवमे द्विग्रहयोगफलानि भाग्यस्थे शशिनि प्रभाकरसुतज्ञारेक्षिते भूपति- स्तुङ्गव्योमचरे तपःस्थलगते भूपः शुभालोकिते । सेन्दौ तिग्मकरे तु तत्र धनिको नेत्रामयार्त्तो भवेद् दुःखी वादरतः कुजेन सहिते भानौ नृपालप्रियः ॥ ७३॥ भानौ सेन्दुसुते सपत्नबद्दुलो दुःस्वी रुगार्तः सदा वागीशेन युते पितृप्रियकरो जातः स्वयं वित्तवान् । रोगी शुक्रयुते रवौ शनियुते र्ग्णः पिता कुक्षिरुक् चन्द्रे सावनिनन्दने तु जननीहन्ता धनत्यागवान् ॥ ७४॥ वाग्मी शास्त्रकलापवान् नवमगे चन्द्रे सतारसुते सेन्दौ मन्त्रिणि धीरधीर्नरवरः श्रीमान् गुरुस्थानगे । तारेशे कुलतापतिः सभृगुजे सापत्नमातृप्रिय- श्चन्द्रे मन्दयुते विधर्मगुणवान् माता कुलप्रच्युता ॥ ७५॥ शास्त्री भोगसुखी कुजे बुधयुते सेव्ये धनी पूजितः शुक्रेण द्विवधूपतिः सहकुजे वादी विदेशं गतः । भौमे भानुसुतान्विते नवमगे पापी परास्त्रीरतः सौम्ये सामरवन्दिते पटुमतिविद्वान् धनी पण्डितः ॥ ७६॥ प्राज्ञो गीतरतिप्रियः सभृगुजे चन्द्रात्मजे पण्डितः सौम्ये मन्दयुते तु रोगितनुको वित्ताधिकोऽसत्यवाक् । जीवे शुक्रयुते चिरायुरधिकश्रीमान् समन्दे गुरौ रोगीरत्नधनः सितेऽसितयुते भूपालतुल्यो भवेत् ॥ ७७॥ अथ नवमे त्रिग्रहयोगफलानि । रवीन्दुभौमा नवमोपयाता यदि क्षताङ्गः पितृमातृईनः । हिंसी विकर्मा राविचन्द्रसौम्या रविन्दुजीवाः सुखवाहनाढ्यः ॥ ७८॥ चन्द्रार्कौससितौ वधूकलहकृद् राजप्रियो वित्तहा भाग्यस्थौ रविशीतगू शनियुतौ भृत्यो विरोधि सताम् । रव्यारौ सबुधौ तु तत्र सुभगः क्रुद्धो विवादप्रियः सेज्यौ देवपितृप्रियः सुतवधूवित्तान्वितो जायते ॥ ७९॥ सूर्यारौ ससितौ विवादनिरतः कोपी वधुदुषक- श्छायासूनुयुतौ विबन्धुरधनोसाधुः पितुमारकः । धर्मस्थौ रविचन्द्रजौ गुरुयुतौ राजप्रियो वित्तवान् साच्छ्यौ राजसम्ः सभानुतनयौ पापी परस्त्रीपतिः ॥ ८०॥ जीवार्कौ सितसंयुतौ परवधूसक्तो धनी पण्डितः । सार्की जीवदिवाकरौ यदि विटस्वामी तपःस्थानगौ । आदित्याप्तितभार्गवा नवमगा हीनो नृपैर्दण्डतो बाल्ये तप्तमनाः सुखी च परतश्चन्द्रारशीतांशुजाः ॥ ८१॥ देवाराधनतत्परो नवमगैश्चन्द्रारवागीश्वरै- र्जातो नष्टकलत्रवान् क्षततनुः शुक्रेन्दुभूनन्दनैः । क्षुद्रो मातृहरो महीपतिसमश्चन्द्रारसूर्याम्तजै- राचार्यो धनवान् विभुश्च रजनीनाथज्ञदेवाचिंचतैः ॥ ८२॥ मातुः सपत्नीजनको विभुः स्यात् चन्द्रज्ञशुक्रा नवमोपयाताः । पापी विवादप्रियबुद्धियुक्तो जातः सुधारशिमबुधार्कपुत्राः ॥ ८३॥ चन्द्रामरेज्यौ ससितौ महीपः सार्कात्मजौ सद्गुणकर्मशीलः । मन्दज्ञशुक्रा नरपालतुल्यः कृषिक्रियावित्तपरो गुरुत्थाः ॥ ८४॥ राजप्रियो माण्डलिकः सजीवीभावस्थितौ भुसुतचन्द्रपुत्रां । शास्त्री सशुक्रौ चपलश्च भीरुः सभनुजौ वाद समर्थः ॥ ८५॥ ख्यातो विद्वान् धर्मवान् जीवसौर्यौ धर्मस्थाने ॥। । विद्यावान्मी सासितौ धर्मरतो रा ॥॥॥॥॥॥॥॥॥। ॥ ८६॥ जातः साहसविक्रमार्जितधनः सूर्यरजीवार्कजैः शूरः सर्वगुणप्रप[न्चरसिकः युक्रारजीवेन्दुभिः । षट्पङ्चत्रिचतुर्विशच्चरयुते भाग्ये समेति य्रियं राजत्यं सबुधे विबोधनगुरौ जातः समेत्यश्रियम् ॥ ८७॥ जनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहा पुरुषम् । व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम् ॥ ८८॥ भाग्याधिपे विनाशस्थे नीचसत्रुस्वगेक्षिते । क्रूरांशे नीचराश्यादौ भाग्यहीनो भवेन्नरः ॥ ८९॥ भाग्याधिपे शुभयुते शुभग्रहनिरिक्षिते । तद्भावे शुभसम्बन्धे तत्कीर्तिधनभाग्यवान् ॥ ९०॥ सिंहासनांशे तन्नाथे लग्नेशेन निरीक्षिते । कर्माधिपेन संदृष्टे ॥॥॥ऽकरो भवेत् ॥ ९१॥ जातः पुरोहितो ॥॥॥॥॥॥॥॥॥॥॥॥॥। । दानाध्यक्षोपकारी ॥। वर्णमेदविकल्पना ॥ ९२॥ गुरौ तद्भावसंयुक्ते नवांशाधिपतौ तथा । शुभग्रहेक्षिते वाऽपि गुरुभक्तियुतो भवेत् ॥ ९३॥ गुरुस्थाने सौम्ययुते गुरुवर्गसमन्विते । तदीशे गुरुभागस्थे गुरुभक्तिरतः सुखी ॥ ९४॥ गुरुशुक्रबुधांशस्थे धर्मनाथेन वीक्षिते । शुभग्रहाणां मध्यस्थे धर्मकृत्स नरो भवेत् ॥ ९५॥ धर्मे पापे पापभाक् स्यात् तदीशे पापसंयुते । क्रूरषष्ट्यंशके वाऽपि धर्महीनो भवेन्नरः ॥ ९६॥ बलवति शुभनाथे केन्द्रकोणोपयाते शुभशतमुपैआति स्वामिदृष्टे विलग्ने । सुरगुनवभागस्त्रीम्शदंशत्रिभागे दशमभवनपे वा वीतभोगस्तपस्वी ॥ ९७॥ सकलगगनवासाः स्वोच्चगा भाग्यराशौ धनकनकसमृद्धिं श्रेष्ठमुत्पादयन्ति । यदि शुभस्वचरेन्दैस्तत्र दृष्टा नभोगा विनिहातरिपुपक्षौ दिव्यदेहः सुकीर्तिः ॥ ९८॥ तातेशतत्कारकखेचरेन्द्रौ दुःस्थौ तयोः पुत्रमुखं न दृश्यम् । केन्द्रत्रिकोणे यदि तौ नभोगौ वदेतयोः पुत्रमुखं हि दृश्यम् ॥ ९९॥ इदनीं जातस्य पितुर्मरणं दिने रावौ स स्यादित्याह । पितुर्नशायां मरणं सुखेशशुक्रेन्दवः षष्ठगता बलाध्याः । नारीश्वरास्तन्भरणं तथैव चन्द्रेण हीनास्तु दिवा मृतः स्यात् ॥ १००॥ सौम्ये चराद्यभागस्थे भाग्येशे बलसंयुते । गुरुशुक्रयुते दृष्टे जपध्यानसमाधिमान् ॥ १०१॥ देवलोकदिभागस्थे कर्मेशे भाग्यपेऽपि वा । पारावतांशके सौम्ये ब्रह्मनिष्टापरो भवेत् ॥ १०२॥ पारावतादिभागस्थे धर्मेशे गुरुसंयुते । लग्नेशे गुरुसंदृष्टे महादाअकरो भवेत् ॥ १०३॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते चतुर्दशोऽध्यायः ॥ १४॥
अथ दशमैकादशद्वादशभावफलाध्यायः ॥ १५॥ तत्र दशमभावफलम् । आज्ञामानविभूषणानि वसनव्यापारनिद्राकृषि- प्रव्रज्यागमकर्मजीवनयशो।विज्ञानविद्याः क्रमात् । लर्मस्वामिदिनेशबोधनगुरुच्छायासुतैश्विन्तये- दुक्तानि प्रविहाय पूर्वशुभे मानी विमानो भवेत् ॥ १॥ अथ कर्मविचारः । कर्मेशे बलवर्जिते चपलधीर्जतो दुराचारवान् जीवज्ञासितभानवो विबलिनो दुःस्था विकर्मप्रदाः । गङ्गात्नानफलं समेति दशमे राहौ दिनेशेऽथवा मीने कर्मणि चन्द्रजारसहिते जातः स भुक्तो भवेत् ॥ २॥ भानेश्वरे शुक्रयुते च केन्द्रे तुङ्गस्थिते ताद्दशतोयपूतः । व्यये बुधे तद्भवनाधिपे वा स्वोच्चान्विते ताद्दशपुण्यभाक् स्याट् ॥ ३॥ चन्द्रे कर्मणि जाह्नवीसलिलतः पूतो हि पूतद्युतौ पापो यच्छति कर्मगो विबलवान् द्युतक्रियासाहसम् । सौम्या दुर्बलशालिनो दशम्गाः सत्कर्मविघ्वंसकाः कर्मेशज्ञसुराचितैः क्रतुफलं सङ्चिन्त्य सम्यग्वदेत् ॥ ४॥ एकस्थौ तनुकर्मपौ यदि तयोरेकाधिपत्यं तु वा जातः स्वार्जितसद्भनेन कुरुते यज्ञादिकर्मोत्सषम् । सार्कौ शूद्रधनेन साहिशिखिनि क्षुद्रैः सजीवे नृप- स्तत्तत्कारकवित्ततो यदि युते रव्यादिभिः कर्मपे ॥ ५॥ बहुशुभयुजि नाने वाजपेयादिसिद्धिः सितवुधयुतराशिस्त्रामिनौ दुर्बलाध्यौ । यदि कृतसवनोऽपि प्राप्रकर्मप्रनष्टो भवति परमकर्मा दानवाचारशीलः ॥ ६॥ चन्द्रात् कर्मणि सोभने बलयुते तुङ्गादिवर्गस्थिते वागीशेन युतेक्षिते नरवरो यज्वा यशस्वी भवेत् । जीवज्ञासुरपूजितस्थितगृहाधीशा विनाशं गता जातः सत्फलकर्मवानपि कृतां कर्मश्रियं नाप्नुयात् ॥ ७॥ कर्मेशज्ञसुराचिंता बलयुत यज्ञादिसत्कर्मदाः सौम्यव्योमचरेण वीक्षितयुतास्ते वाजपेयादिभाक् । जीर्णोद्भारणसुख्यगोपुरतटाकारामपुण्यप्रदा यज्वा कर्मपतौ शुभे शशियुते माने विराहुव्यजे ॥ ८॥ उच्चस्थे ययिजेऽहिकेतुविशुते भाग्शोपशातेऽथवा कर्मस्वामिनि भाग्शगे च मनुजो शागादिसत्कर्मवान् । कर्मेये निजतुङ्गे बुधयुते तारासुते चास्तगे तुङ्गस्थानगते सति क्रतुफलं जातः समेति ध्रुवम् ॥ ९॥ कर्मस्थे शशिनिन्दने सवनकृत्साहिध्वजे कर्महा कर्मेशे रिपुरन्ध्ररिष्फगृहगे कर्मावरोधी भवेत् । कर्मेशस्य बुधस्य कर्मभवने राहौ मस्वध्वसक- स्तुङ्गस्थानगतोऽपि कर्मगृहपो दुःस्थानगः कर्महा ॥ १०॥ व्यापारधर्मभवते शुभखेटयुक्ते तन्नाथजीवतनुपा बलशालिनश्रेत् । आचारधर्मगुणकर्मविधिप्रयुक्तश्रद्धपरो भवति विप्रकुलाग्नगण्यः ॥ ११॥ ज्ञानव्योमाधिवासास्तनुगुरुदशमस्थानपाः षड्बलाढ्या जातः षट्शास्त्रवेत्ता निखिलनिगमविज्ज्ञानदीक्षामुपैति । धर्मव्यापारलग्नाधिपबुधाचार्यपाकापहारे सत्कर्माचारसर्वक्रतुफलनिगमज्ञानविद्याकरः स्यात् ॥ १३॥ चन्द्रे तृतीये जलराशियुक्ते करोति जीर्णोद्भरणादि पुण्यम् । तटाककूपादिकमत्र लग्नात् कर्मेश्वरे गोपुरभागयुक्ते ॥ १४॥ अथ प्रव्रज्यायोगः । जातः पङ्चचतुर्वियच्चरवरैः केन्द्रत्रिकोणस्थितै- रेकस्थैर्बलिभिः प्रधानबलवत्खेटास्रमस्थो भवेत् । आदित्यासितजीवशुक्रधरणीपुत्रेन्दुताराहुतै- र्वानप्रस्थविवासभिक्षुचरकाः शाक्त्यो गुरुर्जीवकः ॥ १५॥ वानप्रस्थस्तपस्वी वनगिरिनिलयो नग्नशिलो विवासा भिक्षुः स्यादेकदण्डी सततमुपनिषत्तत्त्वनिष्टो महात्मा । नानादेशप्रवासी च्रकपतिवरः शाक्ययोगी कुशीलो राजश्रीमान् यशस्वी गुरुरशनपरो जल्पको जीवकः स्यात् ॥ १६॥ कर्मस्था बलिनस्त्रयो गगनगाः खोच्चादिवर्गस्थिताः कर्मेशश्व बलाधिको यदि यतिस्तत्तल्यशीलोऽथवा । कर्मेशे बलवर्जिते गृहगृहप्राप्ते दुराचारवान् तद्योगप्रदमध्यगौ धनदस्थानाधिपौ कामधीः ॥ १७॥ तद्योगप्रदखेचरैरिनशनिक्षिओनीकुमारान्वितैः सन्यास समुपैति वित्ततनयस्त्रीवर्जितो मानवः । सौम्यांशोपगतः सहस्रकिरणस्तुङ्गातभागस्थितं खेटं पश्यति यौवने वयसि वा बाल्ये यतीशो भवेत् ॥ १८॥ शुक्रेन्दुप्रविलोकिते गतबले लग्नाधिपे निर्द्धनो भिक्षुः स्याद्यदि तुङ्गभांशकयुतस्तारापति पश्यति । एकर्स्थैरविलोकिते तु बहुभिर्लग्नेश्वरे दीक्षित- स्तद्योगप्रदभावकारकदशाभुक्तौ तदीयं फलम् ॥ १९॥ शीतांशुराशीशमिनात्मजो वा लग्नेश्वरः पश्यति दीक्षितः स्यात् । भौमर्क्षगे मन्ददृगाणभागे मन्देक्षिते शीतकरे यदिः स्यात् ॥ २०॥ जीवारमन्दलग्नेषु मन्ददृष्तियुतेषु च। लग्नाद्धर्मगते जीवे नृपयोगेऽपि तीर्थकृत् ॥ २१॥ नवमस्थानगे चन्द्रे नभोगैर्नावलोकिते । नृपयोगेऽपि सङ्जातो दीक्षितो नृपतिर्भवेत् ॥ २२॥ सुरगुरुशशिहोरास्वाकिदृष्टासु धर्मे गुरुरथ नृपतीनां योगजस्तीर्थकृत् । नवमभव्नसंख्ये मन्दगेऽन्यैरदृष्टे भवति नरपयोगे दीक्षितः पार्थिवेन्द्रः ॥ २३॥ सितार्कभौमार्कसुता महाबलाः सुरेज्यभूनन्दनभानुभानुजाः । कुजेन्दुवागीशशनैश्वरा इमे समं गताश्चेज्जनयन्ति तापसम् ॥ २४॥ ग्रहैश्चतुर्भिः सहिते तदीशे केन्द्रत्रिकोणोपगतैस्तु मुक्तः । चतुर्ग्रहः कर्मगतैः प्रव्रज्यां प्राप्नोति जातः कथितो मुनीन्द्रैः ॥ २५॥ कुजार्कसोमार्कजदेवव्न्दितैः कुजार्कचन्द्रार्मजमन्दभार्गवैः । रवीन्दुभौमासितदानवप्रियैर्भवन्ति जाता व्रतसंयुता नराः ॥ २६॥ सितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेज्यबुधार्कनन्दनैः । सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः ॥ २७॥ चन्द्रेन्दुपुत्रारसुरेज्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रभुमिजैः । एकर्क्षगैरेभिरिह प्रजाता भवन्ति विद्यामुनयोऽस्त्रदूषकाः ॥ २८॥ रवीन्दुभौमेन्दुजजीवभार्गवैः सुधाकराराकिंगुरुज्ञभास्करैः । कुजेन्दुसूर्यार्किसितेन्दुसम्भवैर्भवेदमीभिः सहितैर्व्रती नरः ॥ २९॥ सितेन्दिजीवार्कजभानुलोहितैः सितार्किजीवार्कभृगाक्कसोमजैः । एकत्र शातैर्गगनाटनैः सदा भवन्ति जाता मुनशस्तपस्वनिः ॥ ३०॥ कुहज्ञवागीशसितासितारुणैः सितार्किजीन्दुजचन्द्रभूमिजैः । बलप्रधानैर्गनाटनैय्दा यदि प्रजातः पुरुषस्त्पस्विनाम् ॥ ३१॥ स्वीन्दुवाशदिनेशपुत्रैः शनैश्चरेन्द्वर्कसितैरवश्यम् । रवीन्दुपुत्रक्षितिजामरेज्यैस्तपस्विनो मूलफलाशनाः स्युः ॥ ३२॥ वक्रार्कसोमात्मजदानवेज्या भौमेन्दुवागीशशशाङ्कपुत्रा । एकर्क्षगा ज्न्मनि यस्य जन्तोर्भवेद्यती वल्कलभूतिधारी ॥ ३३॥ शशीन्दुसुनुक्षितिजार्कपुत्रा बुधक्षमापुत्रसुरेज्यसौराः । एकत्रगा यस्य नरस्य जातं कुर्वन्ति ते तापसमेव शान्तम् ॥ ३४॥ चन्द्रार्कभार्गवशशाङ्कसुत बलिष्ठा भौमेन्दुपुत्रसितभास्करनन्दनाश्च । मन्देन्दुधाक्पतिसिता नियतं यतीनां कुर्वन्ति जन्म कृतवल्कफलाशनानाम् ॥ ३५॥ रविशशिकुजशुक्रैश्चन्द्रभौमड्यसुर्यैर्गुरुसितरविमन्दैः शुक्रमन्देन्दुजीवैः । कुजबुधसितचन्द्रैरेभिरेकर्क्षयातैर्भवति गिरिवनैकास्तापसः सर्वयन्द्यः ॥ ३६॥ सितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमगुरुशुक्रैः । रविकुजशनिबुधजीवैर्भवति यती दुःखितो दीनः ॥ ३७॥ कुजार्किदे ज्यसितेन्दुपुत्रैः शनीनसोमात्मजचन्द्रभौमैः । नभश्चरैरेकगृहोपयातैर्जटाधरा वल्कलधारिणः स्युः ॥ ३८॥ भान्विन्दुजेन्दुकुजजीवसुरारिपूज्यैः सूरेन्दुभौमगुरुशुक्रदिनेशपुत्रैः । प्राप्नोत्यवश्यमिह तापसरूपमेभिरेकर्क्षगैर्गगनचारिभिरायताक्षः ॥ ३९॥ न वीक्षितश्चेदितरग्रहेन्दैर्लग्नाधिपः पश्यति भानुपुत्रम् । लग्नाधिपं वा यदि भानुपुत्रः संन्यासयोगो हि बलेन हीनम् ॥ ४०॥ चन्द्रे भानुसुतेक्षिते रविसुतद्रेक्कणयाते तथा भिक्षुर्मन्दनिरीक्षिते रविसुतक्षोणिसुतांशे विधौ । सन्यासप्रदखेचरः सगुलिकः साहिघ्वजो वा यदि क्रूराम्शोपगतः करोति विगताचारं यतीनां ध्रुवम् ॥ ४१॥ रविलुप्तकरैरदीक्षिता बलिभिस्तद्गतभक्तयो नराः । अभियाचितमात्रदीक्षिता निहतैरन्यनिरीक्षितैरपि ॥ ४२॥ अथ जीविकायोगाः । अर्थाप्तिः पितृजननीसपत्नमित्रभ्रातृतकजनाहिवाकराद्यैः । होरेन्द्वोर्दशमगतैविकल्पनीया भेन्द्वर्कास्पदपतिगांशनाथवृत्त्या ॥ ४३॥ अर्थाप्तिं कथयेद्विलग्नशशिनोर्मध्ये बली यस्ततः । कर्मेशस्थनवांशराशिपवशाद् वृत्तिं जगुस्तद्विदः ॥ ४३ १/२॥ अथ ग्रहाणां वृत्तयः । भैषज्योर्णतृणाम्बुधान्यकनकव्यापारमुक्तादिकै- रन्योन्यागमदूतवृत्तिभिरिनस्यांशो तु जीवत्यसौ ॥ ४४॥ जलोद्भवानां क्रयविक्रेण कृषेश्व मृद्वाद्यार्वनोदमार्गात् । राजाङ्गनासंश्रयवित्तरूपान्निशाकरांशे वसनक्रयाद्वा ॥ ४५॥ धातोविवादेन रणप्रकारात् स्तब्धाग्निवादात् कलहप्रवृत्त्या । जीवस्यसौ साहसमार्गरूपाद् धरासुतांशे यदि चौरवृत्त्या ॥ ४६॥ शिल्पादिकाव्यागमशास्त्रमार्गाज्ज्योतिर्गणज्ञानवशाद् बुधांशे । परार्थवेदाध्ययनाज्जपाच्च पुरोहिताद्याज्यवशात् प्रवृत्तिः ॥ ४७॥ जीवांशके भृसुरद्वतानामुपासनाध्यापकरूपमार्गात् । पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशैरकुसीदमाहुः ॥ ४८॥ सुवर्णमाणिक्यगजाश्वमूलाद् गवां क्रयाज्जीवनमाहुरार्याः । गुडौदनक्षारदधिक्रयेण स्त्रियाः प्रलोभेन भृगोः सुतांशे ॥ ४॥ शन्याम्शके कुत्सितमार्गवृत्त्या शिल्पादिभिर्दारुमयैर्वधाद्यैः । विन्यस्तभाराज्जनविप्रलम्भादन्योन्यवैरागममार्गमूलात् ॥ ५०॥ सौम्यैश्चतुष्केन्द्रगृहोपयातैः कुलोत्तमा वंशकरा नृपालाः । सर्वज्ञधीवित्तयशोगुणाढ्या नरा नृपप्रीतिकराश्च वा स्युः ॥ ५१॥ कर्मकर्माशगाः सौम्या जातः पुण्यरतः सदा । पापिनः पापकर्मात्मा चन्द्राद्वा यदि जायते ॥ ५२॥ कर्मराश्यंशपो यत्र तदीशः पापखेचरः । भूमादिग्रहसम्बन्धी यदि पापरतो भवेत् ॥ ५३॥ सिद्धारम्भः कर्मगे चन्द्रलग्नाद्भानौ भौमे साहसी पापबुद्धिः । विद्वान् सौम्ये वाक्पतौ राजतुल्यः शुक्रे भोगी भानुजे शोकतप्नः ॥ ५४॥ चन्द्रात्कर्मगते रवौ सरुधिरे मत्तः परस्त्रीरतो- ज्योतिर्विञ्च सचन्द्रजे जलधनस्त्रीपूषणादिप्रियः । सिद्धार्थो नृपसंमतश्च सगुरौ शुक्रेण युक्ते नृप- प्रीतिस्त्रीधनवृद्धिभाक् शनियुते दीनो दरिद्रो भवेत् ॥ ५५॥ चन्द्रात्कर्मणि भूसुते बुधयुते शाश्त्रोपजीवी भवेत् सेज्ये नीचजनाधिपः सभृगुजे वैदेशिकः स्याद्वणिक् । सार्कौ साहसिकोऽसुतश्च शशिनः कर्मस्थिते बोधने सेज्ये षण्डतनुश्च दीनवष्टनः ख्यातो नृपाल्प्रियः ॥ ५६॥ मान्दे चन्द्रमओ बुधे सभृगुजे विड्यावधूवित्तवान् सार्कौ पुस्तफलैस्वकश्च विषमाचारप्रवृत्तोऽधवा । जीवे शुक्रयुते तु विप्रजनपो भूपप्रियः पण्डितः सार्कौ सर्वजनोपतापचतुरो जातः स्थिरारम्भधीः ॥ ५७॥ सुगन्धनीलचूर्णादिचित्रकारो भिषग्वणिक् । कर्मस्थानगते मन्दे सासुरेज्ये निशाकरात् ॥ ५८॥ अथ आज्ञविचारः । आज्ञास्थानाधिपे सौम्ये शुभयुक्तेक्षितेऽपि वा । शोभनांशगते वाऽपि जातस्त्वाज्ञधरो भवेत् ॥ ५९॥ आज्ञाधिपे मन्दयुते रन्ध्रनाथेन वीक्षिते । क्रूरांशे केन्द्रराशौ वा क्रराज्ञां प्रकरोति सः ॥ ६०॥ अथ किर्तिं-मान-कृषि-व्यापार-निद्राविचारः । कर्कटस्थे निशानाथे गुरुशुक्रनिरीक्षिते । पारावतादिभागस्थे सत्कीर्तिधनवान् भवेत् ॥ ६१॥ मानेशे शुभसंयुक्ते शुभमध्यगतेऽपि वा । शुभग्रहांशके वाऽपि कीर्तिमानभिमानवान् ॥ ६२॥ पापेक्षिते कर्मणि पापयुक्ते मानाधिपे हीनबलोपयाते । जातोऽपवदी विगताभिमानः स्वकर्मतेजोबलकीर्तिहीनः ॥ ६३॥ कर्मेशतग्नवांशेसौ सनिसम्बन्धसंयुतौ । षष्ठाधिपयुतौ दृष्तौ बहुदारान्वितो भवेत् ॥ ६४॥ भूसूनुक्षिदिटिराशिपौ च बलिनौ केन्द्रत्रिकोणायगौ कर्मेशे भृउचन्द्रविक्षितयुते कृष्यादिगोवित्तवान् । सम्बन्धी यदि कर्मणीः शशिसुतो वाणिज्यशीलः सदा सौम्यासौम्ययुते तु सात्त्विकतमोनिद्री विमिश्रेऽन्यथा ॥ ६५॥ अथ लाभभावफलम् । लाभस्थनेन लग्नादस्वि(खि)लधनचयङप्तिमिच्छन्ति सर्वे लाभस्थानोपयातः सकलबलयुतः खेचरो वित्तदः स्यात् । भानुश्चेज्ज्ञातिवर्गादतिघनमुडुपो मातृवर्गेण भौमः स्वोत्थाच्चान्द्रिर्यर्दीष्टप्रभुविबुधसुहृन्मातुलैर्वित्तमेति ॥ ६६॥ जीवो यच्छति वेदशास्त्रयजनाचारादिपुत्रैर्द्धनं शुक्रः स्त्रीजनकाच्यनाटककलासङ्गितविद्यादिभिः । दासीदासकृयाजितधनं धन्यं समृद्धि शनि- र्विग्नादिद्युचरेण वीक्षितयुते विप्रादयो वित्तदाः ॥ ६७॥ आयस्थः शुभखेचरः शुभधनं पापस्तु पापार्जितं मित्रैश्रमिश्रधनं समेति भनुजस्तज्जातकोक्तं वदेत् । लाभस्थानगतः समस्तगुणवानिष्टाधिकश्चेद्बली जातो यानविभूषणाम्बरवधूभोगादिविद्याधिकः ॥ ६८॥ वित्तेशायगृहाधिपौ तनुपतेरिष्टग्रहौ चेद्धनं सत्कर्मामराविप्रपुण्यविषये दानादियोग्यं वदेत् । आयस्थो विबलः परार्जतबलो नीचारिदुःस्थानपो रेकायोगकरो यदि प्रतिदिनं कुर्वीत भिक्षाटनम् ॥ ६९॥ लाभेशे दिनपेऽथवा शशधरे भूपालतुल्याश्रयाद् भौमे मन्त्रिजनग्रजानुककृषिद्वारैर्धनं लभ्यते । विद्याबन्धुसुतैः सुधाकरसुते जीवे निजाचारतः शुक्रे रत्नवधूगजादिपशुभिर्मन्दे कुवृत्त्या श्रियम् ॥ ७०॥ लाभस्थानपतौ विलग्नभवनात् केन्द्रत्रिकोणस्थिते लाभे पापसमन्विते तु धनवान् तुङ्गादिराश्यंशके । तत्तत्कारकवर्गतो बलवशाद् योगानुसारं वदेत् तत्तत्खेटदशापहारामये वित्तं वदेत्तद्दिशि ॥ ७१॥ इति लाभभावविचारः । अथ व्ययभवाफलम् । क्रूरग्रहे बलवति व्ययगेऽरिनाशस्थानाधिपे कृषिधनस्थितिनाशकः स्यात् । रिष्फे चतुर्द्विपदभे सह तत्पदेन खेटेन सर्वपशुंभृत्यविनाशमेति ॥ ७५॥ विप्रादिखेचरयुते सति विप्रमुख्यैः स्त्रीवर्गतस्तु तरुणिस्वचरेण युक्ते । रिष्फे नरग्रहयुते रिपुणा सुहृद्भे जातः सुहृज्जनवशाद्भननाशमेति ॥ ७६॥ अथ दानविचारः । त्यागी शुभग्रहयुते कृषकश्च धर्मी पापेऽवसानगृहगे तु विवादशीलः । नेत्रामयः पवनकृच्चपलोऽटनः स्यादुच्चस्वमित्रभवने तु परोपकारी ॥ ७७॥ भानुर्वा कृशशीतगुर्व्ययगतो वित्तस्य नाशं नृपै- र्भौमो नाशयतीन्दुजेक्षितयुतो नानाप्रकारिर्द्धनम् । वागीशेन्दुसिता यदि व्ययगता वित्तस्य संरक्षकाः सौम्यः शुक्रयुतेक्षितो यदि नृणां शव्यासुखं जायते ॥ ७८॥ अथ शयनविचारः । व्ययेशे स्वोच्चराशिस्थे शुभवर्गसमन्विते । शुभखेचरसंदृष्टे पर्यङ्कशयनं वदेत् ॥ ७९॥ विचिन्नमज़्न्चे शयनं व्ययेशे परमोच्चगे । भाग्यनाथेन वा दृष्टे मणिरत्नविभूषितम् ॥ ८०॥ शुक्रे वा रविनन्दने हिमकरे रन्ध्रत्रिकोणस्थिते तद्गेहे शिथिलीभवेन्नृपतनं जातस्य केत्वन्विते ॥ ८१॥ अथ गतिधिचारः । मन्दाहिघ्वजसंयुते तु निघनस्थानाधिपेनान्विते रिष्फे दुर्गतिमेति षष्ठपतिना दृष्टेऽथवा मानवः । जातो याति परं पदं सुरगुरौ लग्ने भृगौ कामगे कन्यस्थे रजनीकरे यदि धनुर्लग्ने च मेषांशके ॥ ८२॥ दुस्थे दुष्तगृहाधिपे बलयुते तद्भावपुष्टीं वदे- दायुःस्यानपतौ तु यत्र विषले तद्भावनाशं तथा । लग्नेषः शुभखेटवीक्षितयुतो यद्भावयातो वल्ली तद्भावस्य शुभं करोति विपुलं नीचारिगस्त्वन्यथां ॥ ८३॥ इति श्रिनवग्रहकृपवा वैद्यनाथविरचिते जातकपारिजातेपञ्चदशो।आध्यायः ॥ १५॥
अथ स्त्रीजातकाध्यायः ॥ १६॥ स्त्रीबलारोग्यसन्तानविद्याकीतिविवर्द्धनम् । तिथिमग्रहसंयुक्तं जातकं ब्रमहे वयम् ॥ १॥ अर्थार्जने सहायः पुरुषाणमापदर्णवे पोतः । यात्राकाले मन्त्री जातकमपहाय नास्यपरः ॥ २॥ श्रीमज्जातलपत्रिका परहितं व्योमाधिवासस्फुटैः पङ्चाङ्गद्युचराष्टवर्गसहितस्थानादिषड्वीर्यजैः । आयुर्गोचरयोगभावजफलैः सार्द्धं दशाचक्रज्ञै- र्दीर्घायुःसुतभर्तृसौख्यविपुलश्रीकीर्तिदा लिख्यते ॥ ३॥ स्त्रीणां जन्मफलं नृयोगमुदितं यत्तत्पतौ योजयेत्- तासां देहशुभाशुभं हिमकराल्लग्नाच्च वीर्याधिकात् । भर्तृईणामगुणं गुणं मदगृहाच्छिद्राच्च तेषां मृतिम् सौम्यासौम्यबलाबलेन सकलं सङ्चिन्त्य सर्वं वदेत् ॥ ४॥ स्त्रीणां जन्मनि लग्नशीतकरयोर्मध्ये बली यस्ततः सम्पद्रूपबलानि तन्नवमतः पुत्रायवृद्धिं वदेत् । सौमङ्गल्यप्रनिष्टमष्टमगृहाद् भर्तृश्रियं सप्तमात् केचिद्भर्तृशुभाशुभं शुभगृहादिच्छन्ति होराविदः ॥ ५॥ वैधव्यं निधनेन लग्नभवनात्तेजो यशः सम्पदः पुत्रं पङ्चमभावतः पतिसुखं कामेन केचिद्विदुः । प्रव्रज्यामपि योषितामतिसुखं धर्मोपयातग्रहैः शेषं भावजयोगजन्यमखिलं नारीनराणां समम् ॥ ६॥ यमे लग्ननिशाकरौ यदि वरस्त्री रूपशिलान्विता सौम्यालोकितसंयुतौ गुणवती साध्वी च सम्पद्युता । ओजर्क्षे पुरुषाकृतिश्च चपला पुंश्चेष्टित पापिनी पापव्योमचरेण वीक्षितयुतौ जाता दुराचारिणी ॥ ७॥ लग्नेन्दू विपमर्क्षगौ शुभयुतौ सौम्यग्रहालोकितौ नारी मिश्रगुणाकृतिः स्थितिगतिप्रक्षावती जायते । युग्मागारगतौ तु पापसहितौ पापेक्षितौ वा तथा तद्राशीशयुतेक्षकग्रहबलादाहुः समस्तं विदः ॥ ८॥ ओजे विलग्ने पुरुषैर्बलिष्ठैर्बलान्वितैश्चन्द्रबुधासुरेज्यैः । सामान्यशक्तौ सति सूर्यपुत्रे जाता हि तस्था बहवो धवाः स्युः ॥ ९॥ युग्मे विलग्ने कुजसौम्यजीवशुक्रैर्बकिष्ठैः खलु जातकन्या । विख्यातनाम्नी सकलार्थतत्त्वबुद्धिप्रसिद्धा भवतीह साध्वी ॥ १०॥ सौरे मध्यबले बलेन अहितैः शीतांशुशुक्रेन्दुजैः शेषैर्वीर्यसमन्वितैः पुरुषीणी यद्योजराश्युद्रमे । जीवारास्फुजिदैन्दवेषु बलिषु प्राग्लग्नराशौ समे विख्याताखिलशास्त्रयुक्तिकुशला स्त्री ब्रह्मवादिन्यपि ॥ ११॥ अथ त्रिंशामशफलम् । लग्ने भौमगृहं गते शशिनि वा वीर्याधिके भूसुते त्रिंशांशप्रभवाऽबला यदि दुराचारप्रयुक्ता भवेत् । प्रेष्या भानुसुतांशके गुणवती साध्वी च जीवांशके सौम्यांशे मलिना सितांशजवधूर्जारव्रताचारिणी ॥ १२॥ लग्ने भार्गवराशिगे कलहकृद् दुष्टा कुजस्यांशके साध्वी पुत्रवती पुरन्दरगुरोरंशे पुनर्भूः शनेः । सौम्यस्यांशसमुद्भवाऽखिलकलासङ्गीतवाद्यप्रिया शुक्रांशे बुधवल्लभा च सुभगा लोकप्रिया जायते ॥ १३॥ त्रिंशांशेऽवनिजस्य बोधनगृहे लग्ने तु पुत्रान्विता मन्दांशे विधवाऽथवा मृतसुता क्लीबाकृतिस्थाऽसनी । जैवे भर्तृपरा बुधस्य तरुणी विख्याततेजस्विनी शौक्रे चारुतराम्बराभरणगोवित्तप्रसिद्धा भवेत् ॥ १४॥ लग्ने चन्द्रगृहं गते बलवति क्षोणिसुतस्यांशके जाता जारविनोदशीलरसिका पापेक्षिते शीतगौ । विश्वस्ता रवीजस्य निर्जजरगुरोरल्पायुरल्पात्मजा बौधे शिल्पकलावती भृगुसुतत्रिंशांशके कामुकी ॥ १५॥ भानुक्षेत्रगते तनौ शशिनि वा भूनन्दनस्यांशके नारी पुम्प्रकृतिस्थिता च कुलटा मन्दांशके दुःखिता । जीवांशे नृपवल्लभा गुणवती सौम्यस्य पुंश्चेष्टिता दुष्टा चासुरवन्दितस्य कुपतिस्नेहान्विता रोगिणी ॥ १६॥ वागीशस्य गृहोदये वसुमतीपुत्रस्य भागोद्भवा विख्याता परिवारिणी रविसुतस्यांशे दरिद्रा भवेत् । जीवांशे धनवस्त्रभूषणवती सौम्यस्य सम्पूजिता साध्वी दानवमन्त्रिणः सुतवती सद्वस्त्रभूषान्विता ॥ १७॥ लग्ने मन्दगृहे बलिन्यवनिजत्रिंशांशके शोकिनी मन्दांशे सति दुर्भगा निजकुलाचारानुरक्ता गुरोः । सर्वज्ञा कुलटा बुधांशजनिता शुक्रस्य बन्ध्या सती लग्नेन्दुस्फुटयोगतस्तु सकलत्रिंशांशजं वा वदेत् ॥ १८॥ आग्नेयैर्विधवाऽस्तराशिसहितैर्मिश्रैः पुनर्भूर्भवेत् क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्येक्षिते प्रोज्भिता । अन्योन्यांशकयोः सितावनिजयोरन्यप्रसक्ताङ्गना द्यूने वा यदि शीतरश्मिसहिते भर्तुस्तदाऽनुज्ञया ॥ १९॥ स्वैरिणी चा पति स्यक्त्वा सर्वणं कामतः श्रयेत् । अक्षतं च प्रजाद्वारं पुनर्भूः संस्कृता पुनः ॥ २०॥ सौरार्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्धं पुंश्चली पापदृष्टे । कौजे स्वांशे सौरिणा व्याधियोनिश्चारुश्रोणी वल्लभा सद्ग्रहांशे ॥ २१॥ बलहीनेऽस्तगे पापे सौम्यग्रहनिरीक्षिते । पत्या विसृजते नारी नीचारिस्थे च वैरिणी ॥ २२॥ उत्सृष्टा मदनस्थिते दिनकरे शत्रुग्रहालोकिते। अविश्वस्ताऽवनिजे वधूरमणयोरन्योन्यवैरं तु वा । सौम्यासौम्ययुते कलत्रभवने जाता पुनर्भूः शनौ कामस्थे रिपुवीक्षिते त्वविधवा जाता जरां गच्छति ॥ २३॥ पापर्क्षे मदनस्थिते शनियुते वैधव्यमेत्यङ्गना जारासक्तविलासिनी सितकुजावन्योन्यराश्यंशगौ । चन्द्रे कामगृहं गते तु पतिना सार्द्धं दुराचारिणी मन्दारर्क्षविलग्नौ शशिसितौ बन्ध्या सुतस्थे खले ॥ २४॥ कलत्रराश्यांशगते महीजे मन्देक्षिते दुर्भगमेति कन्या । कलत्रांशके सौम्यदृशा समेते कलत्रराशौ पतिवल्लभा स्यात् ॥ २५॥ भौमागारविलग्नगौ शशिसितौ नारी पतिद्वेषिणी चन्द्रज्ञौ परतत्त्ववादचतुरा भौमेन्दुजौ भोगिनी । चन्द्रज्ञासुरवन्दिता यदि सुखद्रव्यान्विता लग्नगा वागीशो यदि लग्नगः सुतनया प्रज्ञाविभूषान्विता ॥ २६॥ तुङ्गथा गगनाटनाः शुभकरा रन्ध्रे सपापे वधू- र्वैधव्यं समुपैति पापभवने पापग्रहालोकिते । रन्ध्रेशांशपतौ खले च विधवा निसंशयो भामिनी सौम्यै रन्ध्रगतैः समेति तरुणी प्रागेव मृत्यु पतेः ॥ २७॥ भग्यास्थाः शुभखेचराः स्मरगते पापेऽष्टमस्थेऽथवा भर्तृश्रीबहुपुत्रसौख्यविभवैः सार्द्ध चिरं जीवति । क्रूरैर्बन्धुगृहोपगैर्बहुसुतप्राप्ता भवत्यङ्गना चापे वा कटकोदये पतिसुतप्राप्ता दरिद्रान्विता ॥ २८॥ गोसिंहालिवधूदये सुतगते चन्द्रेऽल्पपुत्रान्विता पापिरस्तशुभोदयाष्टमगतैर्दारिद्रयशोकाकुला । सौम्यासौम्ययुतैश्च मिश्रफलिनी सौम्यैः शुभश्रीयुता पुत्रेशेऽरिगते लग्नौ रिपुपतौ शस्त्रेण मृत्युर्भवेत् ॥ २९॥ करग्रहैरस्तगतैः समस्तैर्विलग्नराशेर्विधवा भवेत्सा । मिश्रैः पुनर्भूरिह जातकन्या पत्युज्भिता हीनबलैरसद्भिः ॥ ३०॥ स्त्रीजन्मलग्नान्मदगे शशाङ्के शुक्रारयुक्ते यदि जातकन्या । सा पत्यनुज्ञापरगामिनी स्यात्सौरारभांशोपगते तथैव ॥ ३१॥ सौरारभांशोपगतग्रहेषु शुक्रेन्दुयुक्तेश्वशुभेक्षितेषु । जाता कुलाचारगुणैर्विहीना मात्रा च साकं व्यभिचारिणी स्यात् ॥ ३२॥ क्षितितनयनवांशे लग्नतः सप्तमस्थे दिनकरबुधदृईष्टे व्याधियोनिः प्रजाता । शुभकरनवभागे सप्तमस्थानसंस्थे सुभगसुतवती सा चान्यथा दुर्भगा स्यात् ॥ ३३॥ कामासक्तमनस्विनी च विधवा पापद्वये सप्तमे पश्चार्खामिवधं करोति कुलटा पापत्रये चास्तगे । राजामात्यवराङ्गना यदि शुभे कामं गते कन्यका मारस्थे तु शुभत्रये गुणवती राज्ञी भवेद् भूपतेः ॥ ३४॥ अन्योन्यांशगतौ सितार्कतनयावन्योन्यदृईष्टौ तु वा कुम्भे चाष्टमभागजातवनिता कामाग्नितप्ता भवेत् । वैधव्यं समुपैति चन्द्रभवनात् क्रूरे मदस्थानगे चन्द्रादस्तगृहोपगः शुभकरो राज्यापदं यच्छति ॥ ३५॥ स्त्रीजन्मलग्ने शशिशुक्रयुक्ते कोपान्विता सा सुखभागिनी स्यात् । सर्वत्र चन्द्रे सति तत्र जाता सुखान्विता वीतरतिप्रिया स्यात् ॥ ३६॥ शुक्रेन्दुभे रूपगुणाभिरामा कलावती जीवबुधोदये तु । लग्नस्थिता जीवबुधासुरेज्या जाताङ्गना सर्वगुणप्रसिद्धा ॥ ३७॥ वाचस्पतौ नवमपङ्चमकेन्द्रसंस्थे तुङ्गादिके भवति शीलसमन्विता च । साध्वी सुपुत्रजननी सुखिनी गुणाढ्यां नूनं कुलद्वययशत्करिणी भवेत्सा ॥ ३८॥ यदि शुभकरदृष्टा शिल्पिनी शुद्धचित्ता सततमिह सलज्जा चारुमूतिः सुपुत्रा । बहुधनशुभयुक्ता वल्लभे व्रजति शुभशतानां भाजनत्वं च होरा ॥ ३९॥ चन्द्रे कर्कटकोदये च बलिभिः शुक्रज्ञजीवेन्दुभि- र्नानाशास्त्रकलारसज्ञचतुरा विख्याततेजखिनी । कामस्थैरथवा विलग्नभवनाद्धर्मस्थितैः खेचरैः प्रव्रज्याभुपयाति जन्मसमये पाणिग्रहे चिन्तयेत् ॥ ४०॥ पापेऽस्ते नवमगतग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन । उद्वाहे वरणविधौ प्रदानकाले चिन्तायामपि सकलं विधेयमेतन् ॥ ४१॥ जन्मन्युद्धाहकाले च चिन्तायां वरणे तथा । स्त्रीणां चिन्ता बुधेनोक्ता घटते तत्पतिष्वपि ॥ ४२॥ क्रूरेऽष्टमे विधवता निधनेश्वरांशे यस्य स्थिते वयसि तस्य समे प्रदिष्टा । सत्स्वर्थगेषु मरणं स्वयमेव तस्याः कन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ ॥ ४३॥ रन्ध्रे मिश्रबले शुभाशुभखगैरालोकिते वा युते दम्पत्यो समकालमृत्युमखिलज्योतिर्विदः संविदुः । एकस्थौ मदलग्नपौ यदि वा लग्नस्थिते कामपे कामस्थे तनुपे शुभग्रहयुते मृत्युस्तयेस्तुल्यतः ॥ ४४॥ सत्स्वर्थगेषु स्वयमेव सा स्त्री विपद्यते तत्परिपाककाले । रन्ध्रस्थतन्नाथतदंशपानां दशापहारे मृतिमाहुरार्याः ॥ ४५॥ सहजभवननाथे पुङ्ग्रहे पुङ्ग्रहर्क्षे पुरुषस्वचरयुक्ते पुङ्ग्रहालोकिते वा । नय्नभवनकेन्द्रे कोणगे वा बलिष्टे बहुधनसुखवन्तं सोद्रं याति जाता ॥ ४६॥ सहोदरस्थानपलाभनाथौ विलग्नतः पङ्चमराशियातौ । नृपालतेजोगुणरूपवन्तं सहोदरं जातवधूः समेति ॥ ४७॥ अथ् पतिलक्षणम् । यस्या मन्मथमन्दिरे गतबले शून्ये खलालोकिते सौम्यव्योमनिवासदृष्टिरहिते भर्ता नरः को भवेत् । क्लीबः स्यान् पतिरस्तगे शशिसुते सार्कात्मजे दुर्भगा बन्ध्या वा तरुणी चरे मदगृहे नित्यं प्रवासान्वितः ॥ ४८॥ स्वांशे भास्वति कामगे मृदुरतिक्रीडाविनोदी पति- श्चन्द्रे सौख्यमुपैति भूमितनये जारे वधूतत्परः । विद्वान् चन्द्रसुते जितेन्द्रियवरो जीवे मदस्थानगे शुक्रे कान्तवपुः सुखी च रविजे वृद्धोऽतिमूर्खो भवेत् ॥ ४९॥ स्थान्मार्दवाङ्गो गुणवान्प्रगल्भो जामित्रराश्य्ंशकजा तु थाऽस्याः । सौरेऽस्तगे स्वांशगृहोपयाते वृद्धोऽतिमूर्खः पतिरेव तस्याः ॥ ५०॥ दुःस्थौ धर्मगृहेशदेशदेसचिवौ भर्ता गतायुर्भवेद् दीर्घायुर्धनवांस्त्रिकोणगृहगौ केन्द्रस्थितौ वा यदि । विद्वान् बोधनवाहनेशसहितौ सारार्कजौ कर्षकः स्वर्भानुध्वजसंयुतौ यदि खलः सारीश्ररश्चोरराट् ॥ ५१॥ गौराङ्गः पतिरस्तगे दिनकरे कामी सरोषेक्षण- श्चन्द्रे रूपगुणान्वितः कृशतनुर्भोगी रुगार्तो भवेत् । नम्रः क्रूररसोऽलसः पटुवचाः संरक्तकान्तिः कुजे विद्यावित्तगुणप्रपङ्चरैकः सौम्ये मदस्थानगे ॥ ५२॥ दीर्घायुर्नृपतुल्यवित्तविभवः कामी च बाल्ये गुरौ कान्तो नित्यविनोदकेलिचतुरः काव्ये कविः श्मापतिः । मन्दे वृद्धकलेवरोऽस्थिरतनुः पापी पतिः कामगे राहौ वा शिखिनि स्थिते मलिनधीर्नीचोऽथवा तत्समः ॥ ५३॥ दिग्देशस्थितिधर्मकर्मजगुणाः पङ्चातके योषितां ये नारीजनजातके निजपतौ संयोजितास्तत्वतः । द्युणांशोपगतग्रहेषु बलवत्खेटांशतुल्याः सुताः केन्द्रे कामपतिः करोति विपुलं कल्याणकालोत्सवम् ॥ ५४॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते षोडशोऽध्यायः ॥ १६॥
अथ कालचक्रदशाध्यायः ॥ १७॥ प्रणम्य परमात्मानं शिवं परमकारणम् । खेचरं चक्रमध्यस्थं चतुःषष्टिकलात्मकम् ॥ १॥ पप्रच्छ देवदेवेशमीश्चरं सर्वमङ्गला । कालचक्रगतिं सर्वां विस्तराद्वद मे प्रभो ॥ २॥ इश्वर उवाच । अहमादित्यरूपोऽस्मि चन्द्रमास्त्वं प्रचक्षसे । संयोगेन वियोगेन जगत्स्थावरजङ्गमम् ॥ ३॥ पङ्च प्राचीरालिखेद्वाणसङ्गयास्तिर्यग्नेखा वर्जतान्तश्चतुष्काः । प्रागादीशा द्वादश व्योमवासा ज्योतिश्चक्रस्वामिनस्तूबराद्याः ॥ ४॥ धराजशुक्रज्ञशशीनसौम्यसितारजीवार्कजमन्दजीवाः । क्रमेण मेषादिकराशिनाथास्तदंशपाश्चेति वदन्ति सन्तः ॥ ५॥ भूतैकविंशद्रिरयो नवदिक्षोडशाब्धयः । सूर्यादीनां क्रमादब्दा राशीनां स्वामिनो वशात् ॥ ६॥ अश्वीपुनर्वसूहस्तमूलप्रोष्ठपदादिषु । अंशकान् गणयेन्मेषात्प्रादक्षिण्यक्रमं वदेत् ॥ ७॥ रोहिणीमघवैशाखवैष्णवादिषु भेषु च । अंशकान् वृश्चिकादीनां गणयेदपसव्यतः ॥ ८॥ दक्षिणाभिकनक्षत्रं द्वादशांशकराशिषु । चक्रं प्रदक्षिणिकृत्य मीनान्ते विन्यसेत्पुनः ॥ ९॥ उत्तरात्रयनक्षत्रं वृश्चिकाद्यप्रदक्षिणम् । कृत्वा चापान्तकेऽन्यस्मिज्ज्ञातव्ये दक्षिणोत्तरे ॥ १०॥ सव्यापसव्यमार्गेण चाश्च्विन्यादि त्रिकं त्रिकम् । देहादि गणयेत्सव्ये वामे जीवादि गण्यते ॥ ११॥ मेषगोयमकुलीरमन्दीरेष्वंशकेषु परमायुच्यते । ज्ञानकं मदगजास्तदा क्रमात्तत्र कोणभवनेषु तद्वदेत् ॥ १२॥ एवमायुः परिज्ञानं देहजीवौ प्रकल्प्य च । सव्ये तु प्रथमांशस्तु देह इत्यभिधीयते ॥ १३॥ जीवः सर्वेष्वन्त्यपादौ विलोममपसव्यके । देहजीवे यदा राहुः केतुभौमो रविः स्थितः ॥ १४॥ तदा तस्मिन्भवेन्मृत्यु रोगः प्रवर्तते । देहजीवगृहं यातः सौम्यो जीवश्च भार्गवः ॥ १५॥ सुखसम्पत्करं सर्वं शोकरोगविनाशनम् । मिश्रखेचरसंयुक्ते मिश्रं फलमवाप्नुयात् ॥ १६॥ सिंहावलोकसमये मण्डुकगतिसम्भवे । अपमृत्युभयं तस्मिन् प्रायश्चित्ताद्विमुच्यते ॥ १७॥ मीनात्त वृश्चिके यते ज्वरं भवति देहिनाम् । पाथोनात्कर्कटे याते मातृबन्धुवधूमृतिः ॥ १८॥ कर्कटात्तु हरौ याते व्रणरोगं वदेद् बुधः । सिंहात्तु मिथुनं याते स्वस्त्रीव्याधिर्मृतिर्भवेत् ॥ १९॥ पुत्रबन्धुमृं विद्याच्चापान्मेषं गते पुनः । शुभग्रहेऽस्त्मिन्नभयं पापग्रहयुते भयम् ॥ २०॥ कन्यायाः कर्कटे याते पूर्वभागे महान्भवेत् । उत्तरां दिशमाश्रित्य शुभयात्रां गमिष्यति ॥ २१॥ सिंहात्तु मिथुनं याते पूर्वभागं विवर्जयेत् । कार्यारम्भे तु नैर्कृत्यां सुखयात्रां गमिष्यति ॥ २२॥ कर्कटादक्षिणे सिंहे कार्यहानिश्च रोगकृत् । दक्षिणां दिशमाश्रित्य पञ्चदागमनं भवेत् ॥ २३॥ मीनास्तुवृश्चिके क्रान्ते उदग्गच्छति सङ्कटम् । चापान्मेषे भयं यात्रा व्याधिर्बन्धुमृतिर्भवेत् ॥ २४॥ तत्र सम्पद्विवाहादि शुभं भवति पश्चिमे । शुभारूढे नृपप्रीतिं सर्वसम्पत्करं नृणाम् ॥ २५॥ देहो मेषश्चापसिंहाजभानां जीवश्चापी गोवधूनक्रमानाम् । आकोकेरो देहसंज्ञो नृयुग्मम् जीवः सव्ये चापसव्ये विलोमात् ॥ २६॥ उक्षा देहो युग्मकोणं गतानां जीवं युग्मागारमाहुर्मुनीन्द्राः । मीनो जीवः कर्कटो देहराशिः सव्ये चक्रे कर्किकीतान्त्यभानाम् ॥ २७॥ देहजीवसमायुक्तैर्भौमार्किरविभोगिभिः । एकैकयोगे मरणं बहुयोगे न संशयः ॥ २८॥ देहयुक्ते महारोगं जीवयुक्ते महद्भयम् । द्वाम्यां संयोगमात्रेण इन्यते नात्र संशयः ॥ २९॥ अदिरोगो भवेद् द्वाम्यामपमृत्युस्त्रिभिर्भवेत् । चतुर्भिमृतिरापन्ना देहजीवे भवेद्यदि ॥ ३०॥ युगपदेहजीवौ तु पापग्रहयुतौ तथा । राजचोरादिभीतिश्च द्वाभ्यां मृत्युर्न संशयः ॥ ३१॥ अग्निबाघां रवौ विद्याच्चन्द्रे ज्वलनबाघनम् भौमे शस्त्रकृता पीडा वायुबाधाकरं बुधे ॥ ३२॥ गुरौ चोदरबाघा स्यात् शुक्रेऽग्निभयमाप्नुयात् । शनौ गुल्मेन बाधा स्याद् राहौ विषकृतां रुजम् ॥ ३३॥ भ्रातृस्थानगतो जीवो दारस्थानगतः कुजः । तथा जन्मगतो मन्दो राहुर्नवमराशिगः ॥ ३४॥ चन्द्रोऽष्टमगृहं यातः सूर्यो रिष्फगृहं गतः । बुधः सप्तमभावस्थो भार्गवः शत्रुराशिगः ॥ ३५॥ इत्येवं मरणस्थानं तस्मिन्पापयुतेऽथवा । पापदृष्टेऽरिनीचस्थे दुर्बले दुःखमाप्नुयात् ॥ ३६॥ अथ देहजीवफलम् । भानुः करोति विविधापदमर्थनाशमातिज्वरारिजनभीतिपदच्युतिं च । पित्तारिगुल्मग्रहणीक्षयकर्णरोगं पश्चादिबन्धुमरणं सह्जादिनाशम् ॥ ३७॥ इति सूर्यफलम् । चन्द्रः स्वबन्धुनजसङ्गमकन्यकाप्तिमारोग्यभूषणसुखाम्बरराजपूज्यम् । दानक्रियादिसुरभूसुरपुण्यतीर्थस्नानार्चनं मृदुसुखान्नसुखं करोति ॥ ३८॥ इति चन्द्रफलम् । भौमः करोति तनुतापरुगग्निचोरभीतिं स्वबन्धुकलं सहजादिनाशम् । क्षेत्रार्थनाशपदविच्युतियुद्धनीतिं गुल्मार्शकुष्ठविषशत्रुभयं कुवृत्तिम् ॥ ३९॥ स्वरमासुरिकापैत्त्यं ग्रन्थिस्फोटं कुजस्य च । विषाग्निनशस्त्रचोरारिनृपभीतिं वदेद् बुधः ॥ ४०॥ इति भौमफलम् । सौम्यः करोति सुहृदाप्तमहत्प्रसादविज्ञानशीलनिगमागमशास्त्रबोघम् । स्त्रीपुत्रदारनृपभूषणगोगजाश्चलाभं विवेकधनबुद्धियशोऽभिवृद्धिम् ॥ ४१॥ इति बुधफलम् । जीवः विविधार्थसुखं महत्त्वं राज्याभिषेकमवनिप्रभुपूजनाद्यम् । स्त्रीपुत्रलाभसुखभूषणभोजनार्थमारोग्यकीर्तिविजयं च परोपकारम् ॥ ४२॥ इति गुरुफलम् । शुक्रः करोति रतिलाभसुखाङ्गनादिचित्राम्बरार्थपशुवाहनरत्नजालम् । गानक्रियानटनगोष्ठिमहत्प्रतापं सत्कीर्तिदानविभवं सुजनैः समाजम् ॥ ४३॥ इति शुक्रफलम् । मन्दः करोति कलहं तनुकृच्छ्नमृत्युबन्ध्वातिमग्निरिपुभूतभयं विघातिम् । मानार्थहानिमभिमानकलत्रपुत्रनाशं गृहार्थकृषिवाणिजगोविनाशम् ॥ ४४॥ इति शशिफलम् । राहौ देहेऽरिपीडाऽत्मबन्धुकष्टपरिभ्रमम् । पक्षाघातादिपीडां च राजभीतिं वदेन्नृणाम् ॥ ४५॥ इति राहुफलम् । केतौ चोराग्निपीडादिरक्तस्त्रावादिपीडनम् । दारिद्रयं बन्धुनाशं च स्थाननाशं धनक्षयम् ॥ ४६॥ इति केतुफलम् । अथ चक्रदशाफलम् । लग्नचक्रदशाकाले देहारोग्यं महत्सुखम् । कीतिभूषणराज्यार्थसुतदाराम्बरायतिम् ॥ ४७॥ शुभक्षेत्रे शुभं सर्वं पापर्क्षे फलमन्यथा । तद्वत्पापसमायुक्ते शुभयुक्ते शुभादिकम् ॥ ४८॥ स्वक्षेत्रतुङ्गमित्रस्थखेचरेण सम्न्विते । विलग्नचक्रपाके तु राज्यार्थनृपपूजनम् ॥ ४९॥ नीचमूढारिराशिस्थखेचरेण समन्विते । पुत्रदारादिनाशं च मिश्रे मिश्रफलं वदेत् ॥ ५०॥ इति लग्नफलम् । द्वितीयराशिचक्रे तु धनधान्यविवर्धनम् । भोजनं सुतदाराप्तिं क्षेत्रगोनृपपूजनम् ॥ ५१॥ विद्याप्तिं वक्पटुत्वं च सद्गोष्ठया कालयापनम् । शुभर्क्षे फलमेवं स्यात्पापर्क्षे फलमन्यथा ॥ ५२॥ इति द्वितीयफलम् । तृतीयराशिचक्रस्य परिपाके महत्सुखम् । भक्ष्यभोज्यफलाप्तिं च शौर्यं धैर्य मनोजयम् ॥ ५३॥ कर्णाभणरवस्त्राप्तिं कण्ठभूषणमायतिम् । अन्नपानादिसम्पत्तिं शुभराशौ शुभं वदेत् ॥ ५४॥ इति तृतीयफलम् । वतुर्थराशिचक्रस्य पाके वाहनभूषणम् । सीमाप्ति तीर्थयात्रादिमहज्जननिषेवणम् ॥ ५५॥ चित्तशुद्धिं महोत्साहं स्त्रीसुनाप्तिं कृषिक्रियाम् । बन्धुक्षेत्राभिवृद्धिं च गृहलाभं महत्सुखम् ॥ ५६॥ आरोग्यमर्थलाभं च सुगन्धाम्बरभूषणम् । शुभर्क्षे शोभनं विद्यात्पापर्क्षे सर्वनाशनम् ॥ ५७॥ इति चतुर्थफलम् । सौतिराश्यत्मके चक्रे राज्याप्तिं राजपूजनम् । स्त्रीसुताप्तिं महाधैर्यमारोग्यं बन्धुपोषणम् ॥ ५८॥ अग्नदानं यशोलाभमानन्दाब्धिमहोदयम् । उपकर्तृत्वमर्थाप्तिं वाहनाम्बरभूषणम् ॥ ५९॥ शुभपापर्क्षजं सर्वं ग्रहयोगादिसम्भवम् । पूर्ववद्योजयोत्तत्र चरराशौ वदेद् द्युतिम् ॥ ६०॥ इति सुतफलम् । चक्रस्य षष्ठ्राशेस्तु पारिपाकेऽग्निजं भयम् । चोरारिविषभूपार्तिस्थाननाशं महद्भयम् ॥ ६१॥ प्रमेहगुल्मपाण्ड्वादिग्रहणिक्षयसम्भवम् । अपकीर्तिः कलत्रार्थे सुतब्न्धुविनाशनम् ॥ ६२॥ बन्धनानि गरप्राप्तिमृणदारिद्रयपीडनम् । पापर्क्षे फलमेवं स्यान्मिश्रं शुभगृहे सति ॥ ६३॥ इति षष्ठफलम् । कलत्रराशिचक्रस्य परिपाके करग्रहः । स्त्रीसुखं पुत्रलाभं च घतसूपगुडादिकम् ॥ ६४॥ कृषिगोगजभूषाप्तिं राजपूजां महद्यशः । शुभराशौ फलं सत्यं शुभखेचरसंयुते ॥ ६५॥ इति सप्तमफलम् । मृत्युर्चक्रदशाकाले महद् दुःखं धनक्षयम् । स्थाननाशं बन्धुनाशं गुह्योदरनिपीडनम् ॥ ६६॥ दारिद्रयमग्नविद्वेषमन्नाभावमरेर्भयम् । पापर्क्षे पापसंयोगे फलमेवं विनिर्दिशेत् ॥ ६७॥ इत्यष्टमफलम् । शुभचक्रदशाकाले शोभनं भवति ध्रुवम् । पुत्रमित्रकलत्रार्थकृषिगोगृहभूषणम् ॥ ६८॥ सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् । शुभराशौ शुभं सर्वं पापराशौ विपर्ययः ॥ ६९॥ इति नवमफलम् । कर्मचक्रदशाकाले राज्याप्तिं नृपपूजनम् । सत्कीतिदारपुत्रात्मबन्धुसङ्गं महोत्सवम् ॥ ७०॥ आज्ञाधरत्वमारोग्यं सद्गोष्ठया कालयापनम् । सत्कर्मफलमैश्वयर्यं शुभराशौ वदेद् बुधः ॥ ७१॥ इति दशमफलम् । लाभचक्रदशाकाले धनाप्यारोग्यभूषणम् । विचित्रवस्त्वागमनं गृहोपकरणं लभेत् ॥ ७२॥ स्त्रीपुत्रबन्धुसौख्याप्तिमृणद्रव्यायति शुभम् । राजप्रिति महत्सङ्गं परवदन्ति शुभोदये ॥ ७३॥ इति लाभफलम् । व्ययच्क्रदशाकाले देहातिं स्वपदच्युतिम् । चोराग्निनृपकोपादिबन्धुत्रीनृपपीडनम् ॥ ७४॥ उद्योगभङ्गमालस्यं कृषिगोभूमिनाशनम् । दारिद्र्यं कर्मवैकल्यं पापर्क्षे तु न संशयः ॥ ७५॥ इति व्ययफलम् । अथ चक्रदशाफलेषु विशेषः । लग्नादिद्वादशान्तानां भावानां फलमीदृशम् । प्रोक्तमत्र विशेषोऽस्ति विशेषात्कथ्यतेऽधुना ॥ ७६॥ तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् । राशीश्वरे बलयुते स्वोच्चमित्रस्ववर्गके ॥ ७७॥ मित्रान्विते शुभैर्दृष्टे यत्प्रोक्तं तच्छुभं वदेत् । बलहीनेऽरिनीचस्थे दिनेशकरपीडिते ॥ ७८॥ षष्ठाष्टम्व्ययस्थाने पापशत्रुनिरीक्षिते । तद्राशिपे तु जनने कष्टं राश्युद्भवं फलम् ॥ ७९॥ फलं तद्विगुणं कष्टं शुभं राश्युद्भवं फलम् । अधिपस्य बलं हीनं यदि चानर्थमाप्नुयात् ॥ ८०॥ अधिपस्य बलाधिक्यं राश्युद्भवफलं शुभम् । यदि चेद् द्विगुणं सौम्यं फलत्येव न संशयः ॥ ८१॥ अधिपे चरराशिस्थे चरराश्यंशकेऽपि वा । चररायुद्भवं चक्रं विदेशगमनप्रदम् ॥ ८२॥ यावच्चक्रं तदा ज्ञेयं यद्येकस्मिन् चरे सति । विदेशगमनं वाऽपि स्वस्थानाप्तिं विनिर्दिशेत् ॥ ८३॥ संग्याव्याये च यत्प्रोक्तं कर्माजीवे च यत्फलम् । फलमाश्रयजं यद्यस्त्गनजन्यं च यत्फलम् ॥ ८४॥ यत्प्रोक्तं राजयोगादौ चान्द्रयोगे च यत्फलम् । नाभसादिषु यत्प्रोक्तं शुभपापेक्षणादपि ॥ ८५॥ द्विग्रहादिषु यत्प्रोक्तं ग्रहाणां पूर्वसूरिभिः । तद्राशिचक्रकाले तु स्वधिया योगयेद् बुधः ॥ ८६॥ मेषादिराशिचक्रं तु भूभागे न्यस्य दक्षिणम् । अल्यादि ह्यैत्तरं यश्च तच्चक्रं तत्र निर्दिशेत् ॥ ८७॥ फलं वा विफलं वाऽपि प्रागादिद्युचरादधः । राशिदिग्भागतो वाऽपि तदिग्भागे विनिर्दिशेत् ॥ ८८॥ यथोपदेशमार्गेण सर्वेषां फलमीदृशम् ॥ १/२॥ अथ त्रिविधकालचक्रगतिः । कालचक्रगतिस्त्रेधा निश्चिता पूर्वसूरिभिः ॥ ८९॥ मण्डूकगमनं चैव पृष्ट्ःअतो गमनं तथा । सिंहावलोकनं नाम पुनण्गमनं भवेत् ॥ ९०॥ पृष्ठतो गमनं चैव कर्किकेसरिणोरपि । मीनवृश्चिकयोश्चाप्मेषयोः केसरी गतिः ॥ ९१॥ कन्याकर्कटयोः सिंहयुग्मयोर्मण्डुकी गतिः ॥ १/२॥ सिंहावलोकसमये त्वरातिस्थाननाशनम् ॥ ९२॥ बन्धुस्नेहादिनाशं च समानजनपीडनम् । जले वा पतनं कूपे पिषशस्त्राग्निजं भयम् ॥ ९३॥ बाहनात्पतनं वाऽपि दशाच्छिद्रान्विते सति । क्रूरास्तनीचापचयखेचरस्य दशा यदि ॥ ९४॥ दशाच्छिद्रमिति ज्ञेयं प्रवदन्ति विपश्चितः ॥ १/२॥ मण्डूकगतिसम्भुतसमये मरणं गुरोः ॥ ९५॥ पित्रोर्वा विषशस्त्राग्निज्वरचोराग्निभिभयम् । मण्डूकसमये सव्ये समानजनपीडनम् ॥ ९६॥ केसरीयुग्ममण्डूके मातुर्मरणमादिशेत् मरणं राजभीतिं च सन्निपातमरेर्भयम् ॥ ९७॥ सव्ये सिंहावलोके तु चतुष्पाद्भयमग्निजम् । पृष्ठतो गमतो सव्ये धनधान्यपशुक्षयः ॥ ९८॥ पितुर्मरणमास्यं तत्समानेषु वा मृतिः । मण्डूकगमने वामे श्रीसुतातिपरिश्रमम् ॥ ९९॥ पापज्वरं मृगाद् भीतिं पदच्युतिमरेर्भयम् । सिंहावलोकने वामे स्थानभ्रंशः पितुर्मृतिः ॥ १००॥ पृष्ठतो गमने वाऽपि जलभीतिं पदच्युतिम् । पितुर्नाशं नृपक्रोधं दुर्गारण्याटमं वदेत् ॥ १०१॥ अथ कालचक्रदशाप्रकारः । दस्त्रानलादितिभुजङ्गदिनेशभानां पूषासुंराजपदविश्वसमीरणानाम् । वाक्यानि सव्यगतिचक्रभवादिकानि चत्वारि सर्वमुनयः प्रवदन्ति तज्ज्ञाः ॥ १०२॥ चित्राहिर्बुघ्न्यभरणीपूर्वाषादेन्द्रमन्त्रिणाम् । सव्यचक्रान्त्यवाक्यानि चत्वारि क्रमशो विदुः ॥ १०३॥ द्विदैवकमलागारपितृदानववैरिणाम् । अप्सव्यस्य चक्रस्य वाक्यं चादिचतुष्टयम् ॥ १०४॥ जलेशमित्रेन्द्रमृगश्रविष्ठाभगार्यमाशङ्करतारकाणाम् । अन्त्यानि वाक्यान्यपसव्यजानि चत्वारि चक्रो॥।तनि चाहुः ॥ १०५॥ अथ सव्यचक्रवाक्यानि । पौरङ्गावोमातासहोधी ॥ १॥ नक्षत्रदासीचर्वणगः ॥ २॥ रूपोत्रक्षुनिघायरङ्गम् ॥ ३॥ वाणी चस्थन्दधिनक्षत्रम् ॥ ४॥ हंसश्चवशांबरपत्रम् ॥ ५॥ क्षन्नाधीकरगोभीमाच ॥ ६॥ सुदधिनक्षत्रजः सितः ॥ ७॥ वामाङ्गारकोत्रक्षु नधिः ॥ ८॥ अथापसव्यचक्रवाक्यानि । धनक्षेत्रपराङ्गमिव ॥ १॥ तासादत्रक्षुर्निधिर्हासा ॥ २॥ चर्मीभोगीरायधनर्क्षम् ॥ ३॥ त्रयोरागीमाभेतासह ॥ ४॥ त्रक्षुनिदिर्हासस्तमेव ॥ ५॥ गिरायुधनक्षत्रपरः ॥ ६॥ गोमावाचीसदात्रिक्षुन्ने ॥ ६॥ धीजः सितोभिवाङ्गारिका ॥ *॥ अथ कालचक्रदशावर्षाणि । भूतैकविंशद्रिरयो नवदिक्षोडशाब्धयः । सूर्यादीनां क्रमादब्दा राशीनां स्वामिनो वशात् ॥ १०६॥ अथान्तर्दशाप्रकारः । दशां दशान्दैः सङ्गण्य सर्वायुः संख्यया हरेत् । लब्धमन्तर्दशा ज्ञेया वर्षमासदिनार्दकाः ॥ १०७॥ चक्रेशाब्दा भुक्तिराशीश्वराब्दैर्हत्वा तत्तद्राशिमानायुराप्ताः । अब्दा मासा वासरा नाडिकाद्या दुःस्थानेशा दुःखरोगाकरा स्युः ॥ १०८॥ इत्थं महादायदिनं महाब्दैः सङ्गण्य तत्रान्तरदास्तु दाये । पुनस्तदा तत् परमायुरब्दह्वतं दशास्वन्तरगा दशा स्यात् ॥ १०९॥ विनाडीकृत्य नक्षत्रं स्वैः संवत्सरैः पृथक् । दायैः सङ्गण्य सर्वायुराप्तं सूक्ष्मदशाफलम् ॥ ११०॥ ग्रहवत्सरवासरा हृताः परमायुष्यसमाभितध्रुवैः । निजवर्षगुणाः स्वपाकदा इति पाकेष्वखिलेषु चिन्तयेत् ॥ १११॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते सप्तदशोऽध्यायः ॥ १७॥
अथ दशापहलाध्यायः ॥ १८॥ दशानुसारेण फलं वदन्ति मुनीश्वरा जातशुभाशुभं यत् । सारं समुद्रधृत्य तथैव वक्ष्ये भेदं यथाविस्तरतो दशायाम् ॥ १॥ बलानुसारेण यथा हि योगो योगानुसरेण दशाभुपैति । दशाफलः सर्वफलं नराणां वर्णानुसरेण यथा विभागः ॥ २॥ अथ विंशोत्तरी महादशा । आदित्यचन्द्रकुजराहुसुरेशमन्त्रिमन्दज्ञकेतुभृगुजा नव कृतिकाद्याः । तेनो नयः सिनदयातटघन्यसेव्यसेनानरा दिनकरादिदशाब्दसंख्याः ॥ ३॥ अथ दशापतेः शुभाशुभस्वम् । आरोहवीर्याधिकभावतुल्यबिन्वाधिकाः कर्मभवोदययाः । तुन्गादीवर्गोपगता लभोगाः षड्वीर्यवन्तश्च शुभप्रदाः स्युः ॥ ४॥ मान्दिराशिपतिमान्दिभावगाः स्वल्पबिदुरिपुनीचमूढगाः । पापखेटयुतभावसन्धिगा राशिसन्धिलवगास्त्वनिष्टकाः ॥ ५॥ दशापतिर्लग्नगतो यदि स्यात् त्रिंषड्दशैकादशगश्च लग्नात् । तसप्तवर्गोऽपिअथ तत् सुहृदा लग्ने शुभो वा शुभदा दशा स्यात् ॥ ६॥ दशादिनाथस्य सुहृद्गृहस्थतदुच्चगो वाऽथ् दशाधिनायात् । स्मरत्रिकोणोपचयोपगश्च ददति चन्द्रः खलु सत्फलानि ॥ ७॥ उक्तेषु राशीसू गतस्य विघोः स भावः स्याज्जन्मकालभवमूर्तिघनादिभावः । तत्तत्प्रवृद्धिकृदसौ केथितो नराणां तद्रावहानिकृदयेतरराशिसंस्थः ॥ ८॥ दशाप्रवेशे स्वगृहदिसंस्थे हिमद्युतौ यत्फलमुक्तमाइः । तद्वाच्यमिन्दुहि शुभाशुभाश्च्य फलम् मनोरूपतया ददाति ॥ ९॥ उत्पादितं हि द्युचरस्य पूर्व शुभादिकं कष्टफलं हि यत्तत् । तेनानुसरेण दआसु कल्प्यं शरीरभाजामशुभं शुभं वा ॥ १०॥ इष्टोत्कटत्वे हि शुभानि पुंसां फलान्यनिष्टान्यशुभोत्कटत्वे । साम्ये तु मिश्राणि फलानि नृनं सर्वत्र चैवं परिकल्पनीयम् ॥ ११॥ संज्ञाध्याये यस्य यद्द्रव्यमुक्तं कर्माजीवो यस्य यश्चोपदिष्टः । भावस्थानलोकयोगोद्भवं च तत्तत्सर्व तस्य योज्यं दशायाम् ॥ १२॥ शुभफलदशायं ताद्दगेवान्तरात्मा बहु जनयति पुंसां सौख्यमर्थागमं च । कर्यतफलविपाइकस्तर्कयेर्द्वतमानां परिणमति फलोक्तिः स्वप्रचिन्तास्ववीर्यैः ॥ १३॥ पाकस्वामिनी लग्नगे सुहृदि वा वर्गेऽस्य वा सौम्येऽपि वा प्रारब्धा शुभदा दशा त्रिदशषड्लाभेषु वा पाकपे । मीत्रिचोपचयत्रिकोणमदने पाकेश्वरस्य स्थित- चन्द्रः सत्फलषोधनाणी कुरुते पापानि चातोऽन्यथा ॥ १४॥ लग्नादिष्टगृहोपगः स्वभवने तुङ्गे सुहृद्भेऽथवा पाकेशः शुभमित्रवीक्षणयुतस्तत्पाकभुक्तौ शुभम् । केन्द्रे वा यदि कोणगोऽतीशुभदा पापास्त्रीषष्ठायगा- स्तुङ्गायोपचयेषु ये बलयुवआस्तेषां दशायां शुभं ॥ १५॥ अन्योन्यमिष्टप्रहयोर्दशायां भुक्तौ शुभं षड्बलशालिनोरतु । शत्रुप्रहौ दुर्बलशालिनौ चेत् पाकापहारे तु तयोरनर्थः ॥ १६॥ करोति यभावगतः स्वपाके तद्भावजन्यं त्वशुभं शुभं वा । शुभं शुभव्योमचरस्य दाये पापस्य दाये स्वशुभं वदन्ति ॥ १७॥ सम्यान्वितप्रहदशाऽतिशुभप्रदा स्यात् पापान्वितस्य विफलं परिपाककाले । मिश्रप्रहेण सहितस्य दशापहरे मिश्रं फलं भवति मिश्रबलान्वितस्य ॥ १८॥ यद्भातुखेटस्य दशापहारे तद्भातुवित्तायतिभाहुरार्यः । धातुक्षयं पापवियचरस्य पाकेऽभिवृद्धिं शुभदस्य धातोः ॥ १९॥ सपन्नखेटोपगतस्य पाके सपन्नवृद्धिं सकलार्थनाशम् । यत्कर्मकर्तृप्रहपाककाले तत्क्र्मसिद्धि प्रवदन्ति सन्तः ॥ २०॥ यत्कार्यकारिद्युचरस्य दये तत्कर्यसिद्धिं प्रवदेन्नराणाम् । शुभग्रहोऽसौ यदि कर्यसिद्धिं पापस्तु तत्कार्यविनाशनेव ॥ २१॥ राज्यस्थानपराज्यकारकदशा राजप्रसादप्रदा देवव्योमचरस्य पाकसमये तद्देवताराधनम् । धर्माधीशदशागते लति तपोधर्मादिसिधिं वदेत् कर्मेशस्य दशापाकसमये यज्ञदिकर्मोत्सवम् ॥ २२॥ सत्त्वादिग्रहपाकभुक्तिसमये तत्तद्गुणो जायते जन्मर्क्षादिनवर्क्षग्ग्र्हदशा कुर्वीत भूतं फलम् । कर्मर्क्षादिनवर्क्षगस्य बलिनः पाके भविष्यत्फलं चाधानादिगतस्य सर्वमफलं पाके फलं वा वदेत् ॥ २३॥ शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् । पृष्ठोदयस्थः पाकान्ते चोभयोदयगः सदा ॥ २४॥ षष्ठेशस्य दशा विलापकरणी मृत्युविनाशप्रभो- रस्तव्योमचरस्य बन्धुमरणं पाकेऽपहारेऽथवा । सम्पत्साधकमैत्रपाः परममैत्रक्षेमताराधिपा- वेतेषामपहारभुक्तिसमये सम्पत्समृधिं वदेत् ॥ २५॥ त्रिमण्डलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः । तद्रशायां मृतिं विड्यात् ससौम्यो यदि शोभनम् ॥ २६॥ राशिसन्धिगदाये तु शोकरोगादिपीडनम् । त्रिंशद्भागमनुक्रान्तदशा मृत्युफलप्रदा ॥ २७॥ नीचस्थितो जन्मनि यो ग्रहः स्यात् स चापि तद्युक्तखगो न शक्तः । दातुं शुभं राहुयुतस्त्वनिष्टं तत्क्षेत्रगस्तद्युतराशिपश्च ॥ २८॥ तत्तद्भावाधीश्चरस्याधिशत्रुर्यो वा खेटो बिन्दुशून्यर्क्षयुक्तः । तत्तत्पाके मूर्तिभावादिकानां नाशं ब्रूयादेवमाद्दुर्मुनीन्द्राः ॥ २९॥ बाधास्थानपतद्युतग्रहदशा शोकादिरोगप्रदा तत्केन्द्रस्थदशापहारसमये उःखं विदेशाटनम् । अन्योन्याष्टमषष्ठगद्युचरयोः पाकापहारे भयं देशत्यागमनर्थमिष्टशुभयोः सर्वं विमिश्रं वदेत् ॥ ३०॥ पाके दीप्तस्य राजा भवति धनयशोदानविद्याविनोदी स्वस्थस्याचारधर्मश्रवणबहुसुखारोग्यवित्तान्वितः स्यात् । राजप्रीतिं विभूतिं सुखमिह मुदितव्योमवासस्य दाये शान्तस्यारोग्यसौख्यश्रियमवार्नपतिप्रीतिमुत्साहमेति ॥ ३१॥ पाके शक्तस्य विद्यानिवयधनतपःसिद्धिधर्मप्रवृत्ति- श्चोरारातिक्षितीशैर्भयमनुजमृतिः पीडितस्य ग्रहस्य । दाये दीनस्य दैन्यं विकलखगदशा शोकरोगप्रदा स्यात् चित्तक्लेशः खलस्य प्रतिदिनमरिभिर्भीतखेटस्य भीतिः ॥ ३२॥ विलग्नतारेन्दुभनामताराप्रश्नेन्दुनक्षत्रगणेषु मध्ये । बलाधिलर्क्षेशदशाक्रमेण फलं शुभं वाऽशुभमाहुरार्याः ॥ ३३॥ उतपन्ननक्षत्रविलग्नतो वा भूयात् क्रमेणैव दशाफलानि । दशावसानेष्वशुभं च सर्वे कुर्वन्ति सामान्यफलं नराणाम् ॥ ३४॥ जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा स्यादाधानदशाऽप्यथाष्टमभवात् क्षेमान्महाख्या दशा । आसां चैव दशावसानसमये मृत्युं वदेत्प्राणितां दीर्घस्वल्पसमायुषां वधाविपत्प्रत्यग्-दशासु क्रमात् ॥ ३५॥ अथ निर्याणदशा । जातोऽह्नि चेदर्कसनिस्फुटैक्यतारादिनेर्याणदशा प्रकल्प्या । तारेशराहुस्फुटयोगतारापूर्वा दशारिष्टकरा रजन्याम् ॥ ३६॥ अथ गुलिकदशा गुलिकस्थितनक्षत्रादशा तस्य प्रकल्पिता । तद्युक्तभवनांशेशौ सहकारी च मृत्युदाः ॥ ३७॥ अथ शूलदशा । दिनेशाविनशुक्रौ च राजारौ कारकाः स्मृताः । कारकस्य त्रिशूलर्क्षे यदा चरति या दशा ॥ ३८॥ तत्कारलस्थित्तगृहादिषु सर्वभेषु चक्रप्रमाणदलवत्सरसंयुतेषु । वीर्यान्वितेषु शुभदृष्टियुतेषु सौख्यं नीचारिपापयुतभेषु वदन्त्यनिष्टम् ॥ ३९॥ अथ महादशविशेषः । यत्तारांशगतः शशी तदधिपेनालोकितो वा युत- स्तेषां चक्रदशा विशेषफलदा वक्षयामि तचक्रजम् देहे पापयुते तु रोगमाधिकं जीवे तु जीवभ्रमं दद्याद्यनयोः सहाबलयुतिर्मृत्युं दशायां नृणाम् ॥ ४०॥ अथान्तर्दशाविशेषफलम् । पापो विलग्नगृहगो यदि तद्दशायं पापापहतसमये बहुशोकरोगम् । वित्तक्षयं नृसपत्नभयं नराणं सौम्यस्य मिश्रमखिलं प्रवदन्ति सन्तः ॥ ४१॥ लग्नाधिपद्शाकाले मन्दभुक्तौ धनक्षयम् । इष्टबन्धुविरोधश्च भविश्यति न संशयः ॥ ४२॥ धनाधिपः पापखगो(पापस्वगो)यदि स्याच्छन्यारभोगीशदिनेष्वराणाम् । अन्तर्दशायां धननाशमाहुः पापान्विते तद्भवने तथैव ॥ ४३॥ धनान्वितः पापखगस्तदीशः स्यात्तदशायां क्षितिपालकोपात् । मानार्थनाशं निगलं नराणां स्थानच्युतिं मित्रविरोधमेति ॥ ४४॥ पापग्रहे विक्रमभावनाथे पापवियच्चराणाम् । अन्तर्दशायामरिशत्रुचोरैर्दुःखं समायाति शुभान्विते वा ॥ ४५॥ दुश्चिक्यह्भावाधिपदायकाले मन्दारभोगिध्वजभानुभुक्तौ । नाशं वदेत्तत्र सहोदराणां भवेद्विशेषात्सहजैर्विरोधः ॥ ४६॥ क्षेत्राधिनाथस्य शुभेतरस्य पाके तु पापग्रहभुक्तिकाले । स्थानच्युतिं बन्हुजनैर्विरोधं कृष्यादिगोवित्तविनाशमाहुः ॥ ४७॥ पापापहारसमये सुतराशिपस्य पाके नृपालभयमिष्तसुतार्तिमाहुः । सौम्यापहारसमये सुतवित्तलाभमुर्विशबन्धुजनलालनमिष्टसिद्धिम् ॥ ४८॥ षष्ठेशपाकसमये तु शुभेतराणां भुक्तौ नृपानलभयं व्यसनं च रोगम् । पाके कलत्रगृहपस्य खलापहरे पलीविनाशमटनं च विदो वदन्ति ॥ ४९॥ रन्ध्रस्वामिदशागमे रिपुभयं पापापहरे नृणा- भायुर्वित्तयशोविनाशमटनं स्थानच्युतिं वा वदेत् । पाके धर्मगृहाधिपस्य भरणं पित्रोरधर्मायतिं भुक्तौ पापवियचरस्य निगलप्राप्तिं च वित्तक्षयम् ॥ ५०॥ कर्मेशस्य खलस्य पाकसमये भुक्तौ यदा पापीना- मिष्टातिं पदविच्युतिं सुखयशोहानिं च वित्तक्षयम् ॥ मन्दारार्कफणिशभुक्तिसमये लाभेशदाये सुखं कृष्यादिप्रविनायनं नृपभयं वित्तस्य नाशं विदुः ॥ ५१॥ व्ययेशदाये रविमन्दभौमभुक्तौ कलत्रात्मजबन्धुवैरम् । बलक्षयं मानधनक्षयं च फणीशभुक्तौ विषभीतिमाहुः ॥ ५२॥ अन्योन्यषष्ठाष्तमपाकभुक्तौ पदच्युतिं वा मरनं नराणाम् । एकस्थयोरन्तरदायकाले मृत्युं वदेद् दुर्बलशालिनोस्तु ॥ ५३॥ क्रूरग्रहदशाकले क्रूरस्यान्तर्दशागमे । मरणं तस्य जातस्य भविश्यति न संशयः ॥ ५४॥ क्रूरराशिगताः पापाः शत्रुखेटनिरीक्षिताः । शत्रुखेचरसंयुक्तास्तदशायां मृतिर्भवेत् ॥ ५५॥ दशाधिपस्य यः शत्रुस्तस्य भुक्त्यन्तरान्तरे । मृत्युकालो भवेन्नूनं पापखेटस्य नीश्चयः ॥ ५६॥ स्वोचादिजन्यमशुभस्य दशाप्रवेशे भावादिजं फलमशोभनपाकमध्ये । इष्टयुद्भवं सकलपापवियचराणां पाकावसानसभये फलमाहुरार्याः ॥ ५७॥ पाकस्यादौ भावजन्यं शुभानां तत्तद्राशिस्थानजं पाकमध्ये । दायस्यान्ते दृष्टसजातमेवं सर्वे तारापाकभेदं वदन्ति ॥ ५८॥ अथान्तर्दशाफलाणि । अथ तरणिदशायां चौर्यमुचाटनाद्यैर्धनमनलचतुष्पात्पीडनं नेत्रतापम् । उदरदशनरोगः पुत्रदारैर्वियोगो गुरुजनपितृनाशो भृत्यगोवित्तहानिः ॥ ५९॥ दशा दशाहता मासाश्वैकस्थानं विना परे । एकस्थानं त्रिगुणितं दिनान्यन्तर्दशाक्रमः ॥ ६०॥ अथ रविदाशायांअन्तर्दशाफलानि । द्विजभूपतिशास्त्राद्यैर्धनप्राप्तिं मनोरुजम् । विदेशवनसङ्चारं भानोरन्तर्गते स्वौ ॥ ६१॥ बन्धुमित्रजनैरर्थं प्रमादं मित्रसज्जनैः । पाण्डुरोगादिसन्तापं चन्द्रे भानुदशान्तरे ॥ ६२॥ रत्नकाङ्चनवित्ताप्तिं राजस्नेहं शुभावहम् । पैत्यरोगादिसङ्चारं कुजे भानुदशान्तरे ॥ ६३॥ अकाले मृत्युसन्तापं बन्धुगर्गारिपीडनम् । पदच्युतिं मनोदुःखं रवेरन्तर्गतेऽप्यहौ ॥ ६४॥ सर्वपूज्यं सुताद्वित्तं देवब्राह्मणपूजनम् । सत्कर्माचारसद्रोष्टी रवेरन्तर्गते गुरौ ॥ ६५॥ सर्वशत्रुत्वमालस्यं हीनवृत्तिं भनोरुजम् । राजचोरभयप्राप्तिं रवेरन्तर्गते शनौ ॥ ६६॥ बन्धुपीडां मनोदुःखं सन्नोस्साहं धनक्षयम् । किङ्चित्सुखमवानोति रवेरन्तर्गते बुधे ॥ ६७॥ कण्ठरोगं मनस्तापं नेत्ररोगमथापि वा । अकालमृत्युमाप्नोति रवेरन्तर्गते ध्वजे ॥ ६८॥ जले द्रव्याप्तिमायासं कुस्त्रीजननिषेवणम् । शुष्कसंवादमाप्नोति रवेरन्तर्गते भृगौ ॥ ६९॥ दशादौ दिननाथस्य पितृरोगं धनक्षयम् । सर्ववाधाधरं मध्ये दशान्ते सुखमाप्नुयात् ॥ ७०॥ स्वोच्चे नीचनवांशगस्य तरणेर्दयेऽपवादं भयं पुत्रस्त्रीपितृवर्गबन्धुमरणं कृष्यादिवित्तक्षयम् । नीचे तुङ्गनवांशगस्य च रवेः पाके नृपालश्रुयं सौख्यं याति दशावसानसमये वित्तक्षयं वा मृतिम् ॥ ७१॥ अथ चन्द्रदशाफलम् । हिमकिरणदशायां मन्त्रदिवद्विजाप्तिर्युवतिजनविभूतिः स्त्रीधनक्षेत्रसिद्धिः । कुसुमवसनभूषागनानाधनाढ्यो भवति बलविरोधे चार्थहा वातरोगी ॥ ७२॥ अथ चन्द्रदशायामन्तर्दशाफलानि । विद्यास्त्रीगीतवाद्येष्वभिरतिशमनं पटुवस्त्रादिसिद्धिं सत्सङ्गं देहसौख्यं नृपसचिवचमूनायकैः पूज्यमानम् सत्कीर्तिं तीर्थयात्रां वितरति हिमगुः पुत्रामित्रैः प्रियं च । क्षोणीगोवाजिलाभं बहुजनविभवं स्वे दशान्तर्विपाके ॥ ७३॥ रोगं विरोधबुद्धि च स्थाननाशं धनक्षयम् । मित्रभ्रातृवशात् क्लेशं चन्द्रस्यान्तर्गते कुजे ॥ ७४। रिपुरोगभयात् क्लेशं बन्धुनाशं धनक्षयवम् । न किंचित्सुखमाप्नोति राहौ चन्द्रदशान्तरे ॥ ७५॥ यानादिविविधार्थाप्तिं वस्त्राभरणसम्पदः । यत्नात् कार्यमवाप्नोति जीवे चन्द्रदशान्तरे ॥ ७६॥ मातृपीडा मनोदुःखं वातपैत्त्यादिपीडनम् । स्तब्धवागरिसंवादं शनौ चन्द्रदशान्तरे ॥ ७७॥ मातृवर्गाद्धनप्राप्तिं विद्वज्जनसमाश्रयम् । वस्त्रभूषणसप्राप्तिं बुधे चन्द्रदशान्तरे ॥ ७८॥ स्त्रीरोगं बन्धुनाशं च कुक्षिरोगादिपीडनम् । द्रव्यनाशमवाप्नोति केतौ चन्द्रदशान्तरे ॥ ७९॥ स्त्रीधन कृषिपश्वादिजलवस्त्रागमं सुखम् । मातृरोगभवाप्नोति भृगौ चन्द्रदशान्तरे ॥ ८०॥ नृपप्रायकमैश्च्वर्यं व्याधिनाशं रिपुक्षयम् । सौख्यं शुभमवाप्नोति रवौ चन्द्रदशान्तरे ॥ ८१॥ आदौ भावफलं मध्ये राशिस्थानफलं विदुः । पाकावसानसमये चाङ्गजं दृष्तिजं फलम् ॥ ८२॥ अथ कुजदशाफलम् । पाके भूमिसुतस्य शस्त्रहुतभूवाहनाद्यैर्घनं भैषज्यान्नपङ्चनैश्च विविधैः क्रौर्यैर्धनस्थानगमम् । पित्तासृग्ज्वरपीडनं तु सततं नीचाङ्गनासेवनं विद्वेषं सुतदारबन्धुगुरुभिर्दुष्टान्नभोगं विदुः ॥ ८३॥ अथ कुजदशायामन्तर्दशाफलानि । उष्णाधिक्यं सुहृद्द्वेषं मातृपीडां नृपाद्भयम् । सर्वकार्यर्थनाशं च कुजे कुजदशान्तरे ॥ ८४॥ नृपचोरादिभीतिञ्च धनधान्या दनाशनम् । दुष्टकर्मादिसंसिद्धि राहौ कुजदशान्तरे ॥ ८५॥ द्विजमूलाद्धनपाप्तिं भूलाभं च निरामयम् । सम्पूजनंजयं सौख्यं गुरौ कुजदशान्तरे ॥ ८६॥ बहुदुःखाकरव्याधिमरिचोरनृपैर्भयम् । धनक्षयमवाप्नोति शनौ भौमदशान्तरे ॥ ८७॥ वैश्यवर्गाद्धनप्राप्तिं गृहगोधान्यसम्पदः । शत्रुबाधां मनक्लेशं बुधे कुजदशान्तरे ॥ ८८॥ कुक्षिरोगेण सन्तापं बन्धुसोदरपीडनम् । दुष्टमानषशत्रुत्वं केतौ कुजदशान्तरे ॥ ८९॥ कलत्रभूषणं वस्त्रं बन्धुवर्गाद्धनागमम् । स्त्रीजन्द्वेष्यतद्रोष्ठी शुक्रे बौमदशान्तरे ॥ ९०॥ अपवादं गुरुद्वेषं कलहं व्याधिपीडनम् । आत्मवर्गान्मनोदुःखं रवौ भौमदशान्तरे ॥ ९१॥ नामावित्तसुखं वस्त्रमुक्तामणिविभूषणम् । निद्रालस्यमथोद्वेगं चन्द्रे भौमदशान्तरे ॥ ९२॥ भूनन्दनस्य पाकादौ मानहानिर्धनक्षयः । मध्ये नृपाग्निचोरद्यैर्भीतिश्चान्ते तथ भवेत् ॥ ९३॥ उच्चस्थितस्य धरणीतनयस्य पाके नीचांशगस्य मरणं सुतसोदराणाम् । नीचे तु तुङ्गभवनांशगतस्य दाये कृष्यादिभिधनधान्यसुखं वदन्ति ॥ ९४॥ राहुदशाफलम् । सौख्यादिवित्तस्थितिनाशनं च कलत्रपुत्रादिवियोगदुःखम् । अतीव रोगं परदेशवासं विवादबुद्धि कुरुते फणिशः ॥ ९५॥ अथ राहुदशायामन्तर्दशाफलानि । जायारोगं विवादं च बुद्धिनाशं धनक्षयम् । दूरदेशाटनं दुःखं राहौ राहुदशान्तरे ॥ ९६॥ व्याधिशत्रुविनाशं च राजप्रीतिं धनागमम् । पुत्रलाभं तथोत्साहं गुरौ राहुदशान्तरे ॥ ९७॥ वातपित्तकृतं रोगं बन्धुमित्रादिपीडनम् । दूरदेशनिवासं च शनौ राहुदशान्तरे ॥ ९८॥ मित्रबन्धुकलत्रादिसंयोगं च धनागमम् । राजप्रीतिभवाप्नोति बुधे राहुदशान्तरे ॥ ९९॥ चौर्यं च मानहानि च पुत्रनाशं पशुक्षयम् । सर्वोपद्रवभाप्नोति केतौ राहुदशान्तरे ॥ १००॥ विदेशाद्वाहनप्राप्निश्छात्रचामरसम्पदः । रोगारिबन्धुभीतिः स्यात् शुक्रे राहुदशान्तरे ॥ १०१॥ दानधर्मरतिः प्रीतिः सर्वोपद्रवनाशनम् । संसाररोगसङ्चारो रवौ राहुदशान्तरे ॥ १०२॥ भोगसम्पद्भवेन्नित्यं सस्यवृद्धिधर्नागमः । स्वबन्धुजनसंवादश्चन्द्रे राहुदशान्तरे ॥ १०३॥ सर्वोपद्रवसंयोगः सर्वकार्येषु मूढता । वित्तविस्मृतिदोषः स्यात् कुजे राहुदशान्तरे ॥ १०४॥ कुलीरगोमेषयुतस्य राहोर्दशाविपाके धनधान्यलाभम् । विद्याविनोदं नृपमाननं च कलत्रनृत्यादिसुखं वदन्ति ॥ १०५॥ पाथोनमीनाश्वयुतस्य राहिर्दशाविपके सुतदारलाभम् । देशाधिपत्यं नरवाहनं च दशावसाने सकलं विनाशम् ॥ १०६॥ मृगपतिवृषकन्याकर्कटस्थस्य राहोर्र्भवति च परिपाके राजतुल्यो नृपो वा । गजतुरगचमूपः सर्वजीवोपकारी बहुधनसुखशीलः पुत्रदारानुरक्तः ॥ १०७॥ दशादौ दुःखमाप्नोति दशाम्ध्ये महत्सुखम् । द्शान्ते फणिनाथस्य पितृनाशं पदच्युतिम् ॥ १०८॥ अथ गुरुदशाफलम् । स्थानप्राप्तिं वित्तयानाम्बराप्तिं राजस्नेहं चित्तशुद्धि विभूक्तिम् । ज्ञानाचारं पुत्रदारादिलाभं देवाचार्यः स्वे विपाके करोति ॥ १०९॥ अथ गुरुदशायामन्तर्दशाफलानि । नृपप्रीति तथोत्साहं सर्वकार्यार्थसाधनम् । विद्याविज्ञानमाप्नोति गुरौ गुरुदशान्तरे ॥ ११०॥ द्वेषबुद्धिं मनस्तापं पुत्रमूलाद्धनव्ययम् । कर्मनाशभवाप्नोति शनौ जीवदशान्तरे ॥ १११॥ वैश्यवर्गेण वित्ताप्तिं राजस्नेहं सुखावहम् । सत्कर्माचरसिद्धिं च बुधे जीवदशान्तरे ॥ ११२॥ मुक्ताप्रवालभूषाप्तिस्तीर्थयात्रा धनायतिः । गुरुभूपवशादाप्तिः केतौ जीवदशान्तरे ॥ ११३॥ वाहनादिधनप्राप्तिः छत्रचामरवैभवम् । स्त्रीपीडा जनविद्वेषो भृगौ जीवदशान्तरे ॥ ११४॥ शत्रुनाशं जयं सौख्यं चित्तोत्साहं धनागमम् । राजप्रसादमारोग्यं रवौ जीवदशान्तरे ॥ ११५॥ स्त्रीकृतोत्साहमैश्चर्य राजप्रीतिः सुखावहम् । दिव्यवस्त्रविभूषाप्तिं चन्द्रे जीवदशान्तरे ॥ ११६॥ कर्मनाशं च सङ्चारं ज्वरतापं महद्भयम् । वननाशं निरुत्साहं कुजे जीवदशान्तरे ॥ ११७॥ सर्वक्लेशभयं रोगं सर्वोपद्रवकारणम् । धनच्छेदभवाप्नोति राहौ जीवदशान्तरे ॥ ११८॥ नीचांशोपगतः स्वतुङ्गभवने जीवस्य पाके भयं चोरारातिनृपैः कलत्रतनयद्वेषं करोत्यश्रियम् । नीचे तुङ्गनवांशको यदि महाराजप्रसादं सुखं विद्याबुद्धियशोधनादिविभवं देशाधिपत्यं तु वा ॥ ११९॥ अथ शनिदशाफलम् । शनेर्दशायामजगर्दभोष्द्रवृद्धाङ्गनापक्षिकुधान्यलाभम् । क्षेणीपुरग्रामजनाधिकाराद्धनं वदेन्निचकुलाधिपत्यम् ॥ १२०॥ अथ शनेर्दशायामन्तर्दशाफलानि । क्लेशादिभिर्व्याधिनिपीडनं च मार्सर्यमानैर्बहुशोकतापम् । भूपालचोरैर्धनधान्यनाशं करोति मन्दः स्वदशापहारे ॥ १२१॥ रवितनयदशायां स्वापहारे विरोधं नरपति जनकिपं प्रेष्यवृद्धाङ्गनाप्तिम् । पशुगणविषभीतिं पुत्रदारादिपीडां ज्वरपवनकफातिं शूलरोगं वदन्ति ॥ १२२॥ सुखवित्तयशोवृद्धिं सत्कर्माचारसम्पदः । कृषिवाणिज्यमाप्नोति बुधे मन्ददशान्तरे ॥ १२३॥ वातपित्तकृतं रोगं कलहं नीचदुर्जनैः । दुःस्वप्नभयमाप्नोति केतौ मन्दद्शान्तरे ॥ १२४॥ बन्धुस्नेहं जनप्रीतिं जायावित्तधनायतिम् । कृष्यादिसुखमाप्नोति भृगौ मन्ददशान्तरे ॥ १२५॥ पुत्रदारविनाशं च् नृपचोरादिपीडनम् । मनोभयमवाप्नोति भानौ मन्ददशान्तरे ॥ १२६॥ गुरुस्त्रीमरणं दुःखं बन्धुद्वेषं धनागमम् । वातरोगमवाप्नोति चन्द्रे मन्ददशान्तरे ॥ १२७॥ स्थानच्युतिं महारोगं नानाविघमनोभयम् । सहोदरसुहृत्पीडां भौमे मन्दद्शान्तरे ॥ १२८॥ स्र्वाङ्गरोगसन्तापं चोरारिनृपपीडनम् । धनच्छेदमवाप्नोति राहौ मन्ददशान्तरे ॥ १२९॥ देवभूदेवभक्तिं च राजप्रीतिं महत्सुखम् । स्थानलाभमवाप्नोति गुरौ मन्ददशान्तरे ॥ १३०॥ स्वोच्चे नीचनवांशगो रविसुतः कुर्वीत सौख्यं फलं पाकादौ तु दशावसानसमये कष्टं फलं प्राणिनाम् । तुङ्गांशोपगते स्वनीचभवने पाकावसाने सुखं दायादौ रिपुचोरभीतिमधिकं दुःखं विदेशाटनम् ॥ १३१॥ अथ बुधदशाफलम् । स्वकीयदाये गुरुबन्धुमित्रैरर्थार्जनं कीर्तिसुखं करोति । दैत्यं च सत्कर्महिरण्यपुण्यैर्धनायतिं वातरुजं कुमारः ॥ १३२॥ अथ बुधदशायामन्तर्दशाफलानि । विचित्रगृहवित्ताप्तिं राजप्रीतिं महत्सुखम् । सर्वकार्यार्थसंसिद्धिं बुद्धे सौम्यदशान्तरे ॥ १३३॥ बन्धुपीडां मनस्तापं सौख्यहानिमरेर्भयम् । कार्यनाशभवाप्नोति केतौ सौम्यदशान्तरे ॥ १३४॥ गुरुदेवाग्निविप्रेषु दानं धर्मप्रियं तपः । धनवस्त्रविभूषाप्तिं शुक्रे सौम्यदशान्तरे ॥ १३५॥ वस्त्रभूषणवित्ताप्तिं राजप्रीतिं महत्सुखम् । धर्मश्रवणमाप्नोति रवौ बुधदशान्तरे ॥ १३६॥ रोगारातिजनद्वेषं सर्वकार्यार्थनाशनम् । चतुष्पाद्भयमाप्नोति चन्द्रे सौम्यदशान्तरे ॥ १३७॥ रोगारेभयनाशं च पुण्यकर्मफलं यशः । राजप्रीतिमवाप्नोति कुजे सौम्यदशान्तरे ॥ १३८॥ मित्रबन्धुधनप्राप्नोति सुखविद्याविभुषणम् । राजप्रीतिमवाप्नोति राहौ सौम्यदशान्तरे ॥ १३९॥ इष्टबन्धुगुरुद्वेषं धनलाभं सुतायतिम् । रोगादिभयमाप्नोति गुरौ सुअम्यदशान्तरे ॥ १४०॥ धर्मसत्कर्मवित्ताप्तिं सुखमल्पजनाधिपैः कृष्यादिनाशमाप्नोति शनौ सौम्यदशान्तरे ॥ १४१॥ उच्चराशिगतः सौम्यो नीचांशकसमन्वितः । करोति कर्मवैकल्यं निजदाये च वर्धनम् ॥ १४२॥ नीचस्थानगतश्चान्द्रिस्तुङ्गांशकसमन्वितः । पाकादौ विफलं सर्वं शुभमन्ते प्रयच्छति ॥ १४३॥ अथ केतुदशाफलम् । दीनो नरे भवति बुद्धिविवेकनष्टो नानाऽमयाकुलविवर्ज्द्धितदेहतापः । पापादिवृद्धिरतिकष्टचरित्रयुक्तः किङ्चित्सुखी च शिखिनः परिपाककाले ॥ १४४॥ अथ केतुदशायामन्तर्दशाफलानि । कलत्रपुत्रमरणं सुखवित्तविनाशनम् । रिपुभीतिमबाप्नोति केतौ केतुदशान्तरे ॥ १४५॥ स्त्रीपुत्ररोगकलहं बन्धुमित्रादिनाशनम् । स्वरातिसारमाप्नोति शुक्रे केतुदशान्तरे ॥ १४६॥ मनोभङ्गं शरीरर्ति विदेशगमनं भयम् । सर्वकार्यविरोधं च रवौ केतुदशान्तरे ॥ १४७॥ दारपुत्रजनालस्यं धानधान्यविनाशनम् । मन्स्तापमवाप्नोति चन्द्रे केतुदशान्तरे ॥ १४८॥ पुत्रदारानुजद्वेषं रोगारिनृपपीडनम् । बन्धुनाशमवाप्नोति कुजे केतुदशान्तरे ॥ १४९॥ राजचोरभयं दुःखं सर्वकार्यविनाशनम् । दुष्टमानवसंवादं राहौ केतुदशान्तरे ॥ १५०॥ देवद्विजगुरुप्रीतिं राजस्नेहं निराम्यम् । भूपुत्रलाभमाप्नोति गुरौ केतुदशान्तरे ॥ १५१॥ मनोभयं मनस्तापं स्वबन्धुजनविग्रहम् । देशत्यागमवाप्नोति शनौ केतुदशान्तरे ॥ १५२॥ बन्धुमित्रादिसंयोगं पुत्रदारधनागमम् । विद्यासुखमवाप्नोति बुधे केतुदशान्तरे ॥ १५३॥ शुभग्रहयुतः केतुः स्वदशायां सुखप्रदः । यदि शोभनसन्दृष्तः करोति विपुलं धनम् ॥ १५४॥ सपापः कुरुते केतुः स्वपाके दुष्टमानवैः । भीतिं कृतिमरोगाध्यैर्व्यसनं धननाशनम् ॥ १५५॥ दशादौ गुरुबन्ध्वार्ति दशामध्ये धनायतिम् । दशान्ते सुखमाप्नोति केतोर्दयफलं त्रिधा ॥ १५६॥ अथ शुक्रदशाफलम् । स्त्रीपुत्रवित्ताप्तिमतीव सौख्यं युगन्धमाल्याम्बरभूषणाप्तिम् । यानादिभाग्यं नरपालतुल्यं यशः स्वपाके भृगुजः करोति ॥ १५७॥ अथ शुक्रदशायामन्तर्दशाफलानि । शव्यास्त्रीधनवस्त्राप्तिं धर्मादिसुखसम्पदः । रिपुनाशं यशोलाभं शुक्रे शुक्रदशान्तरे ॥ १५८॥ मुर्धोदराक्षिरागं च कृषिगोवित्तनाशनम् । नृपक्रोधमवाप्नोति रवौ शुक्रदशान्तरे ॥ १५९॥ शीर्षोष्णरोगसन्तापं कामादिरिपुपीडनम् । किङ्चिर् सुखमवाप्नोति चन्द्रे शुक्रदशान्तरे ॥ १६०॥ पित्तासृगक्षिरोगं च चित्तोत्साहं धनागमम् । दारमूलाभमाप्नोति कुजे शुक्रदशान्तरे ॥ १६१॥ नीलवस्तुधनप्राप्नोति बन्धुद्वेषं सुहृद्भयम् । अग्निबाधामवाप्नोति रहौ शुक्रदशान्तरे ॥ १६२॥ धनवस्त्रविभूषाप्तिं धर्मचारं सुखावहम् । स्त्रीसुतार्ति च वैषम्य गुरौ शुक्रदशान्तरे ॥ १६३॥ वृद्धस्त्रीजनसम्भोगं गृहक्षेत्रधनागमम् । शत्रुनाशमवाप्नोति मन्दे शुक्रदशान्तरे ॥ १६४॥ सुतमित्रसुखार्थाप्ति नृपप्रीतिं महत्सुखम् । सुभमारेज्यमाप्नोति बुधे शुक्रदशान्तरे ॥ १६५॥ कलहं बन्धुनाशं च शत्रुपीडां मनोभयम् । धनच्छेदमवाप्नोति केतौ शुक्रदशान्तरे ॥ १६६॥ उच्चराशिं गतः शुक्रो नीचांशकसमन्वितः । स्वपाके धन्ननाशं च कुर्वीत पदविच्युतिम् ॥ १६७॥ भार्गवो नीचराशिस्थः स्वोच्चांशकसमन्वितः । स्वदाये कृषिवाणिज्यं धनलाभं प्र्यच्छति ॥ १६८॥ दशाफले विशेषता । सम्यग्बलिनः स्वतुङ्गभागे सम्पूर्णा बलवर्जितस्य रिक्ता । नीचाम्शगतस्य शत्रुभगो ज्ञेयाऽनिष्टफला दशा प्रसूतौ ॥ १६९॥ तत्तद्भावार्थलामेशदशास्वन्तर्दशासु च । तत्तद्भावविनाशः स्यात् तद्युतेइतकारकैः ॥ १७०॥ त्रिकोणधनलाभस्था बलिनो यदि शोभनाः । स्वदशान्तर्दशाकाले कुर्वन्ति विपुल्कं सुखम् ॥ १७१॥ अस्टादशाध्यायिनि सर्वहोरासमुद्धृते जातकपरिजाते । राशिस्वरूपादि दशाफलान्तं प्रोक्तं मया भानुमुखप्रसादात् ॥ १७२॥ इति श्रीनव्ग्रहकृपया वैद्यनाथविरचिते जातकपारिजातेऽष्टादशोऽध्यायः ॥ १८॥
अथ ग्रन्थोपसंहारः । शाखाभिरष्टादशसंख्यकाभिरध्यायरूपाभिरतिप्रकाशः । ज्योतिर्मयः सर्वफलप्रधानः सङ्किर्तितो जातकपारिजातः ॥ १॥ उक्तं राशिगुणालयं ग्रहगतिस्थानस्वभावाकृति- राधानादिसमस्तजीवजननं बालाद्यनिष्टाकरम् । आयुर्ज्जातकभङ्गयोगजविधिः श्रीराजयोगादिजो द्विव्यादिग्रहयोगजः शुभकरि मान्द्यब्दजं च क्रमात् ॥ २॥ पश्चादष्टकवर्गबिन्दुगणितं होराधनस्थानजं दुश्चिक्यावनिभावजं सुतरिपुस्थानप्रयुक्तं फलम् । कन्दर्पाष्टमधर्मराशिजनितं व्यापारलाभान्त्यजं नारीजातकलक्षणं निगदितं चक्रं दशान्तर्दशा ॥ ३॥ श्रीविद्याधिकवेङ्कटाद्रितनयः श्रीवैद्यनाथः सुधी- रादित्यादिसमस्तखेटकृपया विद्वज्जनप्रीतये । होरासिन्धुसमुद्धृतामृतमयीमष्टादशाव्यायिनी चक्रे जातकपारिजातसरणिं गीतोत्सुकश्लोकिनीम् ॥ ४॥ इति जातकपारिजातः समाप्तः । समाप्तोऽथं ग्रन्थः । Encoded and proofread by Radu Canahai clradu at yahoo.com
% Text title            : jAtakaparijAtaH
% File name             : jAtakaparijAta.itx
% itxtitle              : jAtakapArijAtaH
% engtitle              : jAtakapArijAtaH
% Category              : jyotisha, sociology_astrology
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Author                : Vaidyanatha
% Language              : Sanskrit
% Subject               : Jyotish
% Transliterated by     : Radu Canahai clradu at yahoo.com
% Proofread by          : Radu Canahai clradu at yahoo.com
% Indexextra            : (proofreading pending (scanned book))
% Latest update         : February 04, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP