॥ वराहमिहिराचार्यस्य लघुजातकम् ॥

edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983 १. राशिप्रभेदाध्यायः २. ग्रहभेदाध्यायः ३. ग्रहमैत्रीविवेकाध्यायः ४. ग्रहस्वरुपाध्यायः ५. गर्भाधानाध्यायः ६. सूतिकाध्यायः ७. अरिष्टाध्यायः ८. अरिष्टभण्गाध्यायः ९. आयुर्दयाध्यायः १०. दशान्तर्दशाध्यायः ११. अष्टकवर्गाध्यायः १२. प्रकीर्णाध्यायः १३. नाभसयोगाध्यायः १४. स्त्रीजातकाध्यायः १५. निर्याणाध्यायः १६. नष्टजातकाध्यायः यस्योदयास्तसमये सुरकुटनिधृष्टचरणकमलोऽपि । कुरुतेऽञ्जलिं त्रिनेत्रः स जयति धाम्नां निधि सूर्यः ॥ १॥ होराशास्त्रं वृत्तैर्मया निबधं नरीक्ष्य शास्त्राणि । यत्तस्याप्यार्याभिः सारमहं सम्प्रवक्ष्यामि ॥ २॥ यदुपचितमन्यजन्मनि शुभाऽशुभं तस्य कर्मणः पक्तिम् । व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव ॥ ३॥ शीर्षमुखबाहुहृदयोदराणि कटिबस्तिगुह्यसंज्ञनि । अरू जानू जधे चरणाविति राशयोऽजाद्याः ॥ ४॥ कालनरस्यावयवान् पुरुषाणां चिन्तयेत्प्रसवकाले । सदसद्ग्रसंयोगात् पुष्टाः सोपद्रवास्ते च ॥ ५॥ अरुणसितहरितपाटलपांडुविचित्राः सितेतरपिशंगौ । पिङ्गलकर्बु रबभ्रुकमलिना रुचयो यथासंख्यम् ॥ ६॥ पुंस्त्री-क्रूराक्रूरौ चर-स्थिर-द्विस्वभावसंज्ञाश्च । अजवृषमिथुनकुलिराः पंचमनवमैः सहैन्द्र्याद्याः ॥ ७॥ कुजशुक्रज्ञेन्द्वर्कज्ञशुक्रकुजजीवसौरियमगुरवः । मेषा नवांशकानामजमकरतुलाकुलीराद्याः ॥ ८॥ स्वगृहाद् द्वादशभागाः द्रेष्काणाः प्रथमपञ्चनवपानाम् । होरे विषमेऽर्केन्द्वोः समपाशौ चन्द्रतीक्ष्णांश्वोः ॥ ९॥ कुजयमजीवज्ञसिताः पञ्चेन्द्रयवसुमृनीन्द्द्रयांशानाम् । विषमेषु समर्क्षेषूत्क्रमेण त्रिंशांशपाः कल्प्याः ॥ १०॥ नृचतुष्पदकीताप्या बलिनः प्राग्दक्षिणापरोत्तरगाः । सन्ध्याद्युरात्रिबलिनः कीटा नृचतुष्पदाश्चैवम् ॥ ११॥ मेषवृषद्वन्द्विसिंहाश्चतुष्पदा मकरपूर्वभागश्च । कीटः कर्कटराशिः सरीसृपो वृश्चिकः कथितः ॥ १२॥ मकरस्य पश्चिमार्ध ज्ञेयो मीनश्च जलचरः ख्यातः । मिथुनतुलाघटकन्या द्विपदाख्या षन्विपूर्वभागश्च ॥ १३॥ अधिपयुतो दृष्टो वा बुधजीवयुतेक्षितश्च यो राशिः । स भवति बलवान्न यदा युक्तो दृष्टोऽपि वा शेषैः ॥ १४॥ तनुधनसहजसुहृत्सुतरिपुजायामृत्युधर्मकर्माख्याः । व्यय इति लग्नाद्भावाश्चतुरस्राख्येऽष्टमचतुर्थे ॥ १५॥ पातालहिबुकवेश्मसुखबन्धुसंज्ञाश्चतुर्थभावस्य । नव-पञ्चमे त्रिकोणे नवमर्क्ष त्रित्रिकोणं च ॥ १६॥ धीः पञ्चमे तृतीयं दुश्चिक्यं सप्तमं तु यामित्रम् । द्युनं द्युनं च तद्वच्छिद्रमष्ट्मं द्वादशं रिष्फम् ॥ १७॥ केन्द्रचतुष्टयकण्टकलग्नाऽस्तदशमचतुर्थानाम् । संज्ञा परतः पणफरमापोक्लिमं च तत्परतः ॥ १८॥ त्रिषडेकादशदशमान्युपचयभवनान्यतोऽन्यथाऽन्यानि । वर्गोत्तमा नवांशाश्चरादिषु प्रथममध्यान्त्याः ॥ १९॥ मेषाद्याश्चत्वारः सधन्विमकराः क्षपाबला ज्ञेयाः । पृष्ठोदया विमिथुनाः शिरसान्ये ह्युभयतो ज्ञेयाः ॥ २०॥ अजवृषमृगाङ्गनाकर्कमीनवणिजांशकेष्विनाद्युच्चाः । दशशिख्यष्टाविंशतितिथीन्दियत्रिनवविंशेषु ॥ २१॥ उच्चान्नीचं सप्तममर्कादीनां त्रिकोणसंज्ञानि । सिंहवृषाजप्रमदा-कार्मुकभृतौलिकुम्भधराः ॥ २२॥ गृहहोराद्रेष्काणा नवभागो द्वादशांशकस्त्रीम्शः । वर्गः प्रत्येतव्यो ग्रहस्य यो यस्य निर्दिष्टः ॥ २३॥ इति लघुजातके राशिप्रभेदाध्यायः ॥ आत्मा रविः शीतकरस्तु चेतः सत्त्वं धराजः शशिजोऽथ दाणी । ज्ञानं सुखं चेन्द्रगुरुर्मदश्च शुक्रः शनिः कालनरस्य दुःखम् ॥ १॥ आत्मादयो गगनगैर्वलिभिर्वलवत्तराः । दुर्बलैर्दुर्बलाग़्येया विपरीतः शनिः स्मृतः ॥ २॥ राजा रविः शशधरश्च बुधः कुमारः सेनापतिः क्षितिसुतः सचिवौ सितेज्यौ । भृत्यस्तथा तरणिजः सबला ग्रहाश्च कुर्वन्ति जन्मसमये निजमेव रूपम् ॥ ३॥ प्राच्यादीशा रविसितकुजराहुयमेन्दुसौम्यवाक्पतयः । शीणेन्द्वर्गयमाराः पापास्तैः संयुतः सौम्यः ॥ ४॥ क्लीबपती बुधसौरी चन्द्रसितौ योषितां नृणां शेषाः । ऋगर्थसामयजुषामधिपा गुरुसौम्यभौमसिताः ॥ ५॥ जीवैतौ विप्राणां क्षत्राणां रविकुजौ विशां चन्द्रः । शूद्राधिपः शशिसुतः शनैश्चरः सङ्करभवानाम् ॥ ६॥ बलवान् स्वगृहोच्चांशे मित्रर्क्षे वीक्षितः शुभैश्चापि । चन्द्रसितौ स्त्रीक्षेत्रो पुरुषक्षेत्रोपगाः शेषाः ॥ ७॥ प्राच्यादिषु जीवबुधौ सूर्यारौ भास्करिः शशाङ्कसितौ । उदगयने शशिसूर्यौ वक्रेऽन्ये स्निग्धविपुलाश्च ॥ ८॥ अहनि सितार्कसुरेज्या द्युनिशं ज्ञो नक्तमिन्दुकुजसौराः । स्वदिनादिष्वशुभशुभा बहुलोत्तरपक्षयोर्बलिनः ॥ ९॥ मन्दारसौम्यवाक्पतिसितश्चन्द्रार्का यथोत्तरं बलिनः । नैसर्गिकबलमेतद्बलसाम्येऽस्माद् बलाधिकता ॥ १०॥ मित्रक्षेत्रे स्वोच्चे स्वहोरायां स्वभवनत्रिकोणे च । स्वद्रेष्कणे स्वांशे स्वदिने च बलान्विताः सर्वे ॥ ११॥ दशम-तृतीये नव-पञ्चमे चतुर्थाष्टमे कलत्रं च । पश्यन्ति पादवृद्ध्या फलानि चिवं प्रयच्छन्ति ॥ १२॥ पूर्णम्पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः । चतुरस्र भूमिसुतः सितार्कबुधहिमकराः कलत्रं च ॥ १३॥ ॥ इति लघुजातके ग्रहभेदाध्यायः द्वितीयः ॥ मित्राण्यर्काजीवो ग़्यगुरू ज्ञैतौ विभास्करा विकुजा । दीन्द्वरा विकुजरवीन्दवश्च केषांचिदाचार्यणमयो ॥ १॥ यत्रू मन्दसितौ समय्च ययिजो मित्राणि येषा रवे- स्तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शेषाः समाः शीतगोः । जीवेन्दूष्णकराः कुजस्य सुहृदो ज्ञोऽरिः सितार्की समौ मित्रे सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ॥ २॥ सूरेः सौम्यसितावरी रविसुतो मध्योऽपरे त्वन्यथा सौम्यार्की सुहृदौ समौ कुजगुरू शुक्रस्य शेषावरी शुक्रग़्यौ सुहृदौ समः सुरगुरुः सौरेस्तथान्येऽरय- स्तत्लाले च दशाऽयबन्धुसहजस्वाऽन्येषु मित्रं स्थितः ॥ ३॥ मित्रमुदासीनोऽरिर्व्याख्याता ये निसर्गभावेन । तेऽधिसुहृन्मित्रसमास्तत्कालमुपस्थिताश्चिन्त्याः ॥ ४॥ मूलत्रिकोणषष्ठत्रिकोणनिधनैकराशिसप्तमगाः । एकैकस्य यथा सम्भवन्ति तात्कालिका रिपवः ॥ ५॥ ॥ इति लघुजातके ग्रहमैत्रीविवेकाध्यायस्तृतीयः ॥ रविस्वरूपम् - चतुरस्त्रो नातुच्चस्तनुकेशः पैत्तिकोऽस्थिसारश्च । शूरो मधुंपिगाक्षो रक्तश्यामः पृतुश्चार्कः ॥ १॥ चन्द्रस्वरूपम् - स्वच्छः प्राज्ञो गौरश्चपलः कफवातिको रुधिरसारः । मृदुवाग् घृणी प्रियसखस्तनुवृत्तश्चन्द्रमाः प्रांशुः ॥ २॥ कुजस्वरूपम् हिम्स्रो ह्वस्वस्तरुणः पिंगाक्षः पैत्तिको दुरार्धषः । चपलः सरक्तगौरो मज्जासारश्च माहेयः ॥ ३॥ बुधस्वरूपम् मध्यमरुपः प्रियवाग् दुर्वश्यामः शिराततो निपुणः । त्वक्सारस्त्रीस्थूणः सततं हृष्वस्तु? चन्द्रसुतः ॥ ४॥ गुरुस्वरूपम् - मधुनिभनयनो मतिमनुपचितमांसः कफत्मको गौरः । इष्टिपङ्गलेशो मेदःसारो गुरुविर्घश्चः ॥ ५॥ शुक्रस्वरूपम् श्यामो विकुष्टपर्वा कुतिलासितमूर्धजः सुखी कान्तः । कफवातिको मधुरवाग्ब्ःॠग़ूपुत्रः शुक्रसारश्च ॥ ६॥ शनिस्वरूपम् - कृशदीर्घः पिंगाक्षः? कृष्णः पिशुनोऽनिलप्रकृतिः । स्थूलनखदन्तरोमा शनैश्चरो स्नाशुसारश्च ॥ ७॥ स्वरूपप्रयोजनम् एति ग्रहा बलिष्ठाः प्रसूतिकले नृणां स्वर्मूतीसमम् । कुर्युर्देहं नियते बहवश्च समागता मिश्रम् ॥ ८॥ ॥ इति लघुजातके ग्रहस्वरूपाध्यायश्चतुर्थः ॥ आधानेऽस्तगृहं यत्तच्छिलो मैथूने पुमान् भवति । सायासमसद्युतवीक्षिते विदग्धं शुभैरस्ते ॥ १॥ सौरांशेऽब्जांशे वा चन्द्रः सौरान्वितोऽथ हिबुके वा । शान्तो दीपो जन्मन्याधाने चेन्न रविदृष्टः ॥ २॥ चन्द्रो यावर्संख्ये द्वादशभागे निषेकसमये स्यात् । तस्मात् तावति राशौ जन्मेन्दौ सम्भवे मासि ॥ ३॥ उदयति मृदुभांशे सप्तमस्थे च मन्दे यदि भवति निषेकः सूतिमब्दत्रयेण । शशिनि तु विधिरेष द्वादशोऽब्दे प्रकिर्या- न्निगदितमिह चिन्त्यं सूतिकालेऽपि युक्त्या ॥ ४॥ यमवक्रौ द्यूनेऽर्कात् पुंसो रोगप्रदौ स्त्रियश्चन्द्रात् । सन्मध्यगयोर्मृत्युस्तदेकयुतदृष्टयोश्चैवम् ॥ ५॥ कल्लधनावयवास्थित्वग्रोमस्मृतिसमुद्भवाः क्रमशः । मासेषु शुक्रकुजजीवसूर्यचन्द्रार्किसौम्यानाम् ॥ ६॥ अशनिद्वेगप्रसवाः परतो लग्नेशचन्द्रसूर्याणाम् । कलुषैः पीडा पतनं निपीडितैर्निर्मलैः पष्टिः ॥ ७॥ बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम् । स्त्रीणां वा कुजचन्द्रौ यदा तदा गर्भसम्भवो भवति ॥ ८॥ लग्ने बलिनि गुरौ वा नवपञ्चमसंस्थितेऽपि वा भवति । योगा हतबीजानामफला वीणेव वधिराणाम् ॥ ९॥ विषमर्क्षे विषमांशे संस्थिताश्च गुरुशशाङ्कलग्नार्काः । पुञ्जन्मकराः समभेषु योषितां समनवांशगताः ॥ १०॥ बलिनौ विषमेऽर्कगुरू नरं स्त्रियं समगृहे कुजेन्दुसिताः । यमलं द्विशरीरांशेष्विन्दुजदृष्टाः स्वपक्षसमम् ॥ ११॥ लग्नाद्विषमोपगतः शनिश्चरः पुत्रजन्मदो भवति । निगदितयोगबलाबलमवलोक्य विनिश्चयो वाच्यः ॥ १२॥ ॥ इति लघुजातके गर्भाधानाध्यायः पञ्चमः ॥ गुरुशशिरवयः सत्त्वं रजः सितग़्यौ तमोऽर्कसुतभौमौ । एतेऽन्तरात्मनि स्वां प्रकृतिं जन्तोः प्रयच्छन्ति ॥ १॥ सत्त्व रजस्तमो वा त्रिंशांशे यस्य भास्करस्तादृक् । बलिनः सदृशी मूर्तिर्बुध्वा वा जातिकुलदेशान् ॥ २॥ पूर्वविलग्ने यादृक् नव भागस्तादृशी भवति मूर्तिः । यो वा ग्रहो बलिष्ठस्तत्काले तादृशी वाच्या ॥ ३॥ चन्द्रे लग्नमपश्यति मध्ये वा शुक्रसौम्ययोश्चन्द्रे । जन्म परोक्षस्य पितुर्य्मोदये वा कुजे वाऽस्ते ॥ ४॥ पापयुतोऽर्कः सेन्दुः पश्यति होरां न चन्द्रमपि जीवः । पश्यति सार्कं नेन्दु यदि जीवो वा परैर्जातः ॥ ५॥ द्वरं वास्तुनि केन्द्रोपगाद् ग्रहादसति वा विलग्नर्क्षात् । दीपोऽर्कादुदयाद् वर्तिरिन्दुतः स्नेहनिर्देशः ॥ ६॥ अदृढं नवमथ दग्धं चित्रं सुदृढं मनोरमं जीणम् । गृहमर्कादिकवीर्यात् पतिभवनं सन्निकृष्टैश्च ॥ ७॥ गुरुरुच्चो दशमस्थो द्वित्रिचतुर्भूमिकं करोति गृहम् । धनुषि सबलस्त्रिशालं द्विशालमन्येषु यम्लेषु ॥ ८॥ षट्त्रिनवान्त्याः पादाह् खट्वाङ्गान्यन्तरालभवनानि । विनतत्वं यमलर्क्षैः क्रूरैस्तत्तुल्य उपघातः ॥ ९॥ छागे सिंहे वृषे लग्ने तत्स्थे सौरेऽथवा कुजे । राश्यंशसदृशे गात्रे जायते नालवेष्टितः ॥ १०॥ ग़्येयानि ताम्रमणिहेमयुक्तिरौप्याणि मौक्तिकं ओहम् । अर्कद्यैर्बलवद्भिः स्वस्थाने हेम जीवेऽपि ॥ ११॥ शशिलग्नान्तरसंस्थग्रहतुल्याश्चोपसूतिका ज्ञेयाः । उदगर्धेऽभ्यन्तरगा बाह्याश्चक्रस्य द्ऱ्६इश्येऽर्धे ॥ १२॥ ॥ इति लघुजातके सूतिकाध्यायः षष्ठः ॥ षष्टेऽष्टमेऽपि चन्द्रः सद्यो मरणाय पापसंदृष्टः । अष्टाभिः शुभदृष्टो वर्षैर्मश्रिस्तदर्धेन ॥ १॥ शशिवत्सौम्याः पापैर्वक्रिभिरवलोकिता न शुभदृष्टाः । मासेन मरणदाः स्युः पापजितो लग्नपश्चास्ते ॥ २॥ राश्यन्तस्थैः पापैः सन्ध्यायां हिममयूखहोरायाम् । मृत्युः प्रत्येलस्थैः केन्द्रेषु शशाङ्कपापैश्च ॥ ३॥ चक्रपाक्पश्चार्द्धे पापशुभैः कीटभोदये मृत्युः । निधनचतुष्टयगैर्वा क्रूरेः क्षीणे शशिन्युदये ॥ ४॥ सप्ताष्टान्त्योदयगे शशिनि सपापे शुभेक्षणवियुक्ते । न च कण्टकेऽस्ति कश्चिच्छुभस्रदा मृत्युरादेश्यः ॥ ५॥ क्षीणेन्दौ द्वदशगे लग्नाष्टम्राशिसंस्थितैः पापैः । सौम्यरहिते च केन्द्रे सद्यो मृत्युर्विनिर्देश्यः ॥ ६॥ चतुरस्रे सप्तमगः पापान्तस्थः शशी मरणदाता । उदयगतो वा चन्द्रः सप्तमराशिस्थितैः पापैः ॥ ७॥ सोपप्लवे शशांके सक्रूरे लग्नगे कुजेऽष्टमगे । मृत्युर्मात्रा सार्द्ध चन्द्रवदर्के च शस्त्रेण ॥ ८॥ लग्न-द्वादश-नवमाऽष्टमसंस्थैश्चन्द्र-सौरि-सूर्य।आरैः । जातस्य भवति मरणं यदि न बलयुतः पतिर्वचसाम् ॥ ९॥ सुतमदननवान्त्पलग्नरन्ध्रेष्वशुभयुतो मरणाय शीतरश्मिः । भृगुसुतशशिपुत्रदेवपूज्यैर्य्र्यदि बलिभिर्न युतोऽवलोकितो वा ॥ १०॥ योगे स्थानं गतवति बलिनश्चन्द्रे स्वं वा तनुगृहमथवा । पापैर्दृष्टे बलवति मरणं वर्षस्यान्तः किल मुनिगदितम् ॥ ११॥ ॥ इति लघुजातके अरिष्टाध्यायः सप्तमः ॥ सर्वानिमानतिबलः स्फुरदंशुजालो लग्नस्थितः प्रशमयेत्सुरराजमन्त्री । एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त इव शूलधरप्रणामः ॥ १॥ लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितैः शुभखगैरवलोक्यमानः । मृत्युं विधूय विदधाति शुदीर्घमायुः सार्द्धं गुणैर्बहुभिरूर्जितया च अक्ष्म्या ॥ २॥ लग्नादष्टमवर्त्यपि बुधगुरुभार्गवदृकाणगश्चन्द्रः । मृत्युं प्राप्तमपि नरं परिरक्षत्येव निर्व्याजम् ॥ ३॥ चन्द्रः सपूर्णतनुः सौम्यर्क्षगतः स्थितः शुभस्यान्तः । प्रकरोति रिष्टभङ्गं विशेषतः शुक्रसंदृष्टः ॥ ४॥ बुधभार्गवजीवानामेकतमः केन्द्रमागतो बलवान् । क्रूरसहायो यद्यपि सद्यो रिष्टस्य भङ्गाय ॥ ५॥ रिपुभवनगतोऽपि शशीगुरुसितचन्द्रात्मजदृकाणस्थः । गुरुड इव भोगिदष्टं परिरक्षत्येव निर्व्याजम् ॥ ६॥ सौम्यद्व्यमध्यगतः सम्पूर्णः स्निग्धमण्डलः शशभृत् । निःशेषरिष्टहन्ता भुजङ्गलोकस्य गरुड इव ॥ ७॥ शशभृति पूर्णशरीरे शुक्ले पक्षे निशाभवे काले । रिपुनिधनस्थे रिष्टं प्रभवति नैवात्र जातस्य ॥ ८॥ प्रस्फुरितकिरणजाले स्निग्धामलमण्डले बलोपेते । सुरमन्त्रिणी केन्द्रगते सर्वारिष्टं शमं याति ॥ ९॥ सौम्यभवनोपयाताः सौम्यांशकगाः सौम्यदृक्काणस्थ्हाः । गुरुचन्द्रकाब्यशशिजाः सर्वेऽरिष्टस्य हन्तारः ॥ १०॥ चन्द्राध्यासितरशेरधिपः लेन्द्रे शुभग्रहो वापि । प्रशमयति रिष्टयोगं पापानि यथा हरिस्मरणम् ॥ ११॥ पापा यदि शुभ्वर्गे सौम्यैर्दृष्टाः शुभेशवर्गस्थैः । निघ्नन्ति तदा पार्तिं विरक्ता यथा युवतिः ॥ १२॥ राहुस्त्रिषष्ठलाभे लग्नात् सौम्यैर्निरीक्षितः सद्यः । नाशयति सर्वदुरितं मरुत इव तूलसंघातम् ॥ १३॥ शीर्षोदयेषु राशिषु सर्वे गगनाधिवासिनः सूतौ । प्रकृतिस्थञ्चारिष्टं विलीयते धृतमिवाग्निस्थम् ॥ १४॥ तत्काले यदि विजयी शुभग्रहः शुभनिरीक्षितोऽवश्यम् । नाशयति यर्वारिष्टं मारुत इब पादपान् प्रबलः ॥ १५॥ पक्षे सिते भवति जन्म यदि क्षपायां कृष्णे तथाऽह्नि शुभाशुभद्ऱ्६इश्यमानः । तं चन्द्रमा रिपुविनाशगतोऽपि यत्ना- दापत्सु रक्षति पितेव शिर्शु न हन्ति ॥ १६॥ ॥ इति लघुजातके अरिष्टमभङ्गाध्यायोऽष्टमः ॥ राश्यंशकला गुणिता द्वादशनवभिर्ग्रहस्य भगणेभ्यः । द्वादसहृतावशेषेऽब्दमासदिननाडिकाः कपशः (कृपशः) ॥ १॥ होरादायोऽप्येवं बलयुक्ताऽन्यानि राशितुल्यानि । वर्षाणि सम्प्रयच्छत्यनुपाताच्चांशकादिफलम् ॥ २॥ वर्गोत्तमस्वराशिद्रेष्काणनवांशके सकृद्द्विगुणम् । वक्रोच्चयोस्त्रिगुणितं द्वित्रिगुणत्वे सकृत्रिगुणम् ॥ ३॥ त्रंशमवक्रो रिपुभे नीचेऽर्घ सूर्यलुप्तकिरणश्च । क्षपयति स्वायुर्दायान्नास्तं यातौ राविजशुक्रौ ॥ ४॥ सर्वार्धत्रिचतुर्थेन्द्रियर्तुभागान् व्ययाद्धरन्त्यशुभाः । सन्तोऽर्धमतो वामं बलवानेकर्क्षगेष्वेकः ॥ ५॥ इति लघुजातके आयुर्दायाध्यायः नवमः ॥ शोध्यक्षेपविशुद्धः कालो यो येन जीविते दत्तः । स विचिन्त्या तस्य दशा स्वदशासु फलप्रदाः सर्वे ॥ १॥ लग्नार्कंशशाङ्कानां यो बलवां स्तदृशा भवेत् प्रथमा । तत्केन्द्रपणफरापोक्लिमगतानां बलाच्छेषाः ॥ २॥ मित्रोच्चस्वगृहाम्शोपगतानां शोभना दशाः सर्वाः । स्वोच्चाभिलाषिणमपि न तु कथितविपर्ययस्थानाम् ॥ ३॥ होरादशा दृकाणैः पूजितमध्याधमा चरे क्रमशः । द्विशरीरे विपरीता स्थिरे तु पापेष्टमध्यफला ॥ ४॥ एकर्क्षेऽर्ध त्र्यंशं त्रिकोणयोः सप्तमे तु सप्तांशम् । चतुरस्रयोस्तु पादं पाचयति गतो ग्रहः स्वगुणैः ॥ ५॥ भागाः सदृशच्छेदैर्विवर्जिताः संयुता दशाच्छेदाः । प्रत्यांशा गुणकाराः पृथक् पृथक् चान्तर्दशास्ताः ॥ ६॥ इति लघुजातके दशान्तर्दशाध्यायः दाशमः ॥ केन्द्रायाष्टद्विनवस्र्वकः स्वादार्किभौमतश्च शुभः । षट्सप्तान्त्येषु सितात् षडायधीधमर्गो जीवात् ॥ १॥ उपचयगोऽर्कश्चन्द्रादुपचयनवमान्त्यधीगतः सौम्यात् । लग्नादुपचयबन्धुव्ययस्थितः शोभनः प्रोक्तः ॥ २॥ शश्युपचयेषु लग्नात्साद्यमुनिः स्वात्कुजात्वनवधीषु । सूर्यत् साष्टस्मरगस्त्रिषडायसुतेषु सूर्यसुतात् ॥ ३॥ ज्ञात्केन्द्रत्रिसुतायाष्टगो गुरोर्व्ययायमृत्युकेन्द्रेषु । त्रिचतुःसुतनवदशमद्युनायगश्चन्द्रमाः शुक्रात् ॥ ४॥ भौमः स्वादायस्वाष्टकेन्द्रगस्त्र्यायषट्सुतेषु बुधात् । जीवादृशाय-शत्रु-व्ययेष्विनादुपचय-सुतेषु ॥ ५॥ उदयादुपचयतनुषु त्रिषडायेष्विन्दुतः समो दशमः । भृगुतोन्त्यषडष्टाय्ष्वसितात् केन्द्रायनववसुषु ॥ ६॥ सौम्योऽन्त्यषण्णवायात्मजेश्विनात् स्वात् त्रितनुदशयुतेषु । चन्द्राद्द्विरिपुदशायाष्टसुखगतः सादिषु विलग्नात् ॥ ७॥ प्रथमसुखायद्विनिधनधर्मेषु सितात् त्रिधीसमेतेषु । साशास्मरेषु सौरारयोर्व्ययायरिपुवसुषु गुरोः ॥ ८॥ जीवो भौमाद्द्वयायाष्टकेन्द्रगोऽर्कात्सधर्मसहजेषु । स्वात् सत्रिकेषु शुक्रान्नवदशलाभस्वधीरिपुषु ॥ ९॥ शशिनः स्वरत्रिकोणार्थलाभगस्त्रिरिपुधीव्ययेषु यमात् । नवदिक्सुखाध्यधीस्वायशत्रुषु ज्ञात्सकामगो लग्नात् ॥ १०॥ शुक्रो लग्नादासुतनवाष्टलाभेषु सव्ययश्चन्द्रात् । स्वात्सदिगसितात्त्रिसुखात्मजाष्ट्दिग्धर्मलाभेषु ॥ ११॥ वस्वन्त्यायेष्वर्कान्नवदिग्लाभाष्टधीस्थितो जीवात् । ज्ञात्त्रिसुतनवायारिष्वायसुतापोऽविलभेषु कुजात् ॥ १२॥ स्वात्सौरिस्त्रिसुतायारिगः कुजादन्त्यकर्मसहितेषु । स्वायाष्टकेन्द्रगोऽर्काच्छ्त्रात्वष्ठान्त्यलाभेषु ॥ १३॥ त्रिषडायगः शशाङ्कादुदयात्ससुखाद्यकर्मगोऽथ गुरोः । सुतषट्व्ययायगो ज्ञात् व्ययायरिपुदिङ्नवाष्टस्थः ॥ १४॥ स्थानेष्वेतुषु शुभाः शेषेष्वहिता भवन्ति चाष्टानाम् । अशुभशुभविशेषफलं ग्रहाः प्रयच्छन्ति चारगताः ॥ १५॥ इति लघुजातके अष्टकवर्गाध्याय एकादशः ॥ राविवर्ज्यं द्वादश्गैरनफा चन्द्राद्द्वितीयगैः सुनफा । उभयस्थितैर्दुरुधरा केमद्रुमसंज्ञकोऽतोऽन्यः ॥ १॥ सच्छिलं विषयसुखान्वितं प्रभु ख्यातियुक्तमनफायाम् । सुनफयां धीधनकिर्तितयुक्तशात्मार्जितैश्वर्याम् ॥ २॥ बहुभृत्यकुटुम्बारम्भं सुखभोगान्वितं च दौर्धरिके । भृतकं दुखितमधनं जात केमद्रुमे विद्यात् ॥ ३॥ भौमः शूरश्चण्डो महाधनो ज्ञानवान् बुधो निपुणः । ऋद्धः शुक्रः सुखितो गुरुर्गुणाढ्यो नृपतिपूज्यः ॥ ४॥ बह्वारम्भः सौरिर्बहुभृत्यः पूजितो गुणैर्विद्धः एषां गुणैः समगुणा ज्ञेया योगोद्भवाः पुरुषाः ॥ ५॥ सूर्याद्द्वितीयमृक्षं विशेस्थानं प्रकीर्तितं यवनैः । तच्चेष्टग्रहयुक्तं जन्मनि चेष्टासु च विलग्नम् ॥ ६॥ यन्त्रज्ञं पापरतं निपुणं क्रूरं च शस्त्रवृत्तिं च । धातुज्ञं च क्रमशश्चन्द्रादिभिरन्वितः सूर्यः ॥ ७॥ चन्द्रोऽङ्गारकपूर्वैः कूटज्ञं प्रश्रितं कुलाभ्यधिकम् । वस्त्रव्यवहारज्ञं क्रमेण पौनर्भवं चापि ॥ ८॥ मल्लो रक्षोऽन्यस्त्रीसक्तो दुःखान्वितः कुजो ज्ञाद्यैः । ज्ञौ जीवाद्यैर्गीतज्ञं वाग्मिनं महेन्द्रजालज्ञम् ॥ ९॥ जीवः सितेन बहुगुणमसितेन समन्वितोऽत्र घटकारम् । स्त्रीस्वं मन्देन सितस्त्रिभिरप्येवं फलानि वदेत् ॥ १०॥ चतुरादिभिरेकस्यैः प्रव्रज्यां स्वां ग्रहः करोति बली । बहुवीर्यैस्ताव्त्यः प्रथमा वीर्याधिकस्यैव ॥ ११॥ तापसवृद्धश्रावकर्क्तवटाजीविभिक्षुचरकाणाम् । निर्ग्रन्थानां चार्कात् पराजितैः प्रच्युतिर्बलिभिः ॥ १२॥ दिनकरलुप्तमयूर्खैरवीक्षिता भक्तिवादिनतेषाम् । याचितदीक्षा बलिभिः पराजितैरन्यडृष्टैर्वा ॥ १३ इति प्रव्रज्यायोगविचारः । अस्थिरविभूतिशित्रं चलनमटनं स्खलितनियममपि चरभे । स्थिरभे तद्विपरीतं क्षमान्वितं दीर्घसूत्रं (दीर्घसून्नं) च ॥ १॥ द्विशरीरे त्यागयुतं कृतज्ञमुत्साहितं विविधचेष्टम् । ग्राम्यारण्यजलोद्भवराशिषु विद्याच्च तच्छीलान् ॥ २॥ क्षेत्राधिपसन्दृष्टे शशिनि नृपस्तत्सुहृद्भिरापि धनवान् । द्रेष्काणांशपैर्वा प्रायः सीम्यैः शुभं नान्यैः ॥ ३॥ पुष्णन्ति शुभा भावान्मूयार्दीन् घ्नन्ति संस्थिताः पापाः । सौम्याः षष्ठेऽरिष्णाः सर्वेऽरिष्टा व्ययाष्टमगाः ॥ ४॥ कर्कवृषाजोपगते चन्द्रे लग्ने धनी सुरूपश्च । विकलाङ्गजडरिद्राः शेषेषु विशेषतः कृष्णे ॥ ५॥ विकलेक्षनोऽर्कलग्ने तैमिरिकोऽजे स्वभे तु राव्यन्घः । बुद्बुद्दृष्टः कर्किणि काणो व्ययगे शशांके वा ॥ ६॥ इष्टं पादविवृद्ध्या मित्रस्वगृहत्रिकोणतुङ्गंषु । रिपुभेऽल्पं फलमर्कोपगतस्य पापं शुभं नैव ॥ ७॥ इति राशिशीलनिरूपणम् । आश्रययोग निरूपणम् तस्करभोक्तृविचक्षणधनिनृपतिनपुंसका।भयदरिद्राः । ख(स्व)लपापोग्नोकृष्टा मेषादीनां नवांशभवा ॥ १॥ कुलतुल्यकुलाधिकबन्धुमान्यधिनभोगिनृपसमनरेन्द्राः । स्वर्क्षगतैकविवृद्धया किञ्चिन्न्युनाः सुहृद्गृहगैः ॥ २॥ त्रिप्रभृतिभरुच्चस्थैर्नृपवंशभवा भवन्ति राजानः । पंचादिभिरन्यकुलोद्भवाश्च तद्वत्त्रिकोणगतैः ॥ ३॥ निर्धनदुःखितमूढव्याधितबन्धाभितप्तवधभाजः । एकोत्तरपरिवृद्ध्या नीचगतैः शत्रुगृघगैर्वा ॥ ४॥ एकोऽपि नृपतिजन्मप्रदो ग्रहः स्वोच्चगः सुहृद्दृष्टः । बलिभिः केन्द्रोपगतैस्त्रिप्रभृतिभिरवनिपालभवः ॥ ५॥ वर्गोत्तमगे चन्द्रे चतुराद्यैर्वीक्षिते विलग्ने वा । नृपजन्म भवति राज्यं नृपयोगे बलयुतदशायाम् ॥ ६॥ उडुपतियोगसमागमभशीलसदर्शनानि भावाश्च । आश्रयराज्यप्रभावाश्चाध्यायेऽस्मिन् क्रमेणोक्ताः ॥ ७॥ इति लघुजातके प्रकीर्णाध्यायः द्वादशः । चर्भवनादिषु सर्वैराश्रयजा रज्जुमुसलयोगाः । ईर्ष्युमानी धनवान् क्रमेण कुलविश्रुताः सर्वे ॥ १॥ दलयोगौ (subtitlurile tin de comentariu) केन्द्रत्रयगैः पापैः शुभर्दलाख्यावहिश्च माला च । सर्पेऽतिदुःखितानां मालायां जन्म सुखिनां च ॥ २॥ द्विरनन्तरकेन्द्रस्थैर्गदाविलग्नास्तसंस्थितैः शकटम् । स्वचतुर्थयोर्विहङ्गः शृङ्गाटकमुदयसुतनवगैः ॥ ३॥ शृण्गाटकतोऽन्यगतैर्हलमेतेषां क्रमात्फलोपनयः । यज्वा शकटाजीवी दूतश्चिरसौम्ख्यभाक्कृषिकृत् ॥ ४॥ क्रूरैः सुखकर्मस्थैः सौम्यैरुदयास्तसंस्थिवर्ज्नम् । यव इति तद्विपरीतैर्मश्रैः कमलं च्युतैर्वापी ॥ ५॥ लग्नादिकण्टकेभ्यश्चतुर्गृहावस्थितैर्ग्रहैर्योगाः । युपेषुशक्तिदण्दा वज्नादीनां फलान्यस्मात् ॥ ६॥ आद्यन्तयोः सुखयुतः सुख भाङ्मध्ये धनान्वितोऽल्पसुखः । त्यागी हिंस्त्रो धनवर्जितः पुमान् प्रियैर्वियुक्तश्च ॥ ७॥ तद्वत् सप्तभसंस्थैर्नौकूतच्छत्रकार्मुकाणि स्युः । नावाद्यैरप्येवं कण्टकान्यथैः स्मृतोऽर्धशशी ॥ ८॥ एकान्तरैर्विलग्नात्षड्भवनावस्थितैर्ग्रहैश्चक्रम् । अर्थाच्च तद्वदुदधिनौप्रभृतिफलान्यथो क्रमशः ॥ ९॥ कीर्त्यायुक्तोऽनतवाक् स्वजनहितः शूरसुभगधनीभूपाः । इत्याकृतिजा योगा विंशतिरात्मगुणैस्तेषु नन्दन्ते ॥ १०॥ एकादिगृहोपगतैरुक्तान् योगान्विहाय सङ्ख्याने । गोल-युग-शूल-केदार-पाश-दामाख्य-वीणाः स्युः ॥ ११॥ दुःखितदरिद्रघातककृषिकरदुःशीलपशुपतिनिपुणानाम् । जन्म क्रमेण सुखिनः परभाग्यैस्सर्व एवैते ॥ १२॥ इति लघुजातके नाभसयोगाध्यायस्त्रयोदशः । त्रीपुंसोर्जन्मफलं तुल्यं कितत्वत्र लग्नचन्द्रस्थम् । तद्बलयोगाद्वपुराकृतिश्च सौभग्यमस्तमयात् ॥ १॥ युग्मर्क्षे लग्नेन्द्वोः प्रकृतिस्था रूपशीलगुणयुक्ता । ओजे पुरूषाकारा दुःशीला दुःखिता चैव ॥ २॥ अबले सप्तमभवने सौम्येक्षणवर्जिते च कापुरूषः । भव्ति पतिश्चरभेऽस्ते प्रवासशीलो भवेद्भ्रान्ती ॥ ३॥ बाल्ये विधवा भौमे पतिसन्त्यक्ता दिवाकरेऽस्तस्थे । सौरे पापैदृष्टे कन्येव जारं समुपयाति ॥ ४॥ सितकुजजीवेन्दुसुतैर्बलिभिर्लग्ने समश्च यदि राशिः । स्त्री ब्रह्मवादिनी स्यात्सुशास्त्रकुशला प्रतीता सा ॥ ५॥ पुञ्जन्मफलं यद्यन्न घटति वनितासु तत्तासाम् । वक्तव्यं राज्याद्यं वृषणविनाशादि वा पापं ॥ ६॥ इति लघुजातके स्त्रीजातकाध्यायः चतुर्दशः । सूर्यादिभिर्निधनगैर्हुतवहहुसलिलायुधज्ववरामवजः । क्षुत्तृट्कृतश्च मृत्युः परदेशे नैधने चरभे ॥ १॥ यो वा निधनं पश्यति बलवाम्स्तद्धातुकोपजो मृत्युः । लग्नात् त्र्यांशपतिर्वा द्वाविंशः कार्णं मृत्योः ॥ २॥ सुरपितृतिर्यङ्नरकान् गुरुरिन्दुसितावसृग्रवी ज्ञयमौ । रिपुरन्ध्रत्र्यंशकपा नयन्ति चाऽस्तारिनिधनास्थाः ॥ ३॥ षष्ठाष्टमकण्टकगो गुरुरुच्चो भवति मीनलग्ने वा । शेषैरबलैर्जन्मनि मरणे वा मोक्षगतिमाहुः ॥ ४॥ गुरुरुडुपतिशुक्रौ पूर्यभौमौ यमग़्यौ विबुधपितृतिरश्चो नारकीयांश्च कुर्युः । दिनकरशशिवीर्याऽधिष्ठितत्र्यंशनाथाः प्रवरसमनिकृष्टास्तुङ्गह्वासादनूके ॥ ५॥ इति लघुजातके निर्याणाध्यायः पञ्चदशः ॥ गोसिंहौ जितुमाष्टमौ क्रियतुले कन्यामृगौ च क्रमात् संवर्ग्या दशकाष्टसप्तविषयैः स्वसंख्यागुणाः । जीवारास्फुजिदैन्दवाः प्रथमवच्छेषा ग्रहाः सौम्यव- द्राशीनां नियतो विधिर्ग्रहयुतैः कार्या च तद्वर्गणा ॥ १॥ सप्ताहतं त्रिघनभाजितशेषमृक्षं दत्वाऽथवा नव शिशोध्य नवाऽथवा स्यात् । एवं कलत्रसहजात्मजशत्रुभेभ्यः प्रष्टुर्वदेदुदयराशिवशेन तेषाम् ॥ २॥ वर्षर्तुमासतिथयो द्युनिशं हयुडुनि वेलोदयर्क्षनवभागविकल्पनाः स्युः । भूयो दशादिगुणिताः स्व्विकल्पभक्ता वर्षादयो नवकदानविशोधनाभ्याम् ॥ ३॥ विज्ञेया दशकेष्वब्दा ऋतुमासातथैव च । अष्टकेष्वपि मासार्ध तिथयश्च तथा स्मृताः ॥ ४॥ दिवारात्रिप्रसूतिं च नक्षत्रानयनं तथा । सप्तसङ्ख्येऽपि वर्गे तु नित्यमेवोपलक्षयेत् ॥ ५॥ वेलामथ विलग्नं च होरामंशकमेव च । पञ्चकेषु विजानीयान्नष्टजातकसिद्धये ॥ ६॥ इति वराहमिहिराचार्यकृते लघुजातके नष्टजातकाध्यायः षोडशः । समाप्तोऽयं ग्रन्थः ।

% Text title            : laghujAtaka
% File name             : laghujAtaka.itx
% itxtitle              : laghujAtakam (varAhamihirAchAryarachitam)
% engtitle              : laghujAtakam
% Category              : jyotiSha, sociology_astrology, varAhamihira
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Author                : Varahamihira
% Language              : Sanskrit
% Subject               : Jyotish
% Transliterated by     : Radu Canahai clradu at yahoo.com
% Proofread by          : Radu Canahai clradu at yahoo.com
% Indexextra            : proofreading pending
% Latest update         : February 04, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP