॥ बृहत्पाराशरहोराशास्त्रम् २१-३० ॥


अथ कर्मभावफलाध्यायः ॥ २१॥ कर्मभावफलं चाऽथ कथयामि तवाग्रतः । सृणु मैत्रेय तत्त्वेन ब्रह्मगर्गादिभाषितम् ॥ १॥ सबले कर्मभावेशे स्वोच्चे स्वांशे स्वराशिगे । जातस्तातसुखेनाढ्यो यशस्वी शुभकर्मकृत् ॥ २॥ कर्माधिपो बलोनश्चेत् कर्मवैकल्यमादिशेत् । सैहिः केन्द्रत्रिकोणस्थो ज्योतिष्टोमादियागकृत् ॥ ३॥ कर्मेशे शुभसंयुक्ते शुभस्थानगते तथा । राजद्वारे च वाणिज्ये सदा लाभोऽन्यथान्यथा ॥ ४॥ दशमे पापसंयुक्ते लाभे पापसमन्विते । दुष्कृतिं लभते मर्त्यः स्वजनानां विदूषकः ॥ ५॥ कर्मेशे नाशराशिस्थे राहुणा संयुते तथा । जनद्वेषी महामूर्खो दुष्कृतिं लभते नरः ॥ ६॥ कर्मेशे द्यूनराशिस्थे मन्दभौमसमन्विते । द्यूनेशे पापसंयुते शिश्नोदरपरायणः ॥ ७॥ तुङ्गराशिं समाश्रित्य कर्मेशे गुरुसंयुते । भाग्येशे कर्मराशिस्थे मानैश्वर्यप्रतापवान् ॥ ८॥ लाभेशे कर्मराशिस्थे कर्मेशे लग्नसंयुते । तावुभौ केन्द्रगौ वापि सुखजीवनभाग् भवेत् ॥ ९॥ कर्मेशे बलसंयुक्ते मीने गुरुसमन्विते । वस्त्राभरणसौख्यादि लभते नात्र संशयः ॥ १०॥ लाभस्थानगते सूर्ये राहुभौमसमन्विते । रविपुत्रेण संयुक्ते कर्मच्छेत्ता भवेन्नरः ॥ ११॥ मीने जीवे भृगुयुते लग्नेशे बलसंयुते । स्वोच्चराशिगते चन्द्रे सम्यग्ज्ञानार्थवान् भवेत् ॥ १२॥ केन्द्रेशे लाभराशिस्थे लाभेशे लग्नसंस्थिते । कर्मराशिस्थिते शुक्रे रत्नवान् स नरो भवेत् ॥ १३॥ केन्द्रत्रिकोणगे कर्मनाथे स्वोच्चसमाश्रिते । गुरुणा सहिते दृष्टे स कर्मसहितो भवेत् ॥ १४॥ कर्मेशे लग्नभावस्थे लग्नेशेन समन्विते । केन्द्रत्रिकोणगे चन्द्रे सत्कर्मनिरतो भवेत् ॥ १५॥ कर्मस्थानगते मन्दे नीचखेचरसंयुते । कर्मांशे पापसंयुक्ते कर्महीनो भवेन्नरः ॥ १६॥ कर्मेशे नाशराशिस्थे रन्ध्रेशे कर्मसंस्थिते । पापग्रहेण संयुक्ते दुष्कर्म निरतो भवेत् ॥ १७॥ कर्मेशे नीचराशिस्थे कर्मस्थे पापखेचरे । कर्मभात्कर्मगे पापे कर्मवैकल्यमादिशेत् ॥ १८॥ कर्मस्थानगते चन्द्रे तदीशे तत्त्रिकोणगे । लग्नेशे केन्द्रभावस्थे सत्कीर्तिसहितो भवेत् ॥ १९॥ लाभेशे कर्मभावस्थे कर्मेशे बलसंयुक्ते । देवेन्द्रगुरुणा दृष्टे सत्कीर्तिसहितो भवेत् ॥ २०॥ कर्मस्थानाधिपे भाग्ये लग्नेशे कर्मसंयुते । लग्नात् पञ्चमगे चन्द्रे ख्यातनामा नरो भवेत् ॥ २१॥ इति कर्मफलं प्रोक्तं संक्षेपेण द्विजोत्तम । लग्नकर्मेशसम्बन्धादूह्यमन्यदपि स्वयम् ॥ २२॥
अथ लाभभावफलाध्यायः ॥ २२॥ लाभभावफलञ्चाथ कथयामि द्विजोत्तम । श्रूयतां जातको लोके यच्छुभत्वे सदा सुखी ॥ १॥ लाभाधिपो यदा लाभे तिष्टेत् केन्द्रत्रिकोणयोः । बहुलाभं तदा कुर्यादुच्चे सूर्यांशगोऽपि वा ॥ २॥ लाभेशे धनराशिस्थे धनेशे केन्द्रसंस्थिते । गुरुणा सहिते भावे गुरुलाभं विनिर्दिशेत् ॥ ३॥ लाभेशे विक्रमे भावे शुभग्रहसमन्विते । षट्त्रिंशे वत्सरे प्राप्ते सहस्रद्वयनिष्कभाक् ॥ ४॥ केन्द्रत्रिकोणगे लाभनाथे शुभसमन्विते । चत्वारिंशे तु सम्प्राप्ते सहस्रार्धसुनिष्कभाक् ॥ ५॥ लाभस्थाने गुरुयुते धने चन्द्रसमन्विते । भाग्यस्थानगते शुक्रे षट्सहस्राधिपो भवेत् ॥ ६॥ लाभाच्च लाभगे जीवे बुधचन्द्रसमन्विते । धनधान्याधिपः श्रीमान्त्रत्नाद्याभरणैर्युतः ॥ ७॥ लाभेशे लग्नभावस्थे लग्नेशे लाभसंयुते । त्रयस्त्रिंशे तु सम्प्राप्ते सहस्रनिष्कभाग् भवेत् ॥ ८॥ धनेशे लाभराशिस्थे लाभेशे धनराशिगे । विवाहात्परतश्चैव बहुभाग्यं समादिशेत् ॥ ९॥ भ्रातृपे लाभराशिस्थे लाभेशे भ्रातृसंस्थिते । भ्रातृभावाद्धनप्राप्तिदिव्याभरणसंयुतः ॥ १०॥ लाभेशे नीचभेऽस्ते वा त्रिके पापसमन्विते । कृते भूरिप्रयत्नेऽपि नैव लाभः कदाचन ॥ ११॥
अथ व्ययभावफलाध्यायः ॥ २३॥ अथाह व्ययभावस्य कथयामि फलं द्विज । व्ययेशे शुभसंयुक्ते स्वभे स्वोच्चगतेऽपि वा ॥ १॥ व्यये च शुभसंयुक्ते शुभकार्ये व्ययस्तदा । चन्द्रो व्ययाधिपो धर्मलाभमन्त्रेषु संस्थितः ॥ २॥ स्वोच्चे स्वर्क्षे निजांशे वा लाभधर्मात्मजांशके । दिव्यागारादिपर्यंको दिव्यगन्धैकभोगवान् ॥ ३॥ परार्ध्यरमणो दिव्यवस्त्रमाल्यादिभूषणः । परार्ध्यवित्तसंयुतो विज्ञो दिनानि नयति प्रभुः ॥ ४॥ एवंस्वशत्रुनीचांशेऽष्टमांशे वाऽष्टमे रिपौ । संस्थितः कुरुते जातं कान्तासुखविवर्जितम् ॥ ५॥ व्ययाधिक्यपरिक्लान्तं दिव्यभोगनिराकृतम् । स हि केन्द्रत्रिकोणस्थः स्वस्त्रियाऽलंकृतः स्वयम् ॥ ६॥ यथा लग्नात् फलं चैतदात्मनः परिकीर्तितम् । एवं भ्रात्रादिभावेषु तत्तत्सर्वं विचारयेत् ॥ ७॥ दृश्यचक्रार्धगाः खेटाः प्रत्यक्षफलदायकाः । अदृश्यार्धगताः खेटाः परोक्षे फलदाः स्मृताः ॥ ८॥ व्ययस्थानगतोः राहुर्भौमार्किरविसंयुतः । तदीशेऽप्यर्कसंयुक्ते नरके पतनं भवेत् ॥ ९॥ व्ययस्थानगते सौम्ये तदीशे स्वोच्चराशिगे । शुभयुक्ते सुभैर्दृष्टे मोक्सः स्यान्नात्र संशयः ॥ १०॥ व्ययेशे पापसंयुक्ते व्यये पापसमन्विते । पापग्रहेण संदृष्टे देशाद्देशान्तरं गतः ॥ ११॥ व्ययेशे शुभराशिस्थे व्ययर्क्षे शुभसंयुते । शुभग्रहेण संदृष्टे स्वदेशात् सञ्चरो भवेत् ॥ १२॥ व्यये मन्दादिसंयुक्ते भूमिजेन समन्विते । सु/भदृष्टेर्न सम्प्राप्तिः पापमूलाद्धनार्जनम् ॥ १३॥ लग्नेशे व्ययराशिस्थे व्ययेशे लग्नसंयुते । भृगुपुत्रेण संयुक्ते धर्ममूलाद्धनव्ययः ॥ १४॥
अथ भावेशफलाध्यायः ॥ २४॥ लग्नेशे लग्नगे देहसुखभाग् भुजविक्रमी । मनस्वी चञ्चलश्चैव द्विभार्यो परगोऽपि व ॥ १॥ लग्नेशे धनगे बालो लाभवान् पण्डितः सुखी । सुशीलो धर्मविन्मानी बहुदारगुणैर्युतः ॥ २॥ लग्नेशे सहजे जातः सिंहतुल्यपराक्रमी । सर्वसम्पद्युतो मानी द्विभार्यो मतिमान् सुखी ॥ ३॥ लग्नेशे सुखगे बालः पितृमातृसुखान्वितः । बहुभ्रातृयुतः कामी गुणरूपसमन्वितः ॥ ४॥ लग्नेशे सुतगे जन्तोः सुतसौख्यं च मध्यमम् । प्रथमापत्यनाशः स्यान्मानी क्रोधी नृपप्रियः ॥ ५॥ लग्नेशे षष्ठगे जातो देहसौख्यविवर्जितः । पापाढ्ये शत्रुतः पीडा सौम्यदृष्टिविवर्जिते ॥ ६॥ लग्नेशे सप्तमे पापे भार्या तस्य न जीवति । शुभेऽटनो दरिद्रो वा विरक्तो वा नृपोऽपि वा ॥ ७॥ लग्नेशेऽष्टमगे जातः सिद्धविद्याविशारदः । रोगी चौरो महाक्रोधी द्यूती च परदारगः ॥ ८॥ लग्नेशे भाग्यगे जातो भाग्यवाञ्जनवल्लभः । विष्णुभक्तः पटुर्वाग्मी दारपुत्रधनैर्युतः ॥ ९॥ लग्नेशे दशमे जातः पितृसौख्यसमन्वितः । नृपमान्यो जने ख्यातः स्वार्जितस्वो न संशयः ॥ १०॥ लग्नेशे लाभगे जातः सदा लाभसमन्वितः । सुशीलः ख्यातकीर्तिश्च बहुदारगुणैर्युतः ॥ ११॥ लग्नेशे व्ययभावस्थे देहसौख्यविवर्जितः । व्यर्थव्ययी महाक्रोधी शुभदृग्योगवर्जिते ॥ १२॥ धनेशे लग्नगे जातः पुत्रवान् धनसंयुतः । कुटुम्बकण्टकः कामी निष्ठुरः परकार्यकृत् ॥ १३॥ धनेशे धनगे जातो धनवान् गर्वसंयुतः । द्विभार्यो बहुभार्यो वा सुतहीनः प्रजायते ॥ १४॥ धनेशे सहजे जातो विक्रमी मतिमान् गुणी । कामी लोभी शुभाढ्ये च पापाढ्ये देवनिन्दकः ॥ १५॥ धनेशे सुखभावस्थे सर्वसम्पतसमन्वितः । गुरुणा संयुते स्वोच्चे राजतुल्यो नरो भवेत् ॥ १६॥ धनेशे सुतभावस्थे जातो धनसमन्वितः । धनोपार्जनशीलाश्च जायन्ते तत्सुता अपि ॥ १७॥ धनेशे रिपुभावस्थे सशुभे शत्रुतो धनम् । सपापे शत्रुतो हानिर्जंघावैकल्यवान् भवेत् ॥ १८॥ धनेशे सप्तमे जातः परदाररतो भिषेक् । पापेक्षितयुते तस्य भार्या च व्यभिचारिणी ॥ १९॥ धनेशेऽष्टमगे जातो भूरिभूमिधनैर्युतः । पत्नीसुखं भवेत् स्वल्पं ज्येष्ठभ्रातृसुखं न हि ॥ २०॥ धनेशे धर्मभावस्थे धनवानुद्यमी पटुः । बाल्ये रोगी सुखी पश्चात् तीर्थधर्मव्रतादिकृत् ॥ २१॥ धनेशे कर्मगे जातः कामी मानी च पण्डितः । बहुदार्यधनैर्युक्तः किञ्च पुत्रसुखोज्झितः ॥ २२॥ धनेशे लाभभावस्थे सर्वलाभसमन्वितः । सदोद्योगयुतो मानी कीर्तिमान् जायते नरः ॥ २३॥ धनेशे व्ययभावस्थे साहमी धनवर्जितः । परभाग्यरतस्तस्य ज्येष्ठापत्यसुखं नहि ॥ २४॥ लग्नगे सहजाधीशे स्वभुजार्जितवित्तवान् । सेवाज्ञः साहसी जातो विद्याहीनोऽपि बुद्धिमान् ॥ २५॥ द्वितीये सहजाधीशे स्थूलो विक्रमवर्जितः । स्वल्पारम्भी सुखी न स्यात् परस्त्रीधनकामुकः ॥ २६॥ सहजे सहजाधीशे सहोदरसुखान्वितः । धनपुत्रयुतो हृष्टो भुनक्ति सुखमद्भुतम् ॥ २७॥ सुखस्थे सहजाधीशे सुखी च धनसंयुतः । मतिमान् जायते बालो दुष्टभार्यापतिश्च सः ॥ २८॥ सुतस्थे सहजाधीशे पुत्रवान् गुणसंयुतः । भार्या तस्य भवेत् क्रूरा क्रूरग्रहयुतेक्षिते ॥ २९॥ षष्ठभावे त्र्तीयेशे भ्रातृशत्रुर्महाधनी । मातुलैश्च समं वैरं मातुलानीप्रियो नरः ॥ ३०॥ सप्तमे सहजाधीशे राजसेवापरो नरः । बाल्ये दुःखी सुखी चान्ते जायते नाऽत्र संशयः ॥ ३१॥ अष्टमे सहजाधीशे जातश्चैरो नरो भवेत् । दासवृत्त्योपजीवी च राजद्वारे मृतिर्भवेत् ॥ ३२॥ नवमे सहजाधीशे पितुः सुखविवर्जितः । स्त्रीभिर्भाग्योदयस्तस्य पुत्रादिसुखसंयुतः ॥ ३३॥ दशमे सहजाधीशे जातः सर्वसुखान्वितः । स्वभुजार्जिवित्तश्च दुष्टस्त्रीभरणे रतः ॥ ३४॥ लाभगे सहजाधीशे व्यापारे लाभवान् सदा । विद्याहीनोऽपि मेधावी साहसी परसेवकः ॥ ३५॥ व्ययस्थे सहजाधीशे कुतार्ये व्ययकृज्जनः । पिता तस्य भवेत् क्रूरः स्त्रीभिर्भाग्योदयस्तथा ॥ ३६॥ सुखेशे धनगे जातो विद्यागुणविभूषितः । भूमीवाहनसंयुक्तो मातुः सुखसमन्वितः ॥ ३७॥ सुखेशे धनगे जातो भोगी सर्वधनान्वितः । कुटुम्बसहितो मानी साहसी कुहकान्वितः ॥ ३८॥ सुखेशे सहजे जातो विक्रमी भृत्यसंयुतः । उदारोऽरुग् गुणी दाता स्वभुजार्जितवित्तवान् ॥ ३९॥ सुखेशे सुखभावस्थे मन्त्री सर्वधनान्वितः । चतुरः शीलवान् मानी ज्ञानवान् स्त्रीप्रियः सुखी ॥ ४०॥ सुखेशे पुत्रभावस्थे सुखी सर्वजनप्रियः । विष्णुभक्तो गुणी मानी स्वभुजार्जितवित्तवान् ॥ ४१॥ सुखेशे रिपुभावस्थे मातुः सुखविवर्जितः । क्रोधी चोरोऽभिचारी च स्वेच्छाचारश्च दुर्मनाः ॥ ४२॥ सुखेशे सप्तमे जातो बहुविद्यासमन्वितः । पित्रार्जितधनत्यागी सभायां मूकवद् भवेत् ॥ ४३॥ सुखेशे रन्ध्रभावस्थे गृहादिसुखवर्जितः । पित्रोः सुखं भवेदल्पं जातः क्लीबसमो भवेत् ॥ ४४॥ सुखेशे भाग्यभावस्थे जातः सर्वजनप्रियः । देवभक्तो गुणी मानी भवेत् सर्वसुखान्वितः ॥ ४५॥ सुखेशे कर्मभावस्थे राजमान्यो नरो भवेत् । रसायनी महाहृष्टो सुखभोगी जितेन्द्रियः ॥ ४६॥ सुखेशे लाभगे जातो गुप्तरोगभयान्वितः । उदारी गुणवान् दाता परोपकरणे रतः ॥ ४७॥ सुखेशे व्ययभावस्थे गृहादिसुखवर्जितः । जातो दुर्व्यसनी मूढः सदाऽलस्यसमन्वितः ॥ ४८॥ सुतेशे लग्नगे जातो विद्यान् पुत्रसुखान्वितः । कदर्यो वक्रचित्तश्च परद्रव्यापहारकः ॥ ४९॥ सुतेशे धनगे जातो बहुपुत्रो धनान्वितः । कुटुम्बपोषको मानी स्त्रीप्रियः सुयशा भुवि ॥ ५०॥ सुतेशे सहजे भावे जायते सोदरप्रियः । पिशुनश्च कदर्यश्च स्वकार्यनिरतः सदा ॥ ५१॥ सुतेशे सुखभावस्थे सुखी मातृसुखान्वितः । लक्ष्मीयुक्तः सुबुद्धिश्च राज्ञोऽमात्योऽथवा गुरुः ॥ ५२॥ सुतेशे सुतभावस्ते शुभाढ्ये पुत्रवान् नरः । पापाढ्येऽपत्यहीनोऽसौ गुणवान् मित्रवत्सलः ॥ ५३॥ सुतेशे रिपुभावस्थे पुत्रः शत्रुसमो भवेत् । मृतापत्योऽथवा जातो दत्तक्रीतसुतोऽथवा ॥ ५४॥ सुतेशे सप्तमे मानी सर्वधर्मसमन्वितः । पुत्रादिसुखयुक्तश्च परोपकरणे रतः ॥ ५५॥ सुतेशे रन्ध्रभावस्थे स्वल्पपुत्रसुखान्वितः । कासश्वाससमायुक्तः क्रोधी च सुखवर्जितः ॥ ५६॥ सुतेशे भाग्यगे पुत्रो भपो वा तत्समो भवेत् । स्वयं वा ग्रन्थकर्ता च विख्यातः कुलदीपकः ॥ ५७॥ सुतेशे राज्यभावस्थे राजयोगो हि जायते । अनेकसुखभोगी च ख्यातकीर्तिर्नरो भवेत् ॥ ५८॥ सुतेशे लाभगे जातो विद्यावान् जनवल्लभः । ग्रन्थकर्ता महादक्षो बहुपुत्रधनान्वितः ॥ ५९॥ सुतेशे व्ययभावस्थे जातः पुत्रसुखोज्ज्ञितः । दत्तपुत्रयुतो वाऽसौ क्रीतपुत्रान्वितोऽथवा ॥ ६०॥ षष्ठेशे लग्नगे जातो रोगवान् कीर्तिसंयुतः । आत्मशत्रुर्धनी मानी साहसी गुणवान् नरः ॥ ६१॥ षष्ठेशे धनभावस्थे साहसी कुलविश्रुतः । परदेशी सुखी वक्ता स्वकर्मनीरतः सदा ॥ ६२॥ षष्ठेशे सहजः जातः क्रोधी विक्रमवर्जितः । भ्राता शत्रुसमस्तस्य भृत्यश्चोत्तरदायकः ॥ ६३॥ षष्ठेशे सुखभावस्थे मातुः सुखविवर्जितः । मनस्वी पिशुना द्वेषी चलचित्तोऽतिवित्तवान् ॥ ६४॥ षष्ठेशे सुतगो यस्य चलं तस्य धनादिकम् । शत्रुता पुत्रमित्रैश्च सुखी स्वार्थी दयान्वितः ॥ ६५॥ षष्ठेशे रिपुभावस्थे वैरं स्वज्ञातिमण्डलात् । अन्यैः सह भवेन् मैत्री सुखं मध्यं धनादिजम् ॥ ६६॥ षष्ठेशे दारभावस्थे जातो दारसुखोज्झितः । कीर्तिमान् गुणवान् मानी साहसी धनसंयुतः ॥ ६७॥ षष्ठेशेऽष्टमगे जातो रोगी शत्रुर्मनीषिणाम् । परद्रव्याभिलाषी च परदाररतोऽशुचिः ॥ ६८॥ षष्ठेशे भाग्यगे जातः काष्ठपाषाणविक्रयी । व्यवहारे क्वचिद्धानिः क्वचिद्वृद्धिश्च जायते ॥ ६९॥ षष्ठेशे दशमे भावे मानवः कुलविश्रुतः । अभक्तश्च पितुर्वक्ता विदेशे च सुखी भवेत् ॥ ७०॥ षष्ठेशे लाभगे जातः शत्रुतो धनमाप्नुयात् । गुणवान् साहसी मानी किन्तु पुत्रसुखोज्झितः ॥ ७१॥ षष्ठेशे व्ययभावस्थे व्यसने व्ययकृत् सदा । विद्वद्द्वेषी भवेज्जातो जीवहिंसासु तत्परः ॥ ७२॥ दारेशे लग्नगे जातः परदारेषु लम्पटः । दुष्टो विचक्षणोऽधीरो जनो वातरुजान्वितः ॥ ७३॥ दारेशे धनगे जातो बहुस्त्रीभिः समन्वितः । दारयोगाद्धनाप्तिश्च दीर्घसूत्री च मानवः ॥ ७४॥ दारेशे सहजे जातो मृतापत्यो हि मानवः । कदाचिज्जायते पुत्री यत्नात् पुत्रोऽपि जीवति ॥ ७५॥ दारेशे सुखभावस्थे जाया नास्य वशे सदा । स्वयं सत्यप्रियो धीमान् धर्मात्मा दन्तरोगयुक् ॥ ७६॥ दारेशे पञ्चमे जातो मानि सर्वगुणान्वितः । सर्वदा हर्षयुक्तश्च तथा सर्वधनाधिपः ॥ ७७॥ दारेशे रिपुभावस्थे भार्या तस्य रुजान्विता । स्त्रिया सहाऽथ वा वैरं स्वयं क्रोधी सुखोज्झितः ॥ ७८॥ दारेशे सप्तमे भावे जातो दारसुखान्वितः । धीरो विचक्षणो धीमान् केवलं वातरोगवान् ॥ ७९॥ दारेशे मृत्युभावस्थे जातो दारसुखोज्झितः । भार्याऽपि रोगयुक्ताऽस्य दुःशीलाऽपि न चानुगा ॥ ८०॥ दारेशे धर्मभावस्थे नानास्त्रीभिः समागमः । जायाहृतमना जातो बह्वारम्भकरो नरः ॥ ८१॥ दारेशे कर्मभावस्थे नास्य जाया वशानुगा । स्वयं धर्मरतो जातो धनपुत्रादिसंयुतः ॥ ८२॥ दारेशे लाभभावस्थे दारैरर्थसमागमः । पुत्रादिसुखमल्पं च जनः कन्यप्रजो भवेत् ॥ ८३॥ दारेशे व्ययगे जातो दरिद्रः कृपणोऽपि वा । भार्या;पि व्ययशीलाऽस्य वस्त्राजीवी नरो भवेत् ॥ ८४॥ अष्टमेशे तनौ जातस्तनुसौख्यविवर्जितः । देवानां ब्राह्मणानां च निन्दको व्रणसंयुतः ॥ ८५॥ अष्टमेशे धने बाहुबलहीनः प्रजायते । धनं तस्य भवेत् स्वल्पं नष्ट वित्तं न लभ्यते ॥ ८६॥ रन्ध्रेशे सहजे भावे भ्रातृसौख्यं न जायते । सालस्यो भृत्यहीनश्च जायते बलवर्जितः ॥ ८७॥ रन्ध्रेशे सुखभावस्थे मातृहीनो भवेच्छिशुः । गृहभूमिसुखैर्हीनो मित्रद्रोही न संशयः ॥ ८८॥ रन्ध्रेशे सुतभावस्थे जडबुद्धिः प्रजायते । स्वल्पप्रज्ञो भवेज्जतो दीर्घायुश्च धनान्वितः ॥ ८९॥ रन्ध्रेशे रिपुभावस्थे शत्रुजेता भवेज्जनः । रोगयुक्तशरीरश्च बाल्ये सर्पजलाद् भयम् ॥ ९०॥ रन्ध्रेशे दारभावस्थे तस्य भार्याद्वयं भवेत् । व्यापारे च भवेधानिस्तस्मिन् पापयुते ध्रुवम् ॥ ९१॥ रन्ध्रेशे मृत्युभावस्थे जाता दीर्घायुषा युतः । निर्बले मध्यमायुः स्याच्चौरो निन्द्योऽन्यनिन्दकः ॥ ९२॥ अष्टमेशे तपःस्थाने धर्मद्रोही च नास्तिकः । दुष्टभार्यापतिश्चैव परद्रव्यापहारकः ॥ ९३॥ रन्ध्रेशे कर्मभावस्ते पितृसौख्यविवर्जितः । पिशुनः कर्महीनश्च यदि नैव शुभेक्षिते ॥ ९४॥ रन्ध्रेशे लाभभावस्थे सपापे धनवर्जितः । बाल्ये दुःखी सुखी पश्चात् दीर्घायुश्च शुभान्विते ॥ ९५॥ रन्ध्रेशे व्ययभावस्थे कुकार्ये व्ययकृत् सदा । अल्पायुश्च भवेज्जातः सपापे च विशेषतः ॥ ९६॥ भाग्येशे लग्नगे जातो भाग्यवान् भूपवन्दितः । सुशीलश्च सुरूपश्च विद्यावान् जनपूजितः ॥ ९७॥ भाग्येशे धनभावस्थे पण्डितो जनवल्लभः । जायते धनवान् कामी स्त्रीपुत्रादिसुखान्वितः ॥ ९८॥ भाग्येशे भ्रातृभावस्थे जातो भ्रातृसुखान्वितः । धनवान् गुणवांश्चापि रूपशीलसमन्वितः ॥ ९९॥ भाग्येशे तुर्यभावस्थे गृहयानसुखान्वितः । सर्वसम्पत्तियुक्तश्च मातृभक्तो भवेन्नरः ॥ १००॥ भाग्येशे सुतभावस्थे सुतभाग्यसमन्वितः । गुरुभक्तिरतो धीरो धर्मात्मा पण्डितो नरः ॥ १०१॥ भाग्येशे रिपुभावस्थे स्वल्पभाग्यो भवेन्नरः । मातुलादिसुखैर्हीनः शत्रुभिः पीडितः सदा ॥ १०२॥ भाग्येशे दारभावस्थे दारयोगात् सुखोदयः । गुणवान् कीर्तिमांश्चापि जायते द्विजसत्तमः ॥ १०३॥ भाग्येशे मृत्युभावस्थे भाग्यहीनो नरो भवेत् । ज्येष्ठभ्रातृसुखं नैव तस्य जातस्य जायते ॥ १०४॥ भाग्येशे भाग्यभावस्थे बहुभाग्यसमन्वितः । गुणसौन्दर्यसम्पन्नो सहजेभ्यः सुखं बहु ॥ १०५॥ भाग्येशे कर्मभावस्थे जातो राजाऽथ तत्समः । मन्त्री सेनापतिर्वाऽपि गुणवान् जनपुजितः ॥ १०६॥ भाग्येशे लाभभावस्थे धनलाभो दिने दिने । भक्तो गुरुजनानां च गुणवान् पुण्यवानपि ॥ १०७॥ भाग्येशो व्ययभावस्थो भाग्यहानिकरो नृणाम् । शुभकार्ये व्ययो नित्यं निर्धनोऽतिथिसङ्गमात् ॥ १०८॥ कर्मेशे लग्नगे जातो विद्वान् ख्यातो धनी कवीः । बाल्ये रोगी सुखी पश्चाद् धनवृद्धिर्दिने दिने ॥ १०९॥ राज्येशे धनभावस्थे धनवान् गुणसंयुतः । राजमान्यो वदान्यश्च पित्रादिसुखसंयुतः ॥ ११०॥ कर्मेशे सहजे जातो भ्रातृभृत्यसुखान्वितः । विक्रमी गुणसम्पन्नः वाग्मी सत्यरतो नरः ॥ १११॥ कर्मेशे सुखभावस्थे सुखी मातृहिते रतः । यानभूमिगृहाधीशो गुणवान् धनवानपि ॥ ११२॥ कर्मेशे सुतभावस्थे सर्वविद्यासमन्वितः । सर्वदा हृर्षसंयुक्तो धनवान् पुत्रवानपि ॥ ११३॥ कर्मेशे रिपुभावस्थे पितृसौख्यविवर्जितः । चतुरोऽपि धनैर्हीनः शत्रुभिः परिपीडितः ॥ ११४॥ राज्येशे दारभावस्थे जातो दारसुखान्वितः । मनस्वी गुणवान् वाग्मी सत्यधर्मरतः सदा ॥ ११५॥ कर्मेशे रन्ध्रभावस्थे कर्महीनो भवेन्नरः । दीर्घायुरप्यसौ जातः परनिन्दापरायणः ॥ ११६॥ राज्येशे भाग्यभे जातो राजा राजकुलोद्भवः । तत्समोऽन्यकुलोत्पन्नो धनपुत्रादिसंयुतः ॥ ११७॥ कर्मेशे राज्यभावस्थे सर्वकर्मपटुः सुखी । विक्रमी सत्यवक्ता च गुरुभक्तिरतो नरः ॥ ११८॥ राज्येशे लाभभावस्थे जातो धनसुतान्वितः । हर्षवान् गुणवांश्चापि सत्यवक्ता सदा सुखी ॥ ११९॥ राज्येशे व्ययभावस्थे तस्य राजगृहे व्ययः । शत्रुतोऽपि भयं नित्यं चतुरश्चापि चिन्तितः ॥ १२०॥ लाभेशे लग्नगे जातः सात्त्विको धनवान् सुखी । समदृष्टिः कविर्वाग्मी सदा लाभसमन्वितः ॥ १२१॥ लाभेशे धनभावस्थे जातः सर्वधनान्वितः । सर्वसिद्धियुतो दाता धार्मिकश्च सुखी सदा ॥ १२२॥ लाभेशे सहजे जातः कुशलः सर्वकर्मसु । धनी भ्रातृसुखोपेतः शूलरोगभयं क्वचित् ॥ १२३॥ लाभेशे सुखभावस्थे लाभो मातृकुलाद् भवेत् । तीर्थयात्राकरो जातो गृहभूमिसुखान्वितः ॥ १२४॥ लाभेशे सुतभावस्थे भवन्ति सुखिनः सुताः । विद्यवन्तोऽपि सच्छीलाः स्वयं धर्मरतः सुखी ॥ १२५॥ लाभेशे रोगभावस्थे जातो रोगसमन्वितः । क्रूरबुद्धिः प्रवासी च शत्रुभि परिपीडितः ॥ १२६॥ लाभेशे दारभावस्थे लाभो दारकुलात् सदा । उदारश्च गुणी कामी जनो भार्यावशानुगः ॥ १२७॥ लाभेशे रन्ध्रभावस्थे हानिः कार्येषु जायते । तस्यायुश्च भवेद्दीर्घं प्रथमं मरणं स्त्रियः ॥ १२८॥ लभेशे भाग्यभावस्थे भाग्यवान् जायते नरः । चतुरः सत्यवादी च राजपुज्यो धनाधिपः ॥ १२९॥ लाभेशे कर्मभावस्थे भूपवन्द्यो गुणान्वितः । निजधर्मरतो धीमान् सत्यवादी जितेन्द्रियः ॥ १३०॥ लाभेशे लाभभावस्थे लाभः सर्वेषु कर्मसु । पण्डित्यं च सुखं तस्य वर्द्धते च दिने दिने ॥ १३१॥ लाभेशे व्ययभावस्थे सत्कार्येषु व्ययः सदा । कामुको बहुपत्नीको म्लेच्छसंसर्गकारकः ॥ १३२॥ व्ययेशे लग्नगे जातो व्ययशीलो जतो भवेत् । दुर्बलः कफरोगी च धनविद्याविवर्जितः ॥ १३३॥ व्ययेशे धनभावस्थे शुभकार्ये व्ययः सदा । धार्मिकः प्रियवादी च गुणसौख्यसमन्वितः ॥ १३४॥ व्ययेशे सहजे जातो भ्रातृसौक्यविवर्जितः । भवेदन्यजनद्वेषी स्वशरीरस्य पोषकः ॥ १३५॥ व्ययेशे सुखभावस्थे मातुः सुखविवर्जितः । भूमियानगृहादीनां हानिस्तस्य दिनेदिने ॥ १३६॥ व्ययेशे सुतभावस्थे सुतविद्याविवर्जितः । पुत्रार्थे च व्ययस्तस्य तीर्थाटनपरो नरः ॥ १३७॥ व्ययेशे रिपुभावस्थे जातः स्वजनवैरकृत् । क्रोधी पापी च दुःखी च परजायारतो नरः ॥ १३८॥ व्ययेशे दारभावस्थे व्ययो दारकृतः सदा । तस्य भार्यासुखं नैव बलविद्याविवर्जितः ॥ १३९॥ व्ययेशे मृत्युभावस्थे जातो लाभान्वितः सदा । प्रियवाङ् मध्यमायुश्च सम्पूर्णगुणसंयुतः ॥ १४०॥ व्ययेशे भाग्यभावस्थे गुरुद्वेषी भवेन्नरः । मित्रैरपि भवेद्वैरं स्वार्थसाधनतत्परः ॥ १४१॥ व्ययेशे राज्यभावस्थे व्ययो राजकुलाद्भवेत् । पितृतोऽपि सुखं तस्य स्वल्पमेव हि जायते ॥ १४२॥ व्ययेशे लाभभावस्थे लाभे हानिः प्रजायते । परेण रक्षितं द्रव्यं कदाचिल्लभते नरः ॥ १४३॥ व्ययेशे व्ययभावस्थे व्ययाधिक्यं हि जायते । न शरीरसुखं तस्य क्रोधी द्वेषपरो नृणाम् ॥ १४४॥ इति ते कथितं विप्र भावेशानां च यत् फलम् । बलाबलविवेकेन सर्वेषं तत्समादिशेत् ॥ १४५॥ द्विराशीशस्य खेटस्य विदित्वोभयथा फलम् । विरोधे तुल्यफलयोर्द्वयोर्नाशः प्रजायते ॥ १४६॥ विभिन्नयोस्तु फलयोर्द्वयोः प्राप्तिर्भवेद्ध्रुवम् । ग्रहे पूर्णबले पुर्णमर्धमर्धबले फलम् ॥ १४७॥ पादं हीनबले खेटे ज्ञेयमित्थं बुधैरिति । उक्तं भावस्थितानां ते भावेशानां पलं मया ॥ १४८॥
अथाऽप्रकाशग्रहफलाध्यायः ॥ २५॥ रव्यादिसप्तखेटानां प्रोक्तं भावफलं मया । अप्रकाशग्रहाणां च फलानि कथयाम्यहम् ॥ १॥ शूरो विमलनेत्रांशः सुस्तब्धो निर्घृणः खलः । मूर्तिस्थे धूमसंज्ञे च गाढरोषो नरः सदा ॥ २॥ रोगी धनी तु हीनाङ्गो राज्यापहृतमानसः । धूमे द्वितीये सम्प्राप्ते मन्दप्रज्ञो नपुंसकः ॥ ३॥ मतिमान् शौर्यसम्पन्न इष्टचितः प्रियंवदः । धूमे सहजभावस्थे जनाढ्यो धनवान् भवेत् ॥ ४॥ कलत्राङ्गपरित्यक्तो नित्यं मनसि दुःखितः । धूमे चतुर्थे सम्प्राप्ते सर्वशास्त्रार्थचिन्तकः ॥ ५॥ स्वल्पापत्यो धनैर्हीनो धूमे पञ्चमसंस्थिते । गुरुत सर्वभक्षं च सुहृन्मन्त्रविवर्जितः ॥ ६॥ बलवाञ्छत्रुवधको धूमे च रिपुभावगे । बहुतेजोयुतः ख्यातः सदा रोगविवर्जितः ॥ ७॥ निर्धनः सततं कामी परदारेषु कोविदः । धूमे सप्तमगे जातो निस्तेजाः सर्वदा भवेत् ॥ ८॥ विक्रमेण परित्यक्तः सोत्साहो सत्यसङ्गरः । अप्रियो निष्ठुरः स्वार्थी धूमे मृत्युगते सति ॥ ९॥ सुतसौभाग्यसम्पन्नो धनी मानी दयान्वितः । धर्मस्थाने स्थिते धूमे धर्मवान् बन्धुवत्सलः ॥ १०॥ सुतसौभाग्यसंयुक्तः सन्तोषी मतिमान् सुखी । कर्मस्थे मानवो नित्यं धूमे सत्यपदस्थितः ॥ ११॥ धनधान्यहिरण्याढ्यो रूपवांश्च कलान्वितः । धूमे लाभगते चैव विनीतो गीतकोविदः ॥ १२॥ पतितः पापकर्मा च धूमे द्वादशसङ्गते । परदारेषु संसक्तो व्यसनी निर्घृणः शठः ॥ १३॥ लग्ने पाते च सम्प्राप्ते जातको दुःखीपीडितः । क्रूरो घातकरो मूर्खो द्वेषी बन्धुजनस्य च ॥ १४॥ जिह्मोऽतिपित्तवान् भोगी धनस्थे पातसंज्ञके । निर्घृणश्चाऽकृतज्ञश्च दुष्टात्मा पापकृत्तथा ॥ १५॥ स्थिरप्रज्ञो रणी दाता धनाढ्यो राजवल्लभः । सम्प्राप्ते सहजे पाते सेनाधीशो भवेन्नरः॥ १६॥ बन्धव्याधिसमायुक्तः सुतसौभाग्यवर्जितः । चतुर्थगो यदा पातस्तदा स्यान्मनुजश्च सः ॥ १७॥ दरिद्रो रूपसंयुक्तः पाते पञ्चमगे सति । कफपित्तानिलैर्युक्तो निष्ठुरो निरपत्रपः ॥ १८॥ शत्रुहन्ता सुपुष्टश्च सर्वास्त्राणां च चालकः । कलासु निपुणः शान्तः पाते शत्रुगते सति ॥ १९॥ धनदारसुतैस्त्यक्तः स्त्रीजितो दुःखसंयुतः । पाते कलत्रगे कामी निर्लज्जः परसौहृदः ॥ २०॥ विकलाक्षो विरूपश्च दुर्भगो द्विजनिन्दकः । मृत्युस्थाने स्थिते पाते रक्तपीडापरिप्लुतः ॥ २१॥ बहुव्यापारको नित्यं बहुमित्रो बहुश्रुतः । धर्मभे पातखेटे च स्त्रीप्रियश्च प्रियंवदः ॥ २२॥ सश्रीको धर्मकृछान्तो धर्मकार्येषु कोविदः । कर्मस्थे पातसंज्ञे हि महाप्राज्ञो विचक्षणः ॥ २३॥ प्रभूतधनवान् मानी सत्यवादी दृढव्रतः । अश्वढ्यो गीतसंसक्तः पाते लाभगते सति ॥ २४॥ कोपी च बहुकर्माढयो व्यंगो धर्मस्य दूषकः । व्ययस्थाने गते पाते विद्वेषी निजबन्धुषु ॥ २५॥ विद्वान् सत्यरतः शान्तो धनवान् पुत्रवाञ्छुचिः । परिधो तनुगे दाता जायते गुरुवत्सलः ॥ २६॥ ईश्वरो रूपवान् भोगी सुखी धर्मपरायणः । धनस्थे परिधौ जातः प्रभुर्भवति मानवः ॥ २७॥ स्त्रीवल्लभः सुरूपांगो देवस्वजनसंगतः । तृतीये परिधौ भृत्यो गुरुभक्तिसमन्वितः ॥ २८॥ परिधौ सुखभावस्थे विस्मितं त्वरिमंगलम् । अक्रूरं त्वथ सम्पूर्णं कुरुते गीतकोविदम् ॥ २९॥ लक्ष्मीवान् शीलवान् कान्तः प्रियवान् धर्मवत्सलः । पञ्चमे परिधौ जातः स्त्रीणां भवति वल्लभः ॥ ३०॥ व्यक्तोऽर्थपुत्रवान् भोगी सर्वसत्त्वहिते रतः । परिधौ रिपुभावस्थे शत्रुहा जायते नरः ॥ ३१॥ स्वल्पापत्यः सुखैर्हीनो मन्दप्रज्ञः सुनिष्ठुरः । परिधौ द्यूनभावस्थे स्त्रीणां व्याधिश्च जायते ॥ ३२॥ अध्यात्मचिन्तकः शान्तो दृढकायो दृढव्रतः । धर्मवांश्च ससत्त्वश्च परिधौ रन्ध्रसंस्थिते ॥ ३३॥ पुत्रान्वितः सुखी कान्तो धनाढयो लौल्यवर्जितः । परिधौ धर्मगे मानी स्वल्पसन्तुष्टमानसः ॥ ३४॥ कलाभिज्ञस्तथा भोगी दृढकायो ह्यमत्सरः । परिधौ दशमे प्राप्ते सर्वशास्त्रार्थपारगः ॥ ३५॥ स्त्रीभोगी गुणवांश्चैव मतिमान् स्वजनप्रियः । लाभगे परिधौ जातो मन्दाग्निरूपपद्यते ॥ ३६॥ व्ययस्ते परिधौ जातो व्ययकृत् मानवः सदा । दुःखभाग् दुष्टबुद्धिश्च गुरुनिन्दापरायणः ॥ ३७॥ धनधान्यहिरण्याढ्यः कृतज्ञः सम्मतः सताम् । सर्वदोषपरित्यक्तश्चापे तनुगते नरः ॥ ३८॥ प्रियंवदः प्र्गल्भाढ्यो विनीतो विद्ययाऽन्वितः । धनस्थे चापखेटे च रूपवान् धर्मतत्परः ॥ ३९॥ कृपणोऽतिकलाभिज्ञश्चौर्यकर्मरतः सदा । सहजे धनुषि प्राप्ते हीनाङ्गो गतसौहृदः ॥ ४०॥ सुखी गोधनधान्याद्यै राजसन्मानपूजितः । कार्मुके सुखसंस्थे तु नीरोगो तनु जायते ॥ ४१॥ रुचिमान् दीर्घदर्शो च देवभक्तः प्रियंवदः । चापे पञ्चमगे जातो विवृद्धः सर्वकर्मसु ॥ ४२॥ शत्रुहन्ताऽतिधर्तश्च सुखी प्रीतिरुचिः शुचिः । षष्ठस्थानगते चापे सर्वकर्मसमृद्धिभाक् ॥ ४३॥ ईश्वरो गुणसम्पूर्णः शास्त्रबिद्धार्भिकः प्रियः । चापे सप्तमभावस्थे भवतीति न संशयः ॥ ४४॥ परकर्मरतः क्रूरः परदारपरायणः । अष्टमस्थानगते चापे जायते विकलांगकः ॥ ४५॥ तपस्वी व्रतचर्यासु निरतो विद्ययाऽधिकः । धर्मस्थे जायते चापे मानवो लोकविश्रुतः ॥ ४६॥ बहुपुत्रधनैश्वर्यो गोमहिष्यादिमान् भवेत् । कर्मभे चापसंयुक्ते जायते लोकविश्रुतः ॥ ४७॥ लाभगे चपखेटे च लाभयुक्तो भवेन्नरः । निरोगो दृढकोपाग्निर्मन्त्रस्त्रीपरमास्त्रवित् ॥ ४८॥ खलोऽतिमानी दुर्बुद्धिर्निर्लज्जो व्ययसंस्थिते । चापे परस्त्रीसंयुक्तो जायते निर्धनः सदा ॥ ४९॥ कुशलः सर्वविद्यासु सुखी वाङ्निपुनः प्रियः । तनौ शिखिनि सञ्जातः सर्वकामान्वितो भवेत् ॥ ५०॥ वक्ता प्रियंवदः कान्तो धनस्थानगते ध्वजे । काव्यकृत् पण्डितो मानी विनीतो वाहनान्वितः ॥ ५१॥ कदर्यः क्रूरकर्ता च कृशाङ्गो धनवर्जितः । सहजस्थे तु शिखिनि तीव्ररोगी प्रजायते ॥ ५२॥ रूपवान् गुणसम्पन्नः सात्त्विकोऽपि स्रुतिप्रियः । सुखसंस्थे तु शिखिनि सदा भवति सौख्यभाक् ॥ ५३॥ सुखी भोगी कलाविच्च पञ्चमस्थानगे ध्वजे । युक्तिज्ञो मतिमान् वाग्मी गुरुभक्तिसमन्वितः ॥ ५४॥ मातृपक्षक्षयकरः शत्रुहा बहुवान्धवः । रिपुस्थाने ध्वजे प्राप्ते शूरः कान्तो विचक्षणः ॥ ५५॥ द्यूतक्रीडाष्वभिरतः कामी भोगसमन्वितः । ध्वजे तु सप्तमस्थागे वेश्यासु कृतसौहृदः ॥ ५६॥ नीचकर्मरतः पापो निर्लज्जो निन्दकः सदा । मृत्युस्थाने ध्वजे प्राप्ते गतस्त्र्यपरपक्षकः ॥ ५७॥ लिङ्गधारी प्रसन्नात्मा सर्वभूतहिते रतः । धर्मभे शिखिनि प्राप्ते धर्मकार्येषु कोविदः ॥ ५८॥ सुखसौभाग्यसम्पन्नः कामिनीनां च वल्लभः । दाता द्विजैः समायुक्तः कर्मस्थे शिखिनि द्विज ॥ ५९॥ नित्यलाभः सुधर्मी च लाभे शिखिनि पूजितः । धनाढ्यः सुभगः शूरः सुयज्ञश्चाति कोविदः ॥ ६०॥ पापकर्मरतः शूरः श्रद्धाहीनोऽघृणो नरः । परदाररतो रौद्रः शिखिनि व्ययगे सति ॥ ६१॥ रोगार्त्तः सततं कामी पापात्माधिगतः शठः । तनुस्थे गुलिके जातः खलभावोऽतिदुःखितः ॥ ६२॥ विकृतो दुःखितः क्षुद्रो व्यसनी च गतत्रपः । धनस्थे गुलिके जातो निःस्वो भवति मानवः ॥ ६३॥ चार्वङ्गो ग्रामपः पुण्यसंयुक्तः सज्जनप्रियः । सहजे गुलिके जातो मानवो राजपूजितः ॥ ६४॥ रोगी सुखपरित्यक्तः सदा भवति पापकृत् । गुलिके सुखभावस्थे वातपित्ताधिको भवेत् ॥ ६५॥ विस्तुतिर्विधनोऽल्पायुर्द्वेषी क्षुद्रो नपुंसकः । गुलिके सुतभावस्थे स्त्रीजितो नास्तिको भवेत् ॥ ६६॥ वीतशत्रुः सुपुष्टाङ्गो रिपुस्थाने यमात्मजे । सुदीप्तः सम्मतः स्त्रीणां सोत्साहः सुदृढो हितः ॥ ६७॥ स्त्रीजितः पापकृज्जारः कृशाङ्गो गतसौहृदः । जीवितः स्त्रीधनेनैव गुलिके सप्तमस्थिते ॥ ६८॥ क्षुधालुर्दुःखित क्रूरस्तीक्ष्णरोषोऽतिनिर्घृणः । रन्ध्रगे गुलिके निःस्वो जायते गुणवर्जितः ॥ ६९॥ बहुक्लेशः कृशतनुर्दुष्टकर्मातिनिर्घृणः । गुलिके धर्मगे मन्दः पिशुनो बहिराकृतिः ॥ ७०॥ पुत्रान्वितः सुखी भोक्ता देवाग्न्यर्चनवत्सलः । दशमे गुलिके जातो योगधर्माश्रितः सुखी ॥ ७१॥ सुस्त्रीभोगी प्रजाध्यक्षो बन्धूनां च हिते रतः । लाभस्थे गुलिके जातो नीचाङ्ग सार्वभौमकः ॥ ७२॥ नीचकर्माश्तितः पापो हीनाङ्गो दुर्भगोऽलसः । व्ययगे गुलिके जातो नीचेषु कुरुते रतिम् ॥ ७३॥ लग्ने प्राणपदे क्षणो रोगि भवति मानवः । मूकोन्मत्तो जडाङ्गस्तु हीनाङ्गो दुःखित कृशः ॥ ७४॥ बहुधान्यो बहुधनो बहुभृत्यो बहुप्रजः । धनस्थानस्थिते प्राणे सुभगो जयते नरः ॥ ७५॥ हिंस्रो गर्वसमायुक्तो निष्ठुरोऽतिमलिम्लुचः । तृतीयगे प्राणपदे गुरुभक्तिविवर्जितः ॥ ७६॥ सुखस्थे तु सुखी कान्तः सुहृद्रमासु वल्लभः । गुरौ परायणः शीतः प्राणे वै सत्यतत्परः ॥ ७७॥ सुखिभाक् सुक्रियोपेतस्त्वपचारदयान्वितः । पञ्चमस्थे प्राणपदे सर्वकामसमन्वितः ॥ ७८॥ बन्धुशत्रुवशस्तीक्ष्णो मन्दाग्निर्निर्दयः खलः । षष्ठे प्राणपदे रोगी वित्तपोऽल्पायुरेव च ॥ ७९॥ ईर्ष्यालु सततं कामी तीव्ररौद्रवपुर्नरः । सप्तमस्थे प्राणपदे दुराराध्यः कुबुद्धिमान् ॥ ८०॥ रोगसन्तापिताङ्गश्च प्राणपदेऽष्टमे सति । पीडितः पार्थिवैर्दुःखैर्मृत्यबन्धुसुतोद्भवैः ॥ ८१॥ पुत्रवान् धनसम्पन्नः सुभगः प्रियदर्शनः । प्राणे धर्मस्थिते भृत्यः सदाऽदुष्टो विचक्षणः ॥ ८२॥ वीर्यवान् मतिमान् दक्षो नृपकार्येषु कोविदः । दशमे वै प्राणपदे देवार्चनपरायणः ॥ ८३॥ विख्यातो गुणवान् प्राज्ञो भोगीध नसमन्वितः । लाभस्थानस्थिते प्राणे गौराङ्गो मातृवत्सलः ॥ ८४॥ क्षुद्रो दुष्टस्तु हीनाङ्गो विद्वेशी द्विजबन्धुषु । व्यये प्राणे नेत्ररोगी काणो वा जायते नरः ॥ ८५॥ इत्यप्रकाशखेटानां फलान्युक्तानि भूसुर । तथा यानि प्रकाशानां सूर्यादीनां खचारिणाम् ॥ ८६॥ तानि स्थितिवशात्तेषां स्फुटदृष्टिवशात् तथा । बलाऽबलविवेकेन वक्तव्यानि शरीरिणाम् ॥ ८७॥
अथे ग्रहस्फुटदृष्टिकथनाध्ययाः ॥ २६॥ भगवान् कतिधा दृष्टिर्बलं कतिविधं तथा । इति मे संशयो जातस्तं भवान् छेत्तुमर्हिति ॥ १॥ एका राशिवशाद् दृष्टिः पूर्वमुक्ता च या द्विज । अन्या खेटस्वभावोत्था स्फुटा तां कथयाम्यहम् ॥ २॥ त्रिदशे च त्रिकोणे च चतुरस्रे च सप्तमे । पादवृद्धया प्रपश्यन्ति प्रयच्छन्ति फलं तथा ॥ ३॥ पूर्णं च सप्तमं सर्वे शानिजीवकुजाः पुनः । विशेषतश्च त्रिदशत्रिकोणचतुरष्टमान् ॥ ४॥ इति सामान्यतः पूर्वैराचार्यैः प्रतिपादिता । स्फुटान्तरवशाद्या च दृष्टिः साऽतिस्फुटा यथा ॥ ५॥ दृश्याद् विशोध्य द्रष्टारं षड्राशिभ्योऽधिकान्तरम् । दिगभ्यः संशोध्य तद्भागा द्विभक्ता दृक् स्फुटा भवेत् ॥ ६॥ पञ्चाधिके विना राशिं भागाद्विघ्नाश्च दृक् स्फुटा । वेदाधिके त्यजेद् भूताद् भागा दृष्टिः त्रिभाधिके ॥ ७॥ विशोध्यार्णवतो द्वाभ्यां लब्धं त्रिंशद्युतं च दृक् । द्व्यधिके तु विना राशिं भागास्तिथियुतास्तथा ॥ ८॥ रूपाधिके विना राशिं भागा द्वयाप्ताश्च दृग् भवेत् । एवं राश्यादिके शेषे शनौ द्रष्टरि भो द्विज ॥ ९॥ एकभे नवभे भागा भुक्ता भोग्या द्विसंगुणाः । द्विभेंऽशार्धोनिताः षष्टिरष्टभे खाग्नियुग् लवाः ॥ १०॥ त्रिसप्तभे तु भौमस्य षष्टिरत्र लवोनिता । सार्धांशास्तिथिसंयुक्ता द्विभे रूपं सदाऽङ्गभे ॥ ११॥ त्रिसप्तभे तु जीवस्य भागार्धं शरवेदयुक् । द्विगुणैस्तु लवैश्चोनाः खरसाश्चतुरष्टभे ॥ १२॥ एवं रव्यादिखेटानां स्फुटा दृष्टिः प्रजायते । तद्वशादेव भावानां जातकस्य फलं वदेत् ॥ १३॥
अथ स्पष्टबलाध्यायः ॥ २७॥ अथ स्पष्टबलं वक्ष्ये स्थानकालादिसम्भवम् । नीचोनां खचरं भार्धाधिक चक्राद् विशोधयेत् ॥ १॥ भागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत् । स्वत्रिकोणस्वगेहाधिमित्रमित्रसमारिषु ॥ २॥ अधिशत्रुगृहे चापि स्थितानां क्रमशो बलम् । भूताब्धयः खाग्निनखास्तिथ्यो दश युगाः कराः ॥ ३॥ एवं होरादृकाणाद्रिभागांकद्वादशांशजम् । त्रिंशांशजं तदैक्यञ्च सप्तवर्गसमुद्भवम् ॥ ४॥ शुक्रेन्दू समभांशेऽन्ये विषमेऽङ्घ्रिमितं बलम् । केन्द्रादिषुस्थिताः खेटाः पूर्णाऽर्धाऽङ्घ्रिमितं क्रमात् ॥ ५॥ आद्यमध्यावसानेषु द्रेष्काणेषु स्थिताः क्रमात् । पुंनपुंसकयोषाख्या दद्युरङ्घ्रिमितं बलम् ॥ ६॥ सूर्यात् कुजात् सुखं जीवाज्ज्ञाच्चाऽस्तं लग्नमार्क्रितः । दशमं च भृगोश्चन्द्राद् हित्वा षड्भाधिके सति ॥ ७॥ चक्राद् विशोध्य तद्भागास्त्रिभिर्भक्ताश्च दिग्बलम् । इष्टाधटि निशीथात्तन्नतं त्रिंशच्च्युतं नतम् ॥ ८॥ चन्द्रभौमशनीनां च नतं द्विघ्नं कलादिकम् । षष्टिशुद्धं तदन्येषां सदा रूपं बुधस्य हि ॥ ९॥ अथ पक्षबलं वक्ष्ये सूर्ये चन्द्राद् विशोध्य च । षड्भाधिके विशोध्यार्काद् भागीकृत्त्य त्रिभिर्भजेत् ॥ १०॥ पक्षजं बलमिन्दुज्ञशुक्रेज्यानां तु षष्टितः । विशोध्य तब्दलं ज्ञेनं पापानां पक्षसंभवम् ॥ ११॥ दिनत्र्यंशेषु सौम्यार्कशनीनां निट्त्रिभागके । चन्द्रशुक्रकुजानां च बलं पूर्णं सदा गुरोः ॥ १२॥ वषमासदिनेशानां तिथ्यस्त्रिंशच्छरार्णवां । होरेशस्य बलं षष्टिरुक्तं नैसर्गिकं पुरा ॥ १३॥ तन्मानां सप्तहृत्षष्टिरेकाद्येकोत्तरैर्हता । शमंबुगुशुचंरादिखेटानां क्रमतो द्विज ॥ १४॥ पञ्चाब्धयः सुराः सूर्याः खण्डकांशाः क्रमादमी । सायनग्रहदोराशितुल्यखण्डयुतिश्च स ॥ १५॥ भागादिकहतादेष्यात् त्रिंशल्लब्धयुता लवाः । स्वमृणं तुलमेषादौ शनीन्द्वोश्च त्रिराशिषु ॥ १६॥ तथाऽरार्केज्यशुक्राणां व्यस्तं ज्ञस्य सदा धनम् । तद्भागाश्च त्रिभिर्भक्ता ज्ञेयमायनजं बलम् ॥ १७॥ यद्रवेरायनं वीर्यं चेष्टाख्यं तावदेव हि । विधोः पक्षबलं यावत् तावच्चेष्टाबलं स्मृतम् ॥ १८॥ पापदृक्पादहीनं तच्छुभदृक्पादयुक् तथा । बलैक्यं ज्ञेज्यदृक्युक्तमेवं खेटबलं भवेत् ॥ १९॥ अथ तारग्रहाणां तु युद्ध्यतोश्च द्वयोर्मिथः । बलान्तरं विजेतुः स्वं निर्जितस्य बले त्वृणम् ॥ २०॥ चक्रानुवक्रा विकला मन्दा मन्दतरा समा । चरा चाऽतिचरा चेति ग्रहाणामष्टधा गतिः ॥ २१॥ षष्टिर्वक्रगते वीर्यमनुवक्रगतेर्दलम् । पादो विकलभुक्तेः स्यात् तथा मध्यगतेर्दलम् ॥ २२॥ पादो मन्दगतेस्तस्य दलं मन्दतरस्य हि । चरभुक्तेस्तु पादोनां दलं स्यादतिचारिणः ॥ २३॥ मध्यमस्फुटयोगार्धहीनं स्वस्वचलोच्चकम् । षड्भाधिकं च्युतं चक्राच्चेष्टाकेन्द्रं स्मृतं कुजात् ॥ २४॥ भागीकृतं त्रिभिर्भक्तं लब्धं चेष्टाबलं त्विति । स्थानदिक्कालदृक्चेष्टानिसर्गोत्थं च षड्विधम् ॥ २५॥ एवं ग्रहबलं प्रोक्तमथ भावबलं श्रृणु । कन्यायुग्मतुलाकुम्भचापाद्यार्धाश्च सप्तमम् ॥ २६॥ गोऽजसिंहमृगाद्यार्धचापान्त्यार्धात् सुखं त्यजेत् । कर्कवृश्चिकतो लग्नं मृगात्यार्धाज्झषाश्च खम् ॥ २७॥ शोध्यमङ्गाधिकं चक्राच्च्युतं भागीकृतं त्रिहृत् । सद्दृष्टिपादयुक्पापपापदृष्टिपादविवर्जितम् ॥ २८॥ ज्ञेज्यदृष्टियुतं तच्च स्वस्वस्वामिबलान्वितम् । इति भावबलं स्पष्टं सामान्यं च पुरोदितम् ॥ २९॥ बुधेज्ययुक्तभावस्य बलमेकेन संयुतम् । मन्दाररवियुक्तस्य बलमेकेन वर्जितम् ॥ ३०॥ दिने शीर्षोदयो भावः सन्ध्यायामुभयोदयः । निशि पृष्ठोदयाख्यश्च दद्यात् पादमितं बलम् ॥ ३१॥ अंकाग्नयोऽङ्गरामाश्च खाग्नया करसिन्धवः । नवाग्नयः सुरास्त्रिंशद् दशसंगुणिताः क्रमात् ॥ ३२॥ रव्यादीनां बलैक्यश्चेत् तदा सुबलिनो मताः । अधिकं पूर्णमेव स्याद् बलं चेद्बलिनो द्विज ॥ ३३॥ गुरुसौम्यरवीणां तु भूतषट्केन्दवो द्विज । पंचाग्नयः खभूतानि करभूमिसुधाकराः ॥ ३४॥ खाग्नयश्च क्रमात्स्थानदिक्चेष्टासमयाऽयने । सितेन्द्वोस्त्र्यग्निचन्द्राश्च खेषवः खाग्नयः शतम् ॥ ३५॥ चत्वारिंशत् कला भौममन्दयोः षण्णव क्रमात् । त्रिंशत् खवेदाः सप्ताङ्गा नखाश्चेत्युदिता द्विज ॥ ३६॥ एवं कृत्वा बलैक्यंच ततश्चिन्त्यम् फलं द्विज । भावस्थानग्रहैः प्रोक्तयोगे ये योगहेतवः ॥ ३७॥ तेषां मध्ये बली कर्ता स एवाऽस्य फलप्रदः । योगेष्वाप्तेषु बहुषु नीतिरेवं प्रकीर्तिता ॥ ३८॥ गणितेषु प्रवीणो यः शब्दशास्त्रे कृतश्रमः । न्यायविद् बुद्धिमान् देशदिक्कालज्ञो जितेन्द्रियः ॥ ३९॥ ऊहापोहपटुर्होरास्कन्धश्रवणसम्मतः । मैत्रेय सत्यतां यादि तस्य वाक्यं न संशयः ॥ ४०॥
अथेष्टकष्टाध्यायः ॥ २८॥ अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम् । यद्वशाच्च प्रयच्छन्ति शुभाऽशुभदशाफलम् ॥ १॥ स्वनीचोनो ग्रह शोध्यः षड्भाधिक्ये भमण्डलात् । सैको राशिर्भवेदुच्चरश्मिर्द्विघ्नांशसंयुतः ॥ २॥ चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत् । चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज ॥ ३॥ सायनार्कस्त्रिभोऽर्कस्य व्यर्केन्दुश्च विधोस्तथा । चेष्टाकेन्द्रं रसाल्पं तच्चक्राच्छोध्यं रसाधिके ॥ ४॥ चेष्टोच्चरश्मियोगार्धं शुभरश्मिः प्रकीर्त्यते । अष्टभ्यश्च विशुद्धोऽसाबशुभाख्यश्च कथ्यते ॥ ५॥ उच्चचेष्टाकरान् व्येकान् दिग्भिर्हत्वा तु योजयेत् । तदर्धमिष्टसंज्ञं स्यात् कष्टं तत्षष्टितश्च्युतम् ॥ ६॥ स्वोच्चे मूलत्रिकोणे च स्वभेऽधिसुहृदीष्टभे । समभे शत्रुभे चाधिशत्रुभे नीचभे क्रमात् ॥ ७॥ षष्टिरिष्वब्धयस्त्रिंशदाकृतिस्तिथयो गजाः । चत्वारो द्वौ च शून्यं च शुभमेतत्फलं गृहे ॥ ८॥ षष्टितः पतितं चैतच्छेषं स्यादशुभं गृहे । तदर्धमन्यवर्गेषु ज्ञेयं विप्र शुभाऽशुभम् ॥ ९॥ पञ्चस्विष्टफलं चाद्यात् समं षष्ठे ततः परम् । अशुभं त्रिषु विज्ञेयमिति शास्त्रेषु निश्चितम् ॥ १०॥ दिग्बलं दिक्फलं तस्य तथा दिनफलं भवेत् । तयोः फलं शुभं प्रोक्तमशुभं षष्टितश्च्युतम् ॥ ११॥ शुभेऽधिके शुभं ज्ञेयमशुभं त्वशुभेऽधिके । दशाफलं नभोगस्य तथा भावफलं द्विज ॥ १२॥ बलैः षड्भिः समोधित्वा बलैक्येन भजेत् पृथक् । तत्तद्बलफलानि स्युरशुभानि शुभानि च ॥ १३॥ शुभपापफलाभ्यां च हन्याद् दृष्टिं बलं तथा । दृष्टी ते शुभपापाख्ये बले स्यातां तदाह्वये ॥ १४॥ भावानां च फले प्रोक्ते पतीनां च फले उभे । राशौ शुभनभोगश्चेद् भावसाधनसंभवम् ॥ १५॥ फलं तस्य शुभे युञ्ज्यादशुभे वर्जयेत् तथा । पापश्चेदन्यथा चैवं बले दृष्ट्यां तथैव च ॥ १६॥ युञ्ज्यादुच्चादिगे खेटे फलं नीचादिगे त्यजेत् । एवं शुभाऽशुभं ज्ञात्वा जातकस्य फलं वदेत् ॥ १७॥ अष्टवर्गफलं चैवं स्थाने च करणेऽन्यथा । राशिद्वयगते भावे तद्राश्यधिपतेः क्रिया ॥ १८॥ स्थानाधिकेन भावेन भावलाभः प्रकीर्तितः । तत्समाने च तद्भावे तदानीं स्थानदान् ग्रहान् ॥ १९॥ संयोज्ये स्थानसंख्याया दलमेतत्समं फलं । एवं सखेटभावानां फलं ज्ञेयं शुभाऽशुभम् ॥ २०॥
अथ पदाध्यायः ॥ २९॥ कथ्याम्यथा भावानां खेटानां च पदं द्विज । तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षिभिः ॥ १॥ लग्नाद् यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात् । ततस्तावतिथे राशौ लग्नस्य पदमुच्यते ॥ २॥ सर्वेषामाप भावानां ज्ञेयमेवं पदं द्विज । तनुभावपदं तत्र बुधा मुख्यपदं विदुः ॥ ३॥ स्वस्थानं सप्तमं नैवं पदं भवितुमर्हति । तस्मिन् पदत्वे विज्ञेयं मध्यं तुर्यं क्रमात् पदम् ॥ ४॥ यथा तुर्यस्थिते नाथे तुर्यमेव पदं भवेत् । सप्तमे च स्थिते नाथे विज्ञेयं दशमं पदम् ॥ ५॥ यस्माद् यावतिथे राशौ खेटात् तद्भवनं द्विज । ततस्तावतिथं राशिं खेटारूढं प्रचक्षते ॥ ६॥ द्विनाथद्विभयोरेवं विज्ञेयं सबलावधि । विगणय्य पदं विप्र ततस्तस्य फलं वदेत् ॥ ७॥ अथाऽहं पदमाश्रित्य फलं किञ्चिद् ब्रुवे द्विज । पदादेकादशे स्थाने ग्रहैर्युक्तोऽथवेक्षिते ॥ ८॥ धनवान् जायते बालस्तथा सुखसमन्वितः । शुभयोगात् सुमार्गेण धनाप्तिः पापतोऽन्तथा ॥ ९॥ मिश्रैर्मिश्रं फलं ज्ञेयं स्वोच्चमित्रादिगेहगैः । बहुधा जायते लाभो बहुधा च सुखागमः ॥ १०॥ पदाल्लाभगृहं यस्य पश्यन्ति सकला ग्रहाः । राजा वा राजतुल्यो वा स जातो नात्र संशयः ॥ ११॥ पदाल्लाभगृहं पश्येद् व्ययं कश्चिन्न पश्यति । अविध्नेन सदा लाभो जायते द्विजसत्तम ॥ १२॥ ग्रहदृग्योगबाहुल्ये पदादेकादशे द्विज । सार्गले चापि तत्रापि बह्वर्गलसमागमे ॥ १३॥ शुभग्रहार्गले विप्र तत्राप्युच्चग्रहार्गले । शुभेन स्वामिना दृष्टे लग्नभाग्यादिगेन वा ॥ १४॥ जातस्य भाग्यप्राबल्यं निर्दिशेदुत्तरोत्तरम् । उक्तयोगेषु चेत् खेटे द्वादशं नैव पश्यति ॥ १५॥ पदस्थानाद् व्यये विप्र शुभपापयुतेक्षिते । व्ययबाहुल्यमित्येवं विशेषोपार्जनात् सदा ॥ १६॥ शुभग्रहे सुमार्गेण कुमार्गात् पापखेचरे । मिश्रे मिश्रफलं वाच्यमेवं लाभोऽपि लाभगे ॥ १७॥ पदारूढाद् व्यये शुक्रभानुस्वर्भानुभिर्युते । राजमूलाद् व्ययो वाच्यश्चन्द्रदृष्ट्या विशेषतः ॥ १८॥ पदारूढाद् व्यये सौम्ये शुभखेटयुतेक्षिते । ज्ञातिमध्ये व्ययो नित्यं पापदृक् कलहाद् व्ययः ॥ १९॥ पदाद् व्यये सुराचार्ये वीक्षिते चान्यखेचरैः । करमूलाद् व्ययो वाच्यः स्वस्यैव द्विजसत्तम ॥ २०॥ आरूढाद् द्वादशे सौरे धरापुत्रेण संयुते । अन्यग्रहेक्षिते विप्र भ्रातृवर्गाद् धनव्ययः ॥ २१॥ आरूढाद् द्वादशे स्थाने ये योगाः कथिता यथा । लाभभावे च ते योगा लाभयोगकरास्तथा ॥ २२॥ आरूढात् सप्तमे राहुरथवा संस्थितः शिखी । कुक्षिव्यथायुतो बालः शिखिना पीडितो`थ वा ॥ २३॥ आरूधात् सप्तमे केतुः पापखेटयुतेक्षितः । साहसी श्वेतकेशी च वृद्धलिङ्गी भवेन्नरः ॥ २४॥ पदात्तु सप्तमे स्थाने गुरुशुक्रनिशाकराः । त्रयो द्वयमथैकोऽपि लक्ष्मीवान् जायते जनः ॥ २५॥ स्वतुङ्गे सप्तमे खेटः शुभो वाऽप्यशुभः पदात् । श्रीमान् सोऽपि भवेन्नुनं सत्कीर्तिसहितो द्विज ॥ २६॥ ये योगाः सप्तमे स्थाने पदाश्च कथिता मया । चिन्त्यास्तथैव ते योगा द्वितीयेऽपि सदा द्विज ॥ २७॥ उच्चस्थो रौहिणेयो वा जीवो वा शुक्र एव वा । एवो बली धनगतः श्रियं दिशति देहिनः ॥ २८॥ ये योगाश्च पदे लग्ने यथावद् गदिता मया । ते योगाः कारकांशेऽपि विज्ञेया बांधवर्जिताः ॥ २९॥ आरूढाद् वित्तभे सौम्ये सर्वदेशाधिपो भवेत् । सर्वज्ञो यदि वा स स्यात् कविर्वादी च भार्गवे ॥ ३०॥ आरूधात् केन्द्रकोणेषु स्थिते दारपदे द्विज । लग्नजायापदे वापि सबलग्रहसंयुते ॥ ३१॥ स्र्/ईमांश्च जायते नूनं देशे विख्यातिमान् भवेत् । षष्ठेष्टमे व्ययस्थाने जातो दारपदेऽधनः ॥ ३२॥ पदे तत्सप्तमे वापि केन्द्रे वृद्धौ त्रिकोणके । सुवीर्यः संस्थितः खेतः भार्याभर्तृसुखप्रदः ॥ ३३॥ पदाद्दारपदे चैवं केन्द्रे कोणे च संस्थिते । द्वयोर्मैत्री भवेन्नूनं त्रिके वैरं न संशयः ॥ ३४॥ एवं लग्नपदाद् विप्र तनयादिपदे स्थिते । मित्रामित्रे विजानीयाल्लाभालाभौ विचक्षणः ॥ ३५॥ लग्नदारपदे विप्र मिथः केन्द्रगते यदि । त्रिलाभयोस्त्रिकोणे वा तथा राजा धराधिपः ॥ ३६॥ एवं लग्नपदादेव धनादिपदतो द्विज । स्थानद्वयं समालोक्य जातकस्य फलं वदेत् ॥ ३७॥
अथोपपदाध्यायः ॥ ३०॥ अथोपपदमाश्रित्य कथयामि फलं द्विज । युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम् ॥ १॥ तनुभावपदं विप्र प्रधानं पदमुच्यते । तनोरनुचराद्यत् स्यादुपारूढं तदुच्यते ॥ २॥ तदेवोपपदं नाम तथा गौणपदं स्मृतम् । शुभखेटगृहे तस्मिन् शुभग्रहयुतेक्षिते ॥ ३॥ पुत्रदारसुखं पूर्णं जायते द्विजसत्तम । पापग्रहयुते तत्र पापभे पापवीक्षिते ॥ ४॥ प्रव्राजको भवेज्जतो दारहीनोऽथ वा नरः । शुभदृग्योगतो नैव योगोऽयं दारनाशकः ॥ ५॥ रविर्नैवात्र पापः स्यात् स्वोच्चमित्रस्वभस्थितः । नीचशत्रुगृहस्थश्चेत्तदाऽसौ पाप एव हि ॥ ६॥ शुभग्रहाणां दृष्टिश्चेदुपारूढाद् द्वितीयके । शुभर्क्षे शुभयुक्ते च पूर्वोक्तं हि फलं स्मृतम् ॥ ७॥ उपारूढाद् द्वितीयं च नीचांशे नीचखेटयुक् । क्रूरग्रहसमायुक्तं जातको दारहा भवेत् ॥ ८॥ स्वोच्चांशे स्वोच्चसंस्थे वा तुङ्गदृष्टिवशात् तथा । भवन्ति बहवो दारा रूपलक्षणसंयुताः ॥ ९॥ उपारूढे द्वितीये वा मिथुने संस्थिते सति । तत्र जातनरो विप्र बहुदारयुतो भवेत् ॥ १०॥ उपारूढे द्वितीयेऽपि स्वस्वामिग्रहसंयुते । स्वर्क्षगे तत्पतौ वापि यत्र कुत्रापि भूसुर ॥ ११॥ यस्य जन्मनि योगोऽयं स नरो द्विजसत्तम । उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ १२॥ स्वराशौ संस्थितेऽप्येवं नित्याख्ये दारकारके । उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ १३॥ उपारूढपतिः स्वोच्चे स्थिरस्त्रीकारकोऽथ वा । सुकुलाद् दारलाभः स्यान्नीचस्थे तु विपर्ययात् ॥ १४॥ उपारूढे द्वितीये वा शुभसम्बधतो द्विज । जातस्य सुन्दरी भार्या भव्या रूपगुणान्विता ॥ १५॥ उपारूढाद् द्वितीये च शनिराहू स्थितौ यदि । उपवादात् स्त्रियस्त्यागो नाशो वा जायते द्विज ॥ १६॥ उपारूढे द्वितीये वा शिखिशुक्रौ यदा स्थितौ । रक्तप्रदररोगार्ता जायते तस्य भामिनी ॥ १७॥ बुधकेतू स्थितौ तत्र तदाऽस्थिस्रावसंयुता । तत्रस्थाः शनिराह्वर्कास्तदाऽस्थिज्वरसंयुता ॥ १८॥ स्थूलाङ्गी बुधराहूभ्यां तत्रस्थाभ्यां द्विजोत्तम । बुधक्षेत्रे कुजार्की चेन्नसिकारोगसंयुता ॥ १९॥ कुजक्षेत्रेऽप्येवमेव फलं ज्ञेयं द्विजोत्तम । बृहस्पतिशनी तत्र कर्णनेत्ररुजान्विता ॥ २०॥ तत्रान्यगेहगौ विप्र बुद्धभौमौ स्थितौ यदा । यदा स्वर्भानुदेवेज्यौ भार्या दन्तरुजान्विता ॥ २१॥ शनिराहू शनिक्षेत्रे पङ्गुर्वातरुजान्विता । शुभदृग्योगतो नेति फलं ज्ञेयं विपश्चिता ॥ २२॥ लग्नात् पदादुपारूढाद् यो राशिः सप्तमो द्विज । तस्मात् तत्स्वामिनः खेटात् तदंशाच्च द्विजोत्तम ॥ २३॥ एवमेव फलं ज्ञेयमित्याहुर्नारदादयः । उक्तेभ्यो नवमे विप्र शनिचन्द्रबुधा यदि ॥ २४॥ अपुत्रता तथाऽर्केज्यराहुभिर्बहुपुत्रता । चन्द्रेणैकसुतस्तत्र मिश्रैः पुत्रो विलम्बतः ॥ २५॥ रवीय्जराहुयोगेन पुत्रो वीर्यप्रतापवान् । प्रचण्डविजयी विप्र रिपुनिग्रहकारकः ॥ २६॥ उक्तस्थाने कुजार्किभ्यां पुत्रहीनः प्रजायते । दत्त पुत्रयुतो वापि सहोत्थसुतवान् भवेत् ॥ २७॥ तत्रस्थे विषमे राशौ बहुपुत्र्युतो नरः । स्वल्पापत्यः समे राशौ जायते द्विजसत्तम १ ॥ २८॥ सिंहे चोपपदे विप्र निशानाथयुतेक्षिते । अल्पप्रजोऽथ कन्यायां जातः कन्याप्रजो भवेत् ॥ २९॥ सुतभावनवांशाच्च स्थिरसन्ततिकारकात् । एवं त्रिशांशकुण्डल्यामपि योगं विचिन्तयेत् ॥ ३०॥ शनिराहू त्रिलाभस्थौ पदाद् भ्रातुर्विनाशकौ । ज्येष्ठस्यैकादशे तत्र कनिष्ठस्य तृतीयके ॥ ३१॥ दैतेज्ये तत्र गर्भस्य नाशो व्यवहितस्य च । लग्ने वापि पदे रन्ध्रे दैत्याचार्ययुतेक्षिते ॥ ३२॥ तथैव फलमित्याहुर्निर्विशंकं मुनीश्चराः । तृतीयलाभयोर्विप्र चन्द्रेज्यबुधमङ्गलाः ॥ ३३॥ बहवो भ्रातरस्तस्य बलवन्तः प्रतापिनः । शन्यारसंयुते दृष्टे तृतीयैकादशे द्विज ॥ ३४॥ कनिष्ठज्येष्ठयोर्नाशो दिवज्ञेयो द्विजसत्तम । शनिरेको यदा विप्र लाभगो वा तृतीयगः ॥ ३५॥ तदा स्वमात्रशेषः स्यादन्ये नश्यन्ति सोदराः । तृतीये लाभगे केतौ बहुलं भगिनीसुखम् ॥ ३६॥ आरूढात् षष्ठभावस्थे पापाख्ये शुभवर्जिते । शुभसम्बन्धरहिते चौरो भवति जातकः ॥ ३७॥ सप्तमे द्वादशे स्थाने सैहिकेययुतेक्षिते । ज्ञानवांश्च भवेद् बालो बहुभाग्ययुतो द्विज ॥ ३८॥ आरूढे संस्थिते सौम्ये सर्वदेशाधिपो भवेत् । सर्वज्ञस्तत्र देवेज्ये कविर्वादी च भार्गवे ॥ ३९॥ उपारूढात् पदाद् वापि धनस्थे शुभखेचरे । सर्वद्रव्याधिपो धीमाञ्जायते द्विजसत्तम ॥ ४०॥ उपारूढाद्धनाधीशे द्वितियभवनस्थिते । पापखेचरसंयुक्ते चौरो भवति निश्चितम् ॥ ४१॥ तत्सप्तमगृहाधीशाद् राहौ धनगते द्विज । दंष्ट्रावान् जायते बालः स्तब्धवाक् केतुखेचरे ॥ ४२॥ शनैश्चरे कुरूपः स्यात्सप्तमेशाद् द्वितीयगे । मिश्रग्रहसमायुक्ते फलं मिश्रं समादिशेत् ॥ ४३॥
Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)

% Text title            : bRihatpArAsharahorAshAstram.h 21-30
% File name             : par2130.itx
% itxtitle              : bRihatpArAsharahorAshAstram 21-30
% engtitle              : bRihatpArAsharahorAshAstram.h 21-30
% Category              : jyotiSha, sociology_astrology, bRihatpArAshara
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Subcategory           : bRihatpArAshara
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by          : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP