॥ बृहत्पाराशरहोराशास्त्रम् ३१-४० ॥


अथाऽर्गलाध्यायः ॥ ३१॥ भगवान् याऽर्गला प्रोक्ता शुभदा भवताऽधुना । तामहं स्रोतुमिच्छामि सलक्षणफलं मुने ॥ १॥ मैत्रेय सार्गला नाम यया भावफलं दृढम् । स्थिरं खेटफलं च स्यात् साऽधुना कथ्यते मया ॥ २॥ चतुर्थे च धने लाभे ग्रहे ज्ञेया तदर्गला । तद्बाधकाः क्रमात् खेटा व्योमरिष्फतृतीयगाः ॥ ३॥ निर्बला न्यूनसंख्या वा बाधका नैव सम्मताः । तृतीये व्याधिकाः पापा यत्र मैत्रेय बाधकाः ॥ ४॥ तत्रापि चार्गला ज्ञेया विपरीता द्विजोत्तम । तथापि खेटभावानां फलमर्गलितं विदुः ॥ ५॥ पञ्चमं चार्गलास्थानं नवमं तद्विरोधकृत् । तमोग्रहभवा सा च व्यत्ययाज् ज्ञायते द्विज ॥ ६॥ एकग्रहा कनिष्ठा सा द्विग्रहा मध्यमा स्मृता । अर्गला द्व्यधिकोत्पन्ना मुनिभिः कथितोत्तमा ॥ ७॥ राशितो ग्रहतश्चापि विज्ञेया द्विविधाऽर्गला । निर्बाधका सुफलदा विफला च सबाधका ॥ ८॥ यत्र राशौ स्थितः खेटस्तस्य पाकान्तरं यदा । तस्मिन् काले फलं ज्ञेयं निर्विशंकं द्विजोत्तम ॥ ९॥ अर्गलां प्रतिबन्धञ्च कथमांघ्रिचतुर्थयोः । द्वित्र्यङ्घ्रयोश्च मिथो विप्र चिन्तयेदिति मे मतम् ॥ १०॥ पदे लग्ने मदे वापि निराभासार्गला यदा । तदा जातोऽतिविख्यातो बहुभाग्ययुतो भवेत् ॥ ११॥ यस्य पापः शुभो वापि ग्रहस्तिष्ठेत् शुभार्गले । तेन द्रष्ट्रेक्षितं लग्नं प्राबल्यायोपकल्प्यते ॥ १२॥ सार्गले च धने विप्र धनधान्यसमन्वितः । तृतीये सोदरादीनां सुखमुक्तं मनीषिभिः ॥ १३॥ चतुर्थे सार्गले गेहपशुबन्धुकुलैर्युतः । पञ्चमे पुत्रपौत्रादिसंयुतो बुद्धिमान्नरः ॥ १४॥ षष्ठे रिपुभयं कामे धनदारसुखं बहु । अष्टमे जायते कष्टं धर्मे भाग्योदयो भवेत् ॥ १५॥ दशमे राजसम्मानं लाभे लाभसमन्वितः । सार्गले च व्यये विप्र व्ययाधिक्यं प्रजायते ॥ १६॥ शुभग्रहार्गलायां तु सौख्यं बहुविधं भवेत् । मध्यं पापार्गलायां च मिश्रायामपि चोत्तमम् ॥ १७॥ लग्नपञ्चमभाग्येषु सार्गलेषु द्विजोत्तम । जातश्च जायते राजा भाग्यवान् नात्र संशयः ॥ १८॥
अथ कारकाध्यायः ॥ ३२॥ अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान् । सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान् ॥ १॥ अंशैः समौग्नहौ द्वौ चेद्राह्वन्तन् चिन्तयेत् तदा । सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते ॥ २॥ अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः । अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः ॥ ३॥ बुधौ राशिकलाधिक्यत् ग्राह्वो नैवात्मकारकः । अंशाधिकः कारकः स्यादल्पभागोऽन्त्यकारकः ॥ ४॥ मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि । विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः ॥ ५॥ अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति । आत्माख्यकारकस्तेषु प्रधानं कथ्यते द्विज ॥ ६॥ स एव जातकाधीशो विज्ञेयो द्विजसत्तम । यथा भूमौ प्रसिद्धोऽस्ति नराणां क्षितिपालकः ॥ ७॥ सर्ववार्ताधिकारी च बन्धकृन्मोक्षक्रत् तथा ॥ ८॥ यथा राजाज्ञया विप्रा पुत्रामात्यादयो जनाः । समर्था लोककार्येषु तथैवान्येपि कारकाः ॥ ९॥ आत्मानुकूलमेवात्र भवन्ति फलदायकः । प्रतिकूले यथा भूपे सर्वेऽमात्यादयो द्विज ॥ १०॥ कर्य कर्तुं मनुष्यानां न समर्था भवन्ति हि । तथाऽत्मकारके क्रूरे नाऽन्ये स्वशुभदायकः ॥ ११॥ अनुकूले नृपे यद्वत् सर्वेऽमात्यादयो द्विज । नाशुभं कुर्वते तद्वनान्ये स्वाशुभदायकाः ॥ १२॥ आत्माकारकभागेभ्यो न्यूनांशोऽमात्यकारकः । तस्मान्न्यूनांशको भ्राता तन्न्यूनोमातृसंज्ञकः ॥ १३॥ तन्न्यूनांशः पितातस्मादल्पांशः पुत्रकारकः । पुत्रान्न्यूनांशको ज्ञतिर्ज्ञातेर्न्यूनांशको हि यः ॥ १४॥ स दारकारको ज्ञेयो निर्विशंके द्विजोत्तम । चराख्यकारला एते ब्राह्मणा कथिताः पुरा ॥ १५॥ मातृकारकमेवाऽन्ये वदन्ति सुतकारकम् । द्वौ ग्रहौ भागतुल्यौ चेज्जायेतां यस्य जन्मनि ॥ १६॥ तदग्रकारकस्यैवं लोपो ज्ञेयो द्विजोत्तम । स्थिरकारकवशात्तस्य फलं ज्ञेयं शुभाऽशुभम् ॥ १७॥ अधुना सम्प्रवक्ष्यामि स्थिराख्यान् करकग्रहान् । स पितृकारको ज्ञेयो यो बली रविशुक्रयोः ॥ १८॥ चन्द्रारयोर्बली खेटो मातृकारक उच्यते । भौमतो भगिनी श्यालः कनीयान् जननीत्यपि ॥ १९॥ बुधान्मातृसजातीया मातुलाद्याश्च बान्धवाः । गुरोः पितामहः शुक्रात् पितः पुत्रः शनैश्चरात् ॥ २०॥ विप्रान्तेवासिनः पत्नी पितरौ श्वशुरौ तथा । मातामहादयश्चिन्त्या एते च स्थिरकारका ॥ २१॥ अथाऽहं कारकान् वक्ष्ये खेटभाववशाद्द्विज । रवितः पुन्>यभे तातश्चन्द्रान्माता चतुर्थके ॥ २२॥ कुजात् तृतीयतो भ्राता बुधात् षष्थे च मातुलः । देवेज्यात् पञ्चमात् पुत्रो दाराः शुक्राच्च सप्तमे ॥ २३॥ मन्दादष्टमतो मृत्युः पित्रादीनां विचिन्तयेत् । इति सर्व विचार्यैव बुधस्तत्तत् फलं वदेत् ॥ २४॥ अथाऽहं सम्प्रवक्ष्यामि प्रसङ्गाद्योगकारकान् । खेटान् जन्मनि जातस्य मिश्रः स्थितिवशाद् द्विज ॥ २५॥ स्वर्क्षे स्वोच्चे च मित्रर्क्षे मिथः केन्द्रगता ग्रहाः । ते सर्वे कारकास्तेषु कर्मगस्तु विशेषतः ॥ २६॥ यथा लग्ने सुखे कामे स्वोर्क्षोच्चस्था ग्रहा द्विज । भवन्ति कारकाख्यास्ते विशेषेण च खे स्थिताः ॥ २७॥ स्वमित्रोच्चर्क्षगो हेतुरन्योऽन्यं यदि केन्द्रगः । सुहृत् तद्गुणसम्पन्नः सोऽपि कारक उच्यते ॥ २८॥ नीचान्वयेऽपि यो जातः विद्यमाने च कारके । सोऽपि राजमनो विप्र धनवान् सुखसंयुतः ॥ २९॥ राजवंशसमुत्पन्नो राजा भवति निश्चयात् । एवं कुलानुसारेण कारकेभ्यः फलं वदेत् ॥ ३०॥ अथाऽहं सम्प्रवक्ष्यामि विशेषं भावकारकान् । जनस्य जन्मलग्नं यत् विन्द्यादात्मकारकम् ॥ ३१॥ धनभावं विजानीयाद् दारकारकमेव हि । एकादशेऽग्रजातस्य तृतीये तु कनीयसः ॥ ३२॥ सुते सुतं विजानीयात् पत्नीं सप्तमभावतः । सुतभवे ग्रहो यः स्यात् सोऽपि कारक उच्यते ॥ ३३॥ सूर्यो गुरुः कुजः सोमो गुरुर्भौभः सितः शनिः । गुरुश्चन्द्रसुतो जीवो मन्दश्च भवकारकाः ॥ ३४॥ पुनस्तन्वादयो भावः स्थाप्यास्तेषां शुभाऽशुभम् । लाभस्तृतीयो रन्ध्रश्च शत्रुसंज्ञधनव्ययाः ॥ ३५॥ एते भावाः समाख्याताः क्रूराख्या द्विजसत्तम । एषां योगेन यो भावस्तस्य हानिः प्रजायते ॥ ३६॥ भावा भद्राश्च केन्द्रारव्याः कोणाख्यौ द्विजसत्तम । एषां संयोगमात्रेण ह्वशुभोऽपि शुभो भवेत् ॥ ३७॥
अथ कारकांशफलाध्यायः ॥ ३३॥ अथाऽहं सम्प्रवक्ष्यामि कारकांशफलं द्विज । मेषादिराशिगे स्वांशे यथावद् ब्रह्मभाषितम् ॥ १॥ गृहे मूषकमार्जारा मेषांशे ह्वात्मकारके । सदा भयप्रदा विप्र पापयुक्ते विशेषतः ॥ २॥ वृषांशकगते स्वस्मिन् सुखदाश्च चतुष्पदाः । मिथुनांशगते तस्मिन् कण्ड्वादिव्याधिसम्भवः ॥ ३॥ कर्कांशे च जलाद्भीतिः सिम्हांशे श्वपदाद्भयम् । कण्डूः स्थौल्यञ्च कन्यांशे तथा वह्निकणाद्भयम् ॥ ४॥ तुलांशे च वणिग् जातो वस्रादिनिर्मितौ पटुः । अल्यंशे सर्पतो भीतिः पीडा मातुः पयोधरे ॥ ५॥ धनुरंशे क्रमादुच्चात् पतनं वाहनादपि । मरकांशे जलोद्भूतैर्जन्तुभिः खेचरस्तथा ॥ ६॥ शंखमुक्ताप्रवालाद्यैर्लाभो भवति निश्चितः । कुम्भांशे च तडागादिकारको जायते जनः ॥ ७॥ मीनांशे कारके जातो मुक्तिभाग् द्विजसत्तम । नाऽशुभं शुभसंदृष्टे न शुभं पापवीक्षिते ॥ ८॥ कारकांशे शुभे विप्र लग्नांशे च शुभग्रहे । शुभसंवीक्षिते जातो राजा भवति निश्चितः ॥ ९॥ स्वांशाच्छुभग्रहाः केन्द्रे कोणे वा पापवर्जिताः । धनविद्यायुतो जातो मिश्रैर्मिश्रफलं वदेद् ॥ १०॥ उपग्रहे च विप्रेन्द्र स्वोच्चस्वर्क्षंसुभर्क्षगे । पापदृग्रहिते चाऽन्त्ये कैवल्यंतस्य निर्दिशेत् ॥ ११॥ चन्द्राऽरभृगुवर्गस्थ कारके पारदारिकः । विपर्यस्थेऽन्यथा ज्ञेयं फलं सर्वं विचक्षणैः ॥ १२॥ कारकांशे रवौ जातो राजकार्यपरो द्विज । पूर्णेन्द्रौ भोगवान् विद्वान् शुक्रदृष्टे विशेषतः ॥ १३॥ स्वांशे बलयुते भौमे जातः कन्तायुघी भवेत् । वह्निजीवी नरो वाऽपि रसवादी च जायते ॥ १४॥ बुधे बलयुते स्वांशे कलाशिल्पविचक्षनः । वाणिज्यकुशलश्चापि बुद्धिविद्यासमन्वितः ॥ १५॥ सुकर्मा ज्ञाननिष्ठश्च वेदवित् स्वांशगे गुरौ । शुक्रे शतेन्द्रियः कामी राजकीतो भवेन्नरः ॥ १६॥ शनौ स्वांशगते जातः स्वकुलोचितकर्मकृत् । राहौ चौरश्च धनुष्को जातो वा लोहयन्त्रकृत् ॥ १७॥ विषवैद्योऽथवा विप्र जायते नाऽत्र संशयः । व्ययहारी गजादीनां केतौ चौरश्च जायते ॥ १८॥ रविराहू यदा स्वांशे सर्पाद् भीतिः प्रजायते । शुभदृष्टौ भयं नैव पापदृष्टौ मृतिभवेत् ॥ १९॥ शुभषड्वर्गसंयुक्तौ विषवैद्यो भवेन् तदा । भौमेक्षिते कारकांशे भानुस्वर्भानुसंयुते ॥ २०॥ अन्यग्र्हा न पश्यन्ति स्ववेश्मपरदाहकः । तस्मिन् बुधेक्षि ते चापि वह्निदो नैव जायते ॥ २१॥ पापर्क्षे गुरुणा दृष्टे समीपगृहदाहकः । शुक्रदृष्टे तु विप्रेन्द्र गृहदाहो न जायते ॥ २२॥ गुलिकेन युते स्वांशे पूर्णचन्द्रेण वीक्षिते । चौरैर्हृतधनो जातः स्वयं चौरोऽथवा भवेत् ॥ २३॥ गृहादृष्टे सगुलिके विपदो वा विषैर्हतः । बुधदृष्टे बृहद्वीजो जायते नाऽत्र संशयः ॥ २४॥ सकेतौ कारकांशे च पापदृष्टे द्विजोत्तम । जातस्य कर्णरोगो वा कर्णच्छेदः प्रजायते ॥ २५॥ भृगुपुत्रेक्षिते तस्मिन् दीक्षितो जायते जनः । बुधार्किदृष्टे निर्वीर्यो जायते मानवो ध्रुवम् ॥ २६॥ बुधशुक्रेक्षिते तस्मिन् दासीपुत्रः प्रजायते । पुनर्भवासुतो वाऽपि जायते नाऽत्र संशयः ॥ २७॥ तपस्वी सनिना दृष्टे जातः प्रेष्योऽथवा भवेत् । शनिमात्रेक्षिते तस्मिन् जातः संन्यासिवेषवान् ॥ २८॥ रविसुक्रेक्षिते तस्मिन् राजप्रेष्यो जनो भवेत् । इतिसंक्षेपतः प्रोक्तं कारकांशफलं द्विज ॥ २९॥ स्वांशाद्धने च शुक्रारवर्गे स्यात् पारदारिकः । तयोर्दृग्योगतो ज्ञेयमिदमामरणं फलम् ॥ ३०॥ केतौ तत्प्रतिबन्धः स्यात् गुरौ तु स्रैण एव सः । राहौ चाऽर्थनिवृत्तिः स्यात् कारकांशाद् द्वितीयगे ॥ ३१॥ स्वांशात् तृतीयगे पापे जातः शूरः प्रतापवान् । तस्मिन् शुभग्रहे जातः कातरो नात्र संशयः ॥ ३२॥ स्वांशाच्चतुर्थभावे तु चन्द्रशुक्रयुतेक्षिते । तत्र वा स्वोच्चगे खेटे जातः प्रासादवान् भवेत् ॥ ३३॥ शनिराहुयुते तस्मैन् जातस्य च शिलागृहम् । ऐष्टिकं कुजकेतुभ्यां गुरुणा दारवं गृहम् ॥ ३४॥ तार्ण तु रविणा प्रोक्तं जातस्य भवनं द्विज । चन्द्रे त्वनावृते देशे पत्नीयूगः प्रजायते ॥ ३५॥ पञ्चमे कुजराहुभ्यां क्षयरोगस्य संभवः । रात्रिनाथेन दृष्टाभ्यां निश्चयेन प्रजायते ॥ ३६॥ कुजदृष्टौ तु जातस्य पिटकादिगदो भवेत् । केतुदृष्टौ तु ग्रहणी जलरोगोऽथवा द्विज ॥ ३७॥ सराहुगुलिके तत्र भयं क्षुदविषोद्भवम् । बुधे परमहंसश्च लगुडी वा प्रजायते ॥ ३८॥ रवौ खेड्गधरो जातः कुजे कुन्तायुधी भवेत् । शनौ धनुर्धरो ज्ञेयो राहौ च लोहयन्त्रवान् ॥ ३९॥ केतौ च घटिकायन्त्री मानवो जायते द्विज । भार्गवे तु कविर्वाग्मी काव्यज्ञो जायते जनः ॥ ४०॥ स्वांशे तत्पञ्चमे वाऽपि चन्द्रेज्याभ्यां च ग्रन्थकृत् । शुक्रेण किञ्चिदूनोऽसौ ततोऽप्यल्पो बुधेन च ॥ ४१॥ गुरुणा केवलेनैव सर्वविद् ग्रन्थकृत् तथा । वेदवेदान्तविच्चापि न वाग्मी शाब्दकोऽपि सन् ॥ ४२॥ नैयायिकः कुजेनासौ ज्ञेन मीमांसकस्तथा । सभाजडस्तु शनिना गीतज्ञो रविणा स्मृतः ॥ ४३॥ चन्द्रेण सांख्ययोगज्ञः साहित्यज्ञश्च गायकः । केतुना गणितज्ञोऽसौ राहणाऽपि तथैव च ॥ ४४॥ सप्रदायस्य सिध्हिः स्यात् गुरुसम्बन्धतो द्विज । स्वांशाद् द्वितीयतः केचित् फलमेवं वदन्ति हि ॥ ४५॥ स्वांशात् षष्ठगते पापे कर्षको जायते जनः । शुभग्रहेऽलसश्चेति तृतीयेऽपि फलं स्मृतम् ॥ ४६॥ द्यूने चन्द्रगुरु यस्य भार्या तस्यातिसुन्दरी । तत्र कामवती शुक्रे बुधे चैव कलावती ॥ ४७॥ रवौ च स्वकुले गुप्ता शनौ चापि वयोऽधिका । तपस्विनी रुजाढ्य वा राहौ च विधवा स्मृता ॥ ४८॥ शुभस्वामियुते रन्ध्रे स्वांशाद् दीर्घायुरुच्यते । पापेक्षितयुतेऽल्पायुर्मध्यायुर्मिश्रदृग्युते ॥ ४९॥ कारकांशाच्च नवमे शुभग्रहयुतेक्षित । सत्यवादी गुरौ भक्तः स्वधर्मनिरतो नरः ॥ ५०॥ स्वांशाच्च नवमे भावे पापग्रहयुतेक्षिते । स्वधर्मनिरतो बाल्ये मिथ्यावादी च वार्धके ॥ ५१॥ नवमे कारकांशाच्च शनिराहुयुतेक्षिते । गुरुद्रोही भवेद् बालः शास्त्रेषु विमुखो नरः ॥ ५२॥ कारकांशाच्च नवमे गुरुभानुयुतेक्षिते । तदाऽपि गुरुद्रोही स्यात् गुरुवाक्यं न मन्यते ॥ ५३॥ कारकांशाच्च नवमे शुक्रभौमयुतेक्षिते । षड्वर्गादिकयोगे तु मरणं पारदारिकम् ॥ ५४॥ कारकांशाच्च नवमे ज्ञेन्दुयुक्तेक्षिते द्विज । परस्त्री सङ्गमाद् बालो बन्धको भवति ध्रुवम् ॥ ५५॥ नवमे केवलेनैवे गुरुणा च युतेक्षिते । स्त्रीलोतुपो भवेज्जातो विषयी चैव जायते ॥ ५६॥ कारकांशाच्च दशमे शुभल्हेटयुतेक्षिते । स्थिरवित्तो भवेद् बालो गम्भीरो बलबुद्धिमान् ॥ ५७॥ दशमे कारकांशाच्च पापखेटयुतेक्षिते । व्यापारे जायते हानिः पितृसौख्येन वर्जितः ॥ ५८॥ दशमे कारकांशाच्च बुधशुक्रयुतेक्षिते । व्यापारे बहुलाभश्च महत्कर्मकओर् नरः ॥ ५९॥ कारकांशाच्च दशमे रविचन्द्रयुतेक्षिते । गुरुदृष्टयुते विप्र जातको राज्यभाग् भवेत् ॥ ६०॥ स्वांशादेकादशे स्थाने शुभखेटयुतेक्षिते । भ्रातृसौख्ययुतो बालः सर्वकार्येषु लाभकृत् ॥ ६१॥ एकादशे सपापे तु कुमार्गाल्लाबकृन्नरः । विख्यातो विक्रमी चैव जायते नाऽत्र संशयः ॥ ६२॥ कारकांशाद् व्ययस्थाने सद्ग्रहे सद्व्ययो भवेत् । असद्व्ययोऽशुभे ज्ञयो ग्रहाभावे च सत्फलम् ॥ ६३॥ कारकांशाद् व्ययस्थाने स्वभोच्चस्थे शुभग्रहे । सद्गतिर्जायते तस्य शुभलोकमवाप्नुयात् ॥ ६४॥ कारकांशाद् व्यये केतौ शुभखेटयुतेक्षिते । तदा तु जायते मुक्तिः सायुज्यपदमाप्नुयात् ॥ ६५॥ मेषे धनुषि वा केतौ कारकांशात् व्यये स्थिते । शुभखेटेन सन्दृष्टे सायुजपदमाप्नुयात् ॥ ६६॥ व्यये च केवले केतौ पापयुक्तेक्षितेपि वा । न तदा जायते मुक्तिः शुभलोकं न पश्यति ॥ ६७॥ रविणा संयुते केतौ कारकांशाद् व्ययस्थिते । शिवभक्तिर्भवेस्यत्त निर्विशंकं द्विजोत्तम ॥ ६८॥ चन्द्रेण संयुते केतौ कारकांशाद् व्ययस्थिते । गौर्यां भक्तिर्भवेत्तस्य शाक्तिको जायते नरः ॥ ६९॥ शुक्रेण संयुते केतौ कारकांशाद् व्ययस्थिते । लक्ष्म्यां सञ्जायते भक्तिर्जातको सौ समृद्धिमान् ॥ ७०॥ कुजेन संयुते केतौ स्कन्दभक्तौ भवेन्नरः । वैष्णवो बुधसौरिभ्यां गुरुणा शिवभक्तिमान् ॥ ७१॥ राहुणा तामसीं दुर्गां सेवते क्षुद्रदेवताम् । भक्तिः स्कन्देऽथ हेरभ्भे शिखिना केवलेन वा ॥ ७२॥ कारकांशाद् व्यये सौरिः पापराशौ यदा भवेत् । तदाऽपि क्षुद्रदेवस्य भक्तिस्तस्य न संशयः ॥ ७३॥ पापर्क्षेऽपि शनौ सुक्रे तदाऽपि क्षुद्रसेवकः । अमात्यकारकात् षष्ठेप्तेवमेव फलं वदेत् ॥ ७४॥ कारकांशात् त्रिकोणस्थे पापखेतद्वये द्विज । मानवो मन्त्रतन्त्रज्ञो जायते नाऽत्र संशयः ॥ ७५॥ पापेन वीक्षिते तत्र जातो निग्राहको भवेत् । शुभैर्निरीक्षिते तस्मिन् नरोऽनुग्राहको भवेत् ॥ ७६॥ शुक्रदृष्टे विधौ स्वांशे रसवादी भवेन्नरः । बुधदृष्टे च सद्वैद्यः सर्वरोगहरो भवेत् ॥ ७७॥ शुक्रदृष्टे सुखे चन्द्रे पाण्डुश्वित्री भवेन्नरः । भौमदृष्टे महारोगी रक्तपित्तार्दितो भवेत् ॥ ७८॥ केतुदृष्टे सुखे चंद्रे नीलकुष्ठी प्रजायते । चतुर्थे पञ्चमेवाऽहि स्थितौ राहुकुजौ यदि ॥ ७९॥ क्षयरोगो भवेत् तस्य चन्द्रदृष्टौ तु निश्चितः । स्वांशात् सुखे सुते वाऽपि केवलः संस्थितः कुजः ॥ ८०॥ पिट्कादिर्भवेत् तस्य तदा रोगो न संशयः । ग्रहणी जलरोगो वा तत्र केतौ स्थिते सति ॥ ८१॥ ख्वर्भानुगुलिकौ तत्र विषवैद्यो विषार्दितः । स्वांशकात् पञ्चमे भावे केवले संस्थिते शनौ ॥ ८२॥ धनुर्विद्याविदा जाता भवन्त्यत्र न संशयः । केतौ च केवले तत्र घटिकायन्त्रकारकः ॥ ८३॥ बुधे परमहंसो वा दण्डी भवति मानवः । लोहयन्त्री तथा राहौ रवौ खेड्गधरो भवेत् ॥ ८४॥ केवले च कुजे तत्र जातः कुन्तास्त्रधारकः । स्वांशे वा पन्ऽचमे स्वांशाच्चन्द्रेज्यौ संस्थितौ तदा ॥ ८५॥ ग्रन्थकर्ता भवेज्जातः सर्वविद्याविशारदः । तत्र दैत्यगुरौ किञ्चिदूनग्रन्थकरो भवेत् ॥ ८६॥ बुधे तत्र ततोऽप्यूनग्रन्थकर्त्ता प्रजायते । तत्र शुक्रे कविर्वाग्मी काव्यज्ञश्च प्रजायते ॥ ८७॥ सर्वविद्ग्रान्थिको जीवे न वाग्मी च सभादिषु । शब्दज्ञश्च विशेषेण वेदवेदान्तवित् तथा ॥ ८८॥ सभाजडो भवेद् बाल उक्तस्थानगते शनौ । मीमांसको भवेन्नूनमुक्तस्थानगते बुधे ॥ ८९॥ स्वांशे वा पञ्चमे भौमे जातो नैयायिको भवेत् । चन्द्रे च सांख्ययोगज्ञः साहित्यज्ञश्च गायकः ॥ ९०॥ रवौ वेदान्तविच्चैव गीतज्ञश्च प्रजायते । केतौ च गणितज्ञः स्याज्ज्योतिःशास्त्रविशारदः ॥ ९१॥ सम्प्रदायस्य संसिद्धिर्गुरुसम्बन्धतो भवेत् । द्वितीये च तृतीये च स्वांशादेवं विचारयेत् ॥ ९२॥ भावे सूक्ष्मफलं ज्ञात्वा जातकस्य फलं वदेत् । केतौ स्वांशाद्द्वितीये वा तृतीये स्तब्धवाग् भवेत् ॥ ९३॥ पापदृष्टे विशेषेण मानवो वक्तुमक्षमः । स्वांशाल्लग्नात् पदाद्वाऽपि द्वितीयाष्टमभावयोः ॥ ९४॥ केमद्रुमः पापसाम्ये चन्द्रदृष्टौ विशेषतः । अत्राऽध्याये च ये योगाः सफलाः कथिता मया ॥ ९५॥ योगकर्तृदशायान्ते ज्ञेयाः सर्वे फलप्रदाः । एवं दशाप्रदाद्राशैर्द्वितीयाष्टमयोर्द्विज ॥ ९६॥ ग्रहसाम्ये च विज्ञेयो योगः केमद्रुमोऽशुभः । दशाप्रारम्भसमये सलग्नान् साधयेद् ग्रहान् ॥ ९७॥ ज्ञेयस्तत्रापि योगोऽयं पापसाम्येऽर्थरन्ध्रयोः । एवं तन्वादिभावानां सूर्यादीनां नभसदाम् ॥ ९८॥ तत्तत्स्थित्यनुसारेण फलं वाच्यं विपश्चिता । इति संक्षेपतः प्रोक्तं कारकांशफलं मया ॥ ९९॥
अथ योगकारकाध्यायः ॥ ३४॥ कारकांशवशादेवं फलं प्रोक्तं मया द्विज । अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु ॥ १॥ केन्द्राधिपतयः सौम्या ना दिशन्ति शुभं फलम् । क्रूरा नैवाऽशुभं कुर्युः शुभदाश्च त्रिकोणपाः ॥ २॥ लग्नं केन्द्रत्रिकोणत्वाद् विशेषेण शुभप्रदम् । पञ्चमं नवमं चैव विशेषधनमुच्यते ॥ ३॥ सप्तमं दशमं चैव विशेषसुखमुच्यते । त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः ॥ ४॥ व्ययद्वितीयरन्ध्रेशाः साहचर्यात् फलप्रदाः । स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम् ॥ ५॥ तत्र भाग्यव्ययेशत्वाद्रन्ध्रेशो न शुभप्रदः । त्रिमदायाधिपत्वेऽथो कोणपत्वे तु सत्फलः ॥ ६॥ उक्तेष्वेषु बली योगो निर्बलस्य प्रबाधकः । न रन्ध्रेशत्वदोषोऽत्र सूर्याचन्द्रमसोर्भवेत् ॥ ७॥ गुरुशुक्रौ शुभौ प्रोक्तौ चन्द्रो मध्यम उच्यते । उदासीनो बुधः ख्यातः पापा रव्यार्किभूमिजाः ॥ ८॥ पूर्णेन्दुज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम् । क्षीणेन्द्वर्कार्किभूपुत्राः प्रबलाश्च यथोत्तरम् ॥ ९॥ केन्द्राधिपत्यदोषोयः शुभानां कथितो हि सः । चन्द्रज्ञगुरुशुक्राणां प्रबलाश्चोत्तरोत्तरम् ॥ १०॥ केन्द्रकोणपती स्यातां परस्परगृहोपगौ । एकभे द्वौ स्थितौ वापि ह्येकभेऽन्यतरः स्थितः ॥ ११॥ पूर्णदृष्ट्येक्षितौ वापि मिथो योगकारौ तदा । योगेऽस्मिन् जायते भूपो विख्यातो वा जनो भवेत् ॥ १२॥ कोणेशत्वे यदैकस्य केन्द्रेशत्वं च जायते । केन्द्रे कोणे स्थितो वाऽसौ विशेषाद्योगकारकः ॥ १३॥ केन्द्रेशत्वेन पापानां या प्रोक्ता शुभकारिता । सा त्रिकोणाधिपत्येऽपि न केन्द्रेशत्वमात्रतः ॥ १४॥ केन्द्रकोणाधिपावेव पापस्थानाधिपौ यदा । तयोः सम्बन्धमात्रेण न योगं लभते नरः ॥ १५॥ यद्भावेशयुतौ वापि यद्यद्भावसमागतौ । तत्तत्फलानि प्रबलौ प्रदिशेतां तमोप्रहौ ॥ १६॥ यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ । नाथेनात्यतरेणाढ्यौ दृष्टौ वा योगकारकौ ॥ १७॥ कस्मिल्लग्ने प्रजातस्य के ग्रहा योगकारकाः । के चाऽशुभप्रदाः खेटाः कृपया वदे मे मुने ॥ १८॥ यथा पृष्टं त्वया विप्र तथोदाहरणं ब्रुवे । रन्ध्रेशत्वेऽपि भूपुत्रो भवेच्छूभसहायवान् ॥ १९॥ मन्दसौम्यसिताः पापाः शुभौ गुरुदिवाकरौ । न शुभं योगमत्रेण प्रभवेच्छनिजीवयोः ॥ २०॥ पारतन्त्र्येण जीवस्य पापकर्मापि निश्चितम् । शुक्रः साक्षान्निहन्ता स्यान्मारकत्वेन लक्षितः ॥ २१॥ मन्दादयोऽपि हन्तारो भवेयुः पापिनो ग्रहाः । मेषलग्नोद्भवस्यैवं फलं ज्ञेयं द्विजोत्तम ॥ २२॥ जीवशुक्रेन्दवः पापाः शुभौ शनिदिवाकरौ । राजयोगकरः सौरिर्बुधस्त्वल्पशुभप्रदः ॥ २३॥ जीवादयो कुजश्चापि सन्ति मारकलक्षणाः । वृषलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ २४॥ भौमजीवारुणाः पापाः एक एव कविः सुभः । शनैश्चरणे जीवस्य योगो मेषभवो यथा ॥ २५॥ शशी मुखनिहन्ताऽसौ साहचर्याच्च पाकदः । द्वन्द्वलग्नोद्भवस्यैवं फलान्यूह्यानि पंडितैः ॥ २६॥ भार्गवेन्दुसुतौ पापौ भूसुतेज्येन्दवः शुभाः । पूर्णयोगकरः साक्षान्मंगलो मंगलप्रदः ॥ २७॥ निहन्ताऽर्कसुतोऽर्कस्तु साहचर्यात् फलप्रदः । कर्कलग्नोद्भवस्यैवं फलं प्रोक्तं मनीषिभिः ॥ २८॥ सौम्यशुक्रार्कजाः पापाः कुजेज्यार्काः शुभावहाः । प्रभवेद्योगमात्रेण न शुभं गुरुशुक्रयोः ॥ २९॥ मारकस्तु शनिश्चन्द्रः साहचर्यात् फलप्रदः । सिंहलग्ने प्रजातस्य फलं ज्ञेयं विपश्चिता ॥ ३०॥ कुजजीवेन्दवः पापाः बुधशुक्रौ शुभावहौ । भार्गवेन्दुसुतावेव भवेतां योगकारकौ ॥ ३१॥ मारकोऽपि कविः सूर्यः साहचर्यफलप्रदः । कन्यालग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ ३२॥ जीवार्कभूसुताः पापाः शनैश्चरबुधौ शुभौ । भवेतां राजयोगस्य कारकौ चन्द्रतत्सुतौ ॥ ३३॥ कुजो निहन्ति जीवाद्याः पापा मारकलक्षणाः । शुक्रः समः फलान्येवं विज्ञेयानि तुलोद्भवे ॥ ३४॥ सितज्ञशनयः पापाः शुभौ गुरुनिशाकरौ । सूर्याचन्द्रमसावेव भवेतां योगकारकौ ॥ ३५॥ कुजः समः सिताद्याश्च पापा मारकलक्षणाः । एवं फलं च विज्ञेयं वृश्चिकोदयजन्मनः ॥ ३६॥ एक एव कविः पापः शुभौ भौमदिवाकरौ । योगो भास्करसौम्याभ्यां निहन्ता भास्करात्मजः ॥ ३७॥ गुरुः समफलः ख्यातः शुक्रो मारकलक्षणः । धनुर्लग्नोद्भवस्यैवं फलं ज्ञेयं विपश्चिता ॥ ३८॥ कुजजीवेन्दवः पापाः शुभौ भार्गवचन्द्रजौ । मन्दः स्वयं न हन्ता स्याद् हन्ति पापाः कुजादयः ॥ ३९॥ सूर्यः समफलः प्रोक्तः कविरेकः सुयोगकृत् । मृगलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ ४०॥ जीवचन्द्रकुजाः पापाः शुक्रसूर्यात्मजौ शुभौ । राजयोगकरो ज्ञेजः कविरेव बृहस्पतिः ॥ ४१॥ सूर्यो भौमश्च हन्तारो बुधो मध्यफलः स्मृतः । कुम्भलग्नोद् भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ ४२॥ मन्दशुक्रांशुमत्सौम्याः पापा भौमविधू शुभौ । महीसुतगुरू योगकारकौ च महीसुतः ॥ ४३॥ मारकोऽपि न हन्ताऽसौ मन्दज्ञौ मारकौ स्मृतौ । मीनलग्नोद् भवस्यैवं फलानि परिचिन्तयेत् ॥ ४४॥ एवं भावाधिपत्येन जन्मलग्नवशादिह । शुभत्वमशुभत्व च ग्रहाणां प्रतिपादितम् ॥ ४५॥ अत्यानपि पुनर्योगान् नाभसादीन् विचिन्त्य वै । देहिना च फलं वाच्यं प्रवक्ष्यामि च तानहम् ॥ ४६॥
अथ नाभसयोगाध्यायः ॥ ३५॥ अधुना नाभसा योगाः कथ्यन्ते द्विजसत्तम । द्वात्रिंशात् तत्प्रभेदास्तु शतघ्नाष्टादशोन्मिताः ॥ १॥ आश्रयाख्यास्त्रयो योगाः दलसंज्ञं द्वयं ततः । आकृतिर्विशतिः संख्याः सप्त योगाः प्रकीर्तिताः ॥ २॥ रज्जुश्च मुसलश्चैव नलश्चेत्याश्रयास्त्रयः । मालाख्यः सर्पसंज्ञश्च दलयोगौ प्रकीर्तितौ ॥ ३॥ गदाख्यः शकटाख्यश्च स्रृङ्गाटकविहंगसौ । हलवज्रयवाश्चैव कमलं वापियूपकौ ॥ ४॥ शरशक्तिदण्डनौकाकूटच्छत्रध्नूंषि च । अर्धचन्द्रस्तु चक्रं च समुद्रश्चेति विंशतिः ॥ ५॥ संख्याख्यावल्लकीदामपाशकेदारशूलकाः । युगो गोलश्च सप्तैते युक्ता दन्तमिता द्विज ॥ ६॥ सर्वैश्चरे स्थितै रज्जुः स्थिरस्थैर्मुसलः स्मृतः । नलाख्यो द्विस्वभावस्थैराश्रयाख्या इमे स्मृताः ॥ ७॥ केन्द्रत्रयगतैः सौम्यैः पापैर्वा दलसंज्ञकौ । क्रमान्मालाभुजंगाख्यौ शुभाशुभफलप्रदौ ॥ ८॥ आसन्नकेन्द्रद्वयगैः सर्वैर्योगो गदाह्वयः । शकटं लग्नजायास्थैः खाम्बुगैर्विहगः स्मृतः ॥ ९॥ योगः स्रृङ्गाटकं नाम लग्नात्मजतपःस्थितैः । अन्यस्थानात् त्रिकोणस्थैः सर्वैर्योगो हलाभिघः ॥ १०॥ लग्नजायास्थितैः सौम्यैः पापाख्यैः खाऽम्बुसंस्थितैः । योगो वज्राभिधः प्रोक्तः वीपरीतस्थितैर्यवः ॥ ११॥ सर्वकेन्द्रगतैः सर्वैर्मिश्रैः कमलसंज्ञकः । केन्द्रादन्यत्रगैः सर्वैर्योगो वापीसमाह्वयः ॥ १२॥ यूपो लग्नाच्चतुर्भस्थैः शरस्तुर्याच्चतुर्भगैः । शक्तिर्मदाच्चतुर्भस्थैर्दण्डो मध्याच्चतुर्भगैः ॥ १३॥ लग्नात् सप्तमगैनौ का कूटस्तुर्याच्च सप्तमैः । छत्राख्यः सप्तमादेवं चापं मध्याद् भसप्तगैः ॥ १४॥ लग्नादेकान्तरस्थैश्च षड्भगैश्चक्रमुच्यते । धनादेकान्तरस्थैस्तु समुद्रः षडगृहाश्रितै ॥ १५॥ एकराशिस्थितैर्गोलो युगाख्यो द्विभसंस्थितैः । शूलस्तु त्रिभगैः प्रोक्तः केदारस्तु चतुर्भगैः ॥ १६॥ पञ्चराशिस्थतैः पाशा दामाख्यः षड्गृहाश्रितैः । वीन्>आ सप्तभगैः सर्वैर्विहायान्यानुदीरितान् ॥ १७॥ अटनप्रियाः सुरूपाः परदेशस्वास्थ्यभागिनो मनुजाः । क्रूराः खलस्वभावा रज्जुप्रभवाः सदा कथिताः ॥ १८॥ मानज्ञानधनाद्यैर्युक्ता भूपप्रियाः ख्याताः । बहुपुत्राः स्थिरचित्ता मुसलसमुत्था भवन्ति नराः ॥ १९॥ न्यूनातिरिक्तदेहा धनसञ्चयभागिनोऽतिनिपुणाश्च । बन्धुहिताश्च सुरूपा नलयोगे सम्प्रसूयन्ते ॥ २०॥ नित्यं सुखप्रधाना वाहनवस्त्रान्नभोगसम्पन्ना । कान्ता सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः ॥ २१॥ वुषमाः क्रूरा निःस्वा नित्यं दुःखार्दिताः सुदीनाश्च । परभक्षपाननिरताः सर्पप्रभवा भवन्ति नराः ॥ २२॥ सततोद्युक्तार्थवशा यज्वानः शास्त्रगेयकुशलाश्च । धनकनकरत्नसम्पत्संयुक्ता मानवा गदायां तु ॥ २३॥ रोगार्ताः कुनखा मूर्खाः शकटानुजीविनो निःस्वा । मित्रस्वजनविहीनाः शकटे जाता भवन्ति नराः ॥ २४॥ भ्रमणरुचयोविकृष्टा दूताः सुरतानुजीवनो धृष्टाः । कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः ॥ २५॥ प्रियकलहाः समरसहाः सुखिनो नृपतेः शुभकलत्राः । आढ्या युवतिद्वेष्याः स्रृङ्गाटकसम्भवा मनुजाः ॥ २६॥ बह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगा । बन्धुसुहृदिभः त्यक्ताः प्रेष्याः हलसंज्ञके सदा पुरुषाः ॥ २७॥ आद्यन्तवयःसुखिनः शूराः सुभगा निरीहाश्चः । भाग्यविहीना वज्रे जाताः खला विरुद्धाश्च ॥ २८॥ व्रतनियममङ्गलपरा वयसो मध्ये सुखार्थपुत्रयुता । दातारः स्थिरचित्ता यवयोगभवाः सदा पुरुषाः ॥ २९॥ विभवगुणाद्ग्।याः पुरुषाः स्थिरायुषो विपुलकीर्तय शुद्धाः । शुभशतकाः पृथ्वीशाः कमलभवाः मानवा नित्यम् ॥ ३०॥ निधिकरणे निपुणधियः स्थिरार्थसुखसंयुता सुतयुताश्च । नयनसुखसम्प्रहृष्टा वापीयोगेन राजानः ॥ ३१॥ आत्मविदिज्यानिरतः स्त्रिया युतः सत्त्वसम्पन्नः । व्रतनियमरतमनुस्यो यूपे जातो विशिष्टश्च ॥ ३२॥ इषुकारा बन्धनपाः मृगयाधनसेविताश्च मंसादा । हिंस्राः कुशिल्पकाराः शरयोगे मानवाः प्रसूयन्ते ॥ ३३॥ धनरहितविफलदुःखितनीचलसाश्चिरायुषः पुरुषाः । संग्रामबुद्धिनिपुणाः शक्त्यां जाताः स्थिराः शुभगाः ॥ ३४॥ हतपुत्रदारनिःस्वाः सर्वत्र च निर्धृंणाः स्वजनबाह्याः । दुःखितनीचप्रेष्या दण्डप्र्भवा भवन्ति नराः ॥ ३५॥ सलिलोपजीविविभवाः बह्वाशाः ख्यातकीर्तयो दुष्टाः । कृपणा मलिना लुब्धा नौसञ्जाताः खलाः पुरुषाः ॥ ३६॥ अनृतकथनबन्धनपा निष्किञ्चनाः शठाः क्रूराः । कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ॥ ३७॥ स्वजनाश्रयो दयावान्नानानृपवल्लभः प्रकृष्टमतिः । प्रथमेऽन्त्ये वयसि नराः सुखवान् दीर्घायुरातपत्री स्यात् ॥ ३८॥ आनृतिकगुप्तपालाश्चोराः कितवाश्च कानने निरताः । कार्मुकयोगे जाता भाग्यविहीनाः शुभा वयोमध्ये ॥ ३९॥ सेनापतयः सर्वी कान्तशरीरा नृपप्रिया बलिनः । मणिकनकभूषणयुता भवन्ति योगेऽर्धचन्द्राख्ये ॥ ४०॥ प्रणताऽऽशेषनराधिपकिरीटरत्नप्रभास्फुरितपादः । भवति नरेन्द्रो मनुजश्चक्रे यो जायते योगे ॥ ४१॥ बहुरत्नधनसमृद्धा भोगयुता धनजनप्रियाः ससुता । उदधिसमुत्थाः पुरुषाः स्थिरविभवाः साधुशीलाश्च ॥ ४२॥ प्रियगीतनृत्यवाद्या निपुणाः सुखिनश्च धनवन्तः । नेतारो बहुभृत्या वीणायां कीर्तिताः पुरुषाः ॥ ४३॥ दाम्नि सुजनोपकारी नयधनयुक्तो महेश्वरः ख्यातः । बहुसुतरत्नसमृद्धो धीरो जायेत विद्वांश्च ॥ ४४॥ पाशे बन्धनभाजः कार्ये दक्षाः प्रपञ्चकाराश्च । बहुभाषिणो विशीला बहुभृत्याः सम्प्रतानाश्च ॥ ४५॥ सुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिनः । केदारे सम्भूताश्चलस्वभावा धनैर्युक्ताः ॥ ४६॥ तीक्ष्णालसधनहीना हिंस्राः सुबहिष्कृता महाशूराः । संग्रामे लब्धयशा शूले योगे भवन्ति नराः ॥ ४७॥ पाखण्डवादिनो वा धनरहिता वा बहिष्कृता लोके । सुतमातृधर्मरहिता युगयोगे ये नरा जाताः ॥ ४८॥ बलसंयुक्ता विधना वद्याविज्ञानवर्जिता मलिना । नित्यं दुःखितदीना गोले योगे भवन्ति नराः ॥ ४९॥ सर्वास्वपि दशस्वेते भवेयुः फलदायिनः । प्राणिनामिति विज्ञेयाः प्रवदन्ति तवाग्रजाः ॥ ५०॥
अथ विविधयोगाध्यायः ॥ ३६॥ लग्ने शुभयुते योगः शुभः पापयुतेऽशुभः । व्ययस्वगैः शुभैः पापैः क्रमाद्योगौ शुभाऽशुभौ ॥ १॥ शुभयोगोद्भवो वाग्मी रूपशीलगुणवन्वितः । पापयोगोद्भवः कामी पापकर्मा परार्थयुक् ॥ २॥ केन्द्रे देवगुरौ लग्नाच्चन्द्राद्वा शुभदृग्युते । नीचास्तारिगृहैर्हीने योगोऽयं गजकेसरी ॥ ३॥ गजकेसरीसञ्जातस्तेजस्वी धनवान् भवेत् । मेधावी गुणसम्पन्नो राजप्रियकरो नरः ॥ ४॥ दशमेऽङ्गात्तथा चन्द्रात् केवलैश्च शुभैर्युते । स योगोऽमलकीत्र्त्याख्यः कीर्तिराचन्द्रतारकी ॥ ५॥ राजपूज्ये महाभोगी दाता बन्धुजनप्रियः । परोपकारी धर्मात्मा गुणढ्योऽमलकीर्तिजः ॥ ६॥ सप्तमे चाऽष्टमे शुद्धे शुभग्रहयुतेऽथवा । केन्द्रेषु शुभयुक्तेषु योगः पर्वतसंज्ञकः ॥ ७॥ भाग्यवान् पर्वतोत्पन्नः वाग्मी दाता च शास्त्रवित् । हास्यप्रियो यशस्वी च तेजस्वी पुरनायकः ॥ ८॥ सुखेशेज्यौ मिथः केन्द्रगतौ बलिनि लग्नपे । काहलो वा स्वभोच्चस्थे सुखेशे कर्मपान्विते ॥ ९॥ ओजस्वी साहसी धूर्तश्चतुरङ्गबलान्वितः । यत्किञ्चिद् ग्रामनाथश्च काहले जायते नरः ॥ १०॥ लग्नेशे तुङ्गगे केन्द्रे गुरुदृष्टे तु चामरः । शुभद्वये विलग्ने वा नवमे दशमे मदे ॥ ११॥ राजा वा राजपुज्यो वा चिरजीवी च पण्डितः । वाग्मी सर्वकलाविद् वा चामरे जायते जनः ॥ १२॥ सवले लग्नपे पुत्रषष्ठपौ केन्द्रगौ मिथः । शंखो वा लग्नकर्मेशौ चरे बलिनि भाग्यपे ॥ १३॥ धनस्त्रीपुत्रसंयुक्तो दयालुः पुण्यवान् सुधीः । पुण्यकर्मा चिरञ्जीवी शंखयोगोद्भवो नरः ॥ १४॥ सबले भाग्यपे भेरी खगैः स्वान्त्योदयास्तगैः । सबले भाग्यपे वाऽसौ केन्द्रे शुक्रेज्यलग्नपैः ॥ १५॥ धनस्त्रीपुत्रसंयुक्तो भूपः कीर्तिगुणान्वितः । आचारवान् सुखी भोगी भेरीयोगे जनो भवेत् ॥ १६॥ सबले लग्नपे खेटाः केन्द्रे कोणे स्वभोच्चगाः । मृगङ्गयोगो जातोऽत्र भूपो वा तत्समः सुखी ॥ १७॥ कीमेशे कर्मगे तुङ्गे कर्मेशे भाग्यपान्विते । योगः श्रीनाथसंज्ञोऽत्र जातः शुक्रसमो नृपः ॥ १८॥ कर्मेशे सुतगे केन्द्रे बुधेऽर्के सबले स्वभे । चन्द्रात् कोणे गुरौ ज्ञे वा कुजे लाभे च शारदः ॥ १९॥ धनस्त्रीपुत्रसंयुक्तः सुखी विद्वान् नृपप्रियः । तपस्वी धर्मसंयुक्तः शारदे जायते जनः ॥ २०॥ धर्मलग्नगते सौम्ये पञ्चमे सदसद्युते । पापे च चतुरस्रस्थे योगोऽयं मत्स्यसंज्ञकः ॥ २१॥ कालज्ञः करुणामूर्तिर्गुणधीबलरूपवान् । यशोविद्यातपस्वी च मत्स्ययोगे हि जायते ॥ २२॥ पुत्रारिमदगाः सौम्याः स्वभोच्चसुहृदंशगाः । त्रिलाभोदयगाः पापाः कूर्मयोगः स्वभोच्चगाः ॥ २३॥ कूर्मयोगे जनो भूपो धीरो धर्मगुणान्वितः । कीर्तिमानुपकारी च सुखी मानवनायकः ॥ २४॥ भाग्येशे धनभावास्थे धनेशे भाग्यभावगे । लग्नेशे केन्द्रकोणस्थे खड्गयोगः स कथ्यते ॥ २५॥ खड्गयोगे समुत्पन्नो धनभाग्यसुखान्वितः । शास्त्रज्ञो बुद्धिवीर्याढ्यः कृतज्ञः कुशलो नरः ॥ २६॥ केन्द्रे मूलत्रिकोणस्ते भाग्येशे वा स्वभोच्चगे । लग्नाधिपे बलाढ्ये च लक्ष्मीयोगः प्रकीर्त्यते ॥ २७॥ सुरूपो गुणवान् भूपो बहुपुत्रधनान्वितः । यशस्वी धर्मसम्पन्नो लक्ष्मीयोगे जनो भवेत् ॥ २८॥ लग्ने स्थिरे भृगौ केन्द्रे चन्द्रकोणे शभान्विते । मानस्थानगते सौरे योगोऽयं कुसुमाभिधः ॥ २९॥ भूपो वा भूपतुल्यो वा दता भोगी सुखी जनः । कुलमुख्यो गुणी विद्वान् जायते कुसुमाह्वये ॥ ३०॥ द्वितीये पञ्चमे जीवे बुधशुक्रयुतेक्षिते । क्षत्रे तयोर्वा सम्प्रप्ते योगः स च कलानिधिः ॥ ३१॥ कलानिधिसमुत्पन्नो गुणवान् भूपवन्दितः । रोगहीनः सुखी जातो धनविद्यासमन्वितः ॥ ३२॥ लग्नेशतद्गतर्क्षेशतद्गतर्क्षेशतदंशपाः । केन्द्रे कोणे स्वतुङ्गे वा योगः कल्पद्रुमो मतः ॥ ३३॥ सर्वैश्वर्ययुतो भूपो धर्मात्मा बलसंयुतः । युद्धप्रियो दयालुश्च पारिजाते नरो भवेत् ॥ ३४॥ स्वान्त्याष्टस्थैर्द्वितीयेशाद् हरियोगः शुभग्रहैः । कामेशाद् बन्धुधर्माष्टस्थितैः सौम्यैर्हराभिधः ॥ ३५॥ लग्नेशाद् बन्धुकर्मायस्थितैर्ब्रह्माह्वयः स्मृतः । एषु जातः सुखी विद्वान् धनपुत्रादिसंयुतः ॥ ३६॥ लग्नान्मदाष्टगैः सौम्यैः पापदृग्योगवर्जितैः । योगो लग्नाधियोगोऽस्मिन् महात्मा शास्त्रवित् सुखी ॥ ३७॥ लग्नपे पारिजातस्थे सुखी वर्गोत्तमे ह्यरुक् । गोपुरे धनधान्याढ्या भूपः सिंहासने स्थिते ॥ ३८॥ विद्वान् पारावते श्रीमान् देवलोके सवाहनः । ऐरावतस्थिते जातो विख्यातो भूपवन्दितः ॥ ३९॥
अथ चन्द्रयोगाध्यायः ॥ ३७॥ सहस्ररश्मितचन्द्रे कण्टकादिगते क्रमात् । धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि ॥ १॥ स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी । गुरुणा दृश्यते तत्र जातो धनसुखान्वितः ॥ २॥ स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि । शुक्रेण दृश्यते तत्र जातो धनसुखान्वितः ॥ ३॥ एतद्विपर्ययस्थे च शुक्रेज्यानवलोकिते । जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा ॥ ४॥ चन्द्राद्रन्ध्रारिकामस्थै सौम्यैः स्याधियोगकः । तत्र राजा च मन्त्री च सेनाधीशश्च बलक्रमात् ॥ ५॥ चन्द्राद् वृद्धिगतैः सर्वैः शुभैर्जातो महाधनी । द्वाभ्यां मध्यधनो जात एकेनाऽल्पधनो भवेत् ॥ ६॥ चन्द्रात् स्वान्त्योभयस्थे हि ग्रहे सूर्यं बिना क्रमात् । सुनफाख्तोऽनफाख्यश्च योगो दुरधराह्वयः ॥ ७॥ राजा वा राजतुल्यो वा धीधनख्यातिमाञ्जनः । स्वभुजार्जितवित्तश्च सुनफायोगसम्भवः ॥ ८॥ भूपोऽगदशरीरश्च शीलवान् ख्यातकीर्तिमान् । सुरूपश्चाऽनफाजातो सुखैः सर्वैः समन्वितः ॥ ९॥ उत्पन्नसुखभुग् दाता धनवाहनसंयुतः । सद्भृत्यो जायते नूनं जनो दुरधराभवः ॥ १०॥ चन्द्रादाद्यधनाऽन्त्यस्थो विना भानुं न चेद्ग्रहः । कश्चित् स्याद्वा विना चन्द्रं लग्नात् केन्द्रगतोऽथ वा ॥ ११॥ योगः केमद्रुमो नाम तत्र जातोऽतिगर्हितः । बुद्धिविद्याविहीनश्च दरिद्रापत्तिसंयुतः ॥ १२॥ अन्ययोगफलं हन्ति चन्द्रयोगो विशेषतः । स्वफलं प्रददातीति बुधो यत्नाद् विचिन्तयेत् ॥ १३॥
अथ रवियोगाध्यायः ॥ ३८॥ सूर्यात् स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः । वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात् ॥ १॥ समदृक् सत्यवाङ् मर्त्यो दीर्घकायोऽलसस्तथा । सुखभागल्पवित्तोऽपि वेशियोगसमुद्भवः ॥ २॥ वोशौ च निपुणो दाता यशोविद्याबलावन्तिः । तथोभयचरे जातो भूपो वा तत्समः सुखी ॥ ३॥ शुभग्रहभवे योगे फलमेवं विचिन्तयेत् । पापग्रहसमुत्पन्ने योगे तु फलमन्यथा ॥ ४॥
अथ राजयोगाध्यायः ॥ ३९॥ अथाऽतः सम्प्रवक्ष्यामि राययोगान् द्विजोत्तम । येषां विज्ञानमात्रेण राजपूज्यो जनो भवेत् ॥ १॥ ये योगाः शम्भुना प्रोक्ताः पुरा शैलसुताग्रतः । तेषां सारमहं वक्ष्ये तवाग्रे द्विजनन्दन ॥ २॥ चिन्तयेत् कारकांशे वा जनुर्लग्नेऽथ वा द्विज । राजयोगकरौ द्वौ द्वौ स्फुटौ खेटौ प्रयत्नतः ॥ ३॥ आत्मकारकपुत्राभ्यां योगमेकं प्रकल्पयेत् । तनुपञ्चमनाथाभ्यां तथैव द्विजसत्तम ॥ ४॥ लग्नपुत्रेशयोरात्मपुत्रकारकयोर्द्वयोः । सम्बन्धात् पूर्णमर्धं वा पादं वीर्यानुसारतः ॥ ५॥ लग्नेशे पञ्चमे भावे पञ्चमेशे च लग्ने । पुत्रात्मकारकौ विप्र लग्ने च पञ्चमे स्थित ॥ ६॥ स्वोच्चे स्वंशे स्वभे वाऽपि शुभग्रहनिरीक्षितो । महाराजाख्ययोगोऽत्र जातः ख्यातः सुखान्वितः ॥ ७॥ भाग्येशः कारको लग्ने पञ्चमे सप्तमेऽपि वा । राजयोगप्रदातारौ शुभखेटयुतेक्षितौ ॥ ८॥ लग्नेशात् कारकाच्चापि धने तुर्ये च पञ्चमे । शुभखेटयुते भावे जातो राजा भवेद् ध्रुवम् ॥ ९॥ तृतीये षष्ठभे ताभ्यां पापग्रहयुतेक्षिते । जातो राजा भवेदेवं मिश्रे मिश्रफलं वदेत् ॥ १०॥ स्वांशे वा पञ्चमे शुक्रे जीवेन्दुयुतवीक्षिते । लग्ने लग्नपदे वाऽपि राजवर्गो भवेन्नरः ॥ ११॥ जन्माङ्गे कालहोराङ्गे कालङ्गे येन केनचित् । एकग्रहेण सन्दृष्टे त्रितये राजभाग् जनः ॥ १२॥ लग्नषड्वर्गके चैवमेकखेटयुतेक्षिते । राजयोगो भवत्येव निर्विशंक द्विजोत्तम ॥ १३॥ पूर्णदृष्टे पूर्नयोगमर्धदृष्टेऽर्धमेव च । पाददृष्टे पादयोगमिति ज्ञेयं क्रमात् फलम् ॥ १४॥ लग्नत्रये स्वभोच्चस्थे खेटे राजा भवेद् ध्रुवम् । यद्वा लग्ने दृकाणेंऽशे स्वोच्चखेटयुते द्विज ॥ १५॥ पदे शुभ सचंद्रे च धने देवगुरौ तथा । स्वोच्चस्थखेटसन्दृष्टे राजयोगो न संशयः ॥ १६॥ शुभे लग्ने शुभे त्वर्थे तृतीये पापखेचरे । चतुर्थे च शुभे प्राप्ते राजा वा तत्समोऽपि वा ॥ १७॥ स्वोच्चस्थो हरिणांको वा जीवो वा शुक्र एव वा । बुधो वा धनभावस्थः श्रियं दिशति देहिनः ॥ १८॥ षष्ठेऽष्टमे तृतीये वा स्वस्वनीचगता ग्रहाः । लग्नं पश्येत् स्वभोच्चस्थो लग्नपो राज्ययोगदः ॥ १९॥ षष्ठाऽष्टमव्ययाधीशा नीचस्था रिपुभेऽस्थगाः । स्वोच्चस्वभगलग्नेशो लग्नं पश्यंश्च राज्यदः ॥ २०॥ स्वोच्चस्वभस्थराज्येशो लग्नं पश्यंश्च राज्यदः । शुभाः केन्द्रस्थिता वाऽपि राज्यदः नाऽत्र संशयः ॥ २१॥ शुभराशौ शुभांशे च कारको धनवान् भवेत् । तदंशकेन्द्रेषु शुभे नूनं राजा प्रजायते ॥ २२॥ लग्नारूढं दारपदं मिथः केन्द्र स्थितं यदि । त्रिलाभे वा त्रिकोणे वा तदा राजा न संशयः ॥ २३॥ भावहोराघटीसंज्ञलग्नानि च प्रपश्यति । स्वोच्चग्र्हो राजयोगो लग्नद्वयमथापि वा ॥ २४॥ राशेर्द्रेष्काणतोंऽशाच्च राशेरंशादथापि वा । यद्वा राशिदृकाणाभ्यां लग्नद्रष्टा तु योगदः ॥ २५॥ पदे स्वोच्चखगाक्रान्ते चन्द्राक्रान्ते विशेषतः । क्रान्ते च गुरुशुक्राभ्यां केनाप्युच्चग्रहेण वा ॥ २६॥ दुष्टार्गलग्रहाभावे राजयोगो न संशयः । शुभारूढे तत्र चन्द्रे धने देवगुरौ तथा ॥ २७॥ दुःस्थानेशोऽपि नीचस्थो यदि लग्नं प्रपश्यति । तदाऽपि राजयोगः स्यादिति ज्ञेयं द्विजोत्तम ॥ २८॥ चतुर्थदशमार्थायपतिदृष्टे विलग्नभे । पदाल्लाभे तु शुक्रेण दृष्टेऽप्यारूढभे शुभे ॥ २९॥ राजा वा तत्समो वापि जातको जायते ध्रुवम् । ष।ष्ठाष्टमगते नीचे लग्नं पश्यति वा तथा ॥ ३०॥ तृतीयलाभगे नीचे लग्नं पश्यति वा तथा । लग्नांशकेन्द्रेषु शुभे निग्रहानुग्रहक्षमः ॥ ३१॥ अथाऽहं सम्प्रवक्ष्यामि राजयोगादिकं परम् । ग्रहाणां स्थानभेदेन दृष्टियोगवशात् फलम् ॥ ३२॥ तपःस्थानाधिपो मन्त्री मन्त्राधीशो विशेषतः । उभावन्योन्यसंदृष्टौ जातश्चेदिह राज्यभाक् ॥ ३३॥ यत्र कुत्रापि संयुक्तौ तौ वापि समसप्तमौ । राजवंशभवो बालो राजा भवति निश्चितम् ॥ ३४॥ वाहनेशस्तथा माने मानेशो वाहने स्थितः । बुद्धधर्माधिपाभ्यां तु दृष्टश्चेदिह राज्यभाक् ॥ ३५॥ सुतकर्मसुहृल्लग्ननाथा धर्मपसंयुताः । यस्य जन्मनि भूपोऽसौ कीर्त्या ख्यातो दिगन्तरे ॥ ३६॥ सुखकर्मादिपौ वापि मन्त्रिनाथेन संयुतौ । धर्मनाथेन वा युक्तौ जातश्चेदिह राज्यभाक् ॥ ३७॥ सुतेशे धर्मनाथेन युते लग्नेश्वरेण वा । लग्ने सुखेऽथवा माने स्थिते जातो नृपो भवेत् ॥ ३८॥ धर्मस्थाने स्थिते जीवे स्वगृहे भृगुसंयुते । पंचमाधिपयुक्ते वा जातश्चेदिह राजभाक् ॥ ३९॥ दिनार्धाच्च निशार्धाच्च परं सार्धद्विनाडिका । शुभा वेला तदुत्पन्नो राजा स्यात्तत्समोऽपि वा ॥ ४०॥ चन्द्रः कविं कविश्चन्द्रमन्योऽन्यं त्रिभवस्थितः । मिथः पश्यति वा क्वापि राजयोग उदाहृतः ॥ ४१॥ चन्द्रे वर्गोत्तमांशस्थे सबले चतुरादिभिः । ग्रहैर्दृष्टे च यो जातः स राजा भवति ध्रुवम् ॥ ४२॥ उत्तमांशगते लग्ने चन्द्रान्यैश्चतुरादिभिः । ग्रहैर्दृष्टेऽपि यो जातः सोऽपि भूमिपतिर्भवेत् ॥ ४३॥ त्र्यल्पैरुच्चस्थितैः खेटे राजा राजकुलोद्भवः । अन्यवंशभवस्तत्र राजतुल्यो धनैर्युतः ॥ ४४॥ चतुर्भिः पञ्चभिर्वाऽपि खेटैः स्वोच्चत्रिकोणगैः । हीनवंशभवश्चापि राजा भवति निश्चितः ॥ ४५॥ षड्भिरुच्चगतैः खेटैश्चक्रवर्तित्वमाप्नुयात् । एवं बहुविधा राजयोगा ज्ञेया द्विजोत्तम ॥ ४६॥ एको गुरुर्भृगुर्वापि बुधो वा स्वोच्चसंस्थितः । शुभग्रहयुते केन्द्रे राजा वा तत्समो भवेत् ॥ ४७॥ केन्द्रेस्थितैः शुभैः सर्वैः पापैश्च त्रिषडायगैः । हीनवंशोऽपि यो जातः स राजा भवति ध्रुवम् ॥ ४८॥
अथ राजसम्बन्धयोगाध्यायः ॥ ४०॥ राज्यनाथे जनुर्लग्नादमात्येशयुतेक्षिते । अमात्यकारकेणापि प्रधानत्वं नृपालये ॥ १॥ लाभेशवीक्षिते लाभे पापदृग्योगवर्जिते । राज्यभावे तदा विप्र प्रधानत्वं नृपालये ॥ २॥ अमात्यकारकेणापि कारकेन्द्रेण संयुते । तीव्रबुद्धियुतो बालो राजमन्त्री भवेद् ध्रुवम् ॥ ३॥ अमात्यकारके विप्र सबले शुभसंयुते । स्वक्षेत्रेस्वोच्चगे वापि राजमन्त्री भवेद् ध्रुवम् ॥ ४॥ अमात्यकारके लग्ने पञ्चमे नवमेऽपि वा । राजमन्त्री भवेद् बालो विख्यातो नाऽत्रसंशयः ॥ ५॥ आत्मकारकतः केन्द्रे कोणे वाऽमात्यकारके । तदा राजकृपायुक्तो जातो राजाश्रितः सुखी ॥ ६॥ कारकाच्च तथारूढात् लग्नाच्च द्विजसत्तम । तृतीये षष्ठभे पापैः सेनाधीशः प्रजायते ॥ ७॥ कारके केन्द्रे कोणेषु स्वतुङ्गे वा स्वभे स्थिते । भाग्यपेन युते दृष्टे राजमन्त्री भवेद् ध्रुवम् ॥ ८॥ कारके जन्मराशीशे लग्नगे शुभसंयुते । मन्त्रित्वे मुख्ययोगोऽयं वार्धकेनाऽत्र संशयः ॥ ९॥ कारके शुभसंयुक्ते पञ्चमे सप्तमेऽपि वा । दशमे नवमे वाऽपि धनं राजाश्रयाद् भवेत् ॥ १०॥ भाग्यभावपदे लग्ने कारके नवमेऽपि वा । राजसम्बन्धयोगोऽयं निर्विशंकं द्विजोत्तम ॥ ११॥ लाभेशे लाभभावस्थे पापदृष्टिविवर्जिते । कारके शुभसंयुक्ते लाभस्तस्य नृपालयात् ॥ १२॥ लग्नेशे राज्यभावस्थे राज्येशे लग्नसंस्थिते । प्रबलो राजसम्बन्धयोगोऽयं परिकीर्तितः ॥ १३॥ कारकात् तुर्यंभावस्थौ सितेन्दू द्विजसत्तम । यस्य जन्मनि जातोऽयं राजचिह्नेन संयुतः ॥ १४॥ लग्नेशे कारके वाऽपि पञ्चमेशेन संयुते । केन्द्रे कोणे स्थिते तस्मिन् राजमित्रं भवेन्नरः ॥ १५॥
Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)

% Text title            : bRihatpArAsharahorAshAstram.h 31-40
% File name             : par3140.itx
% itxtitle              : bRihatpArAsharahorAshAstram 31-40
% engtitle              : bRihatpArAsharahorAshAstram.h 31-40
% Category              : jyotiSha, sociology_astrology, bRihatpArAshara
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Subcategory           : bRihatpArAshara
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by          : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP