॥ बृहत्पाराशरहोराशास्त्रम् ४१-४५ ॥


अथ विशेषधनयोगाऽध्यायः ॥ ४१॥ अथाऽतः सम्प्रवक्ष्यामि धनयोगं विशेषतः । यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत् ॥ १॥ पण्चमे भृगुजक्षेत्रे तस्मिन् शुक्रेण संयुते । लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः ॥ २॥ पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति । चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ॥ ३॥ पण्चमे च रविक्षेत्रे तस्मिन् रवियुते सति । लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ॥ ४॥ पंचमे तु शनिक्षेत्रे तस्मिन् शनियुते सति । लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ॥ ५॥ पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते सति । लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः ॥ ६॥ पंचमे तु कुजक्षेत्रे तस्मिन् कुजयुते सति । लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ॥ ७॥ पंचमे तु शशिक्षेत्रे तस्मिन् शशियुते सति । शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ॥ ८॥ भानुक्षेत्रगते लग्ने तस्मिन् भानुयुते पुनः । भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ॥ ९॥ चन्द्रक्षेत्रगते लग्ने तस्मिन् चन्द्रयुते सति । बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत् ॥ १०॥ भौमक्षेत्रे गते लग्ने तस्मिन् भौमेन संयुते । सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ॥ ११॥ बुधक्षेत्रगते लग्ने तस्मिन् बुधयुते सति । शनिजीवयुते दृष्टे जातो धनयुतो भवेत् ॥ १२॥ गुरुक्षेत्रगते लग्ने तस्मिन् गुरुयुते सति । बुधभौमयुते दृष्टे जायते धनवान्नरः ॥ १३॥ भृगुक्षेत्रगते लग्ने तस्मिन् भृगुयुते सति । शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत् ॥ १४॥ शनिक्षेत्रगते लग्ने तस्मिन् शनियुते सति । भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः ॥ १५॥ धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः । तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः ॥ १६॥ ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः । बलाबलविवेकेन फलमूह्यं विचक्षणैः ॥ १७॥ केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः । उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक् ॥ १८॥ सिंहासने भवेन्मान्यः शूरः पारावतांशके । सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत । ऐरावतांशके तृष्टो दिग्योगो नैव जायते ॥ १९॥ पारिजाते सुताधीशे विद्या चैव कुलोचिता । उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता ॥ २०॥ सिंहासने तथा वाच्या साचिव्येन समन्विता । पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम ॥ २१॥ सुतेशे देवलोकस्थे कर्मयोगश्च जायते । उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके ॥ २२॥ धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि । पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके ॥ २३॥ गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि । सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः ॥ २४॥ सर्वधर्मान् परित्यज्य ब्रह्मैकपदमाश्रितः । पारवते च परमो हंअश्चैवात्र जन्मनि ॥ २५॥ लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः । ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम् ॥ २६॥ ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति । श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम ॥ २७॥ विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम् । तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः ॥ २८॥ पारिजाते स्थितौ तौ चेन्नृपो लोकानुरक्षकः । उत्तमे चोत्तमो भूपो गजवाजिरथादिमान् ॥ २९॥ गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत् । सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ॥ ३०॥ अस्मिन् योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा । बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः ॥ ३१॥ वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः । भविता शालिवाहाद्यस्तथैव द्विजसत्तम ॥ ३२॥ पारावतांशकेऽप्येवं जाता मन्वादयस्तथा । विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके ॥ ३३॥ ब्रह्मलोकके तु ब्रह्माद्या जायन्ते विश्वपालकाः । ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः ॥ ३४॥
अथ दारिद्रय्योगाध्यायः ॥ ४२॥ बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने । दरिद्रजन्मदान् योगान् कृपया कथय प्रभो ॥ १॥ लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते । मारकेशयुते दृष्टे निर्धनो जायते नरः ॥ २॥ लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते । मारकेशेन युग्दृष्टे धनहीनः प्रजायते ॥ ३॥ लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते । मारकेशयुते दृष्टे जातो वै निर्धनो भवेत् ॥ ४॥ षष्ठाष्टमव्ययगते लग्नपे पापसंयुते । धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः ॥ ५॥ त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे । शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः ॥ ६॥ मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ । दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः ॥ ७॥ पापग्रहे लग्नगते राज्यधर्माधिपौ विना । मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत् ॥ ८॥ त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः । पापदृष्टयुत बालो दुःखाक्रान्तश्च निर्धनः ॥ ९॥ चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि । मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः ॥ १०॥ लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि । मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः ॥ ११॥ शुभस्थानगताः पापाः पापस्थानगताः शुभाः । निर्धनो जायते बालो भोजनेन प्रपीडितः ॥ १२॥ कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः । ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः ॥ १३॥ कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम । कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते ॥ १४॥ कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् । वीक्षते चेत् तदा बालो व्ययशीलो भवेद्ध्रुवम् ॥ १५॥ अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् । धनसंस्थौ तु भौमार्की कथितौ धननाशकौ ॥ १६॥ बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः । निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः ॥ १७॥ महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ । शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति ॥ १८॥
अथायुर्दायाध्यायः ॥ ४३॥ धनाध्नाख्ययोगौ च कथितौ भवता मुने । नराणामायुषो ज्ञानं कथयस्व महामते ॥ १॥ साधु पृष्टं त्वया विप्र जनानां च हितेच्छया । कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि ॥ २॥ आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः । तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः ॥ ३॥ स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः । स्वस्ववीर्यवशैर्नैवं नक्षत्राण् च राशयः ॥ ४॥ पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् । कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः ॥ ५॥ क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह । नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः ॥ ६॥ प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः । नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः ॥ ७॥ स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् । स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः ॥ ८॥ अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ । वक्रचारं विना त्र्यांशां शज्ञुराशौ हरेद् ग्रहः ॥ ९॥ सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः । व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम् ॥ १०॥ एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः । नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम् ॥ ११॥ लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा । भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत् ॥ १२॥ स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे । तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम ॥ १३॥ लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः । मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः ॥ १४॥ लग्नादायोंऽशतुल्यः स्यादन्तरे चाऽनुपाततः । तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे ॥ १५॥ अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् । चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका ॥ १६॥ एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि । जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः ॥ १७॥ अथांशायु सलग्नानां खेटानां कथयाम्यहम् । नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति ॥ १८॥ भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् । कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम् ॥ १९॥ पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः । अत्राऽपरो विशेषोऽपि कैम्चिद् विज्ञैरुदाहृतः ॥ २०॥ साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् । द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे ॥ २१॥ उभयत्र गते खेटे कार्यं त्रिगुणमेव हि । हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम् ॥ २२॥ एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा । नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत् ॥ २३॥ अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् । अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम ॥ २४॥ गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् । श्येनवानरभल्लुकमण्डूकानां शतत्रयम् ॥ २५॥ पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् । नगणां कुञ्जराणां च विंशोत्तरशतं तथा ॥ २६॥ द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः । वृषाणां महिषाणां च चतुर्विंशतिवत्सरम् ॥ २७॥ विंशत्यायुर्मयूराणां छागादीनां च षोडश । हंसानां पंचनव च पिकानां द्वादशाब्दकाः ॥ २८॥ शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः । बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः ॥ २९॥ यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम । तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम् ॥ ३०॥ विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् । रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा ॥ ३१॥ बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् । त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम ॥ ३२॥ अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम । कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च ॥ ३३॥ लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् । आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत् ॥ ३४॥ द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम । लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत् ॥ ३५॥ चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् । एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि ॥ ३६॥ एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् । द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च ॥ ३७॥ एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा । जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम ॥ ३८॥ योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् । योगत्रयविसंवादे लग्नहोराविलग्नतः ॥ ३९॥ लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा । ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः ॥ ४०॥ दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः । योगद्वयेन वस्वाशा योगैकेन रसांककाः ॥ ४१॥ मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः । द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः ॥ ४२॥ अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः । योगद्वयेन षट्त्रिंशात् योगैकेन च खाब्धयः ॥ ४३॥ एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः । खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत् ॥ ४४॥ पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः । योगकारकखेटांशयोगस्तत्संख्यया हृतः ॥ ४५॥ लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः । लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत् ॥ ४६॥ योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते । न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते ॥ ४७॥ लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते । कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते ॥ ४८॥ अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते । मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम् ॥ ४९॥ योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् । एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत् ॥ ५०॥ आयुषो बहुधा भेदाः कथिता भवताऽधुना । कतिधा सा कदाऽनायुरमितायुः कदा भवेत् ॥ ५१॥ बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् । दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम् ॥ ५२॥ बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः । द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टिस्तु मध्यमे ॥ ५३॥ विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् । तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः ॥ ५४॥ चन्द्रेज्यौ च कुलीरांगे ज्न्!असिअतु केन्द्रसंस्थितौ । अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत् ॥ ५५॥ सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा । शुभराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत् ॥ ५६॥ गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके । त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज ॥ ५७॥ देवलोकांशके मन्दे कुजे पारावतांशके । गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत् ॥ ५८॥ सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा । अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान् ॥ ५९॥ केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते । सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत् ॥ ६०॥ केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते । ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ ६१॥ उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः । अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत् ॥ ६२॥ अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः । लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत् ॥ ६३॥ स्वभोच्चस्थेन केनापि नभौगेन समन्वितः । अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत् ॥ ६४॥ त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः । लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ॥ ६५॥ षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च । त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत् ॥ ६६॥ शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः । रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि ॥ ६७॥ आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा । तथापि दीर्घमायु स्यात् विज्ञेयं द्विजसत्तम ॥ ६८॥ द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते । स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत् ॥ ६९॥ द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् । द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत् ॥ ७०॥ लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् । तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते ॥ ७१॥ आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् । लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम् ॥ ७२॥ शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् । मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत् ॥ ७३॥ सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ । अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः ॥ ७४॥ षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते । स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥ ७५॥ चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते । बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत् ॥ ७६॥ व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ । स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम ॥ ७७॥ लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः । स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ॥ ७८॥
अथ मारकभेदाध्यायः ॥ ४४॥ बहुधाऽऽयुर्भवा योगाः कथिता भवताऽधुना । नृणां मारकभेदाश्च कथ्यन्तां कृपया मुने ॥ १॥ तृतीयमष्टमस्थानमायुःस्थानां द्वयं द्विज । मारकं तद्व्ययस्थानं द्वितीयं सप्तमं तथा ॥ २॥ तत्रापि सप्तमस्थानाद् द्वितीयं बलवत्तरम् । तयोरीशौ तत्र गताः पापिनस्तेन संयुताः ॥ ३॥ ये खेटाः पापिनस्ते च सर्वे मारकसंज्ञकाः । तेषां दशाविपाकेषु सम्भवे निधनं नृणाम् ॥ ४॥ अल्पमध्यमपूर्णायुः प्रमाणमिह योगजम् । विज्ञाय प्रथमं पुंसां मारकं परिचिन्तयेत् ॥ ५॥ अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितुः । क्वचिच्छुभानां च दशस्वष्टमेशदशासु च ॥ ६॥ केवलानां च पापानां दशासु निधनं क्वचित् । अल्पनीयं बुधैर्नृणां मारकाणामदर्शने ॥ ७॥ सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु । हन्ति सत्यप्यसम्बन्धे मारकः पापभुक्तिषु ॥ ८॥ मारकग्रहसम्बन्धान्निहन्ता पापकृच्छनिः । अतिक्रम्येतरान् सर्वान् भवत्यत्र न संशयः ॥ ९॥ अथाऽन्यदपि वक्ष्यामि द्विज मारकलक्षणं । त्रिविधाश्चायुषो योगाः स्वल्पायुर्मध्यमोत्तमाः ॥ १०॥ द्वाविंशात् पूर्वमल्पायुर्मध्यमायुस्ततः परम् । चतुष्षष्ट्याः पुरस्तात् तु ततो दीर्घमुदाहृतम् ॥ ११॥ उत्तमायुः शतादूर्ध्वं ज्ञातव्यं द्विजसत्तम । जनैर्विंशतिवर्षान्त्यमायुर्ज्ञातं न शक्यते ॥ १२॥ जपहोमचिकित्साद्यैर्बालरक्षां हि कारयेत् । म्रियन्ते पितृदोषैश्च केचिन्मातृग्रहैरपि ॥ १३॥ केचित् स्वारिष्ट्योगाच्च त्रिविधा बालमृत्यवः । ततः परं नृणामायुर्गणयेद् द्विजसत्तम ॥ १४॥ अथाऽन्यदपि वक्ष्यामि नृणां मारकलक्षणम् । अल्पायुर्योगजातस्य विप्भे च मृतिर्भवेत् ॥ १५॥ मध्यायुर्योगजस्यैवं प्रत्यरौ च मृतिर्भवेत् । दीर्घायुर्योगजातस्य वधभे तु मृतिर्भवेत् ॥ १६॥ द्वाविंशत्र्यंशपश्चैव तथा वैनाशिकाधिपः । विपत्ताराप्रत्यरीशा वधभेशंस्तथैव च ॥ १७॥ आद्यान्तपौ च विज्ञेयौ चन्द्राक्रान्तगृहाद् द्विज । मारकौ पापखेटौ तौ शुभौ चेद्रोगदौ स्मृतौ ॥ १८॥ षष्ठाधिपदशायां च नृणां निधनसम्भवः । षष्ठाष्टरिष्फनाथानामपहारे मृतिर्भवेत् ॥ १९॥ मारका बहवः खेटा यदि वीर्यसमन्विताः । तत्तद्दशान्तरे विप्र रोगकष्टादिसंभवः ॥ २०॥ उक्ता ये मारकास्तेषु प्रबलो मुख्यमारकः । तदवस्थानुसारेण मृतिं वा कष्टमादिशेत् ॥ २१॥ रहुश्चेदथवा केतुर्लग्ने कामेऽष्टमे व्यये । मारकेशान्मदे वाऽपि मारकेशेन संयुतः ॥ २२॥ मारकः स च विज्ञेयः स्वदशान्तर्दशास्वपि । मकरे वृश्चिके जन्म राहुस्तस्य मृतिप्रदः ॥ २३॥ षष्ठाऽष्टरिष्फगो राहुस्तद्दये कष्टदो भवेत् । शुभग्रहयुतो दृष्टो न तदा कष्टकृन्मतः ॥ २४॥ लग्नात् तृतीयभावे तु बलिना रविणा युते । राजहेतुश्च मरणं तस्य ज्ञेयं द्विजोत्तम ॥ २५॥ त्रितीये चेन्दुना युक्ते दृष्टे वा यक्ष्मणा मृतिः । कुजेन व्रणशस्त्राग्निदाहाद्यैर्मरणं भवेत् ॥ २६॥ तृतीये शनिराहुभ्यां युक्ते दृष्टेऽपि वा द्विज । विषार्तितो मृतिर्वाच्या जलाद्वा वह्निपीडनात् ॥ २७॥ गर्तादुच्चात् प्रपतनाद् बन्धनाद् वा मृतिर्भवेत् । तृतीये चन्द्रमान्दिभ्यां युक्ते वा वीक्षिते द्विज ॥ २८॥ कृमिकुष्ठादिना तस्य मरणं भवति ध्रुवम् । तृतीये बुधसंयुक्ते वीक्षिते वापि तेन च ॥ २९॥ ज्वरेण मरणं तस्य विज्ञेयं द्विजसत्तम । तृतीये गुरुणा युक्ते दृष्टे शोफादिना मृतिः ॥ ३०॥ तृतीये भृगुयुग्दृष्टे मेहरोगेण तन्मृतिः । बहुखेटयुते तस्मिन् बहुरोगभवा मृतिः ॥ ३१॥ तृतीये च शुभैर्युक्ते शुभदेशे मृतिर्भवेत् । पापैश्च कीकटे देशे मिश्रैर्मिश्रस्थले मृतिः ॥ ३२॥ तृतीये गुरुशुक्राभ्यां युक्ते ज्ञानन वै मृतिः । अज्ञानेनाऽन्यखेटैश्च मृतिर्ज्ञेया द्विजोत्तम ॥ ३३॥ चरराशौ तृतीयस्थे परदेशे मृतिर्भवेत् । स्थिरराशौ स्वगेहे च द्विस्वभावे पथि द्विज ॥ ३४॥ लग्नादष्टमभावाच्च निमित्तं कथितं बुधैः । सूर्येऽष्टमेऽग्नितो मृत्युश्चन्द्रे मृत्युर्जलेन च ॥ ३५॥ शास्त्राद् भौमे ज्वराज् ज्ञे च गुरौ रोगात् क्षुधा भृगौ । पिपासया शनौ मृत्युर्विज्ञेयो द्विजसत्तम ॥ ३६॥ अष्टमे शुभदृग्युक्ते धर्मपे च शुभैर्युते । तीर्थे मृतिस्तदा ज्ञेया पापाख्यैरन्यथा मृतिः ॥ ३७॥ अग्न्यम्बुमिश्रत्र्यंशैर्ज्ञेयो मृत्युर्गृहाश्रितैः । परिणामः शवस्याऽत्र भस्मसंक्लेदशोषकैः ॥ ३८॥ व्यालवर्गदृकाणैस्तु विडम्बो भवति ध्रुवम् । शवस्य श्वशृगालाद्यैर्गृध्रकाकादिपक्षिभिः ॥ ३९॥ कर्कटे मध्यमोऽन्त्यश्च वृश्चिकाद्यद्वितीयकौ । मीनेऽन्तिमस्त्रिभागश्च व्यालवर्गाः प्रकीर्तिताः ॥ ४०॥ रविश्चन्द्रबलाक्रान्तत्र्यंशनाथे गुरौ जनः । देवलोकात् समायातो विज्ञेयो द्विजसत्तम ॥ ४१॥ शुक्रेन्द्वोः पितृलोकात्तु मर्त्याच्च रविभौमयोः । बुधाऽऽर्क्योर्नरकादेवं जन्मकालाद् वदेत् सुधिः ॥ ४२॥ गुरुश्चन्द्रसितौ सूर्यभौमौ ज्ञार्की यथाक्रमम् । देवेन्दुभूम्यधोलोकान् नयन्त्यस्तारिरन्ध्रगाः ॥ ४३॥ अथ तत्र ग्रहभावे रन्ध्रारित्र्यंशनाथयोः । यो बली स निजं लोकं नयत्यन्ते द्विजोत्तम ॥ ४४॥ तस्य स्वोच्चादि संस्थित्या वरमध्याऽधमाः क्रमात् । तत्तल्लोकेऽपि सञ्जाता विज्ञेया द्विजसत्तम ॥ ४५॥ अन्यान् मारकभेदांश्च राशिग्रहकृतान् द्विज । दशाध्यायप्रसंगेषु कथयिष्यामि सुव्रत ॥ ४६॥
अथ ग्रहावस्थाध्यायः ॥ ४५॥ अवस्थावशतः प्रोक्तं ग्रहाणां यत् फलं मुने । का साऽवस्था मुनिश्रेष्ठ कतिधा चेति कथ्ययाम् ॥ १॥ अवस्था विविधाः सन्ति ग्रहाणां दिवजसत्तम । सारभूताश्च यास्तासु बालाद्यास्ता वदाम्यहम् ॥ २॥ क्रमाद् बालः कुमारोऽथ युवा वृद्धस्तथा मृतः । षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ॥ ३॥ फलं पादमितं बाले फलार्धं च कुमारके । यूनि पूर्णं फलं ज्ञेयं वृद्धे किञ्चित् मृते च खम् ॥ ४॥ स्वभोच्चयोः समसुहृद्भयोः शत्रुभनीचयोः । जाग्रत्स्वप्नसुषुप्त्याख्या अवस्था नामदृक्फलाः ॥ ५॥ जागरे च फलं पूर्णं स्वप्ने मध्यफलं तथा । सुषुप्तौ तु फलं शून्यं विज्ञेयं द्विजसत्तम ॥ ६॥ दीप्तः स्वस्थः प्रमुदितः शान्तो दीनोऽथ दुःखितः । विकलश्च खलः कोऽपीत्यवस्था नवधाऽपराः ॥ ७॥ स्वोच्चस्थः खेचरो दीप्तः स्वर्क्षे स्वस्थोऽधिमित्रभे । मुदितो मित्रभे शान्तः समभे दीन उच्यते ॥ ८॥ शत्रुभे दुःखितः प्रोक्तो विकलः पापसंयुतः । खलः खलगृहे ज्ञेयः कोपी स्यादर्कसंयुतः ॥ ९॥ यादृशो जन्मकाले यः खेटो यद्भावगो भवेत् । तादृशं तस्य भावस्य फलमुह्यं द्विजोत्तम ॥ १०॥ लज्जितो गर्वितश्चैव क्षुधितस्तृषितस्तथा । मुदितः क्षोभितश्चैव ग्रहभावाः प्रकीर्तिताः ॥ ११॥ पुत्रगेहगतः खेटो राहुकेतुयुतोऽथवा । रविमन्दकुजैर्युक्तो लज्जितो ग्रह उच्यते ॥ १२॥ तुङ्गस्थानगतो वाऽपि त्रिकोणेऽपि भवेत्पुनः । गर्वितः सोऽपि गदितो निर्विशंकं द्विजोत्तम ॥ १३॥ शत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्यदि । क्षुधितः स च विज्ञेयः शनियुक्तो यथा तथा ॥ १४॥ जलराशौ स्थितः खेटः शत्रुणा चाऽवलोकितः । शुभग्रहा न पश्यन्ति तृषितः स उदाहृतः ॥ १५॥ मित्रगेही मित्रयुक्तो मित्रेण च विलोकितः । गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः ॥ १६॥ रविणा सहितो यश्च पापा पश्यन्ति सर्वथा । क्षोभितं तं विजानीयाच्छत्रुणा यदि वीक्षितः ॥ १७॥ येषु येषु च भावेषु ग्रहास्तिष्ठन्ति सर्वथा । क्षुधितः क्षोभितो वापि तद्भावफलनाशनः ॥ १८॥ एवं क्रमेण बोद्धव्यं सर्वभावेषु पण्डितैः । बलाऽबलविचारेण वक्तव्यः फलनिर्णयः ॥ १९॥ अन्योन्यं च मुदा युक्तं फलं मिश्रं वदेत्पुनः । बलहीने तदा हानिः सबले च महाफलम् ॥ २०॥ कर्मस्थाने स्थितो यस्य लज्जितस्तृषितस्तथा । क्षुधितः क्षोभितो वापि स नरो दुःखभाजनम् ॥ २१॥ सुतस्थाने भवेद्यस्य लज्जितो ग्रह एव च । सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वदा ॥ २२॥ क्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् । म्रियते तस्य नारी च सत्यमाहुर्द्विजोत्तम ॥ २३॥ नवालयारामसुखं नृपत्वं कलापटुत्वं विदधाति पुंसाम् । सदार्थलाभं व्यवहारवृद्धिं फलं विशेषादिह गर्वितस्य ॥ २४॥ भवति मुदितयोगे वासशालाविशाला । विमलवसनभूषाभूमियोषासु सौख्यम् । स्वजनजनविलासो भूमिपागारवासो । रिपुनिवहविनाशो बुद्धिविद्याविकाशः ॥ २५॥ दिशति लज्जितभाववशाद्रतिं विगतराममतिं विमतिक्षयम् । सुतगदागमनं गमनं वृथा कलिकथाभिरुचिं न रुचिं शुभे ॥ २६॥ संक्षोभितस्यापि फलं विशेषाद्द्रिद्रजातं कुमतिं च कष्टम् । करोति वित्तक्षयमंध्रिबाधां धनाप्तिबाधामवनीशकोपात् ॥ २७॥ क्षुधितखगवशाद्वै शोकमोहादिपातः । परिजनपरितापादाधिभीत्या कृशत्वम् । कलिरपि रिपुलोकैरर्थबाधा नराणा । मखिलब्बलनिरोधो बुद्धिरोधो विषादात् ॥ २८॥ तृषितखगभवे स्वादंगनासंगमध्ये । भवति गदविकारो दृष्टकार्याधिकारः । निजजनपरिवादादर्थहानिः कृशत्वं । खलकृतपरितापो मानहानिः सदैव ॥ २९॥ शयनं चोपवेशं च नेत्रपाणिप्रकाशनम् । गमनागमनं चाऽथ सभायां वसतिं तथा ॥ ३०॥ आगमं भोजनं चैव नृत्यं लिप्सां च कौतुकम् । निद्रां ग्रहाणां चेष्टां च कथयामि तवाग्रितः ॥ ३१॥ यस्मिन्नृक्षे भवेत्खेटस्तेन तं परिपूरयेत् । पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ॥ ३२॥ यातदण्डं तथा लग्नमेकीकृत्य सदा बुधः । रविभिस्तु हरेद् भागं शेषं कार्ये नियोजयेत् ॥ ३३॥ नाक्षत्रिकदशारीत्या पुनः पूरणमाचरेत् । नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ॥ ३४॥ रवौ पञ्च तथा देयाश्चन्द्रे दद्याद्द्वयं तथा । कुजे द्वयं च संय्क्तं बुधे त्रीत्रि नियोजयेत् ॥ ३५॥ गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे । शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ॥ ३६॥ त्रिभिर्भक्तं च शेषांकैः सा पुनस्त्रिबिधा स्मृता । दष्टिश्चेष्टा विचेष्टा च तत्फलं तथयाम्यहम् ॥ ३७॥ दृष्टौ मध्यफलं ज्ञेयं चेष्टायां विपुलं फलम् । विचेष्टायां फलं स्वल्पमेवं दृष्टिफलं विदुः ॥ ३८॥ शुभाऽशुभं ग्रहाणां च समीक्ष्याऽथ बलाऽबलम् । तुङ्गस्थाने विशेषेण बलं ज्ञेयं तथा बुधैः ॥ ३९॥ मन्दाग्निरोगो बहुधा नराणां स्थूलत्वमन्ङ् घ्रेरपिपित्तकोपः । व्रणं गुदे शूलमुरःप्रदेशे यदोष्णभानुः शयनं प्रयातः ॥ ४०॥ दरिद्रताभारविहाराशाली विवादविद्याभिरतो नरः स्यात् । कथोरचित्तः खलु नष्टवित्तः सूर्यो यदा चेदुपवेशनस्थः ॥ ४१॥ नरः सदानन्दधरो विवेकी परोपकारी बलवित्तयुक्तः । महामुखी राजकृपाभिमानी दिवाधिनाथो यदि नेत्रपानौ ॥ ४२॥ उदारचित्तः परिपूर्णवित्तः सभासु वक्ता बहुपुण्यकर्त्ता । महाबली सुन्दरररूपशाली प्रकाशने जन्मनि पदिमनीशे ॥ ४३॥ प्रवासशाली किल दुःखमाली सदालसी धीधनवर्जितश्च । भयातुरः कोपपरो विशेषाद्दिवाधिनाथे गमने मनुष्यः ॥ ४४॥ परदाररतो जनतारहितो बहुधागमने गमनाभिरुचिः । खलताकुशलो मलिनो दिवसाधिपतौ मनुजः कुमतिः कृपणः ॥ ४५॥ सभागते हिते नरः परोपकारतत्परः । सदार्थरत्नपूरितो दिवाकरे गुणाकरः । वसुन्धरानवांबरालयान्वितो महाबली । विचित्रमित्रवत्सलः कृपाकलाधरः परः ॥ ४६॥ क्षोभितो रिपुगणैः सदा नरश्चञ्चलः खलमतिः कृशस्तथा । धर्मकर्मरहितो मदोद्धतश्चागमे दिनपतौ तदा तदा ॥ ४७॥ सदाङ्गसन्धिवेदनापराङ्गनाधनक्षयो । बलक्षयः पदे पदे यदा यदा हि भोजने । असत्यता शिरोव्यथा तथा वृथान्नभोजनं । रवावसत्तथारतिः कुमार्गगामिनी मति ॥ ४८॥ विज्ञलोकैः स्दा मण्डितः पण्डितः काव्यविद्यानवद्यप्रलापान्वितः । राजपूज्यो धरामण्डले सर्वदा नृत्यलिप्सागते पद्मिनीनायके ॥ ४९॥ सर्वदानन्दधर्ता जनो ज्ञानवान् यज्ञकर्ता धराधीशसद्मस्थितः । पद्मबन्धावरातेर्भयं स्वाननः काव्यविद्याप्रलापी मुदा कौतुके ॥ ५०॥ निद्राभरारक्तनिभे भवेतां निद्रागते लोचनपद्मयुग्मे । रवौ विदेशे वसतिर्जनस्य कलत्रहानिः कातिधार्थनाशः ॥ ५१॥ जानुःकाले क्षपानाथे शयनं चेदुपागते । मानी शीतप्रधानश्च कामी वित्तविनाशकः ॥ ५२॥ रोगार्दितो मन्दमतिर्विशेषाद्वित्तेन हीनो मनुजः कठोरः । अकार्यकारी परवित्तहारी क्षपाकरे चेदुपवेशनस्थे ॥ ५३॥ नेत्रपाणौ क्षपानाथे महारोगी नरो भवेत् । अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ॥ ५४॥ यदा राकानाथे गतवति विकाशं च जनने । विकाशः संसारे विमलगुणराशेरवनिपात् । नवाशामाला स्यात्करितुरगलक्ष्म्या परिवृता । विभूषा योषाभिः सुखमनुदिनं तीर्थगमनम् ॥ ५५॥ सितेतरे पापरतो निशाकरे विशेषतः क्रूरकरो नरो भवेत् । सदाक्षिरोगैः परिपीड्यमानो वलक्षपक्षे गमने भयातुरः ॥ ५६॥ विधावागमगे मानी पादरोगी नरो भवेत् । गुप्तपापरतो दीनो मतितोषविवर्जितः ॥ ५७॥ सकलजनवदान्यो राजराजेन्द्रमान्यो । रतिपतिसमाकान्तिः शान्तिकृत्कामिनीनाम् । सपदि सदसि याते चारुबिम्बे शशंके । भवति परमरीतिप्रीतिविज्ञो गुणज्ञः ॥ ५८॥ विधावागमके मत्यों वावालो धर्मपूरितः । कृष्णपक्षे द्विभार्यः स्याद्रोगी दुष्टतरो हठी ॥ ५९॥ भोजने जनुषि पूर्णचन्द्रमा मानयानजनतासुखं नृणाम् । आतनोति वनितासुतासुखं सर्वमेव न सितेतरे शुभम् ॥ ६०॥ नृत्यलिप्सागते चन्द्रे सबले बलवान्नरः । गीतज्ञो हि रसज्ञश्च कृष्णे पापकरो भवेत् ॥ ६१॥ कौतकभवनं गतवति चन्द्रे भवति नृपत्वं वा धनपत्वम् । कामकलासु सदा कुशलत्वं वारवधूरतितमणपटुत्वम् ॥ ६२॥ निद्रागते जन्मनि मानवानां कलाधरे जीवयुते महत्त्वम् । हीनेऽङ्गनासञ्चितवित्तनाशः शिवालये रौति विचित्रमुच्चैः ॥ ६३॥ शयने वसुधापुत्रे व्रणयुक्तो जनो भवेत् । बहुना कण्डुना युक्तो दद्रुणा च विशेषतः ॥ ६४॥ बली सदा पापरतो नरः स्यादसत्यवादी नितरां प्रगल्भः । धनेन पूर्णो निजधर्महीनो धरासुतश्चेदुपवेशनस्थः ॥ ६५॥ यदा भूमिसुतो लग्ने नेत्रपाणिमुपागतः । दरिद्रता तदा पुंसामन्यभे नगरेशता ॥ ६६॥ प्रकाशो गुणस्यापि वासः प्रकाशे धराधीशभ्रतुः सदा मानवृद्धिः । सुते भूसुते पुत्रकान्तावियोगो भवेद्राहुणा दारुणो वा निपातः ॥ ६७॥ गमने गमनं कुरुतेऽनुदिनं व्रणजालभयं वनिताकलहः । बहुदद्रुककण्डुभयं बहुधा वसुधातनयो वसुहानिकरः ॥ ६८॥ आगमने गुणशाली मणिमालीवा करालकरवाली । गजहन्ता रिपुहन्ता परिजनसन्तापहारको भौमे ॥ ६९॥ तुङ्गे युद्धकलाकलापकुशलो धर्मध्वजो वित्तपः । कोणे भूमिसुते सभामुपगते विद्याविहीनः पुमान् । अन्तेऽपत्यकलत्रमित्ररहितः प्रोक्तेतरस्थानगे । ऽवश्यं राजसभाबुधो बहुधनी मानी च दानी जनः ॥ ७०॥ आगमे भवति भूमिजे जनो धर्मकर्मरहितो गदातुरः । कर्णमूलगुरुशूलरोगवानेव कातरमतिः कुसङ्गमी ॥ ७१॥ भोजने मिष्टभोजी च जनने सबले कुजे । नीचकर्मकरो नित्यं मनुजो मानवर्जितः ॥ ७२॥ नृत्यलिप्सागते भूसुते जन्मिनामिन्दिराराशिरायाति भूमीपतेः । स्वर्नरत्नप्रवालैः सदा मण्डिता वासशाला नराणां भवेत्सर्वदा ॥ ७३॥ कौतुकी भव्ति कौतुके कुजे मित्रपुत्रपरिपूरितो जनः । उच्चगे नृपतिगेहमण्डितः पूजितो गुणवरैर्गुणाकरैः ॥ ७४॥ निद्रावस्थां गते भौमे क्रोधी धीधनवर्जितः । धूर्तो धर्मपरिभ्रष्टो मनुष्यो गदपीडितः ॥ ७५॥ क्षुधातुरो भवेदंगे खञ्जो गुञ्जानिभेक्षणः । अन्यभे लम्पटो धूर्तो मनुजः शयने बुधे ॥ ७६॥ शशांकपुत्रे जनुरण्गगेहे यदोपवेशे गुणराशिपूर्णः । पापेक्षिते पापयुते दरिद्रो हिते शुभे वित्तसुखी मनुष्यः ॥ ७७॥ विद्याविवेकरहितो हिततोषहीनो मनी । जनोभवति चन्द्रसुतेऽक्षि पाणौ । पुत्रालये सुतकलत्रसुखेन हीनः कन्या । प्रजा नृपतिगेहबुधो वरार्थः ॥ ७८॥ दाता दयालुः खलु पुण्यकर्ता विकाशने चन्द्रसुते मनुष्यः । अनेकविद्यार्णवपारङ्गता विवेकपूर्णः खलवर्गहन्ता ॥ ७९॥ गमनागमने भवतो गमने बहुधा वसुधाधिपतेर्भवने । भवनं च विचित्रमलं रमया विदि नुश्च जनुःसमये नितराम् ॥ ८०॥ सपदि विदि जनानामुच्चगे जन्मकाले । सदसि धनसमृद्धिः सर्वदा पुण्यवृद्धिः । धनपतिसमता वा भूपता मंत्रिता वा । हरिहरपदभक्तिः सात्त्विकी मुक्तिलब्धिः ॥ ८१॥ आगमे जनुषि जन्मिनां यदा चन्द्रजे भवति हीनसेवया । अर्थसिद्धिरपि पुत्रयुग्मता बालिका भवति मानदायिका ॥ ८२॥ भोजने चन्द्रजे जन्मकाले यदा जन्मिनानर्थहानिः सदा वादतः । राजभीत्या कृशत्वंचलत्वं मतेरङ्गसङ्गो न जाया न जायासुखम् ॥ ८३॥ नृत्यलिप्सागते चन्द्रजे मानवो मानयानप्रवालव्रजैः संयुतः । मित्रपुत्रप्रतापैः सभापण्डितः पापभे वारवामारतो लम्पटः ॥ ८४॥ कौतुके चन्द्रजे जन्मकाले नृणामंगभे गीतविद्याऽनवद्या भवेत् । सप्तमे नैधने वारवध्वा रतिः पुण्यभे पुण्ययुक्ता मतिः सद्गतिः ॥ ८५॥ निद्राश्रिते चन्द्रसुते न निद्रासुखं सदा व्याधिसमाधियोगः । सहोत्थवैकल्यमनल्पतापो निजेन वादो धनमाननाशः ॥ ८६॥ वचसामधिपे तु जनुःसमये शयने बलवानपि हीनरवः । अतिगौरतनुः खलुदीर्घहनुः सुतरामरिभीतियुतो मनुजः ॥ ८७॥ उपवेशं गतवति यदि जीवे वाचालो बहुगर्वपरीतः । क्षोणीपतिरिपुजनपतिर्तप्तः पदजंघास्यकरव्रणयुक्तः ॥ ८८॥ नेत्रपाणिं गते देवराजार्चिते रोगयुक्तो वियुक्तो वरार्थश्रिया । गीतनृत्यप्रियः कामुकः सर्वदा गौरवर्णो विवर्णोद्भवप्रीतियुक् ॥ ८९॥ गुणानामानन्दं विमलसुखकन्दं वितनुते । सदा तेजःपुञ्जं व्रजपतिनिकुञ्जं प्रतिगमम् । प्रकाशं चेदुच्चे द्रुतमुपगतो वासवगुरु । र्गुरुत्वं लोकानां धनपतिसमत्वं तनुभृताम् ॥ ९०॥ साहसी भवति मानवः सदा मित्रवर्गसुखपूरितो मुदा । पण्डितो विविधवित्तमण्डितो देवविद्यदि गुरौ गमं गते ॥ ९१॥ आगमने जनता वरजाया यस्य जनुःसमये हरिमाया । मुञ्चति नालमिहालयमद्धा देवगुरौ परितः परिबद्धा ॥ ९२॥ सुरगुरुसमवक्ता शुभ्रमुक्ताफलाढ्यः । सदसि सपदि पूर्णो वित्तमाणिक्यमानैः । गजतुरगरथाढ्यो देवताधीशपूज्यो । जनुषि विविधविद्यागर्वितो मानवः स्यात् ॥ ९३॥ नानावाहनमानयानपटलीसौख्यं गुरावागमे । भृत्यापत्यकलत्रमित्रजसुखं विद्याऽनवद्या भवेत् । क्षोणीपालसमानतानवरतं चाऽतीव हृद्या मतिः । काव्यानन्दरतिः सदा हिनगतिः सर्वत्र मानोन्नतिः ॥ ९४॥ भोजने भवति देवतागुरौ यस्य तस्य सततं सुभोजनम् । नैव मुञ्चति रमालयं तदा वाजिवारणरथैश्च मण्डितम् ॥ ९५॥ नृत्यलिप्सागते राजमानी धनी देवताधीशवन्द्यः सदा धर्मवित् । तन्त्रविज्ञो बुधैर्मण्डितः पंडितः शब्दविद्यानविद्यो हि सद्यो जनः ॥ ९६॥ कुतूहली सकौतुके माहाधनी जनः सदा । निजान्वये च भास्करः कृपाकलाधरः सुखी । निलिम्पराजपूजिते सुतेन भूनयेन वा । युतो महाबली धराधिपेन्द्रसद्मपण्डितः ॥ ९७॥ गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि । दरिद्रतापरिक्रन्तं भवनें पुण्यवर्जितम् ॥ ९८॥ जनो बलीयानपिदन्तरोगी भृगौ महारोषसमन्वितः स्यात् । धनेन हीनः शयनं प्रयाते वारांगनासंगमलम्पटश्च ॥ ९९॥ यदि भवेदुशना उपवेशने नवमणिव्रजकाञ्चनभूषणैः । सुखमजस्रमरिक्षय आदरादवनिपादपि मानसमुन्नतिः ॥ १००॥ नेत्रपाणिंगते लग्नगेहे कवौ सप्तमे मानभे यस्य तस्य ध्रुवम् । नेत्रपाते निपातो धनानामलं चान्यभे वासशाला विशाला भवेत् ॥ १०१॥ स्वालये तुंगभे मित्रभे भार्गवे तुंगमातंगलीलाकलापी जनः । भूपतेस्तुल्य एव प्रकाशं गते काव्यविद्याकलाकैतुकी गीतवित् ॥ १०२॥ गमने जनने शुक्रे तस्य माता न जीवति । आधियोगो वियोगश्च जनानामरिभीतितः ॥ १०३॥ आगमनं भृगुपुत्रे गतवति वित्तेश्वरो मनुजः । सत्तेर्थभ्रमशाली नित्योत्साही करांघ्रिरोगी च ॥ १०४॥ अनायासेनालं सपदि महसा याति सहसा । प्रगल्भत्वंराज्ञः सदसि गुणविज्ञः किल कवौ । सभायामायाते रिपुनिवहहन्ता धनपतेः । समत्वं वा दाता बलतुरगगन्ता नरवरः ॥ १०५॥ आगमे भार्गवे मागमो जन्मिनामर्थराशेररातेरतीव क्षतिः । पुत्रपातो निपातो जनानामपिव्याधिभीतिः प्रियाभोगहानिर्भवेत् ॥ १०६॥ क्षुधातुरो व्याधिनिपीडितः स्यादनेकधारातिभयर्द्दितश्च । कवौ यदा भोजनगे युवत्या महाधनी पण्डितमण्डितश्च ॥ १०७॥ काव्यविद्यानवद्या च हृद्या मतिः सर्वदा नृत्यलिप्सागते भार्गवे । शंखवीणामृदंगादिगानध्वनिव्रातनैपुण्यमेतस्य वित्तोन्नतिः ॥ १०८॥ कौतुकभवनं गतवति शुक्रे शक्रेशत्वं सदसि महत्त्वम् । हृद्या विद्या भविति च पुंसः पदमा निवसति सदमारतः ॥ १०९॥ परसेवारतो नित्यं निद्रामुपगते कवौ । परनिन्दापरो वीरो वाचालो भ्रमते महीम् ॥ ११०॥ क्षुत्पिपासापरिक्रान्तो विश्रान्तः शयने शनौ । वयसि प्रथमे रोगी ततो भाग्यवतां वरः ॥ १११॥ भानओः सुते चेदुपवेशनस्थे करालकारातिजनानुतप्ताः । अपायुशाली खलु दद्रुमाली नरोभिमानी नृपदण्डयुक्तः ॥ ११२॥ नयनपाणिगते रविनन्दने परमया रमया रमयायुतः । नृपतितो हिततो महितोषकृद्बहुकलाकलितो विमलोक्तिकृत् ॥ ११३॥ नानागुणप्रामधनाधिशाली सदा नरो बुद्धिविनोदमाली । प्रकाशने भानुसुते सुभानुः कृपानुतक्तो हरपादभक्तः ॥ ११४॥ महाधनी नन्दननन्दितः स्यादपायकारी रिपुभूमिहारी । गमे शनौ पण्डितराजाभावं धरापतेरायातने प्रयाति ॥ ११५॥ आगमने गर्दभपदयुक्तः पुत्रकलत्रसुखेन विमुक्तः । भानुसुते भ्रमते भुवि नित्यं दीनमना विजनाश्रयभावम् ॥ ११६॥ रत्नावलीकाञ्चनमौक्तिकानां व्रातेन नित्यं व्रजति प्रमोदम् । सभागते भानुसुते नितान्तं नयेन पूर्णो मनुजो महौजाः ॥ ११७॥ आगमे गदसमागमो नृणामब्जबन्धुतनये यदा तदा । मन्दमेव गमनं धरापतेर्याचनाविरहिता मतिः सदा ॥ ११८॥ संगते जनुषि भानुनन्दने भोजनं भवति भोजनं रसैः । संयुतं नयनमन्दता तता मोहतापपरितापिता मतिः ॥ ११९॥ नृत्यलिप्सागते मन्दे धर्मात्मा वित्तपूरितः । राजपूज्यो नरो धीरो महावीरो रणाङ्गणे ॥ १२०॥ भवति कौतकभावमुपागते रविसुते वसुधावसुपूरितः । अतिसुखी सुमुखीसुखपूरितः कवितयामलया कलयानरः ॥ १२१॥ निद्रागते वासरनाथपुत्रे धनी सदा चारुगुणैरुपेतः । पराक्रमी चण्डविपक्षहन्ता सुवारकान्तारतिरीतिविज्ञः ॥ १२२॥ यदागमो जन्मनि यस्य राहौ क्लेशाधिकत्वं शयनं प्रयाते । वृषेऽथ युग्मेऽपि च कन्यकायामजे समाजो धनधान्यराशेः ॥ १२३॥ उपवेशनमिह गतवति राहौ दद्रुगदेन जनः परितप्तः । राजसमाजयुतो बहुमानी वित्तसुखेन सदा रहितः स्यात् ॥ १२४॥ नेत्रपाणावगौ नेत्रे भवतो रोगपीडिते । दुष्टव्यालारिचौराणां भयं तस्य धनक्षयः ॥ १२५॥ प्रकाशने शुभासने स्थितिः कृतिः शुभा नृणां । धनोन्नतिर्गुणोन्नतिः सदा विदामगाविह । धराधिपाधिकारिता यशोलता तता भवे । न्नवीननीरदाकृतिर्विदेशतो महोन्नतिः ॥ १२६॥ गमने च यदा राहौ बहुसन्तानवान्नरः । पण्डितो धनवान् दाता राजपूज्यो नरो भवेत् ॥ १२७॥ राहावागमने क्रोधी सदा धीधनवर्जितः । कुटिलः कृपणः कामी नरो भवति सर्वथा ॥ १२८॥ सभागतो यदा राहुः पण्डितः कृपणो नरः । नानागुणपरिक्रान्तो वित्त सौख्यसमन्वितः ॥ १२९॥ चेदगावागमं यस्य याते तदा व्याकुलत्वं सदारातिभीत्या भयम् । महद्बन्धुवादो जनानां निपातो भवेद्वित्तहानिः शठत्वं कृशत्वं ॥ १३०॥ भोजने भोजनेनालं विकलो मनुजो भवेत् । मन्दबुद्धिः क्रियाभीरुः स्त्रीपुत्रसुखवर्जितः ॥ १३१॥ नृत्यलिप्सागते राहौ महाव्याधिविवर्द्धनम् । नेत्ररोगी रिपोर्भीतिर्धनधर्मक्षयो नृणाम् ॥ १३२॥ कौतुके च यदा राहौ स्थानहीनो नरो भवेत् । परदाररतो नित्यं परवित्तापहारकः ॥ १३३॥ निद्रावस्थां गते राहौ गुणग्रामयुतो नरः । कान्तासन्तानवान् धीरो गर्वितो बहुवित्तवान् ॥ १३४॥ मेषे वृषेऽथ वा युग्मे कन्ययां शयनं गते । केतौ धनसमृद्धिः स्यादन्यभे रोगवर्धनम् ॥ १३५॥ उपवेशं गतौ केतौ दद्रुरोगविवर्द्धनम् । अरिवातनृपव्यालचैरशंका समन्ततः ॥ १३६॥ नेत्रपाणिं गते केतौ नेत्ररोगः प्रजायते । दुष्टसर्पादिभीतिश्च रिपुराजकुलादपि ॥ १३७॥ केतौ प्रकाशने संज्ञे धनवान् धार्मिकः सदा । नित्यं प्रवासी चोत्साही सात्त्विको राजसेवकः ॥ १३८॥ गमेच्छायां भवेत्केतुर्बहुपुत्रो महाधनः । पण्डितो गुणवान् दाता जायते च नरोत्तमः ॥ १३९॥ आगमने च यदा केतुर्नानारोगो धनक्षयः । दन्तघाती महारोगी पिशुनः परनिन्दकः ॥ १४०॥ सभावस्थां गते केतौ वाचालो बहुगर्वितः । कृपणो लम्पटश्चैव धूर्तविद्द्याविशारदः ॥ १४१॥ यदागमे भवेत्केतुः केतुः स्यात्पापकर्मणाम् । बन्धुवादरतो दुष्टो रिपुरोगनिपीडितः ॥ १४२॥ भोजने तु जनो नित्यं क्षुधया परिपीडितः । दरिद्रो रोगसंतप्तः केतौ भ्रामति मेदिनीम् ॥ १४३॥ नृत्यलिप्साङ्गते केतौ व्याधिना विकलो भवेत् । बुद्बुदाक्षो दुराघर्षो धूर्तोऽनर्थकरो नरः ॥ १४४॥ कौतुकी कौतुके केतौ नटवामारतिप्रियः । स्थानभ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् ॥ १४५॥ निद्रावस्थां गते केतौ धनधान्यसुखं महत् । नानागुणविनोदेन कालो गच्छति जन्मिनाम् ॥ १४६॥ शयने द्विज भावेषु यत्र तिष्ठन्ति सद्ग्रहाः । नित्यं तस्य शुभज्ञानं निर्विशंकं वदेत् बुधः ॥ १४७॥ भोजने येषु भावेषु पापास्तिष्ठन्ति सर्वथा । तदा सर्वविनाशेऽपि नाऽत्र कार्या विचारणा ॥ १४८॥ निद्रायां च यदा पापो जायास्थाने शुभं वदेत् । यदि पापग्रहैर्दृष्टो न शुभं च कदाचन ॥ १४९॥ सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा । तदा शुभं वदेत्तस्य नाऽत्र कार्या विचारणा ॥ १५०॥ मृत्युस्थानस्थितः पापो निद्रायां शयनेऽपि वा । तदा तस्याऽपमृत्युः स्याद्राजतः परतस्तथा ॥ १५१॥ शुभग्रहैर्यदा युक्तः शुभैर्वा यदि वीक्षितः । तदा तु मरणं तस्य गङ्गादौ च विशेषतः ॥ १५२॥ कर्मस्थाने यदा पापः शयने भोजनेऽपि वा । तदा कर्मविपाकः स्यान्नानादुःखप्रदायकः ॥ १५३॥ दशमस्थो निशानाथः कौतुके च प्रकाशने । तदैव राजयोगः स्यान्निर्विशकं द्विजोत्तम ॥ १५४॥ बलाऽबलविचारेण ज्ञातव्यञ्च शुभाऽशुभम् । एवं क्रमेण बोद्धव्यं सर्वाभावेषु बुद्धिमन् ॥ १५५॥
Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)
% Text title            : bRihatpArAsharahorAshAstram.h 41-45
% File name             : par4145.itx
% itxtitle              : bRihatpArAsharahorAshAstram 41-45
% engtitle              : bRihatpArAsharahorAshAstram.h 41-45
% Category              : jyotisha, sociology_astrology, bRihatpArAshara
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Subcategory           : bRihatpArAshara
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by          : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP