॥ बृहत्पाराशरहोराशास्त्रम् ४६-५० ॥


अथ दशाध्याय ॥ ४६॥ सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल । दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः ॥ १॥ साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा । कथयामि तवाग्रेऽहं दशभेदाननेकशः ॥ २॥ दशाबहुविधास्तासु मुख्या विंशोत्तरी मता । कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी ॥ ३॥ द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा । दशा शतसमा तद्वत् चतुराशीतिवत्सरा ॥ ४॥ द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा । नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः ॥ ५॥ अथा कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः । कालचक्रदशा चाऽया मान्यासर्वदशासु या ॥ ६॥ दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज । केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्भवा ॥ ७॥ ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् । माण्डूकी च दशा नाम तथा स्थूलदशा स्मृता ॥ ८॥ योगार्धजदशा विप्र दृग्दशा च ततः परम् । त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता ॥ ९॥ पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा । दशा पैण्डी तथांशी च नैसर्गिकदशा तथा ॥ १०॥ अष्टवर्गदश सन्ध्यादसा पाचकसंज्ञिका । अन्यास्तारादशाद्याश्च न स्वर्गाः सर्वसम्मताः ॥ ११॥ कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः । आचंकुरागुशबुकेशुपूर्वा विहगाः क्रमात् ॥ १२॥ वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता । शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नयेत् ॥ १३॥ विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् । कलै विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम ॥ १४॥ दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः । नृपाला नवचन्द्राश्च नवचन्द्रा नगा नखाः ॥ १५॥ दशामनां भयातघ्नं भभोगेन हृतं फलम् । दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम् ॥ १६॥ लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते । अष्टोत्तरी दशा विप्र विज्ञेया रौद्रभादितः ॥ १७॥ चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः । एवं स्वजन्मभं यावद् विगणय्य यथाक्रमम् ॥ १८॥ सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः । एते दशाधिपा विप्र ज्ञेयाः केतुं विना ग्रहाः ॥ १९॥ रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः । गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशासमाः ॥ २०॥ दशाब्दांघ्रिश्च पापानां शुभानां त्र्यंश एव हि । एकैकभे दशामानं विज्ञेयं द्विजसत्तम ॥ २१॥ ततस्तद्यातभोगाध्यां भुक्तं भोग्यं च साधयेत् । विंशोत्तरीवदेवात्र ततस्तत्फलमादिशेत् ॥ २२॥ कृष्णपक्षे दिवा जन्म शुक्लपक्षे तथा निशि । तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च विशेषतः ॥ २३॥ चन्द्रहोरागते कृष्णे सूर्यहोरागते सिती । लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडशोत्तरी ॥ २४॥ पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता । रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः ॥ २५॥ इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः । रुद्राद्येकोत्तराः संख्या धृत्यन्तं वत्सराः क्रमात् ॥ २६॥ शुक्रांशके प्रजातस्य विचिन्त्या द्वादशोत्तरी । जन्मभात् पौष्णभं यावत् संख्या हि वसुतष्टिता ॥ २७॥ सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः । विना शुक्रं दशाधीशा द्विचयात् सप्ततः समाः ॥ २८॥ अर्कांश कर्कलग्ने पञ्चोत्तरी मता । मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता ॥ २९॥ एकादिशेषे विज्ञ्याः क्रमात्सप्तदशाधिपाः । रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो वृहस्पतिः ॥ ३०॥ एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः । धृत्यन्ताः सप्तखेटानां राहुकेतू विना द्विज ॥ ३१॥ वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका । पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभिर्भजेत् ॥ ३२॥ शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया । रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा ॥ ३३॥ क्रमदेते दशाधीशा बाणा बाणा दिशो दश । नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम ॥ ३४॥ कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा । पवनाज्जन्मभं यावद् या सण्ख्या सप्तभाजिता ॥ ३५॥ शेषे रवीन्दुभौमज्ञा गुरुशुक्रशनैश्चराः । दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सराः ॥ ३६॥ मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् । शेषाद्दशाधीपा ज्न्`एया अष्टौ रव्यादयः क्रमात् ॥ ३७॥ नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् । लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे ॥ ३८॥ चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया । विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत् ॥ ३९॥ यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा । दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः ॥ ४०॥ गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः । ततः शशिज्ञशुक्रार्कपुत्रागूनां रसाब्दकाः ॥ ४१॥ श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता । शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः ॥ ४२॥ क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा । लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते निशि ॥ ४३॥ सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि । पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्तिता ॥ ४४॥ सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् । दिनस्य विंशतिर्घट्यः पूर्णसंज्ञा उदाहृताः ॥ ४५॥ निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः । सूर्योदये च या सन्ध्या खण्डाख्या द/सनाडिका ॥ ४६॥ अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका । पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजेत् ॥ ४७॥ तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् । लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम् ॥ ४८॥ एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् । राहुकेतुयुतानां च नवानां कालसंज्ञकम् ॥ ४९॥ रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रिताम् । सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः ॥ ५०॥ दशा वर्षाणि राशीनामेकैकस्य दशामितिः । क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत्तम ॥ ५१॥ अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे । पार्वत्यै कथिता पूर्वं सादरं या पिनाकिना ॥ ५२॥ तस्याः सारं समुद्धृत्य तवाग्रे द्विजमन्दन । शुभाऽशुभं मनुष्याणां यथा जानन्ति पण्डिताः ॥ ५३॥ द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् । गृहा द्वादश जायन्ते सव्येऽसव्ये द्विधा द्विज ॥ ५४॥ द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् । एवं द्वादशराश्याख्यं कालचक्रमुदीरितम् ॥ ५५॥ अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् । रोहिण्यादित्रयं चैवमपसव्ये व्यविस्थितम् ॥ ५६॥ एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् । अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः ॥ ५७॥ वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः । एतद्दशोषुपादानामश्विन्यादौ च वीक्षयेत् ॥ ५८॥ देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च । विशदं तत्प्रकारं च मैत्रेय कथयामयहम् ॥ ५९॥ देहजीवौ मेषचापौ दास्राद्यचरणस्य च । मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः ॥ ६०॥ मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ । क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः ॥ ६१॥ दास्रादिदशताराणां तृतीयचरणे द्विज । गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः ॥ ६२॥ क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् । अश्विन्यादिदशौडूनां चतुर्थचरणे तथा ॥ ६३॥ कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः । दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम ॥ ६४॥ यमेज्यचित्रातोयर्क्षाऽहीर्बुध्न्याः सव्यतारकाः । एतत्पञ्चोडुपादानां भरण्यादौ विचिन्तयेत् ॥ ६५॥ याम्यप्रथमपादस्य देहजीवावलिर्झषः । नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः ॥ ६६॥ याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने । रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः ॥ ६७॥ याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने । सप्ताष्टाङ्कदिगीशार्कगजाद्रिरमभेश्वराः ॥ ६८॥ कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज । वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः ॥ ६९॥ सप्तमेवं विजानीयादसव्यं कथयाम्यहम् । द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम ॥ ७०॥ द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखीत् । रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम् ॥ ७१॥ उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम । एतद्वेदोडुपादानां रोहिनीवन्निरीक्षयेत् ॥ ७२॥ रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ । नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्वराः ॥ ७३॥ धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ । अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः ॥ ७४॥ तृतीयचरणे ब्राह्म दीहजीवौ घटाङ्गने । षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः ॥ ७५॥ रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ । सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वराः ॥ ७६॥ चान्द्ररौद्रभगार्यम्णमित्रेन्दुवसुवारुणम् । एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात् ॥ ७७॥ कर्को देहो झषो जीवो मृगाद्यचरणे द्विज । व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपाः ॥ ७८॥ गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे । त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाधिपाः ॥ ७९॥ देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे । त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः ॥ ८०॥ मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे । व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः ॥ ८१॥ अपसव्यगणे त्वेवं देहजीवदशादिकम् । पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया ॥ ८२॥ केषां च कति वर्षाणि दशेशानां महामुने । दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व मे ॥ ८३॥ भूतैकविंशगिरयो नवदिक्षोडशाब्धयः । सूर्यादीनां दशाब्धाः स्यू राशीनां स्वामिनो वशात् ॥ ८४॥ नरस्य जन्मकाले वा प्रश्नकाले यदंशकः । तदादिनवराशिनामब्दास्तस्यायुरुच्यते ॥ ८५॥ सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके । अंशान्ते परमं कष्टमित्याहुरपरे बुधाः ॥ ८६॥ ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः । अनुपातेन वक्ष्यामि तदुपायमतः परम् ॥ ८७॥ गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् । वर्तमानपदेनाढ्यं राशीनामंशको भवेत् ॥ ८८॥ मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः । कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्तत्त्रिकोणयोः ॥ ८९॥ जनो यत्रांशके जातो गतनाडीपलादिभिः । तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः ॥ ९०॥ एवं महादशारम्भो भवेदंशाद्यथा क्रमात् । गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम् ॥ ९१॥ पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः । भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम् ॥ ९२॥ चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः । द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भोग्यं ततो बुधैः ॥ ९३॥ सव्याख्ये प्रथमांशो यः स देह इति कथ्यते । अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके ॥ ९४॥ देहादिं गणयेत् सव्ये जीवादिमपसव्यके । एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत् ॥ ९५॥ कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः । मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञकाऽपरा ॥ ९६॥ सिंहावलोकनाख्या च तृतीया परिकीर्तिता । उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते ॥ ९७॥ पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा । वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम् ॥ ९८॥ कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूय्की गतिः । कर्ककेसरिणोरेवं कथ्यते मर्कटीं गतिः ॥ ९९॥ मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः । इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम् ॥ १००॥ मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् । पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम् ॥ १०१॥ केसरीयुग्ममण्डूके मातुर्मरण्मादिशेत् । स्वमृतिं राजभितिं वा सन्निपातभयं भवेत् ॥ १०२॥ मर्कटीगमने सव्ये धनधान्यपशुक्षयः । पितुर्मरणमालस्यं तत्समानां च व मृतिः ॥ १०३॥ सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् । सुहृत्स्नेहादिनाशश्च समानजनपीडनम् ॥ १०४॥ पतनं वापि कूपादौ विषशस्र्ताग्निजं भयम् । वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम् ॥ १०५॥ मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् । ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच्युतिम् ॥ १०६॥ मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् । पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् ॥ १०७॥ सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः । तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत् ॥ १०८॥ मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः । कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम् ॥ १०९॥ सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् । कर्कटाच्च हरौ याते वधो भवति देहिनाम् ॥ ११०॥ पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः । भयं पापखगैर्युक्ते शुभखेटयुते शुभम् ॥ १११॥ शुभं वाऽप्यशुभं वाऽपि कालचक्रदशाफलम् । राशिदिक्भागतो वापि पूर्वादिदिग्तभश्चरात् ॥ ११२॥ तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् । यथोपदेशमार्गेण सर्वेषां द्विजसत्तम ॥ ११३॥ कन्यातः कर्कटे याते पूर्वभागे महत्फलम् । उत्तरं देशमाश्रित्य शुभा यात्रा भविष्यति ॥ ११४॥ सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् । कार्यान्तेऽपि च नैऋत्यां सुखं यात्रा भविष्यति ॥ ११५॥ कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे । दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत् ॥ ११६॥ मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् । चापाच्च मकरे याते सङ्कटं जायते ध्रुवम् ॥ ११७॥ चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् । वृश्चिके तु सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम ॥ ११८॥ सिंहाच्च कर्कटे याते पस्चिमां वर्जयेद्दिशम् । शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फलम् ॥ ११९॥ शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके । मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपतिर्भवेत् ॥ १२०॥ सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् । तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः ॥ १२१॥ चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् । कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान् ॥ १२२॥ देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः । एकैकयोगे मृत्युः स्याद् बहुयोगे तु का कथा ॥ १२३॥ क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् । आधी रोगो भवेद् द्वाभ्यांअपमृत्युस्र्तिभिर्भवेत् ॥ १२४॥ चतुर्भिर्मृतिमापन्नो देहे जीवेऽशुभैर्युते । युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा ॥ १२५॥ राजचोरादिभीतिश्च मृतिश्चापि न संशयः । वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भयम् ॥ १२६॥ कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् । गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम् ॥ १२७॥ देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः । सुखस्म्पत्कराः सर्वे रोगशोकविनाशनाः ॥ १२८॥ मिश्रगृहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् । पापक्षेत्रदशाकाले देहजीवौ तु दुःखितौ । शुभक्षेत्रदशाकाले शुभं भवति निश्चितम् ॥ १२९॥ शुभयुक्ताशुभक्षेत्रदशा मिश्रफला स्मृता । क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा ॥ १३०॥ जनानां जन्मकाले तु यो राशिस्तनुभावगः । तस्य चक्रदशाकाले देहारोग्यं सुखं महत् ॥ १३१॥ शुभे पूर्णसुखं पापे देहे रोगादिसम्भवः । स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः ॥ १३२॥ धनभावे च यो राशिस्तस्य चक्रदशा यदा । तदा सुभोजनं पुत्रस्त्रिसुखं च धनाप्तयः ॥ १३३॥ विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् । शुभर्क्षे फलमेवं स्यात् पापभे फलमन्यथा ॥ १३४॥ तृतीयभावराशेस्तु कालचक्रदशा यदा । तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम् ॥ १३५॥ स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि । शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा ॥ १३६॥ सुखभावगतर्क्षस्य कालचक्रदशा यदा । तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः ॥ १३७॥ आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् । शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा ॥ १३८॥ सुतभावगतर्क्षस्य कालचक्रदशा यदा । सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः ॥ १३९॥ विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः । शुभराशौ शुभं पूर्णं पापर्क्षे फलमन्यथा ॥ १४०॥ रिपुभावगतर्क्षस्य कालचक्रदशा यदा । तदा चोरादिभूपाग्निविषशस्त्रभयं महत् ॥ १४१॥ प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः । पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमादिशेत् ॥ १४२॥ जायाभावगतर्क्षस्य कालचक्रदशा यदा । तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम् ॥ १४३॥ कृषियोधनवस्त्राप्तिर्नृपपूजा महद्यशः । शुभराशौ फलं पूर्णं पापराशौ च तद्दलम् ॥ १४४॥ मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा । स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम् ॥ १४५॥ दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् । पापराशौ फलं पूर्णं शुभराशौ च तद्दलम् ॥ १४६॥ धर्मभावगतर्क्षस्य कालचक्रदशा यदा । तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत् ॥ १४७॥ सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् । शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम् ॥ १४८॥ कर्मभावगतर्क्षस्य कालचक्रदशा यदा । राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम् ॥ १४९॥ सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् । शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम् ॥ १५०॥ लाभभावस्थितर्क्षस्य कालचक्रदशा यदा । पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम् ॥ १५१॥ धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते । शुभराशौ फलं पूर्णं पापराशौ च खण्डितम् ॥ १५२॥ व्ययभावगतर्क्षस्य कालचक्रदशा तदा । उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम् ॥ १५३॥ दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् । पापराशौ फलं त्वेवं शुभराशौ च तद्दलम् ॥ १५४॥ लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे । तस्मात् तदीशपर्यन्तं संख्यामत्र दशां विदुः ॥ १५५॥ मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् । दशाब्दानयने कार्या गणना व्युत्क्रमात् समे ॥ १५६॥ वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज । शनिराहु च कुम्भस्य स्वामिनौ परिकीर्तितो ॥ १५७॥ द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना । द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे स्थितौ यदि ॥ १५८॥ वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् । एकः स्वक्षेत्रयोऽन्यस्तु परत्र यदि संस्थितः ॥ १५९॥ तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् । द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्ये च यो बली ॥ १६०॥ तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः । बलस्याऽत्र विचारे स्यादग्रहात् सग्रहो बली ॥ १६१॥ द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः । ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम् ॥ १६२॥ ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः । राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद् ॥ १६३॥ एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः । गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै ॥ १६४॥ उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् । तथैव नीचखेटस्य वर्षमेकं विशोधयेत् ॥ १६५॥ एवं सर्वं समालोच्य जातकस्य फलं वदेत् ॥ १६६॥ क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् । लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत् ॥ १६७॥ अथाऽहं सम्प्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज । चरे सप्त स्थिरे चाऽष्टौ द्वन्द्वे नव समाः स्मृताः ॥ १६८॥ स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते । ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते ॥ १६९॥ योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने । इति स्पष्टतरं ब्रूहि कृपाऽस्ति यदि ते मयि ॥ १७०॥ षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः । पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाययोः ॥ १७१॥ कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः । शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखेचरः ॥ १७२॥ बहवो लक्षणक्रान्ता ज्ञेयस्तेष्वधिकांशकः । अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मखेचरः ॥ १७३॥ योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् । लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते ॥ १७४॥ लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् । ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक्रमात् ॥ १७५॥ कारकादपि राशीनां खेटानां चैवमेव हि । दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि ॥ १७६॥ द्विराश्यधिपक्षेटस्य गण्येदुभयावधि । उभयोर्धिक संख्या कारकस्य दशा समाः ॥ १७७॥ आत्मकारकमारभ्य कारकाख्यदशा क्रमात् । लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः ॥ १७८॥ मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज । लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ॥ १७९॥ ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् । त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः ॥ १८०॥ निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता । लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवेत् ॥ १८१॥ तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे । दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः ॥ १८२॥ जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् । तमार्भ्य नयेद् धीमान् चरिपर्यायवद् दशाम् ॥ १८३॥ क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे । त्रिकोणाख्यदशा प्रोक्ता समा नाथावसानकाः ॥ १८४॥ लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः । दशमस्य च तद्दृष्टराशीनां च नयेत् पुनः ॥ १८५॥ एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः । प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं ततः स्मृता ॥ १८६॥ चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् । विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात् समे ॥ १८७॥ ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता । भयातं रविभिर्निघ्नं भभोगविहृतं फलम् ॥ १८८॥ राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् । तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे ॥ १८९॥ दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताह् फलम् । भुक्तं वर्षादिकं ज्ञेयं भोग्यं मानाद् विशोधितम् ॥ १९०॥ अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् । कादिहान्तांल्लिखेद् वर्णान् स्वराधो ङञणोज्झितान् ॥ १९१॥ तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः । न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि ॥ १९२॥ चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् । यत्र स्वरे स्वनामाद्यवर्णः स्यात् तत्स्वरादयः ॥ १९३॥ क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः । स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः ॥ १९४॥ पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज । इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा ॥ १९५॥ मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा । उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्रकीर्तिताः ॥ १९६॥ मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः । धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् कुजः ॥ १९७॥ भर्दिकातो बुधो जातस्तथोल्कातः शनैश्चरः । सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद् ॥ १९८॥ जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् । एकादिशेषे विज्ञेया योगिन्योः मङ्गलादिकाः ॥ १९९॥ एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः । नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च साधयेत् ॥ २००॥ येषां यदायुः सम्प्रोक्तं पैण्डमांशं निसर्गजम् । तक्षत् तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा ॥ २०१॥ बली लग्नार्कचन्द्राणां यत्तस्य प्रथमा दशा । तत्केन्द्रादिगतानां च ज्ञेया बलवशात्ततः ॥ २०२॥ अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् । अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः ॥ २०३॥ परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता । तन्मिता लग्नभादीनां क्रमात् सन्ध्यादशा स्मृता ॥ २०४॥ सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् । संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत् ॥ २०५॥ त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् । एवं द्वादशभावेषु पाचकानि प्रकल्पयेत् ॥ २०६॥ विंशत्तरिदशेवाऽत्र कैश्चित् तारादशा स्मृता । आशंकुरागुशबुकेश्वादिस्थानेषु तारकाः ॥ २०७॥ अन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको बधः । मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात् ॥ २०८॥ ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा । यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्तिता ॥ २०९॥ इति ते कथिता विप्र दश भेदा अनेकधा । एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः ॥ २१०॥
अथ दशाफलाद्यायः ॥ ४७॥ श्रुताश्च बहुधा भेदा दशानां च मया मुने । फलं च कीदृशं तासां कृपया मे तदुच्यताम् ॥ १॥ साधारणं विशिष्टञ्च दशानां द्विविधं फलम् । ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च ॥ २॥ ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च । आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ॥ ३॥ दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे । अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे ॥ ४॥ दशारम्भे दशादीशे लग्नगे शुभदृग्युते । स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफलम् ॥ ५॥ षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते । अशुभं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम् ॥ ६॥ मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे । केन्द्रत्रिकोणलाभस्थे भाग्यकर्माधिपैर्युते ॥ ७॥ सूर्ये बलसमायुक्ते निजवर्गबलैर्युते । तस्मिन्दाये महत् सौख्यं धनलाभादिकं शुभम् ॥ ८॥ अत्यन्तं राजसन्मानमश्वांदोल्यादिकं शुभम् । सुताधिपसमायुक्ते पुत्रलाभं च विन्दति ॥ ९॥ धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् । वाहनाधिपसम्बन्धे वाहनात्रयलाभकृत् ॥ १०॥ नृपलतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः । वस्त्रवाहनलाभश्च दशायां बलिनो रवेः ॥ ११॥ नीचे षडष्टके रिःफे दुर्बले पापसंयुते । राहुकेतुसमायुक्ते दुह्स्थानाधिपसंयुते ॥ १२॥ तस्मिन्दाये महापीडा धनधान्यविनाशकृत । राजकोपः प्रवासश्च राजदण्डो धनक्षयः ॥ १३॥ ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत । पितृक्षयभयं चैव गृहे त्वशुभमेव च ॥ १४॥ पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति । शुभदृष्टियुते सूर्ये मध्ये तस्मिन् क्वचित्सुखम् । पापग्र्हेण सन्दृष्टे वदेत्पापफलं बुधः ॥ १५॥ एवं सूर्यफलं विप्र संक्षेपादुदितं मया । विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम् ॥ १६॥ स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे । शुभग्रहेण संयुक्ते पूर्णे चन्द्रेबलैर्युते ॥ १७॥ कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते । आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत ॥ १८॥ गृहे तु शुभकार्याणि वाहनं राजदर्शनम् । यत्नकार्यार्थसिद्धिः स्याद् गृहे लक्ष्मीकटाक्षकृत् ॥ १९॥ मित्रप्रभुवशाद्भाग्यं राज्यलाभं महत्सुखम् । अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादिकं लभेत् ॥ २०॥ पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम् । धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा ॥ २१॥ अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम् । निक्षेपराजसन्मानं विद्यालाभं च विन्दति ॥ २२॥ नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति । दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क्वचिद्धनम् ॥ २३॥ दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् । भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः ॥ २४॥ षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते । राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् ॥ २५॥ मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम् । दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम् । देहजाड्यं क्वचिच्चैव शान्त्या तत्र शुभं दिशेत् ॥ २६॥ स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च । ब्रवीमि भूमिपुर्तस्य शुभाऽशुभदशाफलम् ॥ २७॥ परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे । स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा ॥ २८॥ सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके । राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् ॥ २९॥ आधिक्यं राजसम्मानं वाहनाम्बरभूषणम् । विदेशे स्थानलाभं च सोदराणां सुखं लभेत् ॥ ३०॥ केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते । पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो भवेत् ॥ ३१॥ कलत्रपुत्रविभवं राजसम्मानमेव च । दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् ॥ ३२॥ नीचादिदुष्टभावस्थे भौमे बलविवर्जिते । पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका ॥ ३३॥ एवं राहोश्च केतोश्च कथयामि गृहादिकम् । तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन ॥ ३४॥ राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम् । मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च ॥ ३५॥ कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित् । तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम् ॥ ३६॥ मित्र्प्रभुवशादिष्टं वाहनं पुत्रसम्भवः । नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः ॥ ३७॥ विदेशराजसन्मानं वस्त्रालङ्कारभूषणम् । शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते ॥ ३८॥ केन्द्रत्रिकूणलाभे वा दुश्चिक्ये शुभराशिगे । महाराजप्रसादेन सर्वसम्पत्सुखावहम् ॥ ३९॥ यवनप्रभुसन्मानं ग्र्हे कल्याणसम्भवम् । रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत् ॥ ४०॥ पापग्रहेण सम्बन्धे मारकग्र्हसंयुते । नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा ॥ ४१॥ विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् । दशादौ देहपीडा च धनधान्यपरिच्युतिः ॥ ४२॥ दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् । दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा ॥ ४३॥ यः सर्वेषु नाभोगेषु बुधैरतिशुभः स्मृतः । तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् ॥ ४४॥ स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रे लाभत्रिकोणगे । मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा ॥ ४५॥ राज्यलाभं महापौरुषं राजसन्मानकीर्तनम् । गजवाजिसमायुक्तं देवब्राह्मणपूजनम् ॥ ४६॥ दारपुत्रादिसौख्यं च वाहनांबरलाभजम् । यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् ॥ ४७॥ महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा । आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् ॥ ४८॥ पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् । नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते ॥ ४९॥ स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्भयम् । पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् ॥ ५०॥ आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् । मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् ॥ ५१॥ अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः । तस्य भास्करपुत्रस्य कथयामि दशाफलम् ॥ ५२॥ स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि । मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा ॥ ५३॥ दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् । सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत् ॥ ५४॥ महाराजप्रसादेन गजवाहनभूषणम् । राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् ॥ ५५॥ लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च । गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥ ५६॥ षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा । विषशस्त्रादिपीडा च स्थाभ्रंशं महद्भयम् ॥ ५७॥ पितृमातृवियोगं च दारपुत्रादिपीडनम् । राजवैस्ःअम्यकार्याणि ह्यनिष्टं बन्धनं तथा ॥ ५८॥ शुभयुक्तेक्षिते मन्दे योगकारकसंयुते । केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ ॥ ५९॥ राज्यलाभं महोत्साहं गजश्वाम्बरसंकुलम् ॥ ६०॥ अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः । तस्य तारेशपुत्रस्य कथयामि दशाफलम् ॥ ६१॥ स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे । मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ॥ ६२॥ धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम् । ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धनम् ॥ ६३॥ पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् । क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम् ॥ ६४॥ शुभदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा । आधिपत्ये बलवती सम्पूर्ण्फलदादिका ॥ ६५॥ पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् । बन्धुजनविरोधं च विदेशगमनं लभेत् ॥ ६६॥ परप्रेष्यं च कलहं मूर्तकृर्च्छान्महन्भयम् । षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशनम् ॥ ६७॥ वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत् । नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम् ॥ ६८॥ दशादौ धनधान्यं च विद्यालाभं महत्सुखम् । पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् ॥ ६९॥ मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति ॥ ७०॥ यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः । तस्य केतोरिदानीं ते कथेयामि दशाफलम् ॥ ७१॥ केन्द्रे लाभे त्रिकोणे व शुभराशौ शुभेक्षिते । स्वोच्चे वा शुभवर्गे वा राजप्रीतिं मनोनुगम् ॥ ७२॥ देशाग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् । देशान्तरप्रयाणं च निर्दिशेत् तत् सुखावहम् ॥ ७३॥ पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् । दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दिशेत् ॥ ७४॥ राज्यं करोति मित्रांशं गजवाजिसमन्वितम् । दशदौ राजयोगश्च दशामध्ये महद्भयम् ॥ ७५॥ अन्ते दूराटनं चैव देहविश्रमणं तथा । धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते ॥ ७६॥ निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् । शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम् ॥ ७७॥ अथ भूतेषु यः शुक्रा मदरूपेण तिष्ठति । तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम् ॥ ७८॥ परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे । नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम्बरभूषणम् ॥ ७९॥ गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम् । अखण्डमण्डलाधीशाराजसन्मानवैभवम् ॥ ८०॥ मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत् । त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृहहसम्पदः ॥ ८१॥ विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम् । सेनाधिपत्यं कुरुते इष्टबन्धुसमागनम् ॥ ८२॥ नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्ग्रहम् । षष्ठाष्टमव्यये शुक्रे नीचे वा व्ययराशिगे ॥ ८३॥ आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् । व्यवसायात्फ्लं नष्टं गोमहिष्यादिहानिकृत् ॥ ८४॥ दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत् । भाग्यकर्माधिपत्येन लग्नवाहनराशिगे ॥ ८५॥ तद्दशायां महत्सौख्यं देशग्रामाधिपालता । देवालयतडागादिपुण्यकर्मसु संग्रहः ॥ ८६॥ अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् । उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रधनसम्पदः ॥ ८७॥ स्वभुक्तौ फलमेवं स्याद्बलान्यन्यानि भुक्तिषु । द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥ ८८॥ तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् । स्वेतां गां महिषीं दव्यादारोग्यं च ततो भवेत् ॥ ८९॥
अथ विशेषनक्षत्रदशाफलाध्यायः ॥ ४८॥ स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः । मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् ॥ १॥ लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् । धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ॥ २॥ सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् । सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ॥ ३॥ पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् । रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ॥ ४॥ सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् । अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः ॥ ५॥ धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् । दशमेशदशाकाले सम्मानं नृपसंसदि ॥ ६॥ लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् । व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज ॥ ७॥ दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् । अशुभस्थानगस्यैवं शुभस्यापि न शोभनम् ॥ ८॥ पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा । नवमेशेन युक्तस्य कर्मेशस्यातिशभना ॥ ९॥ पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा । तथा धर्मपयुक्तस्य दशा परमशोभना ॥ १०॥ सुखेशसहितस्यापि धर्मेशस्य दशा शुभा । पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा ॥ ११॥ एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः । तथा कोणस्थितानां च केन्द्रेशानां दशाः शुभाः ॥ १२॥ केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि । तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः ॥ १३॥ षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता । तेषां दशाऽपि शुभदा कथिता कालकोविदैः ॥ १४॥ कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः । ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः ॥ १५॥ दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः । लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि ॥ १६॥ एतयोस्तु दशाकाले सुखधर्मसमुद्भवः । कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः ॥ १७॥ तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् । त्रिषडायगतानां च त्रिषडायाधिपैर्युजम् ॥ १८॥ शुभानामपि खेटानां दशा पापफलप्रदा । मारकस्थानगानां च मारकेशयुजामपि ॥ १९॥ रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा । एवं भावेशसम्बन्धादूरनीयं दशाफलम् ॥ २०॥
अथ कालचक्रदशाफलाध्यायः ॥ ४९॥ कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् । तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ॥ १॥ रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् । धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी ॥ २॥ ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा । प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ॥ ३॥ धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः । विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ॥ ४॥ तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम् । एवमर्कादियोगेन वदेद्राशिदशाफलम् ॥ ५॥ मेषे तु रक्तपीडा च वृषभे धान्यवर्द्धनम् । मिथुने ज्ञानसम्पान्नश्चान्द्रे धनपतिर्भवेत् ॥ ६॥ सूर्यक्षे शत्रुबाधा च कन्या स्त्रीणां च नाशनं । तालिके राजमन्त्रित्वं वृश्चिके मरणं भवेत् ॥ ७॥ अर्थलाभो भवेच्चापे मेषस्य नवभागके । मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ॥ ८॥ मीने सर्वार्थसिद्धिश्च वृश्चिकेष्वग्नितो भयम् । तौलिके राजपूज्यश्च कन्यायां शत्रुवर्धनम् ॥ ९॥ शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत् । मिथुने वृत्तिबाधा स्याद्वृषभस्य नवांशके ॥ १०॥ वृषभे त्वर्थलाभाश्च मेषे तु ज्वररोगकृत् । मीने तु मातुलप्रीतिः कुम्भे शत्रुप्रवर्द्धनम् ॥ ११॥ मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम् । मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत् ॥ १२॥ मिथुने सुखमाप्नोति मिथुनस्य नवांशके । कर्कटे सङ्कटप्राप्तिः सिंहे राजप्रकोपकृत् ॥ १३॥ कन्यायां भ्रातृपूजा व तौलिके प्रियकृन्नरः । वृश्चिके पितृबाधा स्यात् चापे ज्ञानधनोदयः ॥ १४॥ मकरे जलभीतिः स्यात् कुम्भे धान्यविवर्धनम् । मीने च सुखसम्पत्तिः कर्कटस्य नवांशके ॥ १५॥ वृश्चिके कलः पीडा तौलिके ह्यधिकं फलम् । कन्यायामतिलाभश्च शशांके मृगबाधिका ॥ १६॥ सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्द्धनम् । वृषेः चतुष्पदाल्लाभो मेषांशे पशुतो भयम् । मीने तु दीर्घयात्रा स्यात् सिंहस्य नवभागके ॥ १७॥ कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् । धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् ॥ १८॥ वृषभे पुत्रवृद्धिः स्यान्मिथुने शत्रुवर्द्धनम् । शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्द्धनम् ॥ १९॥ कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके । तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्द्धनम् ॥ २०॥ चापे च तातसौख्यं च मृगे मातृविरोधिता । कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता ॥ २१॥ अलौ जायाविरोधश्च तुले च जलबाधता । कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके ॥ २२॥ कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता । मिथुने भूमिलाभश्च वृषभे चाऽर्थलाभकृत् ॥ २३॥ मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद् भयम् । कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम् ॥ २४॥ चापे तु धनलाभः स्याद् वृश्चिकस्य नवांशके । मेषे तु धनलाभः स्याद् वृषे भूमिविवर्द्धनम् ॥ २५॥ मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत् । सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् ॥ २६॥ तौलिके चार्थलाभः स्याद् वृश्चिके रूगमाप्नुयात् । चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके ॥ २७॥ मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्द्धनम् । मीने कल्याणमाप्नोति वृश्चिके विषबाधिता ॥ २८॥ तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्द्धनम् । शशिभे स्र्/इयमाप्नोति सिंहे तु मृगबाधिता ॥ २९॥ मिथुने वृक्षबाधा च मृगस्य नवभागके । वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत् ॥ ३०॥ मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्द्धनम् । मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्द्धनम् ॥ ३१॥ मेषे सौख्यविनाशश्च वृषभे मरणं भवेत् । युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ॥ ३२॥ कर्कटे धनवृद्दिः स्यात् सिंहे तु राजपूजनम् । कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात् ॥ ३३॥ वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् । मृगे जायाविरोधश्च कुम्भे जलविरोधता ॥ ३४॥ मीने तु सर्वसौभाग्यं मीनस्य नवभागके । दशाअंशक्रमेणैवं ज्ञात्वा सर्वफलं वदेत् ॥ ३५॥ क्रूरग्रहदशाकाले शान्तिं कुर्याद्विचक्षणः । यत् प्रोक्तं राजयोगादौ संज्ञाध्याये च यत् फलम् ॥ ३६॥ तत्सर्वं चत्रकाले हि सुबुद्ध्या योजयेद् बुधः । इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम् ॥ ३७॥
अथ चरादिदशाफलाध्यायः ॥ ५०॥ चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज । शुभाऽशुभफलं तासां कथयामि तवाऽग्रतः ॥ १॥ लग्नादिद्वादशान्तानां भावानां फलकीर्तने । तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ॥ २॥ बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् । फलं मध्य्बले मध्यं बलहीने विपर्ययः ॥ ३॥ यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके । पापखेटयुते विप्र तद्दशा दुःखदायिका ॥ ४॥ तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः । शुभखेटयुते तत्र जायते च पराजयः ॥ ५॥ लाभस्थे च शुभे पापे लाभो भवति निश्चितः । यदा दशाप्रदो राशिः शुभखेटयुतो द्विज ॥ ६॥ शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् । पापयुक्ते शुभक्षेत्रे पूर्वं शुभमसत्परे ॥ ७॥ पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् । पापक्षेत्रे पापयुक्ते सा दशा सर्वदुखदा ॥ ८॥ शुभक्षेत्रदशा राशौ युक्ते पापशुभैर्द्विज ॥ ९॥ पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते । शुभक्षेत्रे शुभं वाच्यं पापर्क्षे त्वशुभं फलम् ॥ १०॥ द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् । पापे तत्र गते ज्ञेयमशुभं तद्दशाफलम् ॥ ११॥ चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे । धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे शुभे ॥ १२॥ विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् । पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ॥ १३॥ सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता । चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रपीडनम् ॥ १४॥ दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् । पाकाद्रुद्रागते पापे पीडा सर्वाप्यबाधिका ॥ १५॥ उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् । केन्द्रस्थानगते सौम्ये लाभः शत्रुजपप्रदः ॥ १६॥ जन्मकालग्रहस्थित्या सगोचगग्रहैरपि । विचारितैः प्रवक्तव्यं तत्तद्राशिद/साफलम् ॥ १७॥ यश्च राशिः शुभाकान्तो यस्य पश्चाच्छुभग्रहाः । तद्दशा शुभदा प्रोक्ता विपरीते विपर्ययः ॥ १८॥ त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् । तद्दशायां च वक्तव्यं फलं दैवविदा सदा ॥ १९॥ मेषकर्कतुलानक्रराशीनां च यथाक्रमम् । बाधा स्तानानि सम्प्रोक्ता कुभगोसिंहवृश्चिकाः ॥ २०॥ पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे । स्थिते सति महाशोको बन्धनव्यसनामयाः ॥ २१॥ उच्चस्वर्क्षग्र्हे तस्मिञ्छुभं सौख्यं धनागमः । तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा ॥ २२॥ बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् । प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् ॥ २३॥ रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि । तद्राशिभिक्तौ पतनं राजकोपान् महद्भयम् ॥ २४॥ भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि । तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् ॥ २५॥ भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे । यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः ॥ २६॥ नगरग्रामनाथत्वं पुत्रलाभं धनागमम् । कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् ॥ २७॥ पाकेश्वरो जीवदृष्टः शुभराशिस्थितो यदि । तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् ॥ २८॥ सितासितभयुग्माश्च सूर्यस्य रिपुराशयः । कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः ॥ २९॥ घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् । कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ॥ ३०॥ वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः । सिंहालिकर्कचापाश्च शुकस्य रिपुराशयः ॥ ३१॥ मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः । एवं ग्राहन्तरदाशां चिन्तयेत्कोविदो द्विज ॥ ३२॥ ये राजयोगदा ये च शुभमध्यमता ग्रहाः । यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप्रदाः ॥ ३३॥ तद्दशानां शुभं ब्रूयाद्राजयोगादिसम्भवम् । शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः ॥ ३४॥ गता शुभदशामध्यं दशा सौम्यस्य शोभना । शुभा यस्य त्रिकोणस्थस्तद्दशापि शुभप्रदा ॥ ३५॥ आरम्भान्तो मित्रशुभराश्योर्यदि फलं शुभम् । प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं वदेत् ॥ ३६॥ आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभभावहेत् । शुभराशौ शुभारम्भे दशा स्यादतिशोभना ॥ ३७॥ शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता । शुभारम्भे कथा केति प्रारम्भस्य फलं वदेत् ॥ ३८॥ आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज । नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् ॥ ३९॥ यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः । तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ॥ ४०॥ भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम । धनधान्यादिहानिश्च देहे रोगभयं तथा ॥ ४१॥ राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् । स्वभं तत्र समारम्भस्तद्दशायां शुभं भवेत् ॥ ४२॥ यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः । यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष्टे युतेऽपि वा ॥ ४३॥ शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः । दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽपि वा ॥ ४४॥ इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम । दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ॥ ४५॥ राहुर्दशान्ते सर्वस्वनाशो मरणबन्धने । दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते ॥ ४६॥ तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् । एवं शुभाशुभं सर्वं निश्चयेन वदेद् बुधः ॥ ४७॥ राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः । तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प्रयत्नतः ॥ ४८॥ द/सारम्भो दशान्तो वा मारके चेन्न शोभनम् । तस्मिन्नेव च राहुश्चन्नरोधो द्रव्यनाशनः ॥ ४९॥ यत्र क्वापि च भे राहौ दशारम्भे विनाशनम् । गृहभ्रंशः समुद्दिष्टो धने राहुधनार्तिकृत् ॥ ५०॥ चन्द्र्शुक्रौ द्वादश चेद्राजकोपो भवेद्ध्रुवम् । भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ॥ ५१॥ चेन्द्रशुक्रौ धने विप्र यदि राज्यं प्रयच्छतः । दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ॥ ५२॥ एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् । यस्य पापः शुभो वाऽपि ग्रहस्तिष्ठेच्छुभार्गले ॥ ५३॥ तेन द्रष्ट्रेक्षिते लग्नं पाबल्यायोपकल्प्यते । यदि पश्येद्ग्रहस्तन्न विपरीतार्गलस्थितः ॥ ५४॥ तद्भावस्य दशायास्तु विपरीतफलं भवेत् । सद्दृष्टेऽपि शुभं ब्रूयान्निर्विशंकं द्विजोत्तम ॥ ५५॥ यस्मिन्भावे शुभस्वामिसम्बन्धस्तुङ्गखेचरः । स्यात्तद्भावदशायां तु अन्त्यैश्वर्यमखण्डितम् ॥ ५६॥ यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति । स्यातद्भावदशाकाले धनलाभो महत्तरः ॥ ५७॥ यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः । यस्मात्त्रिकोणगाः पापास्तत्रात्मशुभनाशनम् ॥ ५८॥ पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् । यस्मात्त्रिकोण्गा रिःफरन्ध्रेशार्कारसूर्यजाः ॥ ५९॥ पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे । विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ॥ ६०॥ तस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः । रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ॥ ६१॥ यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् । पशुहानिस्तत्र भौमे गृहदाहः प्रमादकृत् ॥ ६२॥ शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् । सर्वस्वहरणं राहौ विषचौरादिजं भयम् ॥ ६३॥ यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् । यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः ॥ ६४॥ विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः । यतः पञ्चमकामारिगताः स्वोच्चशुभग्रहाः ॥ ६५॥ पुत्रदारादिसम्प्राप्तिर्नृपपूजा मह्त्तरा । यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स्थिताः ॥ ६६॥ तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः । यस्मिन् गुरुर्वा शुक्रोवा शुभेशो वापि संस्थितः ॥ ६७॥ कल्याणं सर्वसम्पत्तिर् देवब्राह्मणतर्पनम् । यत्चतुर्थे तुङ्गखेटाः शुभस्वामी ग्रहश्च वा ॥ ६८॥ वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी । तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः ॥ ६९॥ पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् । तत्र सुक्रे भृदङ्गादिवाद्यगानपुरस्कृतः ॥ ७०॥ आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् । लग्नकर्मेशभाग्येशतुङ्गस्थशुभयोगतः ॥ ७१॥ सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् । एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तयेत् ॥ ७२॥ एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि । भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम् ॥ ७३॥ परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि । मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्य भे ॥ ७४॥ तत्कालसुहृदो गेहे उदासीनस्य भे तथा । शर्तोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ॥ ७५॥ तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके । नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ॥ ७६॥ व्यवस्थितस्य खेटस्य समरे पीडितस्य च । गाढपूढस्य च दशापचितिः स्वगुणैः फलम् ॥ ७७॥ परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः । सम्पूर्णाख्या दशा तस्य राज्यभूग्यशुभप्रदा ॥ ७८॥ लक्ष्मीकटाक्षचिह्नानां चिरवासगृहप्रदा । तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च ॥ ७९॥ पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा । अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ॥ ८०॥ रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा । अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहिणी ॥ ८१॥ मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा । नीचांतादुच्चभागान्तं भषट्के मध्यगस्य च ॥ ८२॥ दशा चारोहिणी नीचरिपुभांशगतस्य च । अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी ॥ ८३॥ नामानुरूपफलदाः पाककाले दशा इमाः । भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ॥ ८४॥ परेषामपि दायेषु भग्योपक्रममुन्नयेत् । जातको यस्तु फलदो भग्ययोगप्रदोऽथ यः ॥ ८५॥ सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् । दुर्बलानसमर्थांश्च फलदानेषु यागतः ॥ ८६॥ तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः । स्वकेन्द्रादिजुषां तेषां पूर्णार्द्धांघ्रिव्यवस्थया ॥ ८७॥ शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः । उभयोदयराशिस्थदशा मध्यफलप्रदा ॥ ८८॥ पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः । निसर्गतश्च तत्काले सुहृदां हरणे शुभम् ॥ ८९॥ सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् । दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षकम् ॥ ९०॥ भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् । एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ॥ ९१॥ तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् । दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ॥ ९२॥ तस्यामनर्थकलहं रोगमृत्युभयादिकम् । बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके ॥ ९३॥ वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् । भावयोजनया विद्यात्सुतस्त्र्यादिशुभाऽशुभम् ॥ ९४॥ धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः । शुभपापनशाभेदाच्छुभपापयुतैरपि ॥ ९५॥ इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् । एवं सर्वग्रहाणां च स्वां स्वामन्तर्दशामपि ॥ ९६॥ स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् । अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ॥ ९७॥

Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)

% Text title            : bRihatpArAsharahorAshAstram.h 46-50
% File name             : par4650.itx
% itxtitle              : bRihatpArAsharahorAshAstram 46-50
% engtitle              : bRihatpArAsharahorAshAstram.h 46-50
% Category              : jyotiSha, sociology_astrology, bRihatpArAshara
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Subcategory           : bRihatpArAshara
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by          : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP