॥ बृहत्पाराशरहोराशास्त्रम् ५१-६० ॥


अथाऽन्तर्दशाध्यायः ॥ ५१॥ दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः । पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः ॥ १॥ आदावन्तर्दशा पाकपतेस्तत्क्रमतोऽपराः । एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः ॥ २॥ भुक्तिर्नवानां तुल्या स्याद् विभाज्या नवधा दशा । आदौ दशापतेर्भुक्तिस्तत्केन्द्रादियुजां ततः ॥ ३॥ विद्यात् क्रमेण भुक्त्यंशानेवं सूक्ष्मदशादिकम् । बलक्रमात् फलं विज्ञैर्वक्तव्यं पूर्वरीतितः ॥ ४॥ कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद् वदेत् । प्रत्यन्तर्दशाद्येवं कृत्वा तत्तत्फलं वदेत् ॥ ५॥ आद्यसप्तमयोर्मध्ये यो राशिर्बलवांस्ततः । ओजे दशाश्रये गण्याः क्रमादुत्क्रमतः समे ॥ ६॥ अत्राऽपरो विशेषोऽस्ति ब्रवीमि तमहं द्विज । चरेऽनुज्झितमार्गः स्यात् षष्ठषष्ठादिकाः स्थिरे ॥ ७॥ उभये कण्टकाज् ज्ञेया लग्नपञ्चमभाग्यतः । चरस्थिरद्विस्वभावेष्वोजेषुः प्राक् क्रमो मतः ॥ ८॥ तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम् । एवमुल्लिखितो राशि पाकराशिरुदीर्युते ॥ ९॥ स एव भोगराशिः स्यात् पर्याये प्रथमे स्मृतः । आद्याद् यावतिथः पाकः पर्याये यत्र दृश्यते ॥ १०॥ तस्मात् तावतिथो भोगः पर्याये तत्र गृह्यताम् । तदिदं चरपर्यायस्थिरपर्याययोर्द्वयोः ॥ ११॥ त्रिकोणाख्यदशायां च पाकभोगप्रकल्पनम् । पाके भोगे च पापाढ्ये देपपीडा नमोव्यथा ॥ १२॥ पिण्डत्रिकदशायां तु ब्रविम्यन्तर्दशाविधिम् । पूर्ण दशापतिर्दद्यात् तदर्धं तेन संयुतः ॥ १३॥ त्रिकोणगस्तृतीयांशं तुर्यांशश्चतुरस्रगः । स्मरगः सप्तमं भागं बहुष्वेको बली ग्रहः ॥ १४॥ एवं सलग्नकाः खेटाः पाचयन्ति मिथः स्थिताः । समच्छेदीकृताः प्राप्ता अंसाश्छेदविवर्जिताः ॥ १५॥ दशाब्दाः पृथगंशघ्ना अंशयोगविभाजिताः । अन्तर्दशा भवन्त्येवं तत्प्रत्यन्तर्दशादिकाः ॥ १६॥
अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः ॥ ५२॥ स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके । स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् ॥ १॥ नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् । द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् ॥ २॥ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ॥ ३॥ सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे । विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत् ॥ ४॥ गृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम् । तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धनागमम् ॥ ५॥ पुत्रलाभसुखं चैव सौख्यं राजसमागमम् । महाराजप्रसादेन इष्टसिद्धिसुखवाहम् ॥ ६॥ क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् । वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ॥ ७॥ विरोधं राजकलहं धनधान्यपशुक्षयम् । षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम् ॥ ८॥ बन्धनं रोगपीडां च स्थानविच्युतिकारकम् । दुःस्थानं चापि चित्तेन दायादजनविग्रहम् ॥ ९॥ निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् । मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत् ॥ १०॥ दायेशाल्लभभाग्ये च केन्द्रे वा शुभसंयुते । भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम् ॥ ११॥ राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् । विविआहं यज्ञदीक्षां च सुमाल्यामबरभूषणम् ॥ १२॥ वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् । दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ १३॥ अकाले भोजनं चैव देशाद्देशं गमिष्यति । द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति । श्वेतां गां महिषीं गद्याच्छान्ति कुर्यात्सुखाप्तये ॥ १४॥ सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे । लग्नात्केन्द्रत्रिकोणे वा शुभकार्यं समादिशेत् ॥ १५॥ भूलाभं कृषिलाभं च धनधान्यविवर्धनम् । गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत् ॥ १६॥ लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् । भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति ॥ १७॥ बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् । आत्मबन्धुसुखम् चैव भ्रातृवर्द्धनकं तथा ॥ १८॥ दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते । आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् ॥ १९॥ कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् । भ्राऋवगविरोधं च कर्मनाशमथापि वा ॥ २०॥ नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः । द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम् ॥ २१॥ सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च । शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदाम् ॥ २२॥ सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे । आदौ द्विमासपर्यन्तं धननाशो महद्भयम् ॥ २३॥ चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् । तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ॥ २४॥ देहारोग्यं मनस्तुष्टि राजप्रीतिकरं सुखम् । लग्नादुपचये राहौ योगकारकसंयुते ॥ २५॥ दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् । भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् ॥ २६॥ पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनं । दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते ॥ २७॥ बन्धनं स्थाननाशश्च कारागृहनिवेशनम् । चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम् ॥ २८॥ चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनं । गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनं ॥ २९॥ द्विस्फस्थे तथा राहौ तत्स्थानाधिपसंयुते । अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत् ॥ ३०॥ दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् । कृष्णां गां महिषीं दद्यच्छान्तिमाप्नोत्यसंशयम् ॥ ३१॥ सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम् ॥ ३२॥ धनधान्यादिलाभ च पुत्रलाभं महत्सुखं । महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ॥ ३३॥ ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् । भाग्यकर्माधिपवशाद्राज्यलाभं वदेद् द्विज ॥ ३४॥ नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् । दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ॥ ३५॥ दीनधर्मक्रियायुक्तो देवताराधनप्रियः । गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः ॥ ३६॥ राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते । दारपुत्रादिपीडा च देहपीडा महद्भयम् ॥ ३७॥ राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् । पापमूलद्द्रव्यनाशं देहभ्रष्टं मनोरुजम् ॥ ३८॥ स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् । गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ॥ ३९॥ सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे । शत्रुनाशो महत्सौख्यं स्वल्पधान्यार्थलाभकृत् ॥ ४०॥ विवाहादिसुकार्यञ्च गृहे तस्य शुभावहम् । स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसमन्विते ॥ ४१॥ गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया । राजसन्मानकीर्तिश्च नानावस्त्रधनागमम् ॥ ४२॥ दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते । वातशूलमहाव्याधिज्वरातीसारपीडनम् ॥ ४३॥ बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् । अकश्मात्कलहश्चैव दायादजनविग्रहः ॥ ४४॥ भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् । अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ॥ ४५॥ पितृमातृवियोगश्च गमनागममं तथा । द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ॥ ४६॥ कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् । छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥ ४७॥ सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा । केन्द्रत्रिकोणलाभस्थे बुधे वर्गबलैर्युते ॥ ४८॥ राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् । महारजप्रसादेन वाहनाम्बरभूषणं ॥ ४९॥ पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् । भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकोरो भवेत् ॥ ५०॥ भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् । सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्जनम् ॥ ५१॥ धनधान्यादिसंयुक्तो विवाहः पुत्रसम्भवः । दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम् ॥ ५२॥ वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् । स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा ॥ ५३॥ भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः । दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा ॥ ५४॥ देहपीडा मनस्तापो दारपुत्रादिपीडनम् । भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखावहम् ॥ ५५॥ अन्ते तु राजभीतिश्च गमनागमनं तथा । द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम् ॥ ५६॥ विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् । रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ॥ ५७॥ सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा । अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम् ॥ ५८॥ लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् । मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत् ॥ ५९॥ अथाष्टमव्यये चैवं दायेशात्पापसंयुते । कपोलदन्तरोगश्च मूत्रकृर्च्छस्य सम्भवः ॥ ६०॥ स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः । विदेशगमनं चैव शत्रुपीडा महद्भयम् ॥ ६१॥ लग्नादुपचये केतौ योगकारकसंयुते । शुभांशे शुभवर्गे च शुभकर्मफलोदयः ॥ ६२॥ पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् । विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ॥ ६३॥ द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् । दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये ॥ ६४॥ सूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा । स्वोच्चे मित्रस्ववर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ॥ ६५॥ ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् । राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ॥ ६६॥ गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् । विद्रुमादिरत्नलाभो मुक्तावस्त्रादि लाभकृत् ॥ ६७॥ चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् । उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ॥ ६८॥ षष्ठाष्टमव्यये शुक्रे दायेशाद्बलवर्जिते । राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम् ॥ ६९॥ भुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत् । अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ॥ ७०॥ बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् । भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम् ॥ ७१॥ रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं मृत्युर्जयजपं चरेत् ॥ ७२॥ श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् । ततः शान्तिभवाप्नोति शङ्करस्य प्रसादतः ॥ ७३॥
अथ चन्द्रान्तर्दशाफलाध्यायः ॥ ५३॥ स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा । भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ॥ १॥ देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् । राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा ॥ २॥ पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् । पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ॥ ३॥ अतकाले धननाशः स्यात्स्थानच्युतिरथापि वा । देहलस्यं मनस्तपो राजमन्त्रिविरोधकृत् ॥ ४॥ मातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् । द्वितीयद्यूननाथे तु रन्ध्ररिष्फेशसंयुते ॥ ५॥ देहजाड्यं महाभङ्गमपमृत्योभयं वदेत् । श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ॥ ६॥ चन्द्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । सौभाग्यं राजसन्मानं वस्त्रभरणभूषणम् ॥ ७॥ यत्नात् कार्यार्थसिद्धिस्तु भविष्यति न संशयः । गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ॥ ८॥ कार्यलाभो महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् । तथाऽष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ॥ ९॥ दायशादशुभस्थाने देहार्तिः परवीक्षिते । गृहक्षेत्रादिहानिश्च व्यवहारे तथा क्षतिः ॥ १०॥ मृत्युवर्गेषु कलहो भूपालस्य विरोधनम् । आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ॥ ११॥ द्वितीये द्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा । तत्तोषपरिहारार्थं ब्राह्मणस्याऽर्चनं चरेत् ॥ १२॥ चन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे । आदौ स्वल्फलं ज्ञेयं शत्रुपीडा महद्भयम् ॥ १३॥ चौराहिराजभीतिश्च चतुष्पाज्जिवपीडनम् । बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा ॥ १४॥ शुभयुक्ते शुभैर्दृष्टे लग्नादुपचयेऽपि वा । योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् ॥ १५॥ नैरृत्ये पश्चिमे भावे क्वचित्प्रभुसमागमः । वाहनामबरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् ॥ १६॥ दायेशादथ रन्ध्रथे व्यये वा बलवर्जिते । स्थानभ्रंशो मनोदुखं पुत्रक्लेशो महद्भयम् ॥ १७॥ दारपीडा क्वचिज्ज्ञेया क्वचित्स्वाङ्गे रुजोभयम् । वृश्चिकादिविषाद्भीतिश्चौराहिनृपपीडनम् ॥ १८॥ दायेशात्केन्द्रकोणे व दुश्चिक्ये लाभगेऽपि वा । पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् ॥ १९॥ परोपकारकर्मादिपुण्यकर्मादिसम्प्रहः । द्वितीयद्यूनराशिअथे देहबाधा भविष्यति ॥ २०॥ तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् । छागदानं प्रकुर्वीत देहारोग्यं प्रजायते ॥ २१॥ चन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः ॥ २२॥ वस्त्राऽलङ्कारभूषाप्ती राजप्रीतिर्धनागमः । इष्टदेवप्रसादेन गर्भाधानादिकं फलम् ॥ २३॥ तथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् । राजाश्रयं धनं भूमिगजवाजिसमन्वितम् ॥ २४॥ महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा । ष।ष्ठाष्टमव्यये जीवे नीच वास्तङ्गते यदि ॥ २५॥ पापयुक्तेऽशुभं कर्म गुरुपुत्रादिनाशनम् । स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् ॥ २६॥ गृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् । दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ २७॥ भोजनाम्बरपरवादि=लाभं सौख्यं करोति च । ब्र्हात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् ॥ २८॥ यज्ञव्रतविवाहादिराज्यश्रीधनसम्पदः । दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ २९॥ करोति कुत्सिनान्नं च विदेशगमनं तथा । भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ॥ ३०॥ द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । स्वर्णदानमिति प्रोक्तं सर्वकष्टनिवारकम् ॥ ३१॥ चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे । स्वक्षेत्रे स्वांशगे चैव मन्दे तुङ्गांशसंयुते ॥ ३२॥ शुभदृष्टयुते वाऽपि लाभे वा बलसंयुते । पुत्रमित्रार्थसम्पत्तिः शूद्रप्रभुसमागमात् ॥ ३३॥ व्ययसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् । पुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ॥ ३४॥ षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा । तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ॥ ३५॥ अनेकजनत्रासश्च शस्त्रपीडा भविष्यति । दायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ॥ ३६॥ क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् । द्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ॥ ३७॥ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥ ३८॥ चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे । स्वर्क्षे निजांशके सौम्ये तुङ्गे वा बलसंयुते ॥ ३९॥ धनागमो राजमानप्रियवस्त्रादिलाभकृत् । विद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ॥ ४०॥ सन्तानप्राप्तिः सन्तोषो वाणिज्याद्धनलाभ्कृत् । वाहनच्छत्रसंयुक्तनानालङ्कारलाभकृत् ॥ ४१॥ दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा । विवाहो यज्ञदीक्षा च दानधर्मशुभादिकम् ॥ ४२॥ राजप्रीतिकरश्चैव विद्वज्जनसमागमः । मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ॥ ४३॥ आरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् । दायेशाद्रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ॥ ४४॥ तद्भुक्तौ देहबाधा च कृर्षिगोभूमिनाशनम् । कारागृहप्रवेशाश्च दारपुत्रादिपीडनम् ॥ ४५॥ द्वितीयद्यूननाथे तु ज्वरपीडा महद्भयम् । छागदानं प्रकुर्वीत विष्णुसाहस्रकं जपेत् ॥ ४६॥ चन्द्रस्यान्तर्गते केतौ केन्द्रलाभत्रिकोणगे । दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ॥ ४७॥ पुत्रदारादिसौख्यं च विधिकर्म करोति च । भुक्त्यादौ धनहानिः स्यान्मध्यगे सुखमाप्नुयात् ॥ ४८॥ दायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते । क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ॥ ४९॥ गोमहिष्यादिलाभं च भुक्त्यन्ते चार्थनाशनम् । पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ॥ ५०॥ शत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् । द्वितीयद्यूनराशिस्त्य्हे ह्यनारोग्यं महद्भयम् ॥ ५१॥ मृत्युञ्जयजपं कुर्यात् सर्वसम्पत्प्रदायकम् । ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥ ५२॥ चन्द्रस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वापि राज्यलाभं करोति च ॥ ५३॥ महाराजप्रसादेन वाहनाम्बरभूषणम् । चतुष्पाज्जिवलाभः स्याद्दारपुत्रादिवर्धनम् ॥ ५४॥ नूतनागारनिर्माणं नित्यं मिष्ठान्नभोजनं । सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ॥ ५५॥ दशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् । सत्कीर्तिसुखसम्पत्तिगृहक्षेत्रादिवृद्धिकृत् ॥ ५६॥ नीचे वाऽस्तङ्गते शुक्रे पापग्रहयुतेक्षिते । भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ॥ ५७॥ चतुष्पाज्जिवहानिः स्याद्राजद्वारे विरोधकृत् । धनस्थानगते शुक्रे स्वच्चे स्वक्षेत्रसंयुते ॥ ५८॥ निधिलाभं महत्सौख्यं भू लाभं पुत्रसम्भवम् । भाग्यलाभादिपैर्युक्ते भाग्यवृद्धिः करोत्यसौ ॥ ५९॥ महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा । देवब्राह्मणभक्तिश्च मुक्तविद्रुमलाभकृत् ॥ ६०॥ दायशाल्लाभगे शुक्रे त्रिकोणे केन्द्रगेऽपि वा । गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ॥ ६१॥ दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते । विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ॥ ६२॥ द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् । तद्दोषविनिवृत्त्यर्थं रुद्रजाप्यं च कारयेत् ॥ ६३॥ श्वेतां गां रजतं दद्याच्छन्तिमाप्नोत्यसंशयः । शङ्करस्य प्रसादेन नाऽत्र कार्या विचारणा ॥ ६४॥ चन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते । केन्द्रे त्रिकोणे लाभे वा धने वा सोदरालये ॥ ६५॥ नष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् । मित्रराजप्रसादेन ग्रामभूम्यादिलाभ्कृत् ॥ ६६॥ गर्भाधानफलप्राप्तिर्गृहे लक्ष्मीः कटाक्षकृत् । भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ॥ ६७॥ दायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते । नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ॥ ६८॥ विदेशगमने चार्ति लभते न संशयः । द्वितीयद्यूननाथे तु ज्वरपीडा भविष्यति ॥ ६९॥ तद्दोषपरिहारार्थं शिवपूजां च कारयेत् । ततः शान्तिभवाप्नोति शाङ्करस्य प्रसादतः ॥ ७०॥
अथ कुजदशान्तर्दशाफलाध्यायः ॥ ५४॥ कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे । लाभे वा शुभसंयुक्ते दुष्चिक्ये धनसंयुते ॥ १॥ लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् । लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् ॥ २॥ पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् । स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ॥ ३॥ गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् । महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥ ४॥ अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते । मूत्रकृर्च्छादिरोगश्च कष्टाधिक्यं व्रणाद्भयम् ॥ ५॥ चौराहिराजपीडा च धनधान्यपरुक्षयः । द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा ॥ ६॥ तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् । अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये ॥ ७॥ तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः । आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम् ॥ ८॥ कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे । शुभैर्युक्ते शुभैर्दृष्टे केन्द्रलाभतृकोणगे ॥ ९॥ तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् । कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् ॥ १०॥ गङ्गास्नानफलावाप्तिं विदेशगमनं तथा । तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते ॥ ११॥ चौराहिव्रणभीतिश्च चतुष्पाज्जीवनशनम् । वातपित्तरुजोभीतिः कारागृहनिवेशनम् ॥ १२॥ धनस्थानगते राहौ धननासं महद्भयम् । सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत् ॥ १३॥ नागपूजां प्रकुर्वीत देवब्राह्मणभोजनं । मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये ॥ १४॥ कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा । लाभे वा धनसंयुक्ते तुङ्गांशे स्वांशगेपि वा ॥ १५॥ सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् । गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥ १६॥ दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा । भाग्यकर्माधिपैर्युक्ते वाहनाधिपसंयुते ॥ १७॥ लग्नाधिपसमायुक्ते शुभांशे शुभवर्गगे । गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः ॥ १८॥ देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः । चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिकम् ॥ १९॥ कलपुत्रसौख्यं च राजसम्मानवैभवम् । षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति ॥ २०॥ पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति । चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम् ॥ २१॥ प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् । द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम् । तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ॥ २२॥ कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे । मूलत्रिकोणकेन्द्रे वा तुङ्गांशे स्वांशगे सति ॥ २३॥ लग्नाधिपतिना वापि शुभदृष्टियुतेऽसिते । राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद्धिकृत् ॥ २४॥ पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः । स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत् ॥ २५॥ नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे । म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम् ॥ २६॥ निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् । द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम् ॥ २७॥ धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा । चौराग्निनृपपीडा च सहोदरविनाशनम् ॥ २८॥ बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते । अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीडनम् ॥ २९॥ कारागृहादिभीदिश्च राजदण्डो महद्भयम् । दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोणगे ॥ ३०॥ विदेशयानं लभते दुष्कीर्तिर्विविधा तथा । पापकर्मरतो नित्यं बहुजीवादिहिंसकः ॥ ३१॥ विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा । रणे पराजयश्चैव मूत्रकृर्च्छान्महद्भयम् ॥ ३२॥ दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते । तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम् ॥ ३३॥ वातपीडा च शूलादिज्ञातिश्त्रुभयं भवेत् ॥ ३४॥ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । ततः सुखमवाप्नोति शङ्करस्य प्रसादतः ॥ ३५॥ कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे । सत्कथाश्चाऽजपादानं धर्मबुद्धिर्महद्यशः ॥ ३६॥ नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् । वाहनाम्बरपश्वादिर्राजकर्म सुखानि च ॥ ३७॥ कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् । नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा ॥ ३८॥ हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् । दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ॥ ३९॥ दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् । विदेशगमनं चैव नानारोगास्तथैव च ॥ ४०॥ राजद्वारे विरोधश्च कलहः स्वजनैरपि । दायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्थलाभकृत् ॥ ४१॥ अनेकधननाथत्वं राजसम्मनमेव च । भूपालयोगं कुरुते धनम्बरविभूषणम् ॥ ४२॥ भूरवाद्यमृदंगादि सेनापत्यं महत्सुखम् । विद्याविनोदविमला वस्त्रवाहनभूषणम् ॥ ४३॥ दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् । दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥ ४४॥ तद्दाये मानोहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् । चौराग्निनृपपीडा च मार्गे दस्युभयादिकम् ॥ ४५॥ अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः । द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः ॥ ४६॥ अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् । सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान्तये ॥ ४७॥ कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा । दिश्चिक्ये लाभगे वाऽपि शुभयुक्ते शुभेक्षिते ॥ ४८॥ राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः । किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत् ॥ ४९॥ राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् । योगकारकसंस्थाने बलवीर्यसमन्विते ॥ ५०॥ पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् । भृत्यवर्गधनप्राप्तिः सेनापत्यं महत्सुखम् ॥ ५१॥ भूपालमित्रं कुरुते यागाम्बरादिभूषणम् । दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥ ५२॥ कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् । ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम् ॥ ५३॥ द्वितीयसप्तमस्थाने देहे व्याधिर्भविष्यति । अपमानमनस्तापो धनधान्यादिप्रच्युतिम् ॥ ५४॥ कुजस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वाऽपिशुभस्थानाधिपेऽथवा ॥ ५५॥ राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् । लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम् ॥ ५६॥ आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् । दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ॥ ५७॥ तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् । स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिलाभकृत् ॥ ५८॥ महारजप्रसादेन ग्रामभूम्यादिलाभदम् । भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत् ॥ ५९॥ पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते । पुण्यधर्मदयाकूपतडागं कारयिष्यति ॥ ६०॥ दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते । करोति दुःखबाहुल्यं देहपीडां धनक्षयं ॥ ६१॥ राजचौरादिभीतिञ्च गृहे कलहमेव च । दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत् ॥ ६२॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ६३॥ कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे । मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ॥ ६४॥ तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति । धनधान्यसमृद्धिः स्याद् गृहे कल्याणसम्पदः ॥ ६५॥ क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् । व्यवसायात्फलाधिक्यं विदेशे राजदर्शनम् ॥ ६६॥ दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते । देहपीडा मनस्तापः कार्यहानिर्महद्भयम् ॥ ६७॥ शिरोरोगो ज्वरादिश्च अतिसारमथापि वा । द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम् ॥ ६८॥ सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि । देहारोग्यं प्रकुरुते धनधान्यचयं तथा ॥ ६९॥ कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे । भार्यवाहनकर्मेशलग्नाधिपसमन्विते ॥ ७०॥ करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् । तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम् ॥ ७१॥ विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् । पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्षकृत् ॥ ७२॥ महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् । पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफल्ं भवेत् ॥ ७३॥ नीचारिस्थऽष्टमे षष्ठे दायेशाद्रिपुरन्ध्रके । मरणं दारपुत्राणां कष्टं भूमिविनाशनम् ॥ ७४॥ पशुधान्यक्षयश्चैव चौरादिरणभीतिकृत् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७५॥ देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् । श्वेतां गां महिषीं दद्यादनेमारोग्यमादिशेत् ॥ ७६॥
अथ रह्वन्तर्दशाफलाध्यायः ॥ ५५॥ कुलीरे वृश्चिके राहौ कन्यत्यां चापगेऽपि वा । तद्भुक्तो राजसम्मानं वस्त्रवाहनभूषणम् ॥ १॥ व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् । प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ २॥ लग्नादुपचये राहौ शुभग्रहयुतेक्षिते । मित्रांशे तुङ्गभागांशे योगकारकसंयुते ॥ ३॥ राज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् । करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम् ॥ ४॥ लग्नाष्ट्मे व्यये राहौ पापयुक्तेऽथ वीक्षिते । चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द्विज ॥ ५॥ राजद्वारजनद्वेष इष्टबन्धुविनाशनम् । दारपुत्रादिपीडा च भवत्येव न संशयः ॥ ६॥ द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते । सदा रोगो महाकष्टं शान्तिं कुर्याद्यथाविधि । आरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ॥ ७॥ राहुरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्वर्क्षांशगेऽपि वा ॥ ८॥ स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् । राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ॥ ९॥ दिनेदिने वृद्धिरपि सितपक्षे शशी यथा । वाहनादिधनं भूरि गृहे गोधनसंकुलम् ॥ १०॥ नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् । युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ ११॥ उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् । वाहनग्रामलाभश्च देवब्राह्मणपूजनम् ॥ १२॥ पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् । नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्ययराशिगे ॥ १३॥ शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति । कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते ॥ १४॥ कलत्रपुत्रपीडा च हृद्रोगो राजकारकृत् । दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ १५॥ दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् । भोजनाम्बरपश्वादिदानधर्मजपादिकम् ॥ १६॥ भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् । ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादिपीडनम् ॥ १७॥ दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते । तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति ॥ १८॥ द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति । स्वर्णस्य प्र्तिमादानं शिवपूजं च कार्यते ॥ १९॥ स्र्/ईशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम । देहारोग्यं प्रकुरुते शान्तिं कुर्याद्विचक्षणम् ॥ २०॥ राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे ॥ २१॥ तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी शुभा । विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ॥ २२॥ आरामकरणे युक्तो तडागं कारयिष्यति । शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः ॥ २३॥ प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः । देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति ॥ २४॥ नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा । नीचारिराजभीतिश्च दारपुत्रादिपीडनम् ॥ २५॥ आत्मबन्धुमनस्तापं दायादजनविग्रहम् । व्यवहारे च कलहमकस्माद्भूषणं लभेत् ॥ २६॥ दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते । हृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् ॥ २७॥ अन्यदेशादिसञ्चारो गुल्मवद्वयाधिभाग्भवेत् । कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् ॥ २८॥ द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति । कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥ २९॥ राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा । तुङ्गे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ॥ ३०॥ राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् । व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् ॥ ३१॥ विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् । सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ॥ ३२॥ सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिरोभनम् । महाराजप्रसादेन धनलाभो महद्यशः ॥ ३३॥ दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे । देहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ॥ ३४॥ पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् । विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ॥ ३५॥ षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते । दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ॥ ३६॥ देवभाह्मणनिन्दा च भोगभाग्यविवर्जितः । सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ॥ ३७॥ अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् । अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ॥ ३८॥ द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ३९॥ राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् । वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ॥ ४०॥ अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा । शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः । राजसम्मानभूषाप्तिर्गृहे शुभकरो भवेत् ॥ ४१॥ लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा । लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ॥ ४२॥ चतुष्पाज्जिवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे । रन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ॥ ४३॥ तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् । पितृमातृवियोगश्च भातृद्वेषो मनोरुजा ॥ ४४॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं छागदानं च कारयेत् ॥ ४५॥ राहोरन्तर्गते शुक्रे कग्नात्केन्द्गत्रिकोणगे । लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ॥ ४६॥ विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् । पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ ४७॥ सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् । स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥ ४८॥ नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनं । कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् ॥ ४९॥ अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः । महाराजप्रसादेन वाहनाम्बरभूषणं ॥ ५०॥ व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् । षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे स्थिते ॥ ५१॥ मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् । अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ॥ ५२॥ स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् । दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ॥ ५३॥ कलत्रपुत्रपीडा च शूलरोगादिसम्भवः । दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ॥ ५४॥ लाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् । सुगन्धवस्त्रशय्यादि गानवाद्यसुखं भवेत् ॥ ५५॥ छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता । दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ ५६॥ विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् । प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ॥ ५७॥ कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः । द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ॥ ५८॥ आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् । दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुयात् ॥ ५९॥ राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे । त्रिकोणे लाभगे वाऽपि तुङ्गांशे स्वांशगेऽपि वा ॥ ६०॥ शुभग्रहेण सन्दृष्टे राजप्रीतिकरं शुभम् । धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् ॥ ६१॥ अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति । भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ॥ ६२॥ राजाश्रयो महाकीर्तिर्विदेशगमनं तथा । देशाधिपत्ययोगश्च गजश्वाम्बरभूषणम् ॥ ६३॥ मनोऽभिष्टप्रदानं च पुत्रकल्याणसम्भवम् । दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ॥ ६४॥ ज्वरातिसाररोगश्च कलहो राजविग्रहः । प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् ॥ ६५॥ दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा । विदेशे राजसम्मानं कल्याणं च शुभावहम् ॥ ६६॥ द्वितीयद्यूननाथे तु महारोगो भविष्यति । सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ॥ ६७॥ राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा । केन्द्रत्रिकोणलाभे वा मित्रर्क्षे शुभसंयुते ॥ ६८॥ राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् । आरोग्यं भूषण्ं चैव मित्रस्त्रीपुत्रसम्पदः ॥ ६९॥ पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या शुभावहम् । अश्ववाहनलाभः स्यद्गृहक्षेत्रादिवृद्धिकृत् ॥ ७०॥ दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा । लक्ष्मीकटाक्षचिह्नानि गृहे कल्याणसम्भवः ॥ ७१॥ सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा । सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ॥ ७२॥ दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते । पिशाचक्षुद्रव्याघ्राद्य्सिर्गृहक्षेत्रार्थनाशनम् ॥ ७३॥ मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् । द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् ॥ ७४॥ श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये । ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ॥ ७५॥ राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे । केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ ७६॥ नष्टराज्यधन्प्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् । इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ॥ ७७॥ क्षिप्रभोज्यान्महत्सौख्यं भूषणश्वाम्बरादिकृत् । दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ ७८॥ रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् । पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ॥ ७९॥ सेनपत्यं महोत्साहो भ्रातृवर्गधनागमः । दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते ॥ ८०॥ पुत्रदारादिहानिश्च सूदराणां च पीडनम् । स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ॥ ८१॥ चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् । आदौ क्लेशकरं चैव मध्यान्ते सौखमाप्नुयात् ॥ ८२॥ द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् । अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ॥ ८३॥
अथ जीवान्तर्दशाफलाध्यायः ॥ ५६॥ स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे । अनेकराजधीशो वा सम्पन्नो राजपूजितः ॥ १॥ मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् । नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् ॥ २॥ गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलओदयः । ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ॥ ३॥ स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् । नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे ॥ ४॥ नीचसङ्गो महादुःखं दायादजनविग्रहः । कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत् ॥ ५॥ पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् । सप्तमाधिपदोषेण देववाधा भविष्यति ॥ ६॥ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये ॥ ७॥ जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे । लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ॥ ८॥ राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् । धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत् ॥ ९॥ वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् । पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् ॥ १०॥ नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः । पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ॥ ११॥ अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु । लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ ॥ १२॥ धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः । स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत् ॥ १३॥ गृहे त्वशुभकार्याणि भ्र्त्यवर्गादिपीडनम् । गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति ॥ १४॥ दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा । भूराभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् ॥ १५॥ गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा । दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ १६॥ धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् । उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम् ॥ १७॥ द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ १८॥ कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् । मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम ॥ १९॥ जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते ॥ २०॥ अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् । महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥ २१॥ वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् । महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः ॥ २२॥ व्यवसायात्फलं निष्टं ज्वरातीमारपीडनम् । दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे ॥ २३॥ स्वदेशे धनलाभश्च पितृमातृसुखावहा । गजवाजिसमायुक्तो राजमित्रप्रसादतः ॥ २४॥ दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते । शुभदृष्टिविहीने च धन्धान्यपरिच्युतिः ॥ २५॥ विदेशगमनं चैव मार्गे चौरभयं तथा । व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः ॥ २६॥ लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते । अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम् ॥ २७॥ चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च । अपमृत्युभयं चैव शत्रूणां कलहो भवेत् ॥ २८॥ शुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः । आदौ शुभं देहसौख्यं वाहनाम्बरलाभकृत् ॥ २९॥ अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते । द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ॥ ३०॥ तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् । आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ॥ ३१॥ जीवस्यान्तर्गते केतौ शुभग्रहसमन्विते । अल्पसौख्यधनव्याप्तिः कुत्सितान्नस्य भोजनम् ॥ ३२॥ परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च । दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ ३३॥ राजकोपो धनच्छेदो बन्धनं रोगपीडनम् । बलाहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजम् ॥ ३४॥ दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा । नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ॥ ३५॥ महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् । व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ॥ ३६॥ यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् । द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥ ३७॥ छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् । सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः ॥ ३८॥ जीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते । लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते ॥ ३९॥ नरवाहनयोगश्च गजाश्वाम्बरसंयुतः । महारजप्रसादेन लाभाधिक्यं महत्सुखम् । नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति ॥ ४०॥ पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धन्लाभदम् । कल्याणं च महाप्रीतिः पितृमातृसुखावहा ॥ ४१॥ देवतागुरुभक्तिश्च अन्नदानं महत्तथा । तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ॥ ४२॥ षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च । कल्हो बन्धुवैषम्यं दारपुत्रादिपीडनम् ॥ ४३॥ मन्दारराहुसंयुक्ते कलहो राजतो भयम् । स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ॥ ४४॥ सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः । दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा ॥ ४५॥ धनधान्यादिलाभश्च स्र्/ईलाभो राजदर्शनम् ॥ ४६॥ वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् । गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः ॥ ४७॥ दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् । द्विसप्तमाधिपे शुक्रे तद्दशानां धनक्षतिः ॥ ४८॥ अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः । तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत् ॥ ४९॥ श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये । शुक्रग्रहप्रसादेन ततः सुखमवाप्नुयात् ॥ ५०॥ जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा ॥ ५१॥ धने वा बलसंयुते दायेशाद्वा तथैव च । तत्काले धनलाभः स्याद्राजसम्मानवैभवम् ॥ ५२॥ वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः । मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम् ॥ ५३॥ लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च । शिरोरोगादिपीडा च ज्वरपीडा तथैव च ॥ ५४॥ सत्कर्मसु तदा हीनः पापकर्मचयस्तथा । सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत् ॥ ५५॥ अकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ । द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥ ५६॥ तद्दोषपरिहारार्थमादित्यहृदयं जपेत् । सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः ॥ ५७॥ जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते ॥ ५८॥ दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् । दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा ॥ ५९॥ सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा । महाराजप्रसादेन सर्वसौख्यं धनागमः ॥ ६०॥ अनेकजनसौख्यं च दानधर्मादिसंग्रहः । षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ॥ ६१॥ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ॥ ६२॥ नृपचौरादिपीडा च दायादजनविग्रहः । मातुलादिवियोगश्च मातृपीडा तथैव च ॥ ६३॥ द्वितीयषष्ठयोरीशे देहपीडा भविष्यति । तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत् ॥ ६४॥ जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥ ६५॥ विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् । जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ॥ ६६॥ दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा । शुभयुक्ते शुभैर्दृष्टे धनधान्यादिसम्पदः ॥ ६७॥ मिष्ठान्नदानविभवं राजप्रीतिकरं शुभम् । स्त्रीसौख्यं च सुतवाप्तिः पुण्यतीर्थफलं तथा ॥ ६८॥ दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा । पापयुतेक्षिते वापि धान्यार्थगृहनाशनम् ॥ ६९॥ नानरोगभयं दुःखं नेत्ररोगादिसम्भवः । पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम् ॥ ७०॥ द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः । वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ॥ ७१॥ जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा । मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ॥ ७२॥ शुभयुतेक्षिते वापि योगप्रीतिं समादिशेत् । भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत् ॥ ७३॥ देशग्रामाधिकं च यवनप्रभुदर्शनम् । गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ॥ ७४॥ दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः । सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ॥ ७५॥ दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते । चौराहिव्रणभीतिश्च राजवैषम्यमेव च ॥ ७६॥ गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् । सोदरेण विरोधः स्याद्दायादजनविग्रहः ॥ ७७॥ गृहे त्वशुभकार्याणि दुःस्वप्नादिभयं ध्रुवम् । अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत् ॥ ७८॥ द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् । तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ७९॥ छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् । देवपूयप्रसादेन राहुतुष्ट्या द्विजोत्तम ॥ ८०॥
अथ शन्यन्तर्दशाफलाध्यायः ॥ ५७॥ मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा । केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते ॥ १॥ राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् । वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् ॥ २॥ महाराजप्रसादेन सेनापत्यादिलाभकृत् । चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ॥ ३॥ तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते । तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम् ॥ ४॥ रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् । मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ॥ ५॥ अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ६॥ तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् । ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥ ७॥ मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा । सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम् ॥ ८॥ स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् । यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् ॥ ९॥ देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् । सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा ॥ १०॥ वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् । अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् ॥ ११॥ षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति । रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च ॥ १२॥ नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता । फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् ॥ १३॥ नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् । द्वितीयसप्तमाधिशे देहबाधा भविष्यति ॥ १४॥ तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् । अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥ १५॥ मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते । स्वोच्चे वा शुभराशिस्थे योगकारकसंयुते ॥ १६॥ केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् । दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् ॥ १७॥ स्वप्रभोश्च महाकष्टं विदेशगमनं तथा । लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ॥ १८॥ गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् । दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे ॥ १९॥ समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः । तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च ॥ २०॥ अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् । शीतज्वरातिसारश्च व्रणचौरादिपीडनम् ॥ २१॥ दारपुत्रवियोगश्च संसारे भवति ध्रुवम् । द्वितियद्यूनराशिस्थे देह पीडा भविष्यति ॥ २२॥ छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् । केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् ॥ २३॥ मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रे वा शुभसंयुक्ते त्रिओकोणे लाभगेऽपि वा ॥ २४॥ दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः । गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम् ॥ २५॥ महाराजप्रसादेन हीष्टसिद्धिः सुखावहा । स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत् ॥ २६॥ द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा । गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः ॥ २७॥ शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् । शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशिगे ॥ २८॥ दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः । दारानां स्वजनक्लेशः सन्तापो जनविग्रहः ॥ २९॥ दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते । राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् ॥ ३०॥ दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् । सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम् ॥ ३१॥ दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः । दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा ॥ ३२॥ नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः । कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् ॥ ३३॥ जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः । राजद्वारे जनद्वेषः सोधरेण विरोधनम् ॥ ३४॥ द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ३५॥ श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् । जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ ३६॥ मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा । भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ॥ ३७॥ शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् । गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम् ॥ ३८॥ वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् । लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ॥ ३९॥ हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा । इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम् ॥ ४०॥ तापज्वरादिपीडा च व्याकुलत्वं भयं तथा । आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् ॥ ४१॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् ॥ ४२॥ मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते । स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ॥ ४३॥ पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः । महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ ४४॥ सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् । पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा ॥ ४५॥ क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे । क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ॥ ४६॥ जातकस्य महत्कष्टं राजकोपो धनक्षयः । पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् ॥ ४७॥ व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः । अकाले भोजनं चैव मौषधस्य च भक्षणम् ॥ ४८॥ फलमेतद्विजानीयादादौ सौख्यं धनागमः । दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ॥ ४९॥ वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा । पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ॥ ५०॥ मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् । दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जिते ॥ ५१॥ शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् । शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात् ॥ ५२॥ द्वितीयद्यूननाथे तु देहालस्य भविष्यति । तद्दोषशमनार्थं च तिलहोमादिकं चरेत् ॥ ५३॥ गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि । श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ५४॥ मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे । तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते ॥ ५५॥ लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः । राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् ॥ ५६॥ सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः । नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृत् ॥ ५७॥ नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते । पापदृष्टियुते वापि धनहानिर्भविष्यति ॥ ५८॥ चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् । भ्रातृपित्रादिपीडा च दायादजनविग्रहः ॥ ५९॥ चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् । विदेशगमनं चैव नानमार्गे धनव्ययः ॥ ६०॥ अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि । अपमृत्युभयं चैव नानाकष्टं पराभवः ॥ ६१॥ तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् । वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् ॥ ६२॥ मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा । देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् ॥ ६३॥ अर्थव्ययो राजभयं स्वजनादिविरोधिता । विदेशगमनं चैव गृहक्षेत्रादिनाशनम् ॥ ६४॥ लग्नाधिपेन संयुक्ते योगकारकसंयुते । स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ॥ ६५॥ आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् । देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत् ॥ ६६॥ चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् । मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम् ॥ ६७॥ मेषे कन्यागते वापि कुलीरे वृषभे तथा । मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् ॥ ६८॥ राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् । द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ॥ ६९॥ मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् । वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् ॥ ७०॥ मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे । लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ ७१॥ सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् । महाराजप्रसादेन धनवाहनभूषणम् ॥ ७२॥ सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् । देवतागुरुभक्तिश्च विद्वज्जनसमागमः ॥ ७३॥ दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् । षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ॥ ७४॥ निजसम्बन्धिमरणं धनधान्यविनाशनम् । राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति ॥ ७५॥ विदेशगमनं चैव कुष्ठरोगादिसम्भवः । दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ॥ ७६॥ विभवं दारसौभाग्यं राजश्रीधनसम्पदः । भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् ॥ ७७॥ ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा । अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम् ॥ ७८॥ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति ॥ ७९॥ कुभोजनं कर्महानी राजदण्डाद्धनव्यय । कारागृहप्रवेशश्च पुत्रदारादिपीडनम् ॥ ८०॥ द्वितीयद्यूननाथे तु देहवाधा मनोरुजः । आत्मसम्बन्धमरणं भविष्यति न संशयः ॥ ८१॥ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्रुवम् ॥ ८२॥
अथ बुधान्तर्दशाफलाध्यायः ॥ ५८॥ मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् । विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम् ॥ १॥ विभवं दारपुत्रादि पितृमातृसुखावहम् । स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे ॥ २॥ पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः । आत्मबन्धुविरोधश्च शूलरूगादिसम्भवः ॥ ३॥ राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् । द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ॥ ४॥ आत्मसम्बन्धिमरणं वातशूलादिसम्भवः । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ५॥ बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे । शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ॥ ६॥ योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे । देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत् ॥ ७॥ चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः । विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम् ॥ ८॥ भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् । दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ॥ ९॥ वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः । चौरादिराजभीतिश्च पापकर्मरतः सदा ॥ १०॥ वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः । शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत् ॥ ११॥ द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति । तद्दोषपरिहाराय छागदानं तु कारयेत् ॥ १२॥ सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे । सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् ॥ १३॥ मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् । दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा ॥ १४॥ तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः । वापीकूपतडागदिदानधर्मादिसंग्रहः ॥ १५॥ व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् । दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ॥ १६॥ हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् । आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम् ॥ १७॥ आत्मकष्टं मनस्तापदायकं द्विजसत्तम । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ १८॥ तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् । जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात् ॥ १९॥ सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे । त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा ॥ २०॥ राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् । भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत् ॥ २१॥ लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् । ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत् ॥ २२॥ लग्नाष्टमव्यये वापि शन्यारफणिसंयुते । दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ २३॥ चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति । शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत् ॥ २४॥ द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति । तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि ॥ २५॥ सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते ॥ २६॥ योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् । स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् ॥ २७॥ नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् । गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम् ॥ २८॥ दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति । द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति ॥ २९॥ मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् । नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ॥ ३०॥ दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा । तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ॥ ३१॥ मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् । दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ॥ ३२॥ चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् । दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत् ॥ ३३॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ३४॥ वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् । जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ ३५॥ सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ॥ ३६॥ राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् । लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात् ॥ ३७॥ पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् । गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम् ॥ ३८॥ राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् । नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ॥ ३९॥ पापदृष्टियुते वापि देहपीडा मनोव्यथा । उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम् ॥ ४०॥ ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् । दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा ॥ ४१॥ शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् । पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ॥ ४२॥ दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते । तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम् ॥ ४३॥ नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् । स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ॥ ४४॥ अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा । द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ ४५॥ गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् । शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात् ॥ ४६॥ बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे । कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा ॥ ४७॥ राजसम्मानकीर्तिं च धनं च प्रभविष्यति । पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा ॥ ४८॥ इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् । भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत् ॥ ४९॥ लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् । भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत् ॥ ५०॥ लग्नादुपचये राहौ शुभग्रहसमन्विते । राजसंलापसन्तोषो नूतनप्रभुदर्शनम् ॥ ५१॥ दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते । निष्ठुरं राजकार्याणि स्थानभ्रंशो महद्भयम् ॥ ५२॥ बन्धनं रोगपीडा च निजबन्धुमनोव्यथा । हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ॥ ५३॥ द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति । तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत् ॥ ५४॥ श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् । जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ ५५॥ बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ॥ ५६॥ देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च । विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम् ॥ ५७॥ गोमहिष्यादिलाभश्च पुराणस्र्/अवणादिकम् । देवतागुरुभक्तिश्च दानधर्ममखादिकम् ॥ ५८॥ यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा । नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा ॥ ५९॥ शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः । चौरादिदेहपीडा च पितृमातृविनाश्नम् ॥ ६०॥ मानहानि राजदण्डो धनहानिर्भविष्यति । विषाहिज्वरपीडा च कृषिभूमिविनाशनम् ॥ ६१॥ दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते । बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम् ॥ ६२॥ पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् । दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ॥ ६३॥ अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति । कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः ॥ ६४॥ अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् । द्वितीयसप्तमस्थे वा देहबाधा भविष्यति ॥ ६५॥ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति ॥ ६६॥ सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे । त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम् ॥ ६७॥ राज्यलाभं महोत्साहं गृहं गोधनसंकुलम् ॥ ६८॥ शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् । अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ॥ ६९॥ अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् । बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ॥ ७०॥ विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७१॥ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् । कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ७२॥
अथ केत्वन्तर्दशाफलाध्यायः ॥ ५९॥ केन्द्रे त्रिकोणलाभे वा केतौ लग्नेशसंयुते । भाग्यकर्मसुसम्बन्धे वाहनेशसमन्विते ॥ १॥ तद्भुक्तौ धनधान्यादि चतुष्पाज्जीवलाभकृत् । पुत्रदारादिसौख्यं च राजप्रीतिमनोरुजः ॥ २॥ ग्रामभूम्यादिलाभश्च गृहं गोधनसंकुलम् । नीचास्तखेटसंयुक्ते ह्यष्टमे व्ययगेऽपि वा ॥ ३॥ हृद्रोगो मानहानिश्च धनधान्यपशुक्षयः । दारपुत्रादिपीडा च मनश्चांचल्यमेव च ॥ ४॥ द्वितीयद्यूननाथेन सम्बन्धे तत्र संस्थिते । अनारोग्यं महत्कष्टमात्मबन्धुवियोगकृत् ॥ ५॥ दुर्गादेवीजपं कुर्यान्मृत्युञ्जयजपं चरेत् । एवं स्वान्तर्गते केतौ ततः सुखमवाप्नुयात् ॥ ६॥ केतोरन्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते । केन्द्रत्रिकोणलाभे वा राज्यनाथेन संयुते ॥ ७॥ राजप्रीतिं च सौभाग्यं दिशात्स्वाम्बरसंकुलम् । तत्काले श्रियमाप्नोति भाग्यकर्मेशसंयुते ॥ ८॥ नष्टराज्यधनप्राप्तिं सुखवाहनसुत्तमम् । सेतुस्नानादिकं चैव देवतादर्शनं महत् ॥ ९॥ महाराजप्रसादेन ग्रामभूम्यादिलाभकृत् । दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ १०॥ देहारोग्यं शुभं चैव गृहे कल्याणशोभनम् । भोजनाम्बरभूषाप्तिरथदोलादिलाभकृत् ॥ ११॥ दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते । अकस्मात्कलहं चैव पशुधान्यादिपीडनम् ॥ १२॥ नीचस्थे खेटसंयुक्ते लग्नात्षष्ठाष्टराशिगे । स्वबन्धुजनवैषम्यं शिरोक्षिव्रणपीडनम् ॥ १३॥ हृद्रोगं मानहानिं च धनधान्यपशुक्षयम् । कलत्रपुत्रपीडायाः सञ्चारं च समादिशेत् ॥ १४॥ द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजम् । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् । श्वेतां गां महिषीं दद्यादायुआरोग्यवृद्धये ॥ १५॥ केतोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रत्रिकोणलाभे वा शुभयुक्तनिरीक्षिते ॥ १६॥ धनधान्यादिलाभश्च राजानुग्रहवैभवम् । अनेकशुभकार्याणि चेष्टसिद्धिः सुखावहा ॥ १७॥ अष्टमव्ययराशिस्थे पापग्रहसमन्विते । तद्भुक्तौ राजभीतिश्च पितृमातृवियोगकृत् ॥ १८॥ विदेशगमनं चैव चौराहिविषपीडनम् । राजमित्रविरोधश्च राजदण्डाद्धनक्षयः ॥ १९॥ शोकरोगभयं चैव उष्णाधिक्यं ज्वरो भवेत् । दायेशात्लेन्द्रकोणे वा लाभे वा धनसंस्थिते ॥ २०॥ देहसौख्यं चार्थलाभ० पुत्रलाभो मनोदृढम् । सर्वकार्यार्थसिद्धिः स्यात्स्वल्पग्रामाधिपत्ययुक् ॥ २१॥ दायेशाद्रन्ध्ररिःफे वा स्थिते वा पापसंयुते । अन्नविघ्नो मनोबीतिर्धनधान्यपशुक्षयः ॥ २२॥ आदौ मध्ये महाक्लेशानन्ते सौख्यं विनिर्दिशेत् । द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविष्यति ॥ २३॥ तस्य शान्तिं प्रकुर्वीत स्वर्णं धेनुं प्रदापयेत् । भास्करस्य प्रसादेन ततः सुखमवाप्नुयात् ॥ २४॥ केतोरन्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रगेऽपि वा । केन्द्रत्रिकोणलाभे वा धने शुभसमन्विते ॥ २५॥ राजप्रीतिर्महोत्साहः कल्याणं च महत्सुखम् । महाराजप्रसादेन गृहभूम्यादिलाभकृत् ॥ २६॥ भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् । अश्ववाहनलाभश्च वस्त्रभरणभूषणम् ॥ २७॥ देवालयतडागादिपुण्यधर्मादिसङ्ग्रहम् । पुत्रदारादिसौख्यं च पूर्णचन्द्रः प्रयच्छति ॥ २८॥ क्षीणे वा नीचगे चन्द्रे षष्ठाष्टमव्ययराशिगे । आत्मसौख्यं मनस्तापं कार्यविघ्नं महद्भयम् ॥ २९॥ पितृमातृवियोगं च देहजाड्यं मनोव्यथाम् । व्यवसायात्फलं कष्टं पशुनाशं भयं वदेत् ॥ ३०॥ दायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते । कृषिगोभूमिलाभं च इष्टबन्धुसमागमम् ॥ ३१॥ तस्मात्स्वकार्यसिद्धिं च गृहे गोक्षीरमेव च । भुक्त्यादौ शुभमारोग्यं मध्ये राजप्रियं शुभम् ॥ ३२॥ अन्ते तु राजभीतिं च विदेशगमनं तथा । दूरयात्रादिसञ्चारं सम्बन्धिजनपूजनम् ॥ ३३॥ दायेशात्षष्ठरिःफे वा रन्ध्रे वा बलवर्जिते । धनधान्यादिहानिश्च मनोव्यात्कुलमेव च ॥ ३४॥ स्वबन्धुजनवैरं च भ्रातृपीडा तथैव च । निधनाधिपदोषेण द्विसप्तपतिसंयुते ॥ ३५॥ अपमृत्युभयं तस्य शान्तिं कुर्याद्यथाविधि । चन्द्रप्रीतिकरीं चैव ह्यायुरारोग्यसिद्धये ॥ ३६॥ केतोरन्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वाऽपि शुभग्रहयुतेक्षिते ॥ ३७॥ आदौ शुभफलं चैव ग्रामभूम्यादिलाभकृत् । धनधान्यादिलाभश्च चतुष्पाज्जीवलाभकृत् ॥ ३८॥ गृगारामक्षेत्रलाभो राजानुग्रहवैभवम् । भाग्ये कर्मेशसम्बन्धे भूलाभः सौख्यमेव च ॥ ३९॥ दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा । राजप्रीतियशोलाभः पुत्रमित्रादिसौख्यकृत् ॥ ४०॥ तथाऽष्टमव्यये भौमे दायेशाद्धनगेऽपि वा । द्रुतं करोति मरणं विदेशे चापदं भ्रमम् ॥ ४१॥ प्रमेहमूत्रकृच्छ्रादिचौरादिनृपपीडनम् । कलहादि व्यथायुक्तं किञ्चित्सुखविवर्द्धनम् ॥ ४२॥ द्वितीयद्यूननाथे तु तापज्वरविषाद्भयम् । दारपीडा मनःक्लेशमपमृत्युभयं भवेत् ॥ ४३॥ अण्ड्वाहं प्रदद्यात्तु सर्वसम्पत्सुखावहम् । ततः शान्तिमवाप्नोति भौमग्रहप्रसादतः ॥ ४४॥ केतोरन्तर्गते राहौ स्वोच्चे मित्रस्वराशिगे । केन्द्रत्रिकोणे लाभे वा दुश्चिक्ये धनसंज्ञके ॥ ४५॥ तत्काले धनलाभः स्यात्सञ्चारो भवति ध्रुवम् । म्लेच्छप्रभुवशात्सौख्यं धन्धान्यफलादिकम् ॥ ४६॥ चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् । भुक्त्यादौ क्लेशमाप्नोति मध्यान्ते सौख्यमाप्नुयात् ॥ ४७॥ रन्ध्रे वा व्ययगे राहौ पापसंदृष्टसंयुते । बहुमूत्रं कृशं दीहं शीतज्वरविषाद्भयम् ॥ ४८॥ चातुर्थिकज्वरं चैव क्षुद्रोपद्रवपीडनम् । अकस्मात्कलहं चैव प्रमेहं शूलमादिशेत् ॥ ४९॥ द्वितीयसप्तमस्थे वा तदा क्लेशं महद्भयम् । तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ५०॥ केतोरन्तर्गते जीवे कन्द्रे लाभे त्रिकोणगे । स्वोच्चे स्वक्षेत्रगे वापि लग्नाधिपसमन्विते ॥ ५१॥ कर्मभाग्याधिपैर्युक्ते धनधान्यार्थसम्पदम् । राजप्रीतिं तदोत्साहमश्वांदोल्यादिकं दिशेत् ॥ ५२॥ गृहे कल्याणसम्पत्तिं पुत्रलाभं महोत्सवहम् । पुण्यतीर्थं महोत्साहं सत्कर्म च सुखावहम् ॥ ५३॥ इष्टदेवप्रसादेन विजयं कार्यलाभकृत् । राजसंल्लापकार्याणि नूतनप्रभुदर्शनम् ॥ ५४॥ षष्ठाष्टमव्यये जीवे दायेशान्नीचगेऽपि वा । चौराहिव्रणभीतिं च धनधान्यादिनाशनम् ॥ ५५॥ पुत्रदारावियोगं च त्वतीवक्लेशसम्भवम् । आदौ सुभफलं चैव अन्ते क्लेशकरं वदेत् ॥ ५६॥ दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा । शुभयुक्ते नृपप्रीतिर्विचित्राम्बरभूषणम् ॥ ५७॥ दूरदेशप्रयाणं च स्वबन्धुजनपोषणम् । भोजनाम्बरपश्वादि भुक्त्यादौ देहपीडनम् ॥ ५८॥ अन्ते तु स्थानचलनमकस्मात्कलहो भवेत् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ५९॥ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् । महामृत्युञ्जयं जाप्यं सर्वोपद्रवनाशनम् ॥ ६०॥ केतोरन्तर्गते मन्दे स्वदशायां तु पीडनम् । बन्धोः क्लेशो मनस्तापश्चतुष्पाज्जीवलाभकृत् ॥ ६१॥ राजकार्यकलापेन धननाशो महद्भयम् । स्थानाच्च्युतिः प्रवासश्च मार्गे चौरभयं भवेत् ॥ ६२॥ आलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे । मीनत्रिकोणगे मन्दे तुलायां स्वर्क्षगेऽपि वा ॥ ६३॥ केन्द्रत्रिकोणलाभे वा दुश्चिक्ये वा शुभांशके । शुभदृष्टयुते चैव सर्वकार्यार्थसाधनम् ॥ ६४॥ स्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखावहम् । स्वग्रामे सुखसम्पत्तिः स्ववर्गे राजदर्शनम् ॥ ६५॥ दायेशात्षष्ठरिःफे वा अष्टमे पापसंयुते । देहतापो मनस्तापः कार्ये विघ्नो महद्भयम् ॥ ६६॥ आलस्यं मानहानिश्च पितृमात्रोर्विनाशनम् । द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ ६७॥ तद्दोषपैर्हारार्थं तिलहोमं च कारयेत् । कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ६८॥ केतोरन्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे । स्वोच्चे स्वक्षेत्रसंयुक्ते राज्यलाभो महत्सुखम् ॥ ६९॥ सत्कथाश्रवणं दानं धर्मसिद्धिः सुखावहा । भूलाभः पुत्रलाभश्च शुभगोष्ठीधनागमः ॥ ७०॥ अयत्नाद्धर्मलब्धिश्च विवाहश्च भविष्यति । गृहे शुभकरं कर्म वस्त्राभरणभूषणम् ॥ ७१॥ भाग्यकर्माधिपैर्युक्ते भाग्यवृद्धिः सुखावहा । विद्वद्गोष्ठीकथाभिश्च कालक्षेपो भविष्यति ॥ ७२॥ षष्ठाष्टमव्यये सौम्ये मन्दाराहियुतेक्षिते । विरोधो राजवर्गैश्च परगेहनिवासनम् ॥ ७३॥ वाहनाम्बरपश्वादिधनधान्यादिनाशकृत् । भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागमः ॥ ७४॥ अन्ते क्लेशकरं चैव दारपुत्रादिपीडनम् । दायेशात्केन्द्रगे सौम्ये त्रिकोणे लाभगेऽपि वा ॥ ७५॥ देहारोग्यं महांल्लाभः पुत्रकल्याणवैभवम् । भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ॥ ७६॥ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । तद्भुक्त्यादौ महाक्लेशो दारपुत्रादिपीडनम् ॥ ७७॥ राजभीतिकरश्चैव मध्ये तीर्थकरो भवेत् । द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७८॥ तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् । ततः सुखमवाप्नोति श्रीहरेश्च प्रसादतः ॥ ७९॥
अथ शुक्रान्तर्दशाफलाध्यायः ॥ ६०॥ अथ स्वान्तर्गते शुक्रे लग्नात्केन्द्रत्रिकोणगे । लाभे वा बलसंयुक्ते तद्भुक्तौ च शुभं फलम् ॥ १॥ विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् । पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ २॥ सन्मानं राजसम्मानं राज्यलाभो महत्सुखम् । स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे वांशगेऽपि वा ॥ ३॥ नूतनालयनिर्माणं नित्यं मिष्ठान्नभोजनम् । कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम् ॥ ४॥ अन्नदानं प्रियं नित्यं दनधर्मादिसङ्ग्रहः । महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ ५॥ व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् । प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ ६॥ लग्नाद्युपचये शुक्रे शुभग्रहयुतेक्षिते । मित्रांशे तुङ्गलाभेशयोगलारकसंयुते ॥ ७॥ राज्यलाभो महोत्साहो राजप्रीतिः शुभावहा । गृहे कल्याणसम्पत्तिर्दारपुत्रादिवर्द्धनम् ॥ ८॥ षष्ठाष्टमव्यये शुक्रे पापयुक्तेऽथ वीक्षिते । चौरादिव्रणभीतिश्च सर्वत्र जनपीडनम् ॥ ९॥ राजद्वारे जनद्वेष इष्टबन्धुविनाशनम् । दारपुत्रादिपीडा च सर्वत्र जनपीडनम् ॥ १०॥ द्वितीयद्यूननाथे तु स्थिते चेन्मरणं भवेत् । तर्त दुर्गाजपं कुर्याद्धनुदानं च कारयेत् ॥ ११॥ शुक्रस्यान्तर्गते सूर्ये सन्तापो राजविग्रहः । दायादकलहश्चैव स्वोच्चनीचविवर्जिते ॥ १२॥ (शुक्रस्यान्तर्गते सूर्ये सन्तापो राजभिः कलिः । दायादात् कलहश्चैव शुभक्षेत्रात्य राशिगे ॥ १२॥) । स्वोच्चे स्वक्षेत्रगे सूर्ये मित्रर्क्षे केन्द्रकोणगे । दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ १३॥ तद्भुक्तौ धनलाभः स्याद्राज्यस्त्रीधनसम्पदः । स्वप्रभोश्च महत्सौख्यमिष्टबन्धोः समागमः ॥ १४॥ पितृमात्रोः सुखप्राप्तिं भ्रातृलाभं सुखावहम् । सत्कीर्तिं सुखसौभाग्यं पुत्रलाभं च विन्दति ॥ १५॥ तथाष्टमे व्यये सूर्ये रिपुराशिस्थितेऽपि वा । नीचे वा पापवर्गस्थे देहतापो मनोरुजः ॥ १६॥ स्वजनोपरिसंक्लेशो नित्यं निष्ठुरभाषणम् । पितृपीडा बन्धुहानी राजद्वारे विरोधकृत् ॥ १७॥ व्रणपीडाहिबाधा च स्वगृहे च भयं तथा । नानारोगभयं चैव गृहक्षेत्रादिनाशनम् ॥ १८॥ सप्तमाधिपतौ सूर्ये ग्रहबाधा भविष्यति । तद्दोषपरिहारार्थं सूर्यप्रीतिं च कारयेत् ॥ १९॥ शुक्रस्यान्तर्गते चन्द्रे केन्द्रलाभत्रिकोणगे । स्वोच्चे स्वक्षेत्रगे चैव भाग्यनाथेनसंयुते ॥ २०॥ शुभयुक्ते पूर्णचन्द्रे राज्यनाथेन संयुते । तद्बुक्तौ वाहनादीनां लाभं गेहे महत्सुखम् ॥ २१॥ महाराजप्रसादेन गजान्तैश्वर्यमादिशेत् । महानदीस्नानपुण्यं देवब्राह्मणपूजनम् ॥ २२॥ गीतवाद्यप्रसङ्गादिविद्वज्जनविभूषणम् । गोमहिष्यादिवृद्धिश्च व्यवसायेऽधिकं फलम् ॥ २३॥ भोजनाम्बरसौख्यं च बन्धुसंयुक्तभोजनम् । नीचे वात्सङ्गते वापि षष्ठाष्टमव्ययराशिगे ॥ २४॥ दायेशात्षष्ठगे वापि रन्ध्रे वा व्ययराशिगे । तत्काले धननाशः स्यात्सञ्चरेत महद्भयम् ॥ २५॥ देहायासो मनस्तापो राजद्वारे विरोधकृत् । विदेशगमनं चैव तीर्थयात्रादिकं फलम् ॥ २६॥ दारपुत्रादि पीडा च निजबन्धुवियोगकृत् । दायेशात्केन्द्रलाभस्थे त्रिकोणे सहजेऽपि वा ॥ २७॥ राजप्रीतिकरी चैव देशग्रामाधिपत्यता । धैर्यं यशः सुखं कीर्तिर्वाहनाम्बरभूषणम् ॥ २८॥ कूपारामतडागदिनिर्माणं धनसङ्ग्रहः । भुक्तयादौ देहसौख्यं स्यादन्ते क्लेशस्तथा भवेत् ॥ २९॥ शुक्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे भौमे लाभे वा बलसंयुते ॥ ३०॥ लग्नाधिपेन संयुक्ते कर्मभाग्येशसंयुते । तद्भुक्तौ राजयोगादिसम्पदं शोभनां वदेत् ॥ ३१॥ वस्त्राभरणभूम्यादेरिष्टसिद्धिः सुखावहा । तथाऽष्टमे व्यये वाऽपि दायेशाद्वा तथैव च ॥ ३२॥ शीतज्वरादिपीडा च पितृमातृभयावहा । ज्वराद्यधिकरोगाश्च स्थानभ्रंशो मनोरुजा ॥ ३३॥ स्वबन्धुजनहानिश्च कलहो राजविग्रहः । राजद्वारजनद्वेषो धनधान्यव्ययोऽधिकः ॥ ३४॥ व्यवसायात्फलं नेष्टं ग्रामभूम्यादिहानिकृत् । द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥ ३५॥ शुक्रस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे । स्वोच्चे वा शुभसंदृष्टे योगकारकसंयुते ॥ ३६॥ तद्भुक्तौ बहुसौख्यं च धनधान्यादिलाभकृत् । इष्टबन्धुसमाकीर्णं भवनं च समादिशेत् ॥ ३७॥ यातुः कार्यार्थसिद्धिः स्यात् पशुक्षेत्रादिसम्भवः । लग्नाद्युपचये राहौ तद्भुक्तिः सुखदा भवेत् ॥ ३८॥ शत्रुनाशो महोत्साहो राजप्रीतिकरी शुभा । भुक्त्यादौ शरमासांश्च अन्ते ज्वरमजीर्णकृत् ॥ ३९॥ कार्यविघ्नमवाप्नोति सञ्चरे च मनोव्यथा । परं सुखं च सौभाग्यं महाराज इवाऽश्नुते ॥ ४०॥ नैऋतीं दिशमाश्रित्य प्रयाणं प्रभुदर्शनम् । यातुः कार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ ४१॥ उपकारो ब्राह्मणानां तीर्थयात्राफलं भवेत् । दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ ४२॥ अशुभं लभते कर्म पितृमातृजनावधि । सर्वत्र जनविद्वेषं नानारूपं द्विजोत्तम ॥ ४३॥ द्वितीये सप्तमे वापि देहालस्य विनिर्दिशेत् । तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ४४॥ शुक्रस्यान्तर्गते जीवे स्वोच्चे स्वक्षेत्रकेन्द्रगे । दायेशाच्छुभराशिस्थे भाग्ये वा पुत्रराशिगे ॥ ४५॥ नष्टराज्याद्धनप्राप्तिमिष्टार्थाम्बरसम्पदम् । मित्रप्रभोश्च सन्मानं धनधान्यं लभेन्नरः ॥ ४६॥ राजसम्मानकीर्तिं च अश्वान्दोलादिलाभकृत् । विद्वत्प्रभुसमाकीर्णं शास्त्रापरिश्रमम् ॥ ४७॥ पुत्रोत्सवादिसन्तोषमिष्टबन्धुसमागमम् । पितृमातृसुखप्राप्तिं पुत्रादिसौख्यमादिशेत् ॥ ४८॥ दायेशात्षष्ठराशिस्थे व्यये वा पापसंयुते । राजचौरादिपीडा च देहपीडा भविष्यति ॥ ४९॥ आत्मरुग्बन्धुकष्टं स्यात्कलहेन मनोव्यथा । स्थानच्युतिं प्रवासं च नानारोगं समाप्नुयात् ॥ ५०॥ द्वितीयसप्तमाधीशे देहबाधा भविष्यति । तद्दोषपरिहारार्थं महामृत्युञ्जयं चरेत् ॥ ५१॥ शुक्रस्यान्तर्गते मन्दे स्वोच्चे तु परमोच्चगे । स्वर्क्षकेन्द्रत्रिकोणस्थे तुङ्गांशे स्वांशगेऽपि वा ॥ ५२॥ तद्भुक्तौ बहुसौख्यं स्यादिष्टबन्धुसमागमः । राजद्वारे च सम्मानं पुत्रिकाजन्मसम्भवः ॥ ५३॥ पुण्यतीर्थफलवाप्तिर्दानधर्मादिपुण्यकृत् । स्वप्रभोश्च पदावाप्तिः नीचस्थे क्लेशभाग्यभवेत् ॥ ५४॥ देहालस्यमवाप्नोति तथाऽयादधिकव्ययम् । तथाष्टमे व्यये मन्दे दायेशाद्वा तथैव च ॥ ५५॥ भुक्त्यादौ विविधा पीडा पितृमातृजनावधि । दारपुत्रादिपीडा च परदेशादिविभ्रमः ॥ ५६॥ व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् । द्वितीयसप्तमाधीशे देहबाधा भविष्यति ॥ ५७॥ तद्दोषपरिहारार्थं तिलहोमं च कारयेत् । मृत्युञ्जयजपं कुर्याच्चण्डीपाठमाथपि वा ॥ ५८॥ स्वयं वा ब्राह्मणद्वारा यथाशक्ति यथाविधि । ततः शान्तिमवाप्नोति शिवाशम्भुप्रसादतः ॥ ५९॥ शुक्रस्यान्तर्गते सौम्ये केन्द्रे लाभत्रिकोणगे । स्वोच्चे वा स्वर्क्षगे वापि राजप्रीतिकरं शुभम् ॥ ६०॥ सौभाग्यं पुत्रलाभश्च सन्मार्गेण धनागमः । पुराणधर्मश्रवणं शृङ्गारिजनसंगमः ॥ ६१॥ इष्टबन्धुजनाकीर्णं शोभितं तस्य मन्दिरम् । स्वप्रभोश्च महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ॥ ६२॥ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते । पापदृष्टे पापयुक्ते चतुष्पाज्जीवहानिकृत् ॥ ६३॥ अन्यालयनिवासश्च मनोवैकल्यसम्भवः । व्यापारेषु च सर्वेषु हानिरेव न संशयः ॥ ६४॥ भुक्त्यादौ शोभनं प्रोक्तं मध्ये मध्यफलं दिशेत् । अन्ते क्लेशकरं चैव शीतवातज्वरादिकम् ॥ ६५॥ सप्तमाधीशदोषेण देहपीडा भविष्यति । तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ६६॥ शुक्रस्यान्तर्गते केतौ स्वोच्चे वा स्वर्क्षगेऽपि वा । योगकारकसम्बन्धे स्थानवीर्यसमन्विते ॥ ६७॥ भुक्त्यादौ शुभमाधिक्यान्नित्यं मिष्ठान्नभोजनम् । व्यवसायात्फलाधिक्यं गोमहोष्यादिवृद्धिकृत् ॥ ६८॥ धनधान्यसमृद्धिश्च संग्रामे विजयो भवेत् । भुक्त्यन्ते हि सुखं चैव भुक्त्यादौ मध्यमं फलम् ॥ ६९॥ मध्ये मध्ये महत्कष्टं पश्चादारोग्यमादिशेत् । दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ ७०॥ चौराहिव्रणपीडा च बुद्धिनाशो महद्भयम् । शिरोरुजं मनस्तापमकर्मकलहं वदेत् ॥ ७१॥ प्रमेहभवरोगं च नानामार्गे धनव्ययः । भार्यापुत्रविरोधश्च गमनं कार्यनाशनम् ॥ ७२॥ द्वितीयद्यूननाथे तु देहबाधा भविष्यति । तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ७३॥ छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् । शुक्रप्रीतिकरीं शान्तिं ततः सुखमवाप्नुयात् ॥ ७४॥

Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)
% Text title            : bRihatpArAsharahorAshAstram.h 51-60
% File name             : par5160.itx
% itxtitle              : bRihatpArAsharahorAshAstram 51-60
% engtitle              : bRihatpArAsharahorAshAstram.h 51-60
% Category              : jyotisha, sociology_astrology, bRihatpArAshara
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Subcategory           : bRihatpArAshara
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by          : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP