॥ बृहत्पाराशरहोराशास्त्रम् ७१-८० ॥


अथाऽष्टवर्गायुर्दायाध्यायः ॥ ७१॥ अथात्रायुः प्रवक्ष्येऽहमष्टवर्गसमुद्भवम् । दिनद्वयं विरेखायां रेखायां सार्धवासरम् ॥ १॥ दिनमेकं द्विरेखायां त्रिरखायां दिनार्धकम् । वेदतुल्यासु रेखासु सार्धसप्तदिनं स्मृतम् ॥ २॥ द्विवर्षं पञ्चरेखासु षड्रेखासु चतुःसमा । षड्वर्षं सप्तरेखासु वसवोऽष्टासु वत्सराः ॥ ३॥ एवं यदागतायुः स्यात् सर्वखेटसमुद्भवम् । तदर्धं स्फुटमायुः स्यादष्टवर्गभवं नृणाम् ॥ ४॥
अथ समुदायाष्टकवर्गाध्यायः ॥ ७२॥ द्वादशारं लिखेच्चकं जन्मलग्नादिभैर्युतम् । सर्वाष्टकफलान्यत्र संयोज्य प्रतिभं न्यसेत् ॥ १॥ समुदायाभिधानोऽयमष्टवर्गः प्रकथ्यते । अतः फलानि जातानां विज्ञेयानि द्विजोत्तम ॥ २॥ त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः । पञ्चविंशादित्रिंशान्तफला मध्यफला स्मृताः ॥ ३॥ अतः क्षीणफला ये ते राशयः कष्टदुःखदा । शुभे श्रेष्ठफलान् राशीन् योजयेन्मतिमान्नरः ॥ ४॥ कष्टराशीन् सुकार्येषु वर्जयेद् द्विजसत्तम । श्रेष्ठराशिगतः खेटः शुभोऽन्यत्राऽशुभप्रदः ॥ ५॥ तन्वादिव्ययपर्यन्तं दृष्ट्वा भाव्फलानि वै । अधिके शोभनं ज्ञेयं हीने हानिं विनिर्दिशेत् ॥ ६॥ मध्ये मध्यफलं ब्रूयाद् तत्तद्भावसमुद्भवम् । मध्यात् फलाधिके लाभो लाभात् क्षीणगतोव्ययः ॥ ७॥ लग्नं फलाधिकं यस्य भोगवानर्थवान् हि सः । विपरीतेन दारिद्र्यं भवत्येव न संशयः ॥ ८॥ दशावदिह भावानां कृत्वा खंडत्रयं बुधः । पश्येत् पापसमारूढं खंडे कष्टकरं वदेत् ॥ ९॥ सौम्यैर्युक्तं शुभं ब्रूयान्मिश्रैर्मिश्रफलं यथा । क्रमाद् बाल्याद्यवस्थासु खंडत्रयफलं वदेत् ॥ १०॥ रेखाभिः सप्तभिर्युक्ते मासेमृत्युभयं नृणाम् । सुवर्णं विंशतिपलं दद्यात् द्वौ तिलपर्वतौ ॥ ११॥ रेखाभिरष्टभिर्युक्ते मासे मृत्युबशो नरः । असत्फलविनाशाय दद्यात् कर्पूरजां तुलाम् ॥ १२॥ रेखाभिर्मवभियुक्ते मासे सर्पभयं वदेत् । अश्वैश्चतुर्भिः संयुक्तं रथं दद्याच्छुभाप्तये ॥ १३॥ रेखाभिर्दशभिर्युक्ते मासे शस्त्रभयं तथा । दद्याच्छुभफलावाप्त्यै कवचं वज्रसंयुतम् ॥ १४॥ अभिशापभयं यत्र रेखा रुद्रसमा द्विज । दिक्पलस्वर्णघटितां प्रदद्यात् प्रतिमां विधोः ॥ १५॥ युक्ते द्वादशरेखाभिर्जले मृत्युभयं वदेत् । सशस्यभूमिः विप्राय दत्वा शुभफलं भवेत् ॥ १६॥ विश्वप्रमितरेखाभिर्व्याघ्रान्मृत्युभयं तथा । विष्णोर्हिरण्यगर्भस्य दानं कुर्याच्चुभाप्तये ॥ १७॥ शत्रप्रमितरेखाभिर्युक्ते मासे मृतेर्भयम् । वराहप्रतिमां दद्यात् कनकेन विनिर्मिताम् ॥ १८॥ तिथितिश्च नृपाद् भीतिर्दद्यात् तत्र गजं द्विज । रिष्टं षोडशभिर्दद्यात् मूर्तिं कल्पतरोस्तथा ॥ १९॥ सप्तेन्दुभिर्व्याधिभयं दद्यात् धेनुं गुडं तथा । कलहोऽष्टेन्दुभिर्दद्याद् रत्नगोभूरिरण्यकम् ॥ २०॥ अङ्केन्दुभिः प्रवासः स्याच्छान्तिं कुर्याद् विधानतः । विंशत्या बुद्धिनाशः स्याद् गणेशं तत्र पूजयेत् ॥ २१॥ रोगपीडैकविंशत्या दद्याद् धान्यस्य पर्वतम् । यमाश्विभिर्बन्धुपीडा दद्यादादर्शकं द्विज ॥ २२॥ त्रयोविंशत्रिसंयुक्ते मासे क्लेशमवाप्नुयात् । सौवर्णीं प्रतिमां दद्याद्रवेः सप्तपलैर्बुधः ॥ २३॥ वेदाश्विभिर्बन्धुहीनो दद्याद् गिदशकं नृपः । सर्वरोगविनाशार्थं जपहोमादिकं चरेत् ॥ २४॥ धीहानिः पञ्चविंशत्या पूज्या वागीश्वरी तदा । षड्विंशत्याऽर्थहानिः स्यात् स्वर्णं दद्याद्विचक्षणः ॥ २५॥ तथा च सप्तविंशत्या श्रीसुक्तं तत्र संजपेत् । अष्टविंशतिसंयुक्ते मासे मासे हानिश्च सर्वथा ॥ २६॥ सूर्यहोमश्च विधिना कर्त्तव्यः शुभकांक्षिभिः । एकोनत्रिंशता चापि चिन्तव्याकुलितो भवेत् ॥ २७॥ घृतवस्त्रसुवर्णानि तत्र दद्यात् विचक्षणः । त्रिंशता पूर्णधान्याप्तिरिति जातकनिर्णयः ॥ २८॥ त्रिंशाधिकामी रेखाभिर्धनपुत्रसुखाप्तयः । चत्वारिंशाधिकाभिश्च पुण्यश्रीरुपचीयते ॥ २९॥ अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु । अतोऽष्टवर्गसंशुद्धिरनेष्या सर्वकर्मसु ॥ ३०॥ तावद्गोचरमन्वेष्यं यावन्न प्राप्यतेऽष्टकम् । अष्टवर्गे तु सम्प्राप्ते गोचरं विफलं भवेत् ॥ ३१॥
अथ रश्मिफलाध्यायः ॥ ७३॥ अथ रश्मीन् प्रवक्ष्यामि ग्रहाणां द्विजसत्तम । दिन् नवेष्विषुसप्ताष्टशराः स्वोच्चे करो रवेः ॥ १॥ नीच खं चान्तरे प्रोक्ता रश्मयश्चानुपात्तः । नीचोनं तु ग्रहं भार्धाधिकं चक्राद्विशोधयेत् ॥ २॥ स्वीयरश्मिहतं षड्भिर्भजेत् स्यू रश्मयः स्वकाः । अपरैरत्र संस्कारविशेषः कथितो यथा ॥ ३॥ स्वोच्चभे ते त्रिगुणिताः स्वत्रिकोणे द्विसंगुणाः । स्वमे त्रिघ्ना द्विसंभक्ता अधिमित्रगृहे तथा ॥ ४॥ वेदघ्ना रामसंभक्ता मित्रमे षड्गुणास्ततः । पञ्चभक्तास्तथा शत्रुगृहे चेद् दलिताः कराः ॥ ५॥ अधिशत्रुगृहे द्विघ्नाः पञ्चभक्ताः समे समाः । शनिशुक्रौ विना ताराग्रहा अस्ते गता यदि ॥ ६॥ विरश्मयो भवन्त्येवं ज्ञेयाः स्पष्टकरा द्विज । रश्मियोगवशादेवं फलं वाच्यं विचक्षणैः ॥ ७॥ एकादि पञ्चपर्यन्तं रश्मिसंख्या भवेद्यदि । दरिद्रा दुःखसंतप्ता अपि जाताः कुलोत्तमे ॥ ८॥ परतो दशकं यावत् निर्धना भारवासकाः । स्त्रीपुत्रगृहहीनाश्च जायन्ते मनुजा भुवि ॥ ९॥ अकादशस्वल्पपुत्राः स्वल्पवित्ताश्च मानवाः । द्वादशस्वल्पवित्ताश्च धूर्ता मूर्खाश्च निर्बलाः ॥ १०॥ चौर्यकर्मरता नित्यं चेत् त्रयोदश रश्मयः । चतुर्दशसु धर्मात्मा कुटुम्बानां च पोषकाः ॥ ११॥ कुलोचितक्रियासक्तो धनविद्यासमन्वितः । रश्मिभिः पञ्चदशभिः सर्वविद्यागुणान्वितः ॥ १२॥ स्ववंशमुख्यो धनवानित्याह भगवान् विधिः । परतश्च कुलेशाना बहुभृत्या कुटुम्बिनः ॥ १३॥ कीर्तिमन्तो जनैः पूर्णाः सर्वे च सुखिनः क्रमात् । पञ्चाशज्जनपालश्चेदेकविंशतिरश्मयः ॥ १४॥ दानशीलः कृपायुक्तो द्वाविंशतिसुरश्मिषु । सुखयुक् सौम्यशीलश्चेत् त्रयोविंशतिरश्मयः ॥ १५॥ आत्रिंशत् परतः श्रीमान् सर्वसत्त्वसमन्वितः । राजप्रियश्च तेजस्वी जनैश्च बहुभिर्वृतः ॥ १६॥ अत ऊर्ध्वं तु सामन्तश्चत्वारिंशत् करावधि । जनानां शतमारब्य सहस्रावधिपोषकः ॥ १७॥ अत ऊर्ध्वन्तु भूपालः पंचाशत् करिणावधि । तत ऊर्ध्वकरैर्विप्र चक्रवर्ती नृपो भवेत् ॥ १८॥ एवं प्रसूतिकालोत्थनभोगकरसम्भवम् । कुलक्रमनुसारेण जातकस्य फलं वदेत् ॥ १९॥ क्षत्रियश्चक्रवर्ती वैश्यो राजा प्रजायते । शूद्रश्च सधनो विप्रो यज्ञकर्मक्रियारतः ॥ २०॥ उच्चाभिमुखखेटस्य कराः पुष्टफलप्रदाः । नीचाभिमुखखेटस्य ततो न्यूनफलप्र्दाः ॥ २१॥ सर्वेषामेव खेटानामेवं रश्मिवशाद्द्विज । शुभं वाऽप्यशुभं चापि फलं भवति देहिनाम् ॥ २२॥ रश्मिज्ञानं विना सम्यक् न फलं ज्ञातुमर्हति । तस्माद्रश्मीन् प्रसाध्यैव फलं वाच्यं विचक्षणैः ॥ २३॥
अथ सुदर्शनचक्रफलाध्यायः ॥ ७४॥ अथोच्यते मया विप्र रहस्यं ज्ञानमुत्तमम् । जगतामुपकाराय यत् प्रोक्तं ब्रह्मण स्वयम् ॥ १॥ चक्रं सुदर्शनं नाम यद्वशात् प्रस्फुटं फलम् । नृणां तन्वादिभावानां ज्ञातुं शक्नोति दैववित् ॥ २॥ जन्मतो मृत्युपर्यन्तं वर्षमासदिनोद्भवम् । शुभं वाऽप्यशुभं सर्वं तच्छृणुष्वैकमानसः ॥ ३॥ एककेन्द्रोद्भवं रम्यं लिखेद् वृत्तत्रयं द्विज । द्वादशारं च तत् कुर्याद् भवेदेवं सुदर्शनम् ॥ ४॥ तत्राद्यवृत्ते लग्नाद्या भावा लेख्याः सखेचराः । तदूर्ध्ववृत्ते चन्द्राच्च भवाः खेटसमन्विताः ॥ ५॥ तदूर्ध्ववृत्ते सूर्याच्च क्रमात् भवा ग्रहान्विताः । एवमेकैकभावेऽत्र भवेद्भानां त्रयं त्रयम् ॥ ६॥ अत्र तु प्रथमो भावो लग्नेन्दुरविभिर्युतः । तं प्रकल्प्य तनुं त्वग्रे ज्ञेया भावा धनादयः ॥ ७॥ तत्र तत्र ग्रहस्थित्या ज्ञेयं तत्तत्फलं बुधैः । तनुभावे शुभः सूर्यो ज्ञेयोऽन्यत्राशुभप्रदः ॥ ८॥ पापोऽपि स्वोच्चराशिस्थो न भवत्यशुभप्रदः । एवं शुभाऽशुभं दृष्ट्वा तत्तद्भावफलं वदेत् ॥ ९॥ यो भावः स्वामिसौम्याभ्यां युक्तो दृष्टोऽयमेधते । पापैर्दृष्टो युतो यो वा तस्य हानिः प्रजायते ॥ १०॥ ज्ञेयं सग्रहभावस्य ग्रहयोगसमं फलम् । अग्रहस्य तु भावस्य ग्रहदृष्टिसमं फलम् ॥ ११॥ शुभैरेव शुभं पापैर्शुभं मिश्रखेचरैः । शुभाधिके शुभं ज्ञेयमशुभं त्वशुभाधिके ॥ १२॥ एवं भावेषु खेटानां योगं दृष्टिं विलोक्य च । तारतम्येन वाच्यानि फलानि द्विजसत्तम ॥ १३॥ यत्र नैव ग्रहः कश्चिन्न दृष्टि कस्यचिद् भवेत् । तदा तद्भावजं ज्ञेयं तत्स्वामिवशतः फलम् ॥ १४॥ शुभोऽपि शुभवर्गेषु ह्यधिकेष्वशुभप्रदः । पापोऽपि शुभवर्गेषु ह्यधिकेषु शुभप्रदः ॥ १५॥ स्वभोच्चस्य शुभस्यात्र वर्गा ज्ञेयाः शुभवाहाः । शत्रोः क्रूरस्य नीचस्य षड्वर्गा अशुभप्रदाः ॥ १६॥ एवं सर्वेषु खेटेषु भवेष्वपि द्विजोत्तम । शुभाशुभत्वं सञ्चिन्य्त ततस्तत्फलमादिशेत् ॥ १७॥ यदा सुदर्शनादेव फलं सिद्ध्यति देहनाम् । तदा किं मुनिभिः सर्वैर्लग्नादेव फलं स्मृतम् ॥ १८॥ इति म संशयो जातस्तं छेत्तुमर्हति । पृथग्भगौ यदाऽर्केन्दू लग्नादन्यत्र संस्थितौ ॥ १९॥ तदा सुदर्शनाच्चक्रात् फलं वाच्यं विचक्षणैः । एकभे द्वौ त्रयो वा चेत् तदा लग्नात् फलं वदेत् ॥ २०॥ अथ विप्र प्रवक्ष्येऽहं प्रतिवर्षादिजं फलम् । अस्मात् सुदर्शनादेव दशान्तरदशावशात् ॥ २१॥ तन्वाद्यैर्वर्षमास्सार्धद्विकधस्रान् प्रवर्तयेत् । भवेशादिद्वादशानां दशा वर्षेषु कल्पयेत् ॥ २२॥ तदाद्यन्तर्दशास्तद्वन्मासादौ तद्बलैः फलम् । तं तं भावं प्रकल्प्याङ्कं तत्तत्तन्वादिजं द्विज ॥ २३॥ तत् तल्लग्नात् केन्द्रकोणाष्टमे सौम्याः शुभप्रदाः । यत्र भावे सैंहिकेयो भवेत् तद्भावहानिकृत् ॥ २४॥ पापा वा यत्र बहवस्तत्तद्भावविनाशनम् । विरिष्फारिशुभैः पापैस्त्रिषडायस्थितैः शुभम् ॥ २५॥ एवं प्रत्यब्दमासादौ भावानां फलचिन्तनम् । द्वादशानां दशाऽवृत्त्या दशाश्चायुषि चिन्तयेत् ॥ २६॥ एवं सुदर्शनाच्चक्राद् वर्षमासादिजं फलम् । ज्ञात्वा तथाष्टवर्गोत्थमुभाभ्यां फलनिर्णयः ॥ २७॥ उभयत्र समत्वे हि सम्पूर्णं तत् फलं वदेत् । विषमत्वे यदाधिक्यं तत्फलं च बलक्रमात् ॥ २८॥
अथ पंचमहापुरुषलक्षणाध्यायः ॥ ७५॥ अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् । स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥ १॥ क्रमशो रुचको भद्रो हंसो मालव्य एव च । शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥ २॥ दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः । चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥ ३॥ रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः । क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥ ४॥ वीणावज्रधनुःपाशवृषचक्राङ्कितः करे । मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः ॥ ५॥ मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् । तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ॥ ६॥ भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः । शत्रेण वह्निना वापि स प्रयाति सुरालयम् ॥ ७॥ शार्दूलप्रतिभह् पीनवक्षा गजगतिः पुमान् । पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित् ॥ ८॥ सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः । कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः ॥ ९॥ ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः । सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्चितकेशभृत् ॥ १०॥ स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः । ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ॥ ११॥ तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः । सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः ॥ १२॥ हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः । श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः ॥ १३॥ पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः । मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः ॥ १४॥ चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् । षण्ण्वत्यंगुलो दैर्घ्ये जलक्रीडारतः सुखी ॥ १५॥ गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः । वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि ॥ १६॥ समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् । सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः ॥ १७॥ समस्वच्छरदो हस्तिनाद आजानुबाहुधृक् । मुखं विश्वांगुलं दैर्घ्ये विस्तारे च दशाङ्गुलम् ॥ १८॥ मालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् । सुखं सप्ततिवर्षान्तं भुक्त्वा याति सुलालयम् ॥ १९॥ तनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः । मध्ये क्षामः सुजंघश्च मतिमान् पररन्ध्रवित् ॥ २०॥ शक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः । चंचलो धातुवादी च स्त्रीशक्तोऽन्यधानान्वितः ॥ २१॥ मालावीणामृदङ्गाऽस्त्ररेखाङ्कितकरांघ्रिकः । भूपोऽयं वसुधा पाति जीवन् खाद्रिसमाः सुखी ॥ २२॥
अथ पंचमहाभूतफलाध्यायः ॥ ७६॥ अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते । ज्ञायते येन खेटानां वर्तमानदशा बुधैः ॥ १॥ शिखिभूखाम्बुवातानामधिपा मङ्गलादयः । तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम् ॥ २॥ सबले मङ्गले वह्निस्वभावो जायते नरः । बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ॥ ३॥ शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ । मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ॥ ४॥ सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ । स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ॥ ५॥ क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः । तीक्ष्नो गौरतनुर्मानी वह्निप्रकृतिको नरः ॥ ६॥ कर्पूरोत्पलफ़न्धाढ्यो भोगी स्थिरसुखी बली । क्षमावान् सिंहनादश्च महीप्रकृतिको नरः ॥ ७॥ शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः । विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः ॥ ८॥ कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः । बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम्भवः ॥ ९॥ वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः । भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः ॥ १०॥ स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता । विजयो धनलाभश्च वह्निभायां प्रजायते ॥ ११॥ इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता । धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत् ॥ १२॥ स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् । सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते ॥ १३॥ मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् । तदाऽभिष्टरसस्वादसुखं भवति देहिनः ॥ १४॥ मालिन्यं मूढता दैत्यं रोगश्च पवनोद्भवाः । तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् ॥ १५॥ एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु । निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज ॥ १६॥ नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् । फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते ॥ १७॥ तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् । फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम् ॥ १८॥
अथ सत्त्वादिगुणफलाध्यायः ॥ ७७॥ अथो गुणवशेनाहं कथयामि फलं द्विज । सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः ॥ १॥ रजःखेटोदये विज्ञो रजोगुणसमन्वितः । तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः ॥ २॥ गुणसाम्ययुतो जातो गुणसाम्यखगोदये । एवं चतुर्विधा विप्र जायन्तो जन्तवो भुवि ॥ ३॥ उत्तमो मध्यमो नीच उदासीन इति क्रमात् । तेषां गुणानहं वक्ष्ये नारदारिप्रभाषितान् ॥ ४॥ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः ॥ ५॥ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम् । साधूनां रक्षणं चेति गुणा ज्ञेया रजोऽधिके ॥ ६॥ लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च । सेवाकर्मपटुत्वंच गुणा एते तमोऽधिके ॥ ७॥ कृषिकर्मणि वाणिज्ये पटुत्वं पशुपालने । सत्यासत्यप्रभाषित्वं गुणसाम्ये गुणा इमे ॥ ८॥ गतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः । उदासीनश्च विप्रेन्द तं तत्कर्मणि योजयेत् ॥ ९॥ द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते । अन्यथा गुणसाम्यं च विज्ञेयं द्विजसत्तम ॥ १०॥ सेव्यसेवकयोरेवं कन्यकावरयोरपि । गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला ॥ ११॥ उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः । मध्यमस्योत्तमो विप्र प्रभवत्याश्रयो मुदे ॥ १२॥ अतोऽवरा वरात् कन्य सेव्यतः सेवकोऽवरः । गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि ॥ १३॥ वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा । उत्तमादिगुणे हेतुर्बलवानुत्तरोत्तरम् ॥ १४॥ अतः प्रसूतिकालस्य सदृशो जातके गुणः । जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः ॥ १५॥ कालः सृजति भूतनि पात्यथो संहरत्यपि । इश्वरः सर्वलोकानामव्ययो भगवान् विभु ॥ १६॥ तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका । तथा विभक्तोऽव्यक्तोऽपि व्यक्तो भवति देहिनाम् ॥ १७॥ चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः । जायन्ते ह्युत्तमो मध्ये उदासीनोऽधमः क्रमात् ॥ १८॥ उत्तमे तूत्तमो जन्तुर्मध्येऽङ्गे च मध्यमः । उदासीने ह्यदासीनो जायते चाऽधमेऽधमः ॥ १९॥ उत्तमाङ्गं शरिस्तस्य मध्यमाङ्गमुरःस्थलम् । जंघाद्वयौदासीनमधमं पदमुच्यते ॥ २०॥ एवं गुणवशादेव कालभेदः प्रजायते । जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराचरे ॥ २१॥ एवं भगवता सृष्टं विभुना स्वगुणैः समम् । चतुर्विधेन कालेन जगदेतच्चतुर्विधम् ॥ २२॥
अथ नष्टजातकाध्यायः ॥ ७८॥ जन्मकालवशादेवं फलं प्रोक्तं त्वया मुने । यज्जन्मसमयोऽज्ञातो ज्ञेयं तस्य फलं कथम् ॥ १॥ शुभं वाऽप्यशुभं वापि मनुजस्य पुराकृतम् । अस्ति कश्चिदुपायश्चेत् तं भवान् वक्तुमर्हति ॥ २॥ साधु पृष्टं त्वया विप्र लोकानुग्रहमानसा । कथयामि तव स्नेहात् फलमज्ञातजन्मनाम् ॥ ३॥ वर्षायनर्तुमासार्धतिथिनक्षत्रभादिषु । यदज्ञातं च तन्मानं ज्ञायते प्रश्नलग्नतः ॥ ४॥ प्रश्नाङ्गद्वादशांशर्क्षस्थिते जन्म वदेत् गुरौ । अयनं लग्नपूर्वार्धे सौम्यं याम्यं परार्धके ॥ ५॥ ऋतुर्लग्नदृकाणर्क्षस्वामिभिः शशिरादयः । शनिशुक्रकुजेन्दुज्ञजीवैर्ग्रीष्मस्तु भानुना ॥ ६॥ अयनर्तुविरोधे तु परिवर्त्याः परस्परम् । बुधचन्द्र सुराचार्याः कुजशुक्रशनैश्चरैः ॥ ७॥ मासो दृकाणपूर्वार्धेर्पूर्वोऽन्यस्तु परार्धके । अनुपातात् तिथिर्ज्ञेया भास्करांशसमा द्विज ॥ ८॥ तद्वशादिष्टकालो यो जन्मकालसमो हि सः । तत्र ग्रहांश्च भावांश्च ज्ञात्वा तस्य फलं वदेत् ॥ ९॥ गुरुर्द्वादशभ्र्वर्षैः पुनस्तद्राशिगो भवेत् । तत् कस्मिन् पर्ययो तस्य ज्ञेयः संवत्सरो मुने ॥ १०॥ संवस्तरस्य सन्देहे प्रश्नकर्तुर्द्विजोत्तम । वयोऽनुमानतस्तत्र द्वादश द्वादश क्षिपेत् ॥ ११॥ तत्रापि संशये जाते गुरुर्लग्नत्रिकोणगः । कल्प्यो वयोऽनुमानेन वत्सरः पूर्ववत् ततः ॥ १२॥ ज्ञात्वा मासं ससूर्यांशं कालज्ञानं कथं भवेत् । भगवन्निति मे ब्रूहि लोकानुग्रहचेतसा ॥ १३॥ सक्रान्तेरिष्टसूर्यांशतुल्येऽह्नि द्विजसत्तम । रविरौदयिकः साध्यस्तस्येष्टार्कस्य चान्तरम् ॥ १४॥ कलीकृत्य स्वषण्निघ्नं स्फुटार्कगतिभाजितम् । लब्धंघट्यादिमानं यत् तावान् सूर्योदयात् परम् ॥ १५॥ पूर्वं जन्मेष्टकालो हि क्रमाज् ज्ञेयो विपश्चिता । साधितौदयिकादर्कादिष्टेऽर्केऽनिकहीनके ॥ १६॥
अथ प्रव्रज्यायोगाध्यायः ॥ ७९॥ अथ विप्र प्रवक्ष्यामि योगं प्रव्रज्यकाभिधम् । प्रव्रजन्ति जना येन सम्प्रदायान्तरं गृहात् ॥ १॥ चतुरादिभिरेकस्थैः प्रव्रज्या बलिभिः समाः । रव्यादिभिस्तपस्वी च कपाली रक्तवस्त्रभृत् ॥ २॥ एकदण्डी यतिश्चक्रधरो निर्ग्रन्थिकः क्रमात् । ज्ञेया वीर्याधिकस्यैव सबलेषु बहुष्वपि ॥ ३॥ सूर्येणाऽस्तं गतास्ते चेदपि वीर्यसमन्विताः । अदीक्षितास्तदा ज्ञेया जनास्तद्गतभक्तयः ॥ ४॥ अस्तंगता निर्बलाश्चेत् सबलश्च रविर्यदा । तदा रविभवा ज्ञेया प्रव्रज्या द्विजसत्तम ॥ ५॥ जन्मभेशोऽन्यखेटैश्चेददृष्टः शनिमीक्षते । तयोर्बलवशात्तत्र प्रव्रज्यामाप्नुयान्नरः ॥ ६॥ निर्बलो जन्मभेशश्चेत् केवलेनार्किणेक्षितः । तदा शनिभवमेव प्रव्रज्यां आप्नुयाज्जनः ॥ ७॥ शनिदृक्काणसंस्थे च शनिभौमनवांशके । शनिदृष्टे विधौ ज्ञेया प्रव्रज्या शनिसम्भवा ॥ ८॥ कुजादिषु जयी शुक्रः सौम्यगो याम्यगोऽपि वा । जयी सौम्यगतश्चान्यः परस्परयुतौ भवेत् ॥ ९॥ प्रव्रज्याकारकः खेटो यद्यन्येन पराजितः । तदा लब्धां परिव्रज्यां परित्यजति तां पुनः ॥ १०॥ बहवो जन्मकाले चेत् प्रव्रज्याकारका ग्रहाः । बलतुल्यास्तदा तत्र प्रव्रज्या कतमा भवेत् ॥ ११॥ बहवो बलिनश्चेत् स्युः प्रव्रज्याकारका ग्रहाः । तदा प्राप्नोति सर्वेषां तेषां प्रव्रज्यकां ध्रुवम् ॥ १२॥ तत्तद्ग्रहदशाकाले प्रव्रज्यां याति तद्भवाम् । त्यक्त्वा गृहीतपूर्वां तामन्यां प्राप्नोति मानवः ॥ १३॥ दृष्टेष्विन्द्विज्यलग्नेषु शनिना नवमे गुरुः । राजयोगेऽत्र जातोऽसौ तीर्थिकृन्नऽत्र संशयः ॥ १४॥ धर्मस्थानगते मन्दे ग्रहदृष्टिविवर्जिते । राजयोगेऽत्र यो जातः स राजा दीक्षितो भवेत् ॥ १५॥
अथ स्त्रीजातकाध्यायः ॥ ८०॥ बहुधा भवता प्रोक्तं यज्जातकफलं मुने । तन्नारीणां कथं ज्ञेयमिति मे कथयाऽधुना ॥ १॥ साधु पृष्टं त्वया विप्र तदपि प्रवदाम्यहम् । स्त्रीणां पुंभिः समं ज्ञेयं फलमुक्तं विपश्चिता ॥ २॥ विशेषस्तत्र यो दृष्टः संक्षेपात् कथयामि तत् । लग्ने देहफलं तस्याः पञ्चमे प्रसवस्तथा ॥ ३॥ सप्तमे पतिसौभाग्यं वैधव्यं निधने द्विज । स्त्रीणामसम्भवं यद्यत् तत्फलं तत्पतौ वदेत् ॥ ४॥ लग्नेन्दू समभे यस्याः सा नारी प्रकृतिस्थिता । कन्योचितगुणोपेता सुशीला शुभलक्षणा ॥ ५॥ शुभेक्षितौ सुरूपा च सदा देहसुखान्विता । विषमे पुरुषाकारा दुःशीला पापवीक्षितौ ॥ ६॥ पापाढ्यौ च गुणैर्हीना मिश्रे मिश्रफलं वदेत् । लग्नेन्द्वोर्यो बली तस्य फलं तस्य विशेषतः ॥ ७॥ लग्नेन्द्वोर्यो बली विप्र त्रिंशांशैस्तदधिष्ठितैः । ग्रहराशिवशाद् वाच्यं फलं स्त्रीणां विशेषतः ॥ ८॥ कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत् । कुचरित्रा तथा शौक्रे समाया बोधने स्मृता ॥ ९॥ जैवे साध्वी शनौ दासी ज्ञर्क्षे कौजे छलान्विता । शौक्रे प्रकीर्णकामा सा बौधेंऽशे च गुणान्विता ॥ १०॥ क्लीबाऽर्क्यंशे सती जैवे कौजै दुष्टा सितर्क्षके । शौक्रे ख्यातगुणा बौधे कलासु निपुणा भवेत् ॥ ११॥ जैवे गुणवती मान्दे पुनर्भूश्चन्द्रभे ततः । स्वतन्त्रा कुजात्रिंशांशे शौक्रे च कुलपांसना ॥ १२॥ बौधे शिल्पकलाऽभिज्ञा जैवे बहुगुणा शनौ । पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती ॥ १३॥ बौधे पुंश्चेष्टिता जैवे राज्ञी मान्दे कुलच्युता । कौजे बहुगुणाऽर्यर्क्षे शौक्रे चाप्यसती मता ॥ १४॥ बौधे विज्ञानसंयुता जैवेऽनेकगुणान्विता । मान्दे चाल्परतिः प्रोक्ता दासी कौजे तथाऽर्किभे ॥ १५॥ सुप्रज्ञा च भवेच्छौक्रे बौधे दुःस्था तथा खला । जैवे पतिव्रता प्रोक्ता मान्दे नीचजनानुगा ॥ १६॥ मन्दे शून्ये शुभादृष्टे पतिः कापुरुषो भवेत् । चरभे च प्रवासी स्यात् क्लीवस्तत्र ज्ञमन्दयोः ॥ १७॥ सूर्येऽस्तभे पतित्यक्ता बाल्ये च विधवा कुजे । शनावशुभसन्दृष्टे याति कन्यैव वृद्धताम् ॥ १८॥ विधवास्तगतैः पापैः सौम्यैस्तु सधवा सती । मिश्रखेटैः पूनर्भूः सा ज्ञेया मिश्रफलान्विता ॥ १९॥ मिथोंऽशस्थौ सितारौ चेदन्यासक्ता तदाऽङ्गना । सप्तमे च स्थिते चन्द्रे तदा भर्तुरनुज्ञ्या ॥ २०॥ शुक्रभे शनिभे वापि सेन्दुशुक्रे च लग्नगे । मात्रा सह तदा नारी वन्धकी भवति ध्रुवम् ॥ २१॥ कुजर्क्षे वा तदंशेऽस्ते स्त्रीलोलः क्रोधनः पतिः । बौधर्क्षांशे तथा विद्वान् कलासु निपुणः सुधीः ॥ २२॥ जैवे सर्वगुणोपेतः पतिरस्ते जितेन्द्रियः । शौक्रे सौभाग्यसंयुक्तः कान्तः स्त्रीजनवल्लभः ॥ २३॥ सौरेर्क्ष वाथ सौरांशे वृद्धो मूर्खश्च सप्तमे । अतीवामृदुरर्कांशे तदृक्षेवाऽतिकर्मकृत् ॥ २४॥ अस्ते कर्के तदंशे वा कान्तः कामी मृदुः पतिः । मिश्रे मिश्रफलं वाच्यं भांशयोश्च बलक्रमात् ॥ २५॥ सूर्येऽष्टमगते जाता दुःखदारिद्र्यसंयुता । क्षताङ्गी खेदयुक्ता च भवेद्धर्मपराङ्मुखी ॥ २६॥ चन्द्रेऽष्टमगते नारी कुभगा कुस्तनो कुदृग् । वस्त्राभरणहीना च रोगिणी चातिगर्हिता ॥ २७॥ कुजेऽष्टमगते बाला कृशाङ्गी रोगसंयुता । विधवा कान्तिहीना च शोकसन्तापदुःखिता ॥ २८॥ बुधेष्टमगते जाता धर्महीना भयातुरा । अभिमानधनैर्हीना निर्गुणा कलहप्रिया ॥ २९॥ गुरावष्टमगे बाला विशीला स्वल्पसन्ततिः । पृथुवादकरा पत्या त्यक्ता बह्वशना भवेत् ॥ ३०॥ शुक्रेऽष्टमगते जाता प्रमत्ता धनवर्जिता । निर्दया धर्महीना च मलिना कपटान्विता ॥ ३१॥ शनावष्टमगे जाता दुःस्वभावा मलिम्लुचा । प्रवंचनपरा नारी भवेत् पतिसुखोज्ज्ञिता ॥ ३२॥ राहावष्टमभावस्थे कुरूपा पतिवर्जिता । कठोरहृदया रोगैर्युक्ता च व्यभिचारिणी ॥ ३३॥ शशिशुक्रौ यदा लग्ने मन्दराभ्यां युतौ तदा । बन्ध्या भवति सा नारी सुतभे पापदृग्युते ॥ ३४॥ कुजांशेस्तगते सौरिदृष्टे नारी सरुग्भगा । शुभांशे सप्तमे ज्ञेया सुभगा पतिवल्लभा ॥ ३५॥ बुधभे लग्नगे सूतौ चन्द्रशुक्रयुते द्विज । ज्ञेया पितृगृहे नारी सा सर्वसुखसंयुता ॥ ३६॥ लग्ने चन्द्रज्ञशुक्रेषु बहुसौख्यगुणान्विता । जीव तत्रातिसम्पन्ना पुत्रवित्तसुखान्विता ॥ ३७॥ लग्नादष्टमगौ स्यातां चन्द्रार्कौ स्वर्क्षगौ तदा । बन्ध्याऽथ काकबन्ध्या चेदेवं चन्द्रबुधौ यदा ॥ ३८॥ शनिमङ्गलभे लग्ने चन्द्रभार्गवसंयुते । पापदृष्टे च सा नारी बन्ध्या भवति निश्चयात् ॥ ३९॥ सराहौ सप्तमे सूर्ये पञ्चमे पापसंयुते । शुक्रेज्यराहवो मृत्यौ मृतापत्या च सा भवेत् ॥ ४०॥ शुक्रेज्यावष्टमे सारौ सप्तमे वा कुजो भवेत् । शनिना दृग्युतो नारी गलद्गर्भा प्रकीर्तिता ॥ ४१॥ पापकर्तरिके लग्ने चन्द्रे जाता च कन्यका । समस्तं पितृवंशं च पतिवंशं हिहन्ति सा ॥ ४२॥ ससर्पाग्निजलेशर्क्षे भानुमन्दारवासरे । भद्रातिथौ जनुर्यस्याः सा विषाख्या कुमारिका ॥ ४३॥ सपापश्च शुभौ लग्ने द्वौ पापौ शत्रुभस्थितौ । यस्या जनुषि सा कन्या विषाख्या परिकीर्तिता ॥ ४४॥ विषयोगे समुत्पन्ना मृतवत्सा च दुर्भगा । वस्त्राभरणहीना च शोकसन्तप्तमानसा ॥ ४५॥ सप्तमेशः शुभो वापि सप्तमे लग्नतोऽथवा । चन्द्रतो वा विषं योगं विनिहन्ति न संशयः ॥ ४६॥ लग्ने व्यये सुखे वापि सप्तमे चाऽष्टमे कुजे । शुभदृग्योगहीने च पतिं हन्ति न संशयः ॥ ४७॥ यस्मिन् योगे समुत्पन्ना पतिं हन्ति कुमारिका । तस्मिन् योगे समुत्पन्नो पत्नीं हन्ति नरोऽपि च ॥ ४८॥ स्त्रीहन्त्रा परिणीता चेत् पतिहन्त्री कुमारिका । तदा वैधव्ययोगस्य भङ्गो भवति निश्चयात् ॥ ४९॥ मिथोंऽशस्थौ मिथोदृष्टौ सितार्की वा सितर्क्षके । घटांशे लग्नगे नारी प्रदीप्तं मदनानलम् ॥ ५०॥ संशान्तिं नयति स्त्रीभिः सुखीभिर्मदनातुरा । पराभिः पुरुषाकारस्थितभिर्द्विजसत्तम ॥ ५१॥ कुजज्ञगुरुशुक्रैश्च बलिभिः समभे तनौ । कुशलाऽनेकशास्त्रेषु सा नारी ब्रह्मवादिनी ॥ ५२॥ क्रूरे सप्तमगे कश्चित् खेचरो नवमे यदि । सा प्रव्रज्यां तदाप्नोति पापखेचरसंभवाम् ॥ ५३॥ विलग्नादष्टमे सौम्ये पापदृग्योगवर्जिते । मृत्युः प्रागेव विज्ञेयस्तस्य मृत्युर्न संशयः ॥ ५४॥ अष्टमे शुभपापौ चेत् स्यातां तुल्यबलौ यदा । सह भर्त्रा तदा मृत्युं प्राप्त्वा स्वर्याति निश्चयात् ॥ ५५॥

Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve)

% Text title            : bRihatpArAsharahorAshAstram.h 71-80
% File name             : par7180.itx
% itxtitle              : bRihatpArAsharahorAshAstram 71-80
% engtitle              : bRihatpArAsharahorAshAstram.h 71-80
% Category              : jyotiSha, sociology_astrology, bRihatpArAshara
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Subcategory           : bRihatpArAshara
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Proofread by          : Ahto Jarve ajarve at fms30.cca.rockwell.com
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP