॥ फलदीपिका ॥

प्रथमोऽध्यायः राशि भेद शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये सन्दर्शनं वितनुते पितृदेवनॄणां मासाब्दवासरदलैरथ उर्ध्वगं यत् । सव्यं क्वचित् क्वचिदुपैत्यपसव्यमेकं ज्योतिः परं दिशतु वस्त्वमितां श्रियं नः ॥ १॥ वाग्देवीं कुलदेवतां मम गुरून् कालतयज्ञानदान् सूर्यदींश्च नवग्राहन् गणपातिं बक्त्या प्रणम्येश्वरम् । संक्षिप्यात्रिपराशरादिकथितान् मन्त्रेश्वरो दैवविद् वक्ष्येऽहं फलदीपिकां सुविमलां ज्योतिर्विदां प्रीत्ये ॥ २॥ पदाभाद्यैर्यन्त्रैर्जननसमयोऽत्र प्रथमतो विशेषाद्विज्ञेयः सह विघटिकाभित्तवत तदा । गतैदृ क्तुल्यत्वं गणितकरणैः केचरर्गातिं विदित्वा तद्भावं बलमपि फलं नैः कथयतु ॥ ३॥ शिरोवक्त्रोरोहृज्जठरकटिवस्तिप्रजनन- स्थलान्यूरूजान्वोर्युगलमिति जंघे पदयुगम् । विलनात्कालाङ्गान्यलिझषकुलीरान्तिममिदं भसन्धिविख्याता सकलभवनान्तानपि परे ॥ ४॥ अरण्ये केदारे शयनभवने स्वभगलिले गिरी पाथ सस्यान्वितमुवि विशां घोरिन सुविरे । जनाधीशस्थाने सजलविपिने धाम्नि विचरत् कुलाले कीलाले वसतिरुदिता मेषभवनात् ॥ ५॥ भौमः शुक्रबुधेन्दुसूर्यशशिजाः शुक्रारजीवार्कजाः मन्दो देवगुरुः क्रमेण कथिता मेषादिराशीश्वराः । सूर्यादुच्चगृहाः क्रियो वृषमृगस्त्रीकार्कमीनास्तुला दिक्त्र्यंशैर्मनुयुक्तिथीषुभनकांशैस्तेऽस्तनीचाः क्रमात् ॥ ६॥ सिम्होक्षाजवधूहयाङ्गवणिजः कुंभस्त्रिकोणा रवेः ज्ञेन्द्वोस्तूच्चलवान्नखोड्विनशरैर्दिग्भूतकृत्यंशकैः । चापाद्यर्धवधूनृयुस्घटतुला मर्त्याश्च कीटोऽलिभं त्वाप्याः कर्कमृगापरार्धशफराः शेष्हश्चतुष्पादकाः ॥ ७॥ गोकर्क्यश्व्यजनक्रभान्यथ नृयुङ्मीनौ परे राश्यस्ते पृष्ठोधयकोदयाः समिथुनाः पृहोदयाश्चैन्दवाः । सौराः शेषगृहाः क्रमेण कथिता रात्रिद्युसंज्ञाः त्रमा- दूध्वार्धःसमवक्रभाति तु पुनस्तीक्ष्णांशुमुक्ताद् गृहात् ॥ ८॥ मेषादाह चरं स्थिराख्यमुभयं द्वारं बहिर्गर्भभं धातुर्मूलमितीह जीव उदितं क्रूरं च सौम्यं विदुः । मेषाद्याः कथितास्त्रिकोणसहिताः प्रागादिनाथाः क्रमा- दोजर्क्षं समभं पुमांश्च युवतिर्वामाङ्गमस्तादिकम् ॥ ९॥ लग्नं होरा कल्यदेहोदयाख्यं रूपं शिर्षं वर्तमानं च जन्म । वित्तं विद्या स्वान्नपानाति भुक्तिं दक्षाक्ष्यास्यं पत्रिका वाक्कुटुम्बम् ॥ १०॥ दुश्चिक्योरो दक्षकर्णं च सेनां धैर्यं शौर्यं विक्रमं भ्रात्रं च गेहं क्षेत्रं मातुल भागिनेयं बन्धुं मित्रं वाहनं मातरं च ॥ ११॥ राज्यं गोमहिषसुगन्धवस्त्रभूषाः पातालं हिबुकसुखाम्बुसेतुनद्यः । राजाङ्कं सचिवकरात्मधीभविष्यज्जानासून् सुतजटरश्रुतिस्मृतीश्च ॥ १२॥ ऋणास्त्रचोरक्षतरोगशत्रून् ज्ञात्याजिदुष्कृत्याघभीत्यवज्ञाः । जामित्रचित्तोत्थमदास्तकामान् द्यूनाध्वलोकान् पतिमार्गभार्याः ॥ १३॥ माङ्गल्यरन्ध्रमलिनाधिपराभवायुः क्लेशापवादमरणाशुचिविघ्नदासान् । आचार्यदैवतपितॄन् शुभपूर्वभाग्य- पूजातपःसुकृतपौत्रजपार्यवंशान् ॥ १४॥ व्यापारास्पदमानकर्मजयसत्कीर्तिं क्रतुं जीवनं व्योमाचारगुणप्रवृत्तिगमनान्याज्ञां च मेषूरणम् । लाभायागमनाप्तिसिद्धिविभवान् प्राप्तिं भवं श्लाध्यतां ज्येष्ठभ्रातरमन्यकर्णसरसान् सन्तोषमाकर्णनम् ॥ १५॥ दुःखांघ्रिवामनयनक्षयसूचकान्त्य- दरिद्र्यपापशयनव्ययरिःफबन्धान् । भावाह्व्या निगदिताः क्रमशोऽथ लीन- स्थानं त्रिषड्व्ययपराभवराशिनाम् ॥ १६॥ दुःस्थानमष्टमरिपुव्ययभावमाहुऊ सुस्थानमन्यभवनं शुभदं प्रदिष्टम् । प्राहुर्विलग्नदशसप्तचतुर्थभानि केन्द्रं हि कण्तकचतुष्टयनामयुक्तम् ॥ १७॥ पणकरमिति केन्द्रादूर्ध्वमापोक्लिमन्तत्- परमथ चतुरस्त्रं नैधनं बन्धुभं च । अथ समुपचयानि व्योमशौर्यरिलाभा नवमसुतभयुग्मं स्यात् त्रिकोणं प्रशस्तम् ॥ १८॥
द्वितीयोऽध्यायः ग्रह भेद ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापं धैर्यं शौर्यं समितिविजयं राजसेवं प्रकाशम् । शौवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिं देवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात् ॥ १॥ मातुः स्वस्ति मनःप्रसादमुदधिस्नानं सितं चामरं छत्रं सुव्यजनं फलानि मृदुलं पुष्पाणि सस्यं कृषिम् । कीर्तिं मौक्तिककांस्यरौप्यमधुरक्षीरादिवस्त्राम्बुगो- योषाप्तिं सुखभोजनं तनुसुखं रूपं वदेच्चन्द्रतः ॥ २॥ सत्त्वं भूफलनं सहोदरगुणं क्रौर्यं रणं साहसं विद्वेषं च महानसाग्निकज्ञात्यस्त्रचोरान्रिपून् । उत्साहं परकामिनीरतिमसत्योक्तिं महोजाद्वदे- द्वीर्यं चित्तसमुन्नतिं च कलुषं सेनाधिपत्यं क्षतम् ॥ ३॥ पाण्डित्यं सुवचः कलातिपुणतां विद्वत्स्तुतिं मातुलं वाक्चातुर्यमुपासनादिपटुतां विद्यासु युक्तिं मतिम् । यज्ञं वैष्णवकर्म सत्यवचनं शुक्तिं विहारस्थलं शिल्पं बान्धवयौवराज्यसुहृदस्तद्भागिनेयं बुधात् ॥ ४॥ ज्ञानं सद्गुणमात्मजं च सचिवं स्वावारमाचार्यकं माहात्म्यं श्रुतिशास्त्रधीस्मृतिमतिं सर्वोन्नार्तं सद्गतिम् । देवब्राह्मणभक्तिमध्वरतपःश्रद्धाश्च कोशस्थलं वैदुष्यं विजितेन्द्रियं धवसुखं संमानमीड्याद्दयाम् ॥ ५॥ सम्पद्वाहनवस्त्रभूषणनिधिद्रव्याणि तौर्यत्रिकं भार्यसौख्यसुगन्धपुष्पमदनव्यापारशय्यालयाण् । श्रीमत्त्वं कवितासुखं बहुवधूसङ्गं विलासं मदं साचिव्यं सरसोक्तिमाह भृगुजाद्वाहकर्मोत्सवम् ॥ ६॥ आयुष्यं मरणं भयं पतिततां दुःखावमानामयान् दारिद्रयं भृतकापवादकलुषाण्याशौचनिन्द्यापदः । स्थैर्यं नीचजनाश्रयं च महिषं तन्द्रीमृणं चायसं दासत्वं कृषिसाधनं रविसुतात्कारागृहं बन्धनं ॥ ७॥ पित्तास्थिसारोऽल्पकचश्च रक्तश्यामाकृतिः स्यान्मधुपिङ्गलाक्षः । कौसुभ्भवासाश्चतुरस्रदेहः शूरः प्रचण्डः पृथुबाहुरर्कः ॥ ८॥ स्थूलो युवा च स्थविरः सितः कान्तेक्षणश्चासितसूक्ष्ममूर्धजः । रक्तैकसारो मृदुवाक् सितांशुको गौरः शशी वातकफात्मको मृदुः ॥ ९॥ मध्ये कृशः कुञ्चितदीप्तकेशः क्रूरेक्षणः पैत्तिक उग्रबुद्धिः । रक्ताम्बरो रक्ततनुर्महीजश्चण्डोऽत्युदारस्तरुणोऽतिमज्जः ॥ १०॥ दूर्वलताश्यामतनुस्त्रिधातुमिश्रः सिरावान्मधुरोक्तियुक्तः । रक्तायताक्षो हरितंशुकस्त्वक्सारो बुधो हास्यरुचिः समङ्गः ॥ ११॥ पीतद्युतिः पिङ्गकचेक्षणः स्यात् पीनोन्नतोराश्च बृहच्छरीरः । कफात्मकः श्रेष्ठमतिः सुरेड्यः सिंहाब्जनादश्च वसुप्रधानः ॥ १२॥ चित्राम्बराकुञ्चितकृष्णकेशः स्थूलाङ्गदेश्च कफानिलात्मा । दूर्वङ्कुराभः कमनो विशालनेत्रो भृगुः साधितशुक्लवृद्धिः ॥ १३॥ पङ्गुनिम्नविलोचनः कृशतनुदरीर्घः सीरालोअऽलसः कृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वात्मको निर्घृणः । मूर्खः स्थूलनखद्विजः परुषरोमाङ्गोऽशुचिस्तामसो रौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः ॥ १४॥ शौवं धाम बहिःप्रकाशकमरुद्देशो रवेः पूर्वदिक् दुर्गास्थनचधूलौषधिमधुस्थानं विधोर्वायुदिक् । चोरम्लिच्छकृशानुयुद्धभुवि दिग्याम्या कुजस्योदिता विद्वद्विष्णुसभाविहारगणकस्थानान्युदीचीं विदुः ॥ १५॥ कोशाश्वत्थसुरद्विजातिनिलयस्त्वैशानदिग्गीष्पते- वेर्श्यावीथ्यवरोघनृत्तशयनस्थानं भृगिरग्निदिक् । नीचश्रेण्यशुचिस्थलं वरुणदिक्छास्तुः शनेरालयो वल्मीकाहितमोबिलान्यहिशिखिस्थानानि दिग्रक्षसः ॥ १६॥ शैवो भिषङ्नृपतिरध्वरकृत्प्रधानी व्याध्रो मृगो दिनपतेः किल चक्रवाकः शास्ताङ्गनारजकर्कषकतोयगाः स्यु- रिन्दोः शशश्च हरिणश्च बकश्चकोरः ॥ १७॥ भौमो महानसगतायुधभृत्सुवर्ण- काराजकुक्कुटशिवाकपिगृध्रचोराः । गोपज्ञशिल्पगणकोत्त मविष्णुदासा- स्तार्क्ष्यः किकी दिवीशुकौ शशिजो बडालः ॥ १८॥ दैवज्ञमन्त्रिगुरुविप्रयतीशमुख्याः पारावतः सुरगुरोस्तुरगश्च हंसः । गानी धनी विटवणिङ्नटतन्तुवाय- वेश्यामयूरमहिषाश्च भृगोः शुको गौः ॥ १९॥ तैलक्रयी भृतकनीचकिरातकाय- स्काराश्च दन्तिकरटाश्च पिकाः शनेः स्युः । बौद्धहितुण्डिकखराजवृकोष्ट्रसर्प- ध्वान्तादयो मशकमत्कुणकृम्युलूकाः ॥ २०॥ सौम्यः समोऽर्कजसितावहितौ खरांशो- रिन्दोहितौ रविबुधावपरे समाः स्युः । भौमस्य मन्दभृगुजौ तु समौ रिपुर्ज्ञः सौम्यस्य शीतगुररिः सुहृदौ सितार्कौ ॥ २१॥ सूरेद्विषौ कविबुधौ रविजः समः स्या- न्मध्यौ कवेर्गुरुकुजौ सुहृदौ शनिज्ञौ । जीवः समः सितविदौ रविजस्य मित्रे ज्ञेया अनुक्तखचरास्तु तदन्यथा स्युः ॥ २२॥ आन्योन्यं त्रिसुखस्वखान्त्यभवगास्तत्कालमित्राण्यमी टन्नैसर्गिकमप्यवेक्ष्य कथयेत्तस्यातिमित्राहितान् । शौर्याज्ञे रविजो गुरुर्गुरुसुतौ भौमश्चतुर्थाश्टमौ पुर्णं पश्यति सप्तमं च सकलास्तेष्वंध्रिवृद्ध्या क्रमात् ॥ २३॥ सूर्यादेरयनं क्षणो दिनमृतुर्मासश्च पक्षः शर- द्विप्रौ शुक्रगुरू रविक्षितिसुतौ चन्द्रो बुधोऽन्त्यः शनिः । प्राहुः सत्त्वरजस्तमांसि शशिगुर्वर्काः कविज्ञौ परे ग्रीष्मादर्ककुजौ शशी शशिसुतो जीवः शनिर्भार्गवः ॥ २४॥ ताताम्बे रविभार्गवौ दिवि निशि प्राभाकरीन्दू स्मृतौ तद्व्यस्तेन पितृव्यमातृभगिनीसंज्ञौ तदा तत्क्रमात् । वामाक्षिन्दुरिनोऽन्यदक्षि कथितो भौमः कनिष्ठानुजो जीवो ज्येष्ठसहोदरः शशिसुतो दत्तात्मजः सम्ज्ञितः ॥ २५॥ देहो देही हिमरुचिरिनस्त्विन्द्रियाष्यारपूर्वा आदित्यद्विड्गुलिकशिखिनस्तस्य पीडाकराः स्युः । गन्धः सौम्यो भृगुजशशिनौ द्वौ रसौ सूर्यभौमौ रूपौ शब्दो गुरुरथ परे स्पर्शसंज्ञाः प्रदिष्टाः ॥ २६॥ क्षीणेन्द्वर्ककुजाहिकेतुरविजाः पापाः सपापश्च वित् क्लीवाः केतुबुधार्कजाः शशितमःशुक्राः स्त्रियोऽन्ये नराः । रुद्राम्बागुहविष्णुधातृकमलाकालाह्यजा देवताः सूर्यादग्निजलाग्निभूमिखपयोवाय्वात्मकाः स्युर्ग्रहाः ॥ २७॥ गोधूमं तण्डुलं वै तिलचणककुलुत्थाढकश्याममुद्गा निष्पावा माष अर्केन्द्वसितगुरुशिखिक्रूरविद्भृग्वहीनाम् । भोगीनार्क्यारजीवज्ञशशिशिखिसितेष्वम्बराख्यं कलिङ्गं सौराष्ट्रावन्तिसिन्धून्सुमगधयवनान्पर्वतान्कीकटांश्च ॥ २८॥ माणिक्यं तरणेः सुधार्यममलं मुक्ताफलं शीतगो- र्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् । देवेड्यस्य च पुष्परागमसुरामात्यस्य वज्रं शने- र्नीलं निर्मलमन्ययोश्च गदिते गोमेधवैदूर्यके ॥ २९॥ ताम्रं कांस्यं धातुताम्रं त्रपु स्यात् स्वर्णं रौप्यं चायसं भास्करादेः । वस्त्रं तत्तद्वर्णयुक्तं विशेषाज्जीर्णं मन्दस्याग्निदगधं कुजस्य ॥ ३०॥ भानोः कटुर्भूमिसुतस्य तिक्तं लावण्यमिन्दोरथ चन्द्रजस्य । मिश्रीकृतं यन्मधुरं गुरोस्तु शुक्रस्य चाम्लं च शनेः कषायः ॥ ३१॥ भास्वग्दीष्पतिचन्द्रजक्षितिभुवां स्याद्दक्षिणे लाञ्छनं शेषाणामितरत्र तिग्मकिरणात्कटयां शिरःपृष्ठयोः । कक्षेऽसे वदने च सविथचरणे चिह्नं वयांस्यर्कतो नेमे नाथ तटं नखं नग सनि ज्ञानाड्य नग्नाटनम् ॥ ३२॥ नीलद्युतिर्दीर्घतनुः कुवर्णः पामी सपाषण्डमतः सहिक्कः । असत्यवादी कपटी च राहुः कुष्ठी परान्निन्दति बुद्धीनः ॥ ३३॥ रक्तोग्रदृष्टिविषवाग्रदेहः सशस्त्रः पतितश्च केतुः । धूम्रद्युतिर्धूमप एव नित्यं व्रणाङ्किताङ्गश्च कृशो नृशम्सः ॥ ३४॥ सीसं च जीर्णवसनं तमसस्तु केतो- र्मृद्भाजनं विविधचित्रपटं प्रदिष्टम् । मित्राणि विच्छनिसितास्तास्तमसोर्द्व्योस्तु भौमः समो निगदितो रिपवश्च शेषाः ॥ ३५॥ मूढोऽपि नीचरिपुगोऽष्टमषड्व्ययस्थो दुःस्थः स्मृतो भवति सुस्थ इतीतरः स्यात् । चन्द्रेव्ययायतनुषट्सुतकामसंस्थे तोयाभिवृद्धिमिह शंसति वृद्धिकार्ये ॥ ३६॥ अन्तः सारसमुन्नतद्रुररुणो वल्ली सितेन्दू स्मॄतौ गुल्मः केतुरहिश्च कण्टकनगौ भौमार्कजौ कीर्तितौ । वागीशः सफलोऽफलः शशिसुतः क्षीरप्रसूनद्रुमौ शुकेन्दू विधुरोषधिः शनिरसारागश्च सालद्रुमः ॥ ३७॥
तृतीयोऽध्यायः वर्ग-विभाग क्षेत्रत्रिभागनवभागदशांशहोरात्रिंशंशसप्तलवषष्टिलवाः कलांशाः । ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः ॥ दशांशषष्ट्यंशकलांशहीनास्ते सप्तवर्गाश्च विसप्तमांशाः षड्वर्गसंज्ञास्त्वथ राशिभावतुल्यं नवांशस्य फलं हि केचित् ॥ २॥ क्षेत्रेषु पूर्णमुदितं फलमन्यवर्गे- ष्वर्द्धं कलादशमषष्टिलवेषु पादम् । बालः कुमारतरुणौ प्रवया मृतः षड् भागः क्रमाद्युजि विपर्ययमित्यवस्थाः ॥ ३॥ क्षेत्रस्यार्द्धं हि होरा त्वयुजि रविसुधांश्वोः समे व्यस्तमेतद् द्रेष्काणेशास्त्रिभागैस्तनुसुतशुभपा द्वादशांशस्तु लग्नात् । भौमार्कीड्यज्ञशुक्राः शिशुजसमलवा ह्योजभे युग्मभे तद्- व्यस्तं त्रिंशांशनाथाः क्रियमकरतुलाः कर्कटाद्या नवांशाः ॥ ४॥ यज्ञं रत्न जनं धनं नय पटं रूपं शुकं चिटिना नागं योग खगं बलं भग शिला धूलिर्नवं प्रस्वनम् । लाभं विश्व दिवं रम धमं षष्ट्यंशकाश्चौजभे क्रूराख्याः समभे विपर्ययमिदं शेषास्तु सौम्याह्वयाः ॥ ५॥ स्वात् सप्तांशदशांशकौ तु विषमे तु कामाच्छुभात् स्वादीशाश्च कलांशपा विधिहरीशार्कः समर्क्षेऽन्यथा । ख्यातैः कोणयुतैस्त्रिकोणभवनस्वर्क्षोच्चकेन्द्रोत्तमै- र्वर्गाः सप्त दश त्रयोदशमिता वर्गाः प्रदिष्टाः परैः ॥ ६॥ वर्गान्योजयतु त्रयोदश सुहृत्स्वर्क्षोच्चभेषु क्रमाद्- द्विस्त्रिः पञ्च चतुर्नाद्रिवसुषट्संख्यासु वर्गैक्यतः । प्राहुश्चोत्तमपारिजातकथितौ सिंहासनं गोपुरं चेत्यय्रावतदेवलोकसुरलोकांशांश्च पारावतम् ॥ ७॥ आर्यनिल्पगुणार्थसौख्यविभवान्यः पारिजातांशकः स्वाचारं विनयान्वितं निपुणं यद्युत्तमांशे स्थितः । खेतो गोपुरभागगः शुभमतिं स्वक्षेत्रगो मन्दिरं यः सिंहासनगो नृपेन्द्रदयितं भूपालपुल्यं नरम् ॥ ८॥ श्रेष्ठाश्वद्विपवाहनादि विभवं पारावताधिष्ठितः सत्कीर्तिं यदि देवलोकसहितो भूमण्डलाधीश्वरम् । वन्द्यं भूपतिभिः सुरेन्द्रसदृशं त्वैरावतांशास्थितः सद्भाग्यं धनधान्यपुत्रसहितं भूपं विदध्याद् ग्रहः ॥ ९॥ यद्वर्गेष्वखिलेषु मृत्युरबलेष्वत्राथ वक्ष्ये क्रमा- न्नाशं दुःखमनर्थतां च विसुखं बन्धुप्रियं तद्वरम् । भूपेष्टं धनिनं नृपं नृपवरं वर्गे बलिष्ठेऽखिले वधिष्णुं सुखिनं नृपं गदमृती बालाद्यवस्थाफलम् ॥ १०॥ षड्वर्गेषु शुभग्रहाधिकगुणैः श्रीमांश्चिरं जीवति क्रूरांशे बहुले विलग्नभवने दीनोऽल्पजीवः शठः । तन्नाथा बलिनो नृपोऽस्त्यथ नवांशेशो दृगाणेश्वरो लग्नेशः क्रमशः सुखी नृपसमः क्षोणिपतिर्भग्यवान् ॥ ११॥ ओजे क्रूरेऽर्कहोरां गतवति बलवान् क्रूरवृत्तिर्धनाढ्यो युग्मे चान्द्रींशुभेषु द्युतिविनयवचोहृद्यसौभाग्ययुक्तः । व्यस्तं व्यस्तेऽत्र मिश्रे समफलमुदितं लग्नचन्द्रौ बलिष्ठौ तन्नाथौ द्वौ च तद्वद्यदि भवति चिरंजीव्यदुःखी यशस्वी ॥ १२॥ सिंहाजाश्वितुलानृयुग्मभवनेष्वन्त्या हयाजादिमाः मध्यौ स्त्रीयमयोरिहायुधभृतः पाशोलिमध्यो भवेत् । नक्राद्यो निगलो मृगेन्द्रघटयोराद्यो वणिङ्मःध्यमो गृध्रास्यो वृषभान्तिमश्च विहगः कर्क्यादि कोलाननम् ॥ १३॥ कौर्प्यद्यः कर्कटान्त्यो भूषचरममहिश्चाजगोमध्यसिंहा- द्यल्यन्त्यं स्याच्चतुष्पादिह फलमधनक्रूरनिन्द्या दरिद्राः । द्वन्द्वर्क्षे स्युर्दृगाणैरधमसमशुभान्यस्थिरे चोत्क्रमेण प्राहुस्तज्ज्ञाः स्थिरर्क्षेष्वशुभशुभसमान्येव लग्ने फलानि ॥ १४॥ द्रेक्काणेशे स्ववर्गे शुभखगसहिते स्वोच्चमित्रर्क्षगे वा तद्व त्रिंशांशनाथे बलवति यदि चेद् द्वादशांशाधिपे वा होरानाथे तथा चेन्निखिलगुणगणो नित्यशुद्धप्रवीणो दीर्घायुः स्याद्दयावान् सुतधनसहितः कीर्तिमान्राजभोगः ॥ १५॥ मान्दिस्थराशिपतिसङ्गतसुत्रिकोणं तस्यांशराशिपतिसंयुतमंशकोणम् । लग्नं वदन्ति गुलिकांशकराशिकोणं तद्वद्विधौ बलयुते शशिनैव विद्यात् ॥ १६॥ कुर्यादात्मसुहृद्दृगाणगशशी कल्याणरूपं गुणं श्रेयांस्युत्तमवर्गजस्त्वपरगस्तन्नाथजातान् गुणान् । स्वत्रिंशांशगता ग्रहा विदधते तत्कारकत्वोदितं तत्रैकोऽपि सुहृद्ग्रहेक्षितयुतः स्वोच्चेऽर्थयुक्तं नृपम् ॥ १७॥ स्वोच्चे प्रदीप्तः सुखितस्त्रिकोणे स्वस्थः स्वगेहे मुदितः सुहृभे । शान्तस्तु सौम्यग्रहवर्गयुक्तः शक्तो मतोऽसौ स्फुटरशिमजालः ॥ १८॥ ग्रहाभिभूतः स निपीडितः स्यात् खलस्तु पापग्रहवर्गयातः । सुदुःखितः शत्रुगृहे ग्रहेन्द्रो नीचेऽतिभीतो विकलोऽस्तयातः ॥ १९॥ पूर्णं प्रदीप्ता विकलास्तु शून्यं मध्येऽनुपाताच्च शुभं क्रमेण । अनुक्रमेणाशुभमेव कुर्युर्नामानुरूपाणि फलानि तेषाम् ॥ २०॥
चतुर्थोऽध्यायः ग्रह बल वीर्यं शड्विधमाह कालजबलं चेअबलं स्वोच्चजं दिग्विर्यं त्वयनोद्भवं दिविषदां स्थानोद्भवं च क्रमात् । निश्यारेन्दुसिताः परे दिवि सदा ज्ञः शुक्लपक्षे शुभाः कृष्णेऽन्ये च निजाब्दमासदिनहोरास्वङ्ध्रिवृधद्ध्या क्रमात् ॥ १॥ राकाचन्द्रस्य चेआबलमुदगयते भास्वतो वक्रगानां युद्धे चोदक्स्थितानां स्फुटबहुलरुचां स्वोच्चवीर्यं स्वतुङ्गे । दिग्वीर्यं खेऽर्कभौमौ सुहृदि शशिसितौ विद्गुरू लग्नगौ चेन्मन्देऽस्ते याम्यमार्गे बुधशनिशशिनोऽन्येऽयनाख्ये परस्मिन् ॥ २॥ स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः षट्सु स्ववर्गेषु वा प्रोक्तं स्थानबलं चतुअयमुखात्पूर्णार्द्धपादाः क्रमात् । मध्याद्यन्तकषण्डमर्त्यवनिताः खेटा बलिआः क्रमात् मन्दारज्ञगुरूशनोब्जरवयो नैजे बले वर्द्धनाः ॥ ३॥ वक्रं गतो रुचिररश्मिमसमहपूर्णो नीचारिभांशसहितोऽपि भवेत्स खेटः । वीर्यानिवतस्तुहिनरश्मिरिवोच्चमित्र- स्वक्षेत्रगोऽपि विबलो हतदीधितिश्चेत् ॥ ४॥ तुङ्गस्था बलिनोऽखिलाश्च शशिनः श्लाघ्यं हि पक्षोद्भवं भानोर्दिग्बलमाह वक्रगमने तराग्रहाणां बलम् । कर्क्युक्षाजघटालिगोहिरबलान्त्योक्षाश्विपाश्चात्यगः केतुस्तत्परिवेषधन्वसु बली चेन्द्वर्कयोगो निशि ॥ ५॥ रूपं मानुषभेऽलिभेऽङ्ध्रेरपरेष्वर्द्धं बलं स्यात्तनोः तुल्यं स्वामिबलेन चोपचयगे नाथेऽतिवीर्योत्कटम् । स्वामीड्यज्ञयुतेक्षिते कवियुते चान्यैरयुक्तेक्षिते शर्वर्यांन्निशि राशयोऽहनि परे वीर्यान्विताः कीर्तीताः ॥ ६॥ स्वोच्चे पूर्णं स्वत्रिकोणे त्रिपादं स्वक्षेत्रऽर्द्धं मित्रभे पाद्दमव । द्विट्क्षेत्रेऽल्पं नीचगेऽस्तं गतेऽपि क्षेत्रं वीर्यं निष्फलं स्याद् ग्रहानाम् ॥ ७॥ केन्द्रे ग्रहाणामुदितं बलं यत्सुखे भवस्यस्तगृहे विलग्ने । उपर्युपर्युक्तपदक्रमेण बलाभिवृद्धि हि विकल्पयन्ति ॥ ८॥ श्रेष्ठेति सा सप्तमदृष्टिरेव सर्वत्र वाच्या न तथाऽन्यदृष्टिः । योगादिषु न्यूनफलप्रदेति विशेषदृष्टिर्न तु कैश्चिदुक्ता ॥ ९॥ नैसर्गिगं शत्रुसुहृत्त्वमेव भवेत्प्रमाणं फलकारि सम्यक् । तात्कालिकं कार्यवशेन वाच्यं तच्छत्रुमित्रत्वमनित्यमेव ॥ १०॥ निःशेषदोषहरणे शुभवर्द्धने च वीर्यं गुरोरधिकमस्त्यखिलग्रहेभ्यः । तद्वीर्यपाददलशक्तिभृतौ ज्ञशुक्रौ चान्द्रं बलं तु निखिलग्रहवीर्यबीजम् ॥ ११॥ चन्द्रक्रियादि जन्मर्क्षविघती नीतैर्ज्ञानाङ्गैर्ननयैर्भजेत् । लब्धाश्चन्द्रक्रियावस्थावेलाख्याम्स्तन्फलं क्रमात् ॥ १२॥ चन्द्रक्रिया फल स्थानाद्भ्रास्तप्स्वी परयुवतिरतो द्यूतकृद्धस्तिमुख्या- रूढः सिंहासनस्थो नरपतिररिहा दण्डनेता गुणी च । निष्प्रानश्छिन्नमूर्द्धा क्षतकरचरणो बन्धनस्थो विनष्टो राजा वेदानधीते स्वपिति सुचरितः संस्मृतो धर्मकर्ता ॥ १३॥ सद्वंश्यो निधिसंगतः श्रुतकुलो व्याख्यापरः शत्रुहा रोगी शत्रुजितः स्वदेशचलितो भृत्यो विनष्टार्थकः । अस्थानी च सुमन्त्रकः परमहीभर्ता सभार्यो गज- त्रस्तः संयुगभीतिमानतिभयो लीनोन्नदाताग्निगः ॥ १४॥ क्षुद्बाधासहितोऽन्नमत्ति विचरन्मांसानोऽस्त्रक्षतः सोद्वाहो धृतकन्दुको विहरति द्यूतैर्नृपो दुःखितः । शयास्थो रिपुसेवितश्च ससुहृद्योगी च भार्यान्वितो मिष्टाही च पयः पिबन् सुकृतकृत् स्वस्थस्तथास्ते सुखम् ॥ १५॥ चन्द्र-अवस्था फल आत्मस्थानात्प्रवासो महितनृपहितो दासता प्राणहानि- र्भूपालत्वं स्ववंशोचितगुणनिरतो रोग आस्थानवत्त्वम् । भीतिः क्षुद्बाधितत्वं युवतिपरिणयो स्म्यशय्यानुषाक्ति मृर्ष्टाशित्वं च गीता इति नियमवशात्सद्भिरिन्दोरवस्था ॥ १६॥ चन्द्रवेला-फल मूर्द्धमयो मुदितता यजनं सुखस्थो नेत्रमयः सुखितता वनिताविहरः । उग्रज्वरः कनकभूषणमश्रुमोक्षः क्ष्वेला नं निधुवनं जठरस्य रोगः ॥ १७॥ क्रीडा जले हसनचित्रविलेखने च क्रोडश्च नृत्तकरणं घृतभुक्तिनिद्रे । दानक्रिया दशनरुक् कलहः प्रयाण- मुन्मत्तता च सलिलाप्लवनं विरोधः ॥ १८॥ स्वोच्छास्नानं क्षुद्भयं शास्त्रलाभं स्वैर गोष्ठी योधनं पुन्यकर्म । पापा चारः क्रूरकर्मा प्रहर्षं प्राज्ञैरेवं चन्द्रवेला प्रदिष्टा ॥ १९॥ जातके च मुहूर्ते च प्रश्ने चन्द्रक्रियादयः । सम्यक् फलप्रदास्तस्माद्विशेषेण विचिन्तयेत् ॥ २०॥ ओअक्षोद्भवं हिमकरस्य विशेष्शमाहुः स्थानोद्भवं तु बलमप्यधिक्रं परेषां । तत्सम्प्रयुक्तमितरैरधिकाधिकं स्या- दन्यानि तेन सदृशानि बहूनि ते स्युः ॥ २१॥ बलपिंड सार्द्धानि षशतीक्ष्णकरो बलीयान् चन्द्रस्तु षशपञ्च वसुन्धराजः सप्तेन्दुसूनो रविवद्गुरोस्तु सार्द्धानि पञ्चाथ सितो बली स्यात् ॥ २२॥ मन्दस्तु पञ्चैव हि षड्बलानां संयोग एवापरथान्यथा स्युः । एवं ग्रहाणां स्वबलाबलानि विचिन्त्य सम्यक्कथयेत्फलानि ॥ २३॥ लग्नादिकानामधिपस्य पिण्डे रूपान्विते तद्बलपिण्डमाहुः । गृहस्य यस्यां दिशादिग्बलं स्यात्तद्भाववीर्य सहितस्य दृष्ट्या ॥ २४॥ पंचमोऽध्याय कर्माजीव प्रकरण अर्थाप्ती कथयेद्विलग्नशशिनोः प्राबल्यतः खेचरेः कर्मस्थैः पातृमातृशात्रवसुहृद्ब्र्हात्रादिभः स्त्रीधनात् । भृत्याद्वा दिननाथलग्नशशिनां मध्ये बलीयांस्ततः कर्मेशस्थनवाम्शराशिपवशाद्वृत्तिं जगुस्तद्विदः ॥ १॥ फलद्रुमैर्मन्त्रजपश्च शाठ्याद्द्यूतानृतैः कंबलभेषजाद्यैः द्यातुक्रियाद्वा क्षितिपालपूज्याज्जीवत्यसौ पङ्कजवल्लभांशे ॥ २॥ जलोद्भवानां क्रयविक्रयेण कृषिक्रियागोमहिषीसमुत्थैः । तीर्थाटनाद्वा वनिताश्रयाद्वा निशाकरांशे वसनक्रयाद्वा ॥ ३॥ भौमांशके धातुरणप्रहारैर्महानसाद्भूमिवशात्सुवर्णात् । परोपतापायुधसाहसैर्वा म्लेच्छाश्रयात्सूचकचोरवृत्या ॥ ४॥ काव्यागमैर्लेखकलिप्युपायैर्ज्योतिर्गणज्ञानवशाद्बुधांशे । परार्थवेदाध्ययनाज्जपाच्च पुरोहितव्याजवशात्प्रवृत्तिः ॥ ५॥ जीवांशके भूसुरदेवतानां समाश्रयाद्भूमिपतिप्रसादात् । पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशेन कुसीदवृत्या ॥ ६॥ स्त्रीसंश्रयाद्गोमहिषीगजाश्वैस्तौर्यत्रिकैर्वा रजतैश्च गन्धैः । क्षीराद्यलङ्कारपटीपटद्यैः शुक्रांशकेऽमात्यगुणैः कवित्वात् ॥ ७॥ शन्यंशके मूलफलैः श्रमेण प्रेष्यैः खलैनीर्चधनैः कुधान्यैः । भारोद्वहात्कुत्सिरमार्गवृत्या शिल्पादिभिर्दारुमयैर्वधाद्यैः ॥ ८॥ अंशेशे बलवत्ययत्नसम्प्राप्तिं बलोनेशपे स्वल्पं प्रोक्तफलं भवेदुदयतः कर्मर्क्षदेशे फलम् । अंशस्योक्तदिशं वदेत्पतियुते दृष्टे स्वदेशे फलं सत्यन्यैः परदेशजं तदधिपस्यांशे स्वदेशे स्थिरे ॥ ९॥
षष्टोऽध्यायः योगाध्याय रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः । स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् ॥ १॥ दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः । आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः ॥ २॥ हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै- श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः । पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः ॥ ३॥ शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् । लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः ॥ ४॥ विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय- स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः । हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः ॥ ५॥ स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च । प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति- र्विषयसुखसुवेषो निर्वृतश्चानफायाम् ॥ ६॥ उत्पन्नभोगसुखभाग्धनवाहनाढ्य- स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः । केमद्रुमे मलिनदुःखितनीचनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥ ७॥ हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय- स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः । सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः ॥ ८॥ जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः । चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥ ९॥ अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो- मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः । लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥ १०॥ जैवातृको विभयरोगरिपुः उखी स्या- दाढ्यः श्रिया च शुभकर्तरियोग जातः । निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः स्यात्पापकर्तरिभवोऽचिरमायुरेति ॥ ११॥ आचारवान् धर्मम्तिः प्रसन्नः सौभाग्यवान् पार्थिवमाननीयः । मृदुस्वभावः स्मितभाषणश्च धनी भवेच्चामलयोगजातः ॥ १२॥ सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् । शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः ॥ १३॥ ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति । जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना- च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः ॥ १४॥ महाभग्ये जातः सकलनयनानन्दजनको वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः । वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता ॥ १५॥ केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः । दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे ॥ १६॥ क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् । लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी ॥ १७॥ कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसम्पत् । ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् ॥ १८॥ चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै- श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि । जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः ॥ १९॥ तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि क्ष्मेशः स्यादमले धनी सुतयशः सम्पद्युतो नीतिमान् । श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः ॥ २०॥ सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः । स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते ॥ २१॥ जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता । बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः ॥ २२॥ कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः । स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् ॥ २३॥ नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः । श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः ॥ २४॥ सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः । पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः ॥ २५॥ शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः । स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता ॥ २६॥ धीम न्नाटकगद्यपद्यगणनालण्कारशास्त्रेष्वयं निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः । कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः स्यात् सारस्वतयोगजो नृपवरैः सम्पूजितो भाग्यवान् ॥ २७॥ लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् । तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः ॥ २८॥ रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः साधूनामुपकारकः परमतेष्वेव नसूयो भवेत् तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः ॥ २९॥ लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काण्कितः तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः । तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः ॥ ३०॥ ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः । सौम्योक्तिर्बहुवित्तदारतनयः सद्भ्रह्मतेजोज्वलन्दी- र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः ॥ ३१॥ अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः । त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता- स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः ॥ ३२॥ मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः । उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् ॥ ३३॥ श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च । पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये ॥ ३४॥ लग्नाधिपाप्तभपतिस्थितराशिनाथः स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः योगःस कहल इति प्रथितोऽथत्तद्वत् लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः ॥ ३५॥ वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः । स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः ॥ ३६॥ धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ । राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः ॥ ३७॥ भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः । नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः ॥ ३८॥ संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् । केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥ ३९॥ वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी । पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः ॥ ४०॥ शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये । निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव ॥ ४१॥ सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः । नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रिमान्दीर्घजीवी मनस्वी ॥ ४२॥ अधियोगभवो नरेश्वंरः स्थिरसम्पद्बहुबन्धुपोषकः । अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् ॥ ४३॥ भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश । संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा- भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः ॥ ४४॥ प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः । कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः ॥ ४५॥ सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः । हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ ॥ ४६॥ कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी ॥ ४७॥ गोसम्पद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर- स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् । प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि ॥ ४८॥ सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी । अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे ॥ ४९॥ शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी । व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः ॥ ५०॥ परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः । जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः ॥ ५१॥ हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् । स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः ॥ ५२॥ चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः । प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः ॥ ५३॥ सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः । पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः ॥ ५४॥ नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी । सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः ॥ ५५॥ कृच्छ्रलब्धधनवान् पिरभूतो लोलसम्पदुचितव्ययशीलः । स्वर्गमेव लभऽन्तेत्यदशायां जाल्मको मुसलजश्चपलश्च ॥ ५६॥ दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा- द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः । हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः ॥ ५७॥ अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः । संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे ॥ ५८॥ सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः । मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे ॥ ५९॥ अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः । अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे ॥ ६०॥ मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः । स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे ॥ ६१॥ दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः । नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे ॥ ६२॥ सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः ॥ ६३॥ स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः । प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् ॥ ६४॥ दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः । सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले ॥ ६५॥ पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः । प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् ॥ ६६॥ शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु । जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः ॥ ६७॥ ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः । अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे ॥ ६८॥ किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् । सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् ॥ ६९॥ छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत- स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः ॥ ७०॥
सप्तमोऽध्यायः राजयोग त्र्याद्यैह् खेटैः स्वोच्चगैः केन्द्रसंस्तहिः स्वर्क्षस्थैर्वा भूपतिः स्यात्प्रसिद्धिः । पञ्चाद्यैस्तैरन्यवंशप्रसूतोऽप्युर्वीनाथो वारणाश्वन्घयुक्तः ॥ १॥ भूपः स्युर्नृपवंशजास्तु यदि दुर्योगे न जातास्तथा ह्यन्तार्धिर्नहि चेत्कराद्दिनकराज्जानाः स्फुरन्त्येव ते । त्र्याद्यैः केन्द्रगतैः स्वभोच्चसहितैर्भूपोद्भवाः पार्थिवाः मर्त्यस्त्वन्यकुलोद्भवाः क्षितिपतेस्तुल्याः कदाचिन्नृपाः ॥ २॥ यद्येकोऽपि विराजितंशुनिकरः सुस्थानगो वक्रगो नीचस्थोऽपि करोति भूपसदृशं द्वौ व त्रयो वा ग्रहाः । एवं चेज्जनयन्ति भूपतिनमी शस्तांशराशिस्थिता स्तद्वच्चेद्वहवो नृपं समकुटच्छत्रोल्लसच्चामरम् ॥ ३॥ द्वौ वा त्र्याद्या दिग्बलयुक्ता यदिजातः क्ष्माभृद्वंशे भूमिपतिः स्याज्जयशीलः । हित्वा मन्दं पञ्चखगा दिग्बलयुक्ता- श्चत्वारो वा भूपतिरन्यान्वयजोऽपि ॥ ४॥ गणोत्तमे लग्ननवांशकोद्गमे निशाकरश्चापि गणोत्तमेऽपि वा । चतुर्ग्रहैश्चन्द्रविर्वनितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः ॥ ५॥ विलग्नेशः केन्द्रे यदि तपसि वर्गोत्तमगतः स्वतुङ्गे स्वर्क्षे वा गुरुपतिरपि स्याद्यदि तथा । गजस्खन्धे कार्तस्वरकृतविमानेऽतिसुषमे । सुखासीनं भूपं जनयति लसच्चामरयुगम् ॥ ६॥ निषादमपि पार्थिवं जनयतीन्दुरुच्चस्वभव- स्थितग्रहनिरीक्षितो धवलकाम्तिजाल्लोज्ज्वलः । विहाय तनुभं कलास्फुरितपूर्णकान्तिः शशी चतुष्टयगतो नृपं जनयति द्विपाश्वान्वितम् ॥ ७॥ अश्विन्यामुदयगतो भृगुर्ग्रहेन्द्रै र्दृष्टश्चेज्जनयति भूपतिं जितारिम् । नीचार्योर्गृहमहपहाय वित्तसंस्थो लग्नेशः सह कविना बही च भूपम् ॥ ८॥ भौमश्चेदजहरिचापलग्नसंस्थः पृथ्वीशं कलयति मित्रखेटदृष्टः । कर्मेशो नवमगतश्च भाग्यनाथो मध्यस्थो भवति नृपो जनैः प्रशस्तः ॥ ९॥ चापार्द्धे भगवान् सहस्रकिरणस्तत्रैव ताराधिपो लग्ने भानुसुतेऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः । यद्येवं भवति क्षितेरधिपतिः संश्रुत्य दूरं भयात् त्रस्ता एव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥ १०॥ सुधामृणालोपमविम्बशोभितः शशी नवांशे नलिनीप्रियस्य यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः ॥ ११॥ नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तु स्वांशोपगैर्बलयुतैः शुभदृष्टिजुष्टैः । गोक्षीरशङ्खधवलोमृगलाञ्ष्छनश्च स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः ॥ १२॥ कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं यदि बलसमुपेतः पश्यति व्योमचारी । उदयभवनसंस्थः पापसंज्ञो न चैवं भवति मनुजनाथः सर्वभौमः सुदेहः ॥ १३॥ जिवो बुधो भृगुसुतोऽथ निशाकरो वा धर्मे विशुद्धतनवः स्फुटरश्मिजालाः । मित्रैर्निरीक्षितयुता यदि सूतिकाले कुर्वन्ति देवसदृशं नृपातिं महान्तम् ॥ १४॥ शुक्रेड्यौ सवितुः शिशुस्तिमियुगे स्वोच्चे च पूर्णः शशी दृष्टस्तीब्रविलोचनेन दिनकृन्मेषोदयेऽसौ नृपः । सेनायाश्चलनेन रेणुपटलैर्यस्य प्रविष्टे रवा- वस्तभ्रान्तिसमाकुला कमलिनी संकोचमागच्छति ॥ १५॥ नीचारिस्थैर्भवभवनगैः पष्ठदुश्चिक्यगैर्वा सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैर्वा । आज्ञां यते शिशिरकिरणे कर्कटस्थे विशाया मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः ॥ १६॥ वर्गोत्तमे हिमकरः सकलः स्थितोऽंशे कुर्यान्महीपतिमपूर्वयशोऽभिरामम् । यस्याश्वबृन्दखुरघातरजोऽभिभूतो भानु प्रभातशशिनोऽनुकरोति रूपम् ॥ १७॥ केन्द्रगौ यदि च जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ । भूपतिर्भवति सोऽतुलकीर्ति नीचगो यदि न कश्चिदिह स्यात् ॥ १८॥ जलचरराशिनवांशक इन्दुस्तनुभवने शुभदस्वकवर्गे । अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः ॥ १९॥ शुक्रो जीवनिरीक्षितो वितनुते भूपोद्भवं भूपतिं देवेड्यो मृगभं विहाय तनुयो मत्तेभयुक्तं नृपम् । केन्द्रे जन्मपतिर्बलाधिकयुतः कुर्यद्धरित्रीर्पतिं दृष्टे वाक्पतिना बुधे दधति पृथ्वीशाश्च तच्छासनम् ॥ २०॥ एकोप्युच्चक्षेत्रगो मित्रदृष्टः कूर्यद्भूपं मित्रयोगाद्भनाढ्यम् । स्वंशे सूर्ये स्वर्क्षगश्चन्द्रमा- श्चेदेशाधीशं साश्वनागं विधत्ते ॥ २१॥ मीने पूर्णज्योतिषि मित्रग्रहदृष्टे चन्द्रे लोकानन्दकरः स्यान्नृपमुख्यः । पूर्णज्योतिः स्वोच्चगतश्चेत्तुहिनांशु- स्त्यागाधिक्यं सञ्जनशस्तं जगदीशम् ॥ २२॥ चन्द्रेऽधिमित्रांशगते सुदृष्टे शुक्रेण लक्ष्मीसहितो नृपः स्याः । तथा स्थिते वासवमन्त्रिदृष्टे पूर्नां धरित्रीं परिपालयेत्सः ॥ २३॥ पापास्त्रिशत्रुभवगा यदि जन्मनाथा- ल्लग्नाद्धने कुजबुधौ हिबुकेऽर्कशुक्रौ । कर्मायलग्नसहिताः कुजमन्दजीवा- स्तज्ज्ञा वदन्ति चतुरस्त्विह राजयोगान् ॥ २४॥ लाभेशधर्मेशधनेश्वराणामेकोऽपि चन्द्रग्रहकेन्द्रवर्ती । स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसाम्राज्यपतित्वमेति ॥ २५॥ नीचभंग राजयोग नीचस्थितो जन्मनि योग्रहः स्यात्त्द्राशिनाथोऽपि तदुच्चनाथः । स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धार्मिकचक्रवर्ती ॥ २६॥ यद्येको नीचगतत्तद्राश्यधिपस्तदूच्चपः केन्द्रे । यस्य स तु चक्रवर्ती समस्तभूपालवन्द्यांध्रिः ॥ २७॥ यस्मिन्ग्रशौ वर्तते खेचरस्तद्राशीशेन प्रेक्षितश्चेत्स खेटः । क्षोणीपालं कीर्तिमन्तं विदध्यात् सुस्थानश्चेत्किंपुनः पार्थिवेन्द्रः ॥ २८॥ नीचे तिष्ठति यस्तदाश्रिगृहाधीशो विलग्नाद्यदा चन्द्राद्वा यदि नीचगस्य विहगस्योच्चर्क्षनाथोऽथव । केन्द्रे तिष्ठति चेत्प्रपूर्णविभवः स्याच्चक्रवर्ती नृपो धर्मिष्ठोऽन्यमहीशवन्दितपदस्तेजोयशोभाग्यवान् ॥ २९॥ नीचे यस्तस्य नीचोच्चभेशौ द्वावेक एव वा केन्द्रस्थश्चेच्चक्रवर्ती भूपः स्याद्भुपवन्दितः ॥ ३०॥
अष्टमोऽध्यायः भावाश्रय फल लग्नेऽर्केऽल्पकचः क्रियालसतमः क्रोधी प्रचण्डोन्नतो मानी लोचनरूक्षचः कृशतनुः शूरोऽक्षमो निर्घृणः । स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमन् दरिद्र्योपहतो विनष्टतनयो जांतस्तुलायं भवेत् ॥ १॥ विगतविद्या विनयवित्तं स्खलितवाचं धनगतः सबलशौर्य श्रियमुदारं स्वजनशत्रुं सहजगः । जनयतीमं सुहृदि सूर्यो विसुखबन्धुक्षितिसुहृद् भवनसुक्तं नृपतिसेवा जनकसम्पद्व्ययकरम् ॥ २॥ सुखधनायुस्तनयहीनं सुमतिमात्मन्यटविगं प्रथितमुर्वीपतिमरिस्थः सुगुणसम्पद्विजयगम् । नृपविरुद्धं कुतनुमस्तेऽध्वगमदारं ह्यवमतं हतधनायुः सुहृदमर्को विगतदृष्टि निधनगः ॥ ३॥ विजनकोऽर्के सौतबन्धुस्तपसि देवद्विजमनाः ससुतयानस्तुतिमतिश्रीबलयशाः खे क्षितिपतिः । भवगतेऽर्के बहुधनायुर्विगतशोको जनपतिः पितुरमित्रं विकलनेत्रो विधनपुत्रो व्ययगते ॥ ४॥ सिते चन्द्रे लग्ने दृढतनुरदभ्रायुरभयो बलिष्ठो लक्ष्मीवान् भवति विपरीतं क्षयगते । धनाढयोऽन्तर्वाणिर्विषयसुखवान् वाचि विकलः सहोत्ये सभ्रातृप्रमदबलशौर्योऽतिकृपणः ॥ ५॥ सुखी भोगी त्यागी सुहृदि ससुहृद्वाहनयशाः सुपुत्रो मेधावी मृदुगतिरमात्यः सुतगते । क्षतेऽल्पायुश्चन्द्रेऽमतिरुदररोगी परिभवी स्मरे दृष्टेः सौम्यो वरयुवतिकान्तोऽतिसुभगः ॥ ६॥ मृतौ रोग्यल्पायुस्तपसि शुभधर्मात्मसुतवान् जयी सिद्दारम्भो नभसि शुभकृत्सत्प्रियकरः । मनस्वी बह्वायुर्धनतनयभृत्यैः सह भवे व्यये द्वेष्यो दुह्खी शशिनि परिभूतोऽलसतमः ॥ ७॥ क्षततनुरतिक्रूरोऽल्पायुस्तनौ धनसाहसी वचसि विमुखो निर्विद्यार्थः कुजे कुजनाश्रितः । सुगुणधनवाञ्छूरोऽधृष्यः सुखी व्यनुजोऽनुजे सुहृदि विसुहृन्मतृक्षोणीसुखालयवाहनः ॥ ८॥ विसुखतनयोऽनर्थप्रायः सुते पिशुनोऽल्पधीः प्रबलमदनः श्रीमान् ख्यातो रिपौ विजयी नृपः । अनुचितकरो रोगार्तोऽस्तेध्वगो नृतदारवान् कुतनुरधनोऽल्पायुश्छिद्रे कुजे जननिन्दितः ॥ ९॥ नृपसुहृदपि द्वेष्योऽतातः शुभ जनघतको नभसि नृपति क्रूरो दाता प्रधानजनस्तुतः । धनसुखयुतोऽशोकः शूरो भवे सुशीलः कुजे नयनविकृतः क्रूरोऽदारो व्यये पिशुनोऽधमः ॥ १०॥ दीर्घयुर्जन्मनि ज्ञे मधुरचतुरवाक् सर्वशास्त्रार्थबोधः स्याद्बुद्ध्योपार्जितस्वः कविरमलवचा वाचि मिष्टान्नभोक्ता शौर्ये शूरः समायुः सुसहजसहिनः सश्रमो दैन्ययुक्तः संख्यावण् चाटुवाक्यः सुहृदि सुक्रसुहृत्क्षेत्रधान्यार्थभोगी ॥ ११॥ विद्यासौख्यप्रतापः प्रचुरसुतयुतो मान्त्रिकः पञ्चमस्थे जातक्रोधो विवादिर्द्वीषि रिपुबलहन्तालसो निष्ठुरोक्तिः । प्राज्ञोऽस्ते चारुवेषः ससकलमहिमा याति भार्यां सवित्तां विख्याताख्यश्चिरायुः कुलभृदधिपतिर्ज्ञेऽष्टम दण्दनेता ॥ १२॥ विद्यार्थाचारधर्मैः सह तपसि बुधे स्यात्प्रवीणोऽतिवाग्मी सिद्धारम्भः सुविद्याबलमतिसुखसत्कर्मसत्यान्वितः खे । बह्वायुः सत्यसन्धो विपुलधनसुखी लाभगे भृत्ययुक्तो दीनो विद्याविहीनः परिभव सहितोऽन्त्ये नृशंसोऽलसश्च ॥ १३॥ शोभावान् सुकृती चिरायुरभयो लग्ने सुरौ सात्मजो वाग्मी भोजनसारवांश्च सुमुखो विते धनी कोविदः सावज्ञः कृपणः प्रतीतसहजः शौर्येऽघकृद्दुष्टधी- र्बन्धौ मतृसुहृत्परिच्छदसुतस्त्रीसौख्यधान्यान्वितः ॥ १४॥ पुत्रैः क्लेशयुतो महीशसचिवो धीमान् सुतस्थे गुरौ षष्ठे स्यादलसोऽरिहा परिभवी मन्त्राभिचारे पदुः । सत्पत्नीसुतवान्मदेऽतिसुभगस्तातादुदारोऽधिको दीनो जीवति सेवया कलुषभग्दीर्घयुरिज्येऽष्टमे ॥ १५॥ ख्यातः सन् सचिवः शुभेऽर्थसुतवान् स्याद्धर्मकार्योत्सुकः स्वाचारः सुयशा नभस्यतिधनी जिवे महीशप्रियः । आयस्थे धनिकोऽभयोऽल्पतनयो जैवातृको यानगो द्वेष्यो धिक्कृतवाग्व्यये वितनयः साधोऽलसः सेवकः ॥ १६॥ तनौ सुतनुदृक्प्रियं सुखिनमेव दीर्घयुषं करोति कविरर्थगः कविमनेकवित्तान्वितम् । विदारसुखसम्पदं कृपणमप्रियं विक्रमे सुवाहनसुमन्दिराभरण वस्त्रगन्धं सुखे ॥ १७॥ अखण्डितधनं नृपं सुमतिमात्मजे सात्मजं विशत्रुमधनं क्षेते युवतिदूषितं विक्लवं । सुभार्यमसतीरतं नृतकलत्रमाढ्यं मदे चिरायुषमिलाधिपं धनिनमष्टमे संस्थितः ॥ १८॥ सदारसुहृदात्मजं क्षितिपलब्धभाग्यं शुभे नभस्यतियशः सुहृत्सुखितवृत्तियुक्तं प्रभुम् धनाढ्यमितराङ्गनारतमनेकसौख्या भवे भृगुर्जनयति व्यये सरतिसौख्यवित्तद्युतिम् ॥ १९॥ स्वोच्चे स्वकीयभवने क्षितिपालतुल्यो लग्नेऽर्कजे भवति देशपुराधिनाथः । शेषेषु दुखपरिपीडित एव बाल्ये दारिद्र्यदुःखवशगो मलिनोऽलसश्च ॥ २०॥ विमुखमधनमर्थेऽन्यायवन्तं च पश्चा दितरजनपदस्थं यानभोगार्थयुक्तम् । विपुलमतिमुदारं दारसौख्यं च शौर्ये जनयति रविपुत्रश्चालसं विक्लवं च ॥ २१॥ दुःखी स्याद्गृहयानमातृवियुतो बाल्ये सरुग्बन्धुभे भ्रान्तो ज्ञानसुतार्थहर्षरहितो धीस्थे शटो दुर्मतिः । बह्वाशी द्रविणान्वितो रिपुहतो धृष्टश्च मानी रिपो कामस्थे रविजे कुदारनिरतो निःस्बोऽध्वगो विह्वलः ॥ २२॥ श्रवैश्चरे मृतिस्थिते मलीमसोऽशंसोऽवसुः । करालधीर्बुभुक्षितः सुहृञ्जनवमानितः ॥ २३॥ भाग्यार्थत्मजतातधर्मरहितो मन्दे शुभे दुर्जनो मन्त्री वा नृपतिर्धनी कृषिपरः शूरः प्रसिद्धोऽम्बरे बह्वायुः स्थिरसम्पदायसहितः शूरो विरोगो धनी निर्लज्जार्थसुतो व्ययेऽङ्गविकलो मूर्खो रिपूत्सारितः ॥ २४॥ लग्नेऽहावचिरायुरर्थबलावानूर्ध्वङ्गरोगान्वित- श्छन्नोक्तिर्मुखरुग्घृणी नृपधनी वित्ते सरोषः सुखी । मानी भ्रातृविरोधको दृढमतिः शौर्ये चिरायुर्धनी मूर्खो वेश्मनि दुःखकृत्ससुहृदल्पायुः कदाचित्सुखी ॥ २५॥ नासोद्यद्वचनोऽसुतः कठिनहृद्राहौ सुते कुक्षिरु- ग्द्विट्क्रूरग्रहपीडितः सगुदरुपछ्रीमांश्चिरायुः क्षते । स्त्रीसंगादधनो मदेऽथ विधुरोऽवीर्यः स्वतन्त्रोऽल्पधी- रन्ध्रेऽल्पायुरशुद्धिकृच्च विकलो वातामयोऽल्पात्मजः ॥ २६॥ धर्मस्थे प्रतिकूलवाग्गणपुरग्रामाधिपोऽपुण्यवान् ख्यातः खेऽल्पसुतोऽन्यकार्यनिरतः सत्कर्महीनोऽभयः । श्रीमान्नातिसुतश्चिरायुरसुरे लभे सकर्णामयः प्रच्छन्नाघरतो बहुव्ययकरो रिःफेऽम्बुरुक्पीडितः ॥ २७॥ लग्ने कृतघ्नमसुखं पिशुनं विवणं स्थानच्युतं विकलदेहमसत्समाजम् । विद्यार्थहीनमधमोक्तियुतं कुदृष्टिं पातः परान्ननिरतं कुरुते धनस्थः ॥ २८॥ आयुर्बलं धनयशा प्रमदान्नसौख्यं केतौ तृतियभवने सहजप्रणाशम् भूक्षेत्रयानजननीसुखजन्मभूमि- नाशं सुखे परगृहस्थितिमेव दत्ते ॥ २९॥ पुत्रक्षयं जठररोगपिशाचपीडां दुर्बुद्धिमात्मनि खलप्रकृतिं च पातः । औदार्यमुत्तमगुणं दृढतां प्रसिद्धिं षष्ठे प्रभुत्वमरिमदर्नमिष्टसिद्धिम् ॥ ३०॥ द्यूनेऽवमानमसतीरतिमान्त्ररोगं पातः स्वदारवियुतिं मदधातुहानिम् स्वल्पायुरिष्टविरहं कलहं च रन्ध्रे शस्त्रक्षतं सकलकार्यविरोधमेव ॥ ३१॥ पापप्रवृत्तमशुभं पितृभाग्यहीनं दारिद्रयमार्यजनदूषणमाह धर्मे । सत्कर्मविघ्नमशुचित्वमवद्यकृत्यं तेजस्विनं नभसि शौर्यमतिप्रसिद्धिम् ॥ ३२॥ लाभेऽर्थसंचयमनेकगुणं सुभोगं सद्द्रव्यसोपकरणं सकलार्थसिद्धिम् । प्रच्छन्नपापमधमव्ययमर्थनाशं रिःफे विरुद्धगतिमक्षिरुजं च पातः ॥ ३३॥ उदयर्क्षशस्फुटतुल्यांशे निवसन् पूर्णं फलमाधत्ते शनिवद्राहुः कुजवत्केतुः फलदाता स्यादिह सम्प्रोक्तः ॥ ३४॥ भावसमांशकसंस्था भावफलं पूर्णमेव कलयन्ति । न्यूनाधिकांशवशतः फलवृद्धिह्लसिता वाच्या ॥ ३५॥
नवमोऽध्यायः राशिफल वृत्तेक्षणो दुर्बलजानुरुग्रो भीरुर्जले स्याल्लघुभुक् सुकामी । संचारशीलश्चपलोऽनृतोक्तिव्रर्णाण्किताण्गः क्रियभे प्रजातः ॥ १॥ पृथूरुवक्त्रः कृषिकर्मकृत्स्यान्- मध्यान्तसौख्यः प्रमदाप्रियश्च । स्यागी क्षमी क्लेससहश्च गोमान् पृष्ठास्यपश्वेर्ऽण्कयुतो पृषोत्थः ॥ २॥ श्यमेक्षणः कुञ्चितमुर्द्धजः स्त्रीक्रीडानुरक्तश्च परेण्गितज्ञः । उत्तुण्गनासः प्रियगीतनृत्तो वसन् सदान्तः सदने च युग्मे ॥ ३॥ स्त्रीनिर्जितः पीनगलः समित्रो बह्वालयस्तुण्गकटिर्धनाढ्यः । ह्लस्वश्च वक्रो द्रुतगः कुलीरे मेधान्वितस्तोयरतोऽल्पपुत्रः ॥ ४॥ पिण्गोक्षणः स्थूलहनुर्विशालवक्त्रोऽभिमानी सपराक्रमः स्यात् । कुप्यत्यकार्ये वनशैलगामि मातुर्विधेयः स्थिरधीर्मृगेन्द्रे ॥ ५॥ स्रस्तांसबाहुः परवित्तगेहैः सम्पूजते सत्यरतः प्रियोक्तिः । व्रीडालसाक्षः सुरतप्रियः स्याच्छास्त्रार्थ्विच्चाल्पसुतोऽण्गनायाम् ॥ ६॥ चलत्कृशाण्गोऽल्पसुतोऽतोभक्तो देवद्विजानामटनो द्विनामा । प्रांशुश्च दक्षः क्रयविक्रयेषु धीरोऽदयस्तौलिनि मध्यवादी ॥ ७॥ वृत्तोरुजण्ढः पृथुनेत्रवक्षा रोगी शिशुत्वे गुरुतातहीनः । क्रूरक्रियो राजकुलाभिमुख्यः कीटेऽब्जरेखाण्कितपाणिपादः ॥ ८॥ दीर्घास्यकण्ठः पृथुकर्णनासः कर्मोद्यतः कुब्जतनुनृपेष्टः । प्रागल्भ्यवाक्त्यागयुतोऽरिहन्ता साम्नैकसाध्योऽश्विभवो बलाधयः ॥ ९॥ अधः कृशः सत्त्वयुतो गृहीत- वाक्योऽलसोऽगम्यजराण्गनेष्टः धर्मध्वजो भाग्ययुतोऽटनश्च वातार्दितो नक्रभवो विलज्जः ॥ १०॥ प्रच्छन्नपापो घटतुल्यदेहो विघातदक्षोऽध्वसहोऽल्पवित्तः । लुब्धः परार्थी क्षयवृद्धियुक्तो घटोद्भवः स्यात्प्रियगन्धपुष्पः ॥ ११॥ भ्रत्यम्बुपानः समचारुदेहः स्वदारगस्तोयजवित्तभोक्ता । विद्वान्कृतज्ञोऽभिभवत्यमित्रान् शुबेक्षणो भाग्ययुतोऽन्त्यराशौ ॥ १२॥ राशेः स्वभावाश्रयरूपर्वणान् ज्ञत्वानुरूपाणि फलानि तस्य । युक्त्त्या वदेदत्र फलं विलग्ने यच्चन्द्रलग्नेऽपि तदेव वाच्यम् ॥ १३॥ प्रहे सति निजोच्चगे भवति रत्नगर्भधिपो महीपतिकृतस्तुतिर्महितसम्पदामालयः उदारगुणसंयुतो जयति विक्रमार्को यथा नये यशसि विक्रमे वितरणे धृतौ कौशले ॥ १४॥ स्वमिन्दरगते ग्रहे प्रभुपरिग्रहादार्यतिं प्रभुत्वमपि वा गृहस्थतिमचञ्चलां प्राप्नुयात् । नवं भुवनमुर्वराक्षितिमुपैति काले स्वके जने बहुमातिं पुनः सकलनष्टवस्तून्यपि ॥ १५॥ ग्रहः सुहृत्क्षेत्रगतः सुहृद्भिः कार्यस्य सिर्द्धि नवसौहृदं च । सत्पुत्रजायाधनधान्यभाग्यं ददात्ययं सर्वजनानुकूल्यम् ॥ १६॥ गते ग्रहे शत्रुगृहं निकृष्टतां परान्नवृत्ति परमन्दिरस्थितिम् । अर्किचनत्वं रिपुपीडनं सदा स्निग्धोऽपि तस्यातिरिपुत्वमाप्नुयात् ॥ १७॥ नीचे ग्रहेऽधः पतनं स्ववृत्तेर्दैन्यं दुराचारमृणाप्तिमाहुः । नीचाश्रयं कीकटदेशवासं मृत्यत्वमध्वानमनर्थकार्यम् ॥ १८॥ ग्रहो मौढ्यं प्राप्तो मरणमचिरात् स्त्रीसुतधनैः प्रहीणत्वं व्यर्थे कलहमपवादं परिभवम् । समर्क्षस्थः खेतो न कलयति वैशेषिकफलं सुखम् वा दुःखं या जनयति यथापूर्वमचलम् ॥ १९॥ वक्रं गतः स्वोच्चफलं विदध्या त्सपत्ननीचर्क्षगतोऽपि खेतः । वर्गोत्तमंशस्थिखेचरोऽपि स्वक्षेत्रगस्योक्तफलानि तद्वत् ॥ २०॥
दशमोऽध्यायः कलत्र भव शुभाधिपयुतेक्षिते सुतकलत्रभे लग्नतो विधोरपि तयोः शुभं त्वितरथान सिद्धिस्तयोः । सिताव्द्ययसुखाष्टगैः खरखगैरसन्नध्यगे सितेऽप्यथ शुभेतरेक्षितयुते च जायावधः ॥ १॥ दारेशे सुतगे प्रणष्टवनितोऽपुत्रोऽथवा धीश्वरो द्यूने वा निधनेश्श्वरोऽपि कुरुते पत्नीविनाशं ध्रुवम् । क्षीणेन्दौ सुतगे व्ययास्ततनुगैः पापैरदारात्मजः स्त्रीसंगाद्धननाशनं मदगयाः स्वर्भनुभान्वोर्वदेत् ॥ २॥ शुक्रे दृश्चकगे मदे मृतवधूः कामे वृषस्थे बुधे स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरुढे तथा । जामित्रे भुषगे शनौ सति तथा भौमेऽथवा स्त्रीमृति- श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सति शोभना ॥ ३॥ अस्ते वास्तपतावसद्ग्रहयुते दृष्टेऽप्यसन्मध्यगे नीचारातिगृहेऽर्ककान्त्यभिहते ब्रूयात्कलत्रच्युतिम् । कमे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौ शुक्रे वा कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः ॥ ४॥ भौमार्क्यस्ते भॄगुजशशिनोर्दाहीनोऽसुतो वा क्लीबेऽस्ते वा भवति भवगौ द्वौ ग्रहौ स्त्रीद्वयं स्यात् । द्वन्द्वर्क्षाशे मदपतिसितौ तस्य जायाद्वयं स्यात् ताम्यां युक्तैर्गगननिलयैर्दारसंख्यां वदन्तु ॥ ५॥ स्त्रीसंख्यां मदगैर्ग्रहैर्मृर्तिमसत्खेटैश्च सब्धिः स्थिती द्यूनेशे सबले शुभे सति वधुः साध्वी सुपुत्रान्विता । पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्चकामस्थिता हित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः ॥ ६॥ भार्यानाशस्त्वशुभसहितौ वीक्षितौ वार्थकामौ तत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टि विशेषात् । एवं पत्न्या अपि सति मदे चाष्मे वास्ति दोषः सौम्यैर्दृष्टे सति शुभयुते दंपती भाग्यवन्तौ ॥ ७॥ चन्द्रे समन्दे मदगे पुन्रभूः पतिर्भवेद्वाप्यसुतो विदारः । नीचारिभस्थैरशुभैर्मदे स्त्री- पुंसोर्मृतिः स्यान्निधने धने वा ॥ ८॥ लग्नात्कलत्रभवने समराशिसंज्ञे भावाधिपेऽपि च तथैव गतेऽसुरेड्ये । सूर्याभितप्तरहिते सुतदारनाथे वीर्यन्विते तु जननं ससुतं कलत्रं ॥ ९॥ कुटुम्बदारव्ययराशिनाथा जीवेक्षिताः कोणचतुष्टयस्थाः । दारेश्चराद्वित्तकलत्रलाभे सौम्याः कलत्रं ससुतं सुखाढ्यम् ॥ १०॥ लग्नास्तनाथस्थितभांशकोणे नीचोच्चभे स्त्रीजननं च पत्युः । चन्द्राष्टवर्गेधिककिन्दुराशौ कलत्रजन्मेति तथा धवस्य ॥ ११॥ कामस्थकामाधिप्भार्गवाना मृक्षं दिशं शंसति तस्य पत्न्याः । शुक्रोऽस्तपो वा नतुनाथभांश- त्रिकोणमायाति तदा विवाहः ॥ १२॥ कलत्रसंस्थस्य कलत्रदृष्टे दर्शागमेवाथ कलत्रपस्य । यदा विलग्नाधिपतिः प्रयाति कलत्रभं तत्र कलत्रलाभः ॥ १३॥ कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः । दशागमे द्यूनपयुक्तभांशक- लत्रिकोणगे देवगुरौ करग्रहः ॥ १४॥ कलत्रनाथे रिपुनीचसंस्थे मूढेऽथवा पापनिरीक्षिते वा कलत्रभे पापयुतेऽथ दृष्टे कलत्रहानी प्रवदन्ति सन्तः ॥ १५॥
एकादशमोऽध्यायः स्त्री जातक यद्यट्पुंप्रसवे क्षमं तदखिलं स्त्रीणं प्रिये वा वदेन्- माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम् । भर्तारं शुभगत्वमस्त भवनात्संगं स्तीत्वं सुखात् सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशं ॥ १॥ उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ सुतनयपतिभूषासम्पदुत्कृष्टशीला । अशुभसहितदृष्टौ चोजगौ पुंस्वभावा कुटिलमतिरवश्या भर्तुरुग्रा दरिद्रा ॥ २॥ सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवंस्तत्पति- र्व्यत्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयो । आग्नेयैर्मदनस्थितैश्च विधवा मिश्चैः पुनर्भूर्भवेत् क्रूरेष्वायुषि भर्तृहन्त्र्यपि धने सन्तः स्वयं स्त्रीमृतिः ॥ ३॥ सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनया यमारार्कांशर्क्षे मदनसदने सामयभगा । सुखे पापैर्युक्ते भवति कुलट मन्दकुजयो- र्गृहेऽशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता ॥ ४॥ शुभक्षेत्रंशेऽस्ते शुभगजघना मङ्गलवती विधाः सत्संबन्धेऽप्युदयुखयोः साध्वियतिगुणा । त्रिकोणे सौम्याश्चेत्सुखसुतमंपद्गुणवती बलोनाः क्रूराश्चेद्यदि भवति वन्ध्या मृतसुना ॥ ५॥ चन्द्रे भौमगृहे कुजादिकथितत्रिंशाशकेषु क्रमात् दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी । शुक्रर्क्षे बहुदूषणान्यपतिग पूज्या सुधीविश्चुता ज्ञर्क्षे च्छसवती नपुंसकसमा साध्वी गुणाढ्योत्सुका ॥ ६॥ स्वच्छन्दा बर्तृघातिन्यतिमहितगुणा शिल्पिनी साधुवृत्ता चान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी । मान्दे दास्यन्यसक्ताश्चितपतिरसती निष्प्रजार्थार्कभे स्याद् दुर्भार्या हिनवृत्ता धरणिपत्तिवधूः पुंविचेष्टान्यसक्ता ॥ ७॥ शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् । बलाबलविकल्पेन तयोरेवं विचिन्तयेत् ॥ ८॥ ज्योष्ठाभ्रातरमन्बिकां च पितरं भर्तुः कनिष्ठं क्रमात् ज्योष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः । चित्रार्द्राभुजगस्वराट्च्छतभिषङ् मूलाग्नितिष्योद्भवा वन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना ॥ ९॥ चन्द्रास्तोदयभाग्यपाः सह शुभैः सुस्थानगा भास्वराः पूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता भर्तुः प्रीतिकरी सुपुत्रसहिता कल्याणशीला सती तावद्भाति सुमङ्गली च सुतसुर्यावच्छुभढ्येऽष्टमे ॥ १०॥ शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलं । दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निशेकं पुमान् अत्याज्ये समये शुभाधिकयुते पर्वादिकालोज्भिते ॥ ११॥
द्वादशोऽध्यायः पुत्रभाव फल सुस्था विलग्नशशिनोः सुतभेशजीवाः सुस्थाननाथशुभदृष्टियुते सुतर्क्षे । लग्नात्मपौ यदियुतौ च मिथः सुदृष्टौ क्षेत्रे परस्परगतौ यदि पुत्रसिद्धिः ॥ १॥ लग्नामरेड्यशशिनां सुतभेषु पापै- र्युक्तेक्षितेष्वथ शुभैरयुतेक्षितेषु । पापोभयेषु सुतभेषु सुतेश्चरेषु दुःस्थानगेषु न भवन्ति सुताः कर्थचित् ॥ २॥ पापे स्वर्क्षगते सुते तनयभाक् तस्मिन् सपापे पुनः पुत्राः स्युर्बहुलाः शुभस्वभवने सोग्रे सुते पुत्रह । संज्ञां चाल्पसुतर्क्षमित्यलिबृषस्त्रीसिंहहभानां विदुः तद्राशौ सुतभावगेऽल्पसुतवान् कालान्तरेऽसाविति ॥ ३॥ सूर्ये चाल्पसुतर्क्षगे निधनगे मन्दे कुजे लग्नगे लग्नाष्टव्यय्गैः शनीड्यरुधिरैश्चाल्पात्मजर्क्षे सुते । चन्द्र लाभगते गुरुस्थितसुतस्थाने सपापे भवे- ल्लग्नेऽनेकखगानन्विते तनयभाक्कालान्तरे यत्नतः ॥ ४॥ सूर्ये नान्युते सुतर्क्षसहिते चन्द्रस्य गेहे स्थिते भौमे वा भृगुजेऽपि वा सति सुतप्राप्ति द्वितीयस्त्रियाम् । मन्दे वा बहुपुत्रवाञ्च्छशिनि वा सौम्येऽपि वाल्पात्मजो देवेड्ये बहुदारिका शशिगृहे तद्वत्सुताधिपेष्ठिते ॥ ५॥ सुखास्तदशमस्थितैरशुभकाव्यशीतांशुभिर्- व्ययाष्टतनयोदयेष्वशुभगेषु वंशक्षयः । मदे कविविदौ मतौ गुरुरसद्भिरंबुस्थितैः सुते शशिनि नैधनव्ययतनुस्थपापैरपि ॥ ६॥ पापे लग्ने लग्नपे पुत्रसंस्थे धीशे वीर्ये वेश्मनीन्दावपुत्रः । ओजर्क्षेशे पुत्रगे सूर्यदृष्टे चन्द्रे पुत्रक्लेशभाक् स्यादसूनुः ॥ ७॥ मान्दं सुतर्क्षे यदि वाऽथबौधं मान्द्यर्कपुत्रान्वितवीक्षितं चेत् । दत्तात्मजः स्यादुदयास्तनाथ- संबन्धहीनो विबलः सुतेशः ॥ ८॥ नीचारिपूढोपगते सुतेशे रिःफारिरन्ध्राधिपसंयुते वा । सुतस्य नाशः कथितोऽत्र तज्ज्ञैः शुभैरदृष्टे सुतभे सुतेशे ॥ ९॥ सुतनाथजीवकुजभास्करेषु वै पुरुषंशकेषु च गतेषु कुत्रचित् । मुनयो वदन्ति बहुपुत्रतं तदा सुतनाथवीर्यवशतः सुपुत्रताम् ॥ १०॥ पुंराश्यंशेऽधीस्वरे पुंग्रहेन्द्रै- र्युक्ते दृष्टे पुंग्रहे पुंप्रसुतिः । स्त्रीराश्यांशे स्त्रीग्रहैर्युक्तदृष्टे स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे ॥ ११॥ बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम् । स्त्रीणां वा कुजचन्द्रौ यदा तदा संभवति गर्भः ॥ १२॥ अशत्रुनिचारिनवांशकैः सुते सुतेशयुक्तैरपि तैस्तथाविधैः । सुतर्क्षगैर्वा गुरुभादिनांशकात्सुते फलैः पुत्रमितिर्विचिन्त्यते ॥ १३॥ जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशके स्त्रीणां क्षेत्रेबलं वदन्ति सुतदं मिश्रे प्रयासात्फलम् भास्वच्छुक्रगुरुस्फुटैक्यभव नेप्योजांशकेऽप्योजभे पुंसां बीजबलं सुतप्रदमिमं मिश्रे तु मिश्रं वदेत् ॥ १४॥ पञ्चाघ्नाच्छशिनः फुटादिशुहतं भानुस्फुटं शोधये- न्नीत्वा तत्र तिथिं सिते शुभतिथौ पुत्रोऽस्त्ययत्नादपि । कृष्णे नास्ति सुतस्तिथेर्बलवशाद्ब्रूयाद्द्वंयोः पक्षयोः दर्शे च्छिद्रतिथौ च विष्टिकरणे न स्यात् स्थिराख्ये सुतः ॥ १५॥ विष्टिः स्थिरं वा करणं यदि स्यात् कृष्णं जयेत् पौरुषसूक्तमन्त्रैः । पष्ठ्यां गुहार्धनमत्र कार्यं यजेच्चतुर्थ्यां किल नागराजं ॥ १६॥ रामायणस्य श्रवणं नवम्यं यद्यष्टमी चेच्छ्रवणव्रतं च । चतुर्दशी चेद्यादि रुद्रपूजा स्याद्द्वादशी चेत्समृतमन्नदानम् ॥ १७॥ तृप्ति पितॄणामिह पञ्चदश्यां कृष्ंए दशम्याः परतोऽतियत्नात् । पक्षत्रिभागेष्वपि नागराजं स्कन्दं च सेवेत हरी क्रमेण ॥ १८॥ पुत्रेशो रिपुनीचगोऽस्तमयगो रिःफाष्टमारिस्थित स्तद्वत्पुत्रगृहस्थितोऽपि यदि वा दुःस्थानपस्तद्वशात् । पुत्राभावनिदानमेव कथयेत् तत्खेचराक्रान्तभ- प्रोक्तैर्दैवतभूरुहैरपि मृगैः सन्तानहेतु वदेत् ॥ १९॥ द्रोहाच्छंभुसुपर्णयोर्नहि सुतः शापात्पितॄंआंरवे रिन्दोर्मतृसुवासिनीभगवतीकोपान्मनोदोषतः । स्वग्रामस्थितद्वतागुहरिपुज्ञात्युत्थदोषात्कुजे शापाद्वालकृताद्विलालवधतः श्चीविष्णुकोपादूबुधे ॥ २०॥ पारंपर्यसुरप्रियद्विजगुरुद्रोहात्फलाढ्यद्रु म- च्छेदाद्देवगुरौ तथा सति भृगौ पुष्पद्रुमच्छेदनात् । साध्वीगोकुलजातदोषवशतो यक्ष्यादिकामेन सा मन्देऽश्वत्थवधाद्रुषा पितृपतेः प्रेतैः पिशाचादिभिः ॥ २१॥ स्वर्भानौ सुतगे सुतेशसहिते सर्पस्य शापात्तथा केतौ ब्राह्मणशापतश्च गुलिके प्रेतोथशापं वदेत् । शुक्रेन्दू गुलिकान्वितौ यदि वधूगोहत्तिमाहुः सुते जीवो वाथ शिखी समान्दिरिह चेद्भूदेवत्या।सुतः ॥ २२॥ एवं हि जन्मसमये बहुपूर्वजन्म- कर्मार्जितं दुरितमस्य वदन्ति तज्ज्ञाः । तत्तद्ग्रहोक्तजपदानशुभक्रिया- भिस्तद्दोषशान्तिमिह शंसतु पुत्रसिध्द्यै ॥ २३॥ सेतुस्नानं कीर्तनं सत्कथायाः पूजां शंभोः श्रीपतेः सद्व्रतानि । दानं श्चाद्धं कर्जनागप्रतिष्टां कुर्यदेतैः प्राप्नुयात्सन्तर्ति सः ॥ २४॥ लग्नास्तपुत्रपतिजीवदशापहारे पुत्रेक्षकस्य सुतगस्य च पुत्रसिद्धिः पुत्रेशराशिमथवा यमकण्टकर्क्षं जीवेगते तनयसिद्धिरथांशभे वा ॥ २५॥ लग्नाधीशः पुत्रनाथेन योगं स्वोच्चे स्वर्क्षेचारगत्या समेति । पुत्रप्राप्तिः स्यात्तदा लग्ननाथः पुत्रर्क्षं वा याति धीशाप्तभं वा ॥ २६॥ विलग्नकामात्मजनायकानां योगात्समानीय दशां महाख्याम् । सुतस्थतद्वीक्षकतत्पतीनां दशापहारेषु सुतोद्भवः स्यात् ॥ २७॥ सुतपतिगुर्वोरथवा तद्युक्तराश्यंशकाधिपानां वा । बलसहितस्य दशायामपहारे वा सुतप्राप्तिः ॥ २८॥ जीवे तु जीवात्मजनाथभशक- त्रिकोणगे पुत्रजनिर्भवेन्नृणाम् । अथान्यशास्त्रेण च जन्मकालतो निरूपयेत्सन्ततिलक्षणं बुधः ॥ २९॥ जन्मनक्षत्रनाथस्य प्रत्ययर्क्षर्धिपस्य च स्फुटयोगं गते जीवे त्रिकोणे वा सुतोद्भवः ॥ ३०॥ निषेकलग्नाद्दिनपस्तृतीये राशौ यदा चारवशादुपैति । आधानलग्नादथवा त्रिकोणे रवौ यदा जन्म वदेन्नराणाम् ॥ ३१॥ आधानल्ग्नात्सुतभेशजन्म भाग्येऽपि वा पुण्यवशाच्च वाच्यं । आधनलग्ने शुभदृष्टियोगे दीर्घयुरैश्वर्ययुतो नरः स्यात् ॥ ३२॥ तत्कालेन्दुद्वादशांशे मेषात्तावति भेऽपि वा । तस्मात्तावति भे वापि जन्मचन्द्रं वदेद्बुधः ॥ ३३॥ प्रश्नात्मजस्वीकरणोपनीतिकन्याप्रदानाभिनवार्तवेषु । आधानकालेऽपि च जन्मतुल्यं फलं वदेञ्जन्मविलग्नतश्च ॥ ३४॥
त्रयोदशोऽध्यायः आयुर्भाव जाते कुमारे सति पूर्वमार्यै रायुर्विचिन्त्यं हि ततः फलानि । विचारणीया गुणिनि स्थितेतद् गुणाः समस्थाः खलु लक्षणज्ञैः ॥ १॥ केचिद्यथाधानविलग्नमन्ये शीर्षोदयं भूपतनं हि केचित् । होराविदश्चितनकाययोन्योर्वियोगकालं कथयन्ति लग्नम् ॥ २॥ आद्वादशाब्दान्नरयोनिजन्मना- मायुष्कला निश्चयितुं न शक्यते मात्रा च पित्रा कृतपापकर्मण बालग्रहैर्नशमुपैति बालकः ॥ ३॥ आद्ये चतुष्के जननीकृताघै- र्मध्ये च पित्रार्जितपापसङ्धैः । बालस्तदन्त्यासु चतुःशरत्सु स्वकीयदोषैः समुपैति नाशम् ॥ ४॥ तद्दोषशान्त्यै प्रतिजन्मतार- माद्वदशाब्दं जपहोमपूर्वम् । आयुष्करं कर्म विधाय ताता बालं चिकित्सादिभिरेव तक्षेत् ॥ ५॥ आष्टौ बालारिष्टमादौ नराणं योगारिष्टं प्राहुरावींशति स्यात् । अल्पं चाद्वात्रिंशतं मध्यमायु- श्चासप्तत्याः पूर्णमायुः शतान्तम् ॥ ६॥ नृणां वर्षशतं ह्यायुस्तास्मींस्त्रेधा विभज्यते । अल्पं मध्यं दीर्घमायुरित्येतत्सर्वसम्मतम् ॥ ७॥ मृत्युः स्याद्दिनमृत्युरुग्विषघटीकालेऽथ तिष्येऽम्बुभे ताताम्बासुतमातुलान्पदवशात्त्वाष्ट्रे च हन्यात्तथा । मूलर्क्षे पितृमातृवंशविलयं तस्यान्त्यपादे श्रियां सार्पे व्यस्तमिदं फलं न शुभसम्बन्धं विलग्नं यदि ॥ ८॥ पापाप्तेक्षितराशिसन्धिजनने सद्यो विनाशं ध्रुवं गण्डान्ते पितृमतृहा शिशुमृतिर्जीवेद्यदि क्ष्मापतिः । जातः सन्धिचतुष्टयेऽप्यशुभसंयुक्तेक्षिते स्यान्मृति- र्मृर्त्योभार्गगते च सा साति विधौ केन्द्रोऽष्टमे वा मृतिः ॥ ९॥ चान्द्रं रूपं लोकशूरो वरज्ञः कुड्ये चित्रं भाग्यलोके शुकानाम् । मेने राज्यं मृत्युभागाः प्रदिष्टा मेषादिनां वर्णसम्ख्यैहीमांशोः ॥ १०॥ दानं धेनो रुद्र रौद्री मुखेन भाग्या भानुर्गोत्र जाया नखेन । पुत्री नित्यं मृत्युभागाः क्रमेण मेषादीनां तेषु जाता गतायुः ॥ ११॥ रन्ध्रे केन्द्रेषु पापैरुदयनिधनगैर्वथ लग्नास्तयोर्व लग्नेऽब्जेवोग्रमध्ये व्ययमृतिरिपुगे दुर्बले शीतभनौ । क्षीणेन्दौ साशुभे वा तनुमदगुरुधीभाजि रन्ध्रास्तगोग्रै- मृत्युः स्यादशु केन्द्रे न यदि शुभखगाः सद्युतिर्वीक्षणं वा ॥ १२॥ जन्मेशोऽथ विलग्नपो यदिभवेद्दुस्थोऽबलो वत्सरै- स्तद्राशिप्रमितैश्च मारयति तन्मासैदृर्गाणाधिपः । अंशेशो दिवसैस्तथा यदि मृतिर्द्वित्र्यादियोगान्बहू- नालोच्य प्रवदेत्सुताष्टमगतैः पापैररिष्टं शिशोः ॥ १३॥ लग्नेन्द्वोस्तदधीसयोरपि मिथो लग्नेशरन्ध्रेशयो- र्द्रेक्काणास्वनवांशकादपि मिथस्तद्द्वादशांशात्क्रमात् । आयुर्दीर्घसमाल्पतां चरनगव्द्यांगैश्चरेऽथ स्थिरे ब्रूयाद्द्वन्द्वचरस्थिरैरुभयभैः स्थास्नुद्विदेहाटनैः ॥ १४॥ लग्नाधीशशुभाः क्रमाद्बहुसमाल्पायुंषि केन्द्रादिगाः रन्ध्रेशोग्रखगास्तथा यदि गता व्यस्तं विदध्युः फलं । जन्मेशाष्टमनाथयोरुदयपच्छिद्रेशयोर्मैत्रतो भास्वल्लग्नपयाश्चिरायुरहितेऽल्पायुः समे मध्यमः ॥ १५॥ लग्नाधिपो लग्ननवंशनायको जन्मेश्वरो जन्मनवांशनायकः । स्वस्वाष्टमेशाद्यदि चेद्बलान्विता दीर्घयुषः स्युविपरीतमन्यथ ॥ १६॥ लग्नेश्वरादतिबली निधनेस्वरोऽसौ केन्द्रस्थितो निधनरिः फगतिश्च पापैः । तस्यायुरल्पमथवा यदि मध्यमायु- रुत्साहसंकटवशात्परमायुरेति ॥ १७॥ नरोऽल्पायुयोर्गे प्रथमभगणे नश्यति शने- र्द्वितीये मध्यायुर्यदि भवति दीर्घयुषि सति । तृतिये निर्याणं स्फुटजशनिगुर्वर्कहिमगून् दशां भुक्ति कष्टमपि वदति निश्चित्य सुमतिः ॥ १८॥ सपापो लग्नेशो रविहतरुचिर्नीचरिपुगो यदा दुःस्थानेषु स्थितिमुपगतो गोचरवशात् । तनौ वा तद्योगो यदि निधनमाहुस्तनुभृतां नवांशाद्द्रेक्काणाच्छिशिरकरलग्नादपि वदेत् ॥ १९॥ शशी तदारूढगृहाधिपश्च लग्नाधिनाथश्च यदा त्रयोऽमी । गुणाधिकाः सद्ग्रहदृष्टयुक्त गुणधिकं तं कथयन्ति कालम् ॥ २०॥ लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः । मृत्युं विहाय विदधाति स दीर्घमायुः सार्द्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या ॥ २१॥ सर्वतिशाय्यतिबलः स्फुरदंशुजालो लग्ने स्थितः प्रशमयेत् सुरराजमन्त्री एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त्या इव चक्रधरे प्रणमः ॥ २२॥ मूर्तेस्त्रिकोणागमकण्टकेषु रवीन्दुजीवर्क्षनवांशसंस्थः । सुकर्मकृन्नत्यमशेषदोषान्मुष्णाति वद्धिष्णरनुष्णरश्मिः ॥ २३॥ केन्द्रत्रिकोणनिधनेषु न यस्य पापा लग्नाधिपः सुरगुरुश्च चतुष्टयस्थौ । भुक्त्वा सुखानि विविधानि सुपुण्यकर्मा जीवेच्च वत्सरशतं स विमुक्तरोगः ॥ २४॥ श्चीपत्युदीरितदशाभिरथाष्टवर्गत्- यत्कालचक्रदशयोडुदशाप्रकारात् । सम्यक्स्फुटाभिहतया क्रिययाप्तवाक्या- दायुर्बुधो वदतु भूरिपरीक्षया च ॥ २५॥
चतुर्दशोऽध्यायः रोगनिर्णय रोगस्य चिन्तामपि रोगभावस्थितैर्ग्रहैर्वा व्ययमृत्युसंस्थैः । रोगेश्वरेणापि तदन्वितैर्वा द्वित्र्यादिसंवादवशाद्वदन्तु ॥ १॥ पित्तोष्णज्वरतापदेहतपनापस्मारहृत्क्रोडज- व्याधीन्वक्ति रविर्दृगार्त्यरिभयं त्वग्दोषमस्थिस्त्रुतिम् । काष्ठाग्न्यस्त्रविषातिदारतनयव्यापच्चतुष्पाद्भयं चोरक्ष्मापतिधर्मदेवफणभृद्भूतेशभूतं भयम् ॥ २॥ निद्रालस्यकफातिसारपिटकाः शीतज्वरं चन्द्रमाः शृङ्गयब्जाहतिमग्निमान्द्यमरुचिं योषिव्द्यथाकामिलाः । चेतः शान्तिमसृग्विकारमुदकाद्भितिं च बालग्रहाद् दुर्गकिन्नरधर्मदेवफणभृद्यक्ष्याश्च भीतिं वदेत् ॥ ३॥ तृष्णासृक्कोपपित्तज्वरमनलविषास्त्रातिकुष्टाक्षिरोगान् गुल्मापस्मारमज्जाविहतिपरुषतापामिकादेहभङ्गान् । भूपारिस्तेनपीडां सहजसुतसुहृद्वैरियुद्धं विधत्ते रक्षोगन्धर्वघोरग्रहभयमवनीसूनुरूर्ध्वङ्गरोगम् ॥ ४॥ भ्रान्तिं दुर्वचनं दृगामयगलध्राणोत्थरोगं ज्वरं पित्तश्लेष्मसमीरजं विषमपि त्वग्दोषपाण्ड्वामयान् दुःस्वप्नं च विचर्चिकाग्निपतने पारुष्यबन्धश्रमान् । गन्धर्वक्षितिहर्म्यवाहिभिरपि ज्ञो वक्ति पीडां ग्रहैः ॥ ५॥ गुल्मान्त्रज्वरशोकमोहकफजान् श्रोत्रार्तिमोहामयान् देवस्थाननिधिप्रपीडनमहीदेवेशशापोद्भवम् । रोगं किन्नरयक्षदेफण भृद्विद्याधराद्युद्भवं जीवः सूचयति स्वयं बुधगुरूत्कृष्टापचारोद्भवम् ॥ ६॥ पाण्डुश्लेष्ममरुत्प्रकोपनयनव्यापत्प्रमेहामयान् गुह्यस्त्यामयमूत्रकृच्छ्रमदनव्यापत्तिशुक्लस्रुतिम् । दारस्त्रीकृतदेहकान्तिविर्हति शोषामयं योगिनी- यक्षीमातृगणाद्भयं प्रियसुहृद्भङ्गं सितः सूचयेत् ॥ ७॥ वातश्लेष्मविकारपादविहतिं चापत्तितन्द्राश्रमान् भ्रान्तीं कुक्षिरुगन्तरुष्णभृतकध्वंसं च पार्श्वहतिम् । भार्यापुत्रविपत्तिमङ्ग्विहर्तिं हृत्तापमर्कत्मजो वृक्षाश्मक्षतिमाह कश्मलगणैः पीडां पिशाचादिभिः ॥ ८॥ स्वर्भानुहृदी तापकुष्ठविमति व्यार्धं विषं कृत्रिमं पादार्ति च पिशाच पन्नगभयं भार्यातनूजापदम् । ब्रह्मक्षत्रविरोधशत्रुजभयं केतुस्तु संसूचयेत् प्रेतोत्थं च भयं विषं च गुलिको देहार्तमाशौचजम् ॥ ९॥ मन्दारान्वितवीक्षिते व्ययधने चन्द्रारुणौ चाक्षिरुक् शौर्याङ्गिरसो यमार सहिता दृष्टा यदि श्रोत्ररुक् । सोग्रे पञ्चमभे भवेदुदररुग्रन्ध्रारिनाथान्विते तद्वत्सप्तमनैधने सगुदरुक्छुक्रे च गुह्यामयः ॥ १०॥ षष्ठेऽर्केऽप्यथवाष्टमे ज्वरभयं भौमे च केतौ व्रणं शुक्रे गुह्यरुजं क्षयं सुरगुरौ मन्दे च वातामयम् । राहौ भौमनिरीक्षिते च पिलकां सेन्दौ शनौ गुल्मजं क्षीणेन्दौ जलभेषु पापसहिते तत्स्थेऽम्बुरोगं क्षयम् ॥ ११॥ जातो गच्छति येन केन मरणं वक्ष्येऽथ तत्कारणं रन्ध्रस्थैस्तदवेक्षर्कैर्बलवता तस्योक्तरोगैमृतिः । रन्धर्क्षोक्तरुजाथवा मृतपतिप्राप्तर्क्षदोषेण वा रन्ध्रेशेन खरत्रिभागपतिना मृत्युं वदेन्निश्चितम् ॥ १२॥ ग्रहेण युक्ते निधने तदुक्तरोगैर्मृतिर्वाऽथ तदीक्षकस्य ग्रहैर्वीमुक्ते निधनेऽथ तस्य राशेः स्वभावोदितदोषजाता ॥ १३॥ अग्न्युष्णज्वरपित्तशस्त्रजमिनश्चन्द्रो विषूच्यम्बुरु- ग्यक्ष्मादि क्षितिजोऽसृजा च दहनक्षुद्राभिचारायुधैः । पाण्ड्वादि भ्रमजं बुधो गुरुरनायासेन मृत्युं कफात् स्त्रीसङ्गोत्थरुजं कविस्तु मरुता वा संनिपातैः शनि ॥ १४॥ कुष्ठेन वा कृत्रिमभक्षणाद्वा राहुर्वीषाद्वाथ मसूरिकाद्यैः । कुर्याच्छिखी दुर्मरणं नराणं रिपोर्विरोधादपि कीटकाद्यैः ॥ १५॥ लग्नादष्टमराशेः स्वभावदोषोद्भवं वदेन्मृत्युम् । निधनेशस्य नवांशस्थितराशिनिमित्तदोषजनितं वा ॥ १६॥ पैत्त्यज्वरोष्णैर्जठराग्निनाजे वृषे त्रिदोषैर्दनाच्च शस्त्रात् । युग्मे तु कालश्चसनोष्णशूलै- रुन्मादवातारुचिभिः कुलीरे ॥ १७॥ मृगज्वरस्फोटजशत्रुजं हरौ स्त्रियां स्त्रियागुह्यजा प्रपातनात् । तुलाधरे धीज्वरसंनिपातजं प्लीहालिपाण्डुग्रहणीरुजालिनि ॥ १८॥ वृक्षाम्बुकाष्टायुधजं हयाङ्ग मृगे तु शूलाचिधीभ्रमाद्यैः । कुम्भे तु कासज्वरयक्ष्मरोगै- र्जले विपद्वा जलरोगतोऽन्त्ये ॥ १९॥ पापर्क्षयुक्ते निधने सपापे शस्त्रानलव्याध्रभुजङ्गपीडा । अन्योन्यदृष्टौ व्द्यशुभौ सकेन्द्रौ कोपात्प्रभोः शस्त्रविषाग्निजैर्वा ॥ २०॥ सौम्यांशके सौम्यगृहेऽथ सौम्य- सम्बन्धगे वा क्षयभे क्षयेशे । अक्लेशजातं मरणं नराणां व्यस्ते तदा क्रूरमृती वदन्ति ॥ २१॥ स्वोच्चे स्वमीत्रे सति सौम्यवर्गे व्ययाधिपे चोर्ध्वगती ससौम्ये । विपर्ययेऽधोगतिमेव केचित्- उर्ध्वस्यशीर्षोदयराशिभेदात् ॥ २२॥ केलासं रविशीतगू भृगुसुतः स्वर्ग महीजो महीं वैकुण्ठं शशिजो यमो यमपुरं सद्ब्रह्मलोकं गुरुः । द्वीपान् भोगिवरः शिखी तु निरयं सम्प्रापयेत् प्राणिनः सम्बन्धाव्द्ययनायकस्य कथयेत्तत्रान्त्यराश्यंशतः ॥ २३॥ धर्मेश्वरेणैव हि पूर्वजन्म वृत्तं भविष्यज्जननं सुतेशात् । तदीशजातीं तदधिष्ठितर्क्ष दिशं हि तत्रैव तदीशदेशम् ॥ २४॥ स्वोच्चे तदीशे सति देवभूमी द्वीपन्तरं नीचरिपुस्थ्नलस्थे । स्वर्क्षे सुहृद्भे समभे स्थिते वा सम्प्राप्नुयाद्भारतवर्षमेव ॥ २५॥ आर्यवर्तं गीष्पतेः शुयनद्यः काव्येन्द्वोश्च ज्ञस्य पुण्यस्थलानि । पङ्गोनीन्द्या म्लेच्छभूस्तीक्ष्णभानोः सौलारण्यं कीकटं भूमिजस्य ॥ २६॥ स्थिरे स्थिरांशाधिगतः सपापः पृष्ठोदयेऽधोमुखभे च संस्थः । तदीश्वरो वृक्षलतादिजन्म स्यादन्यथाजीवयुतः शरीरी ॥ २७॥ लग्नेशितुः स्वोच्चसुहृत्स्वगेहान् तदीश्वरो याति मनुष्यजन्म । समे मृगाः स्युवीहगाः परस्मिन् द्रेक्काणरूपैरपि चिन्तनीयम् ॥ २८ ॥ ताधेकराशौ जननं स्वदेशे तौ तुल्यवीर्यौ यदि तुल्यजातौ । वर्णो गुणस्तस्य खगस्य तुल्यः संज्ञोदितैरेव वदेत्समस्तम् ॥ २९॥
पञ्चदशोऽध्यायः भावचिन्ता भावाह् सर्वे शुभपतियुता वीक्षिता वा शुभेशै- स्तत्तद्भावाः सकलफलदाः पापदृग्योगहीनाः । पापाः सर्वे भवनपतयश्चेदिहाहुस्तथैव खेटैः सर्वैः शुभफलमिडं नीचमूढारिहीनैः ॥ १॥ तत्तद्भावात् त्रिकोणे स्वसुखमदनभे चास्पदे सौम्ययुक्ते पापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते भावानां पुष्टिमाहुः सकलशुभकरीमन्यथा चेत्प्रणाशं । मिश्रं मिश्रैर्ग्रहेन्द्रैः सकलमपि तथा मुर्तिभावादिकानाम् ॥ २॥ नाशस्थानगतो देवाकरकरैर्लुप्तस्तु युद्भावपो नीचारातिगृहं गतो यदि भवेत्सौम्यैरयुक्तेक्षितः । तद्भावस्य विनाशनं वितनुते तादृग्वधोऽन्योऽस्ति चेत् तद्भावोऽपि फलप्रदो न हि शुभश्चेन्नाशमुग्रग्रहः ॥ ३॥ लग्नादिभावाद्रिपुरन्ध्ररिःफे पापग्रहास्तद्भवनादिनाशम् । सौम्यास्तु नात्यन्तफलप्रदाः स्युर्भवादिकानां फलमेवमाहुः ॥ ४॥ यद्भावनाथो रिपुरन्ध्ररिःफे दुःस्थानपो यद्भवनस्थितो वा । तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितस्तद्भवनस्य सौख्यम् ॥ ५॥ भावाधीशे च भाबे सति बलरहिते च ग्रहे कारकाख्ये पापान्तह्स्थे च पापैररिभिरपि सनेक्षिते नान्यखेटैः । पापैस्तद्बन्धुमृत्युव्ययभवनगतैस्तत्त्रिकोणस्थितैर्वा वाच्या तद्भावहानिः स्फुटमिह भवति द्वित्रिसंवादभावात् ॥ ६॥ तत्तद्भावपराभवेश्वरखरद्रेष्काणपा दुर्बला भावार्यष्टमकामगा निजदशायां भावनाशप्रदाः । पापा भावगृहात् त्रिशत्रुभवगाः केन्द्रत्रिकोणे शुभाः वीर्यढ्याः खलु भावनाथसुहृदो भावस्य सिद्धिप्रदाः ॥ ७॥ राश्तोजन्मविलग्नयोर्धृतिपतिर्भृत्युस्थतद्वीक्षकौ मन्दः क्रूरदृगाणपो गुलिकपस्तैर्युक्तराश्यंशपा राहुश्चैष सुदुर्बलः स जननेभावानभीष्टस्थितः पापालोकितसंयुतो निजदशायां भावनाशावहाः ॥ ८॥ भावस्योदयपाश्रितस्य कुशलं यद्भावपेनोदय- स्वामी तिष्ठति संयुतोऽपि कलयेत्तद्भावजातं फलम् । दुःस्थाने विपरीतमेतदुदितं भावेश्वरे दुर्बले दोषोऽतीव भवेद्बलेन सहिते दोषाल्पता जल्पिता ॥ ९॥ यद्भावेष्वशुभोऽपि वोदयपतिस्तद्भाववृद्धिं दिशे- द्दुःस्थानाधिपतिः स चेद्यदि तनोः प्राबल्यमन्यस्य न । अत्रोदाहरणं कुजे सुतगते सिंहे बुषे वा स्थिते पुत्राप्तिं शुभवीक्षिते भुटिति तत्प्राप्तिं वदन्त्युत्तमाः ॥ १०॥ द्विस्थानाधिपतित्वमस्ति यदि चेन्मुख्यं त्रिकोणर्क्षजं तस्यार्द्धं स्वगृहेऽथ पूर्वमुभयोर्यत्तदृषादौ वदेत् । पश्चद्भावमिहापरार्द्धसमये युग्मे गृहे युग्मजं त्वोजस्थे सति चौजभावजफलं शंसन्ति केचिज्जनाः ॥ ११॥ यद्भावेशस्याधिशत्रुग्रहो वा यो वा खेटो बिन्दुशून्यर्क्षयुक्तः तत्तत्पाके मूर्तिभावादिकानां नाशं क्रूयादृऐववित्प्राश्रिकाय ॥ १२॥ स्वोच्चे सुहृत्क्षेत्रगतो ग्रहेन्द्रः षड्भिर्बलैर्मुख्यबलान्वितोऽपि । सन्धौ स्थितः सन्नफलप्रदः स्यत् एवं विचिन्त्यात्र वदेद्विपाके ॥ १३॥ भावेषु भावस्फुटतुल्भागस्त- द्भावजं पूर्णफलं विधत्ते । सन्धौ फलं नास्ति तदन्तराले चिन्त्योऽनुपातः खलु खेचराणम् ॥ १४॥ सूर्यादात्मपितृप्रभावनिविजां शक्तिं श्रियं चिन्तयेत् चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः । सत्वं रोगगुणानुजावनिरिपुज्ञातीन्धरासूनुना विद्याबन्धुविवेकमातुलसुहृद्वाक्कर्मकृद्बोधनः ॥ १५॥ प्रज्ञावित्तशरीरपुष्टितनयज्ञानानि वागीश्वरात् पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः । आयुर्जीवन्मृत्युकारणविपद्भृत्यांश्च मन्दाद्वदेत् सर्पेणैव पितामहंतु शिखिना मातामहं चिन्तयेत् ॥ १६॥ द्युमणिरमन्त्री भूसुतः सौमसौम्यौ गुरुरिनतनयारौ भार्गवो भानुपुत्रः । दिनकरद्विजेजौ जीवभानुज्ञमन्दाः सुरगुरुरिनसूनुः कारकाः स्युविलग्नात् ॥ १७॥ सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां फलमनुपरिचिन्त्यं लग्नदेहादिभावैः । समुपचयविपत्ती सौम्यपापेषु सत्यः कथयति विपरीतं रिःफषष्टमेषु ॥ १८॥ पापग्रहाः षष्ठमृतिव्ययस्था- स्तद्भाववृद्धिं कलयन्ति दोषैः । शुभास्तु तद्भावलयं हि तस्माच्छत्रवादि भावोत्फलप्रणाशः ॥ १९॥ भावस्य यस्यैव फलं विचिन्त्यं भावं च तं लग्नमिति प्रकल्प्य । तस्माद्वदेद्द्वादशभावजानि फलानि तद्रूपधनादिकानि ॥ २०॥ एवं हि तत्कारकतो विचिन्त्यं पितुश्च मातुश्च सहोदरस्य । तन्मातुलस्यापि सुतस्य पत्यु- र्भृत्यस्य सूर्यादिखगस्थितर्क्षात् ॥ २१॥ सूर्यास्थितर्क्षाज्जनकस्वरूपं वृद्धिं द्वितीयेन तु तत्प्रकाशम् । तद्भ्रातरं तस्य गुणं तृतीयात् तन्मातरं चापि सुखं चतुर्थात् ॥ २२॥ बुधिं प्रसादं सुतभाच्च षष्ठा- त्पीडा पितुर्दोषर्मारं च रोगम् । कामं मदं तस्य तु सप्तमेन दुःखं मृतिं मृत्युगृहात्तदयुः ॥ २३॥ पुण्यं शुभं तत्पितरं शुभेन व्यापारमस्यैव हि कर्मभावात् । लाभं ह्युपान्त्यात् क्षयमन्त्य- भावाच्चन्द्रादिकानां फलमेवमाहुः ॥ २४॥ तत्तद्भावात्कारकादेवमूह्यं तत्तन्मातृभ्रातृपित्रात्मजाद्यम् । तस्मिन् भावे कारके भावनाथे वीर्योपेते तस्य भावस्य सौखम् ॥ २५॥ धर्मे सूर्यः शीतगुर्बन्धुभावे शौर्ये भौमः पञ्चमे देवमन्त्री कामे शुक्रश्चाष्टमे भानुपुत्रः कुर्यात्तस्य क्लेशमित्याहुरन्ये ॥ २६॥ लग्नेश्वरो यद्भवनेशयुक्तो यद्भावगस्तस्य फलं ददाति । भावे तदीशे बलभाजि तेन भावेन सौख्यं व्यसनं बलोने ॥ २७॥ यद्भावप्रभुणा युतो बलवता मुख्याङ्गगो लग्नप- स्तद्भावानुभवं वितनुते यद्भावगस्तस्य च । संयुक्तो बलहीनभावपतिना निन्द्याङ्गभाजां फलं कुर्यात्तद्विपरीतमेवमुदितं सर्वेषु भावेष्वपि ॥ २८॥ दुःस्थानपस्तदितरस्वगृहस्थितश्चेत् स्वक्षेत्रभावफलमेव करोति नान्यति मन्दो मृगे सुतगृहे यदि पुत्रसिद्धिः षष्ठाधिपतकृतदोषफलं च नात्र ॥ २९॥ राशौ स्थितिर्मिथो योगो दृष्तिः केन्द्रेषु संस्थितः । त्रिकोणे वा स्थितिः पञ्चप्रकारो बन्ध ईरितः ॥ ३०॥
षोडशोऽध्यायः द्वाद्श भावफल लग्ननवंशपतुल्यतनुः स्याद्वीर्ययुत्तग्रहतुल्यतनुर्वा चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः ॥ १॥ लग्नेशे केन्द्रकोणे स्फुटकरनिकरे स्वोच्चभे वा स्वभे वा केन्द्रादन्यत्रसंस्थे निधनभवनपे सौम्ययुक्ते विलग्ने । दीर्घयुष्मान्धनाढ्यो महितगुणयुतो भूमिपालप्रशस्तो लक्ष्मीवान् सुन्दराङ्गो दृढतनुरभयो धार्मिकः सत्कुटुम्बी ॥ २ सत्संबन्धयुते कलेवरपतौ सद्ग्रामवासोऽथवा सत्सङ्गः प्रबलग्रहेण सहिते विख्यातभूपाश्रयः । स्वोच्चस्थे नृपतिः स्वयं स्वगृहगे तज्जन्मभूमौ स्थितिः सञ्चारश्चरभे स्थितिः स्थिरगृहे द्वद्वं द्विरूपं फलम् ॥ ३॥ विख्यातः किरणोज्वले तनुपतौ सुस्थे सुखी वर्धनो दुःस्थे दुःख्यसदृक्षनीचभवने वासो निकृष्टस्थले । स्वस्थो जीवति शक्तिमत्युदयभे वर्द्धिष्णरूर्जस्वलो निःशक्तौ निहतो विपद्भिरसकृत्खिन्नो भवेदातुरः ॥ ४॥ अर्थस्वामिनि मुख्यभावजुषि सत्स्वर्थे कुटुम्बश्रिया सर्वोत्कृष्टगुणो धनी च सुमुखी स्याद्दूरदर्शी नरः । सम्बन्धे सवितुर्द्वितीयपतिना लोपकारक्षमाण् विद्यामर्थमवाप्नुयादथ शनेः क्षुद्राल्पविद्यारतः ॥ ५॥ जैवे वैदिकधर्मशास्त्रनिपुणो बौधेऽर्थशस्त्रे पदुः शृऽगरोक्ति पटुर्भृगोर्हिमरुचेः किञ्चित्कलाविध्भवेत् । कौजे क्रूरकला पटुश्च पिशुनो राहौ स्थिते लोहलः केतौ भ्रश्यदलीकवाग्धनगतिः पापैश्च मूढोऽधनः ॥ ६॥ बन्धो यदि स्यात्तनुशौर्यनाथगो- रन्योन्यराशिस्थतयोर्बलाढ्ययोः । धैर्यं च शौर्यं सहजानुकूलतां प्राप्नोत्ययं साहसकार्यकर्तृताम् ॥ ७॥ शौर्यपे बलिनि सद्ग्रहयुक्ते कारकेऽपि शुभभावमुपेते । भ्रातृ वृद्धिरथ वीर्यविहीने दुःस्थने भवति सोदरनाशः ॥ ८॥ अयुग्मराशौ यदि कारकेशौ गुर्वर्कभूसूनुनिरीक्षितौ चेत् । ओजो गृहः स्याददि विक्रमाख्यः पुंभ्रातरस्त्वंशवशाड्भवेयुः ॥ ९॥ दुःस्थाने सुखपे शशिन्यपि सतां योगेक्षणैर्वजिते पापान्तःस्थितिमत्यसद्ग्रहयुते दृष्टे जनन्या मृतिः एतौ द्वावपि वीर्यगौ शुभयुतौ दृष्टौ शुभैर्बन्धुगै- र्मातुः सौख्यकरौ विधोश्च सुखगैः सौम्यैर्वदेत्तत्सुखम् ॥ १०॥ लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणी योगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम् । अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्ठमे वा तयो र्मातुर्नोपकरोति नाशसगये बन्धस्तयोर्वा न चेत् ॥ ११॥ मात्रृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु । भावकरकभावेशलग्नलग्नेश्वरैर्वदेत् ॥ १२॥ सुस्थौ सुखेशभृगुजौ तनुबन्धुयुक्ता वान्दोलिकां जनपतेश्वरतां विधत्तः । स्वर्णद्यनर्ध्यमणिभूषणपट्टशय्या- कामोपभोगकरणानि च गोगजाश्वान् ॥ १३॥ दुःस्थे सुखेशे कुजसूर्यक्ते सुखेऽपि वा जन्मगृहं प्रदग्धम् । जीर्णं तमोमन्दयुतेऽरियुक्ते परैर्हृतं गोक्षितिवाहनाद्यम् ॥ १४॥ सौम्यर्क्षंशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे । वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत् ॥ १५॥ स्थितिः पापानां वा द्विषति बलयुक्तारिपतिना युतो वा दृष्टो वा यदि रिपुगृहे वा तनुपतिः । अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतो रिपूणां पीडां द्राग्भृशमपरिहार्यं वितनुते ॥ १६॥ षष्ठेश्वरादतिबलिन्युदयाधिनाथे सौम्यग्रहांशसहिते शुभदृष्टयुक्ते । सौख्येश्वरेऽपि सबले यदि केन्द्रकोणे- ष्वारोग्यमाग्यसहितो दृढगात्रयुक्तः ॥ १७॥ शत्रुनाथे तु दुःस्थाने नीचमूढारिसंयुते टस्माद्बलाध्येलग्नेशे शत्रुनाशं रवौ शुभे ॥ १८॥ यद्भावेशयुतो वैरिनाथो यद्भावसंश्चितः । षष्टस्थितो यद्भावेशस्ते भावाःशत्रुतां ययुः ॥ १९॥ सत्संबन्धयुते सप्तर्क्षे तदीशे बलान्विते । पतिपुत्रवती षढ्वी भार्या सर्क्गुणैर्वृता ॥ २०॥ केन्द्रादन्यत्र रध्रेशे लग्नेशाद्दुर्बले सति । नाधिर्न विघ्नो न क्लेशो नृणामायुश्चिरं भवेत् ॥ २१॥ धर्मे कुजे वा सूर्य वा दुःस्थे तन्नायके सति । पापमध्यगते वाऽपि पितुर्मरणमादिशेत् ॥ २२॥ दिवा सूर्ये निशा मन्दे सुस्थे शुभनिरीक्षिते । धर्मेशे बलसंयुक्ते चिरं जीवति तत्पिता ॥ २३॥ मन्दारयोः शीतरुचौ च सूर्ये त्रिकोणगे तज्जननीपितृभ्याम् । त्यत्को भवेच्छक्रपुरोहितेन दृष्टे तनूजोऽस्ति सुखी चिरायुः ॥ २४॥ शनिर्भग्याधिपः स्याच्चेच्चरस्थो न शुभेक्षितः । सूर्ये दुःस्थानगेऽप्यन्यपितरं ह्युपजीवति ॥ २५॥ धर्मे तदीशे वा मन्दयुक्ते दृष्टेऽपि वा चरे । जातो दत्तो भवेन्नूनं व्ययेशे बलशालिनि ॥ २६॥ नभसि शुभखगे वा तत्पतौ केन्द्रकोणे बलिनि निजगृहोच्चे कर्मगे लग्नपि वा । महितपृथुयशाः स्याद्धर्मकर्मप्रदृत्तः नृपतिसदृशभाग्यं दीर्घमायुश्च तस्य ॥ २७॥ उर्जस्वी जनवल्लभे दशमगे सूर्ये कुजे वा महत् कार्यं साधयति प्रतापबहुलं खेशश्च सुस्थो यदि । सव्द्यापारव्तीं क्रियं वितनुते सौम्येषु सच्छलाधितां कर्मस्थेष्वहिमन्दकेतुषु भवेद्दुषर्मकारी नरः ॥ २८॥ लाभेशे यद्भावनाथयुक्ते यद्भावगेऽपि वा । भावं तदनुरूपस्य वस्तुनो लाभगैरपि ॥ २९॥ व्ययस्थितो यद्भावेशो व्ययेशो यत्र तिष्ठति । तस्य भावस्यानुरूपवस्तुनो नाशमादिशेत् ॥ ३०॥ भावेशस्थितभंशकोणमपि वा भावं तु वा लग्नपो लग्नेशस्थितभांशकोणमुदयं वाऽयाति भावाधिपः । संयोगेऽपि विलोकनेऽपि च तयोस्तद्भावसिद्धिं तदा ब्रूयात्कारकयोगतस्तनुपतेर्लग्नाच्च चन्द्रादपि ॥ ३१॥ यद्भावेशास्थतर्क्षांशत्रिकोणस्थे गुरुर्यदा । गोचरे तस्य भावस्य फलप्राप्तिं विनिर्दिशेत् ॥ ३२॥ लग्नारिनाथयोगे तु लग्नेशाद्दुर्बले रिपौ । तदा तद्वशगः शत्रुवीपरितमतोऽन्यथा ॥ ३३॥ यद्भावपस्य तनुपस्य भवत्यरित्वा- त्तत्कालशत्रु वशतोऽरिमृतिस्थितो वा । स्पर्धां तदा वदतु नेत च गोचरस्थ- स्तद्वत्सुहृत्वमपि संयुतिमैत्रतश्च ॥ ३४॥ लग्नेशयद्भावपयोस्तु योगो यदा तदा तत्फलसिद्धिकालः । भावेशवीर्ये शुभमन्यथान्य- ल्लग्नाच्च चन्द्रादपि चिन्तनीयम् ॥ ३५॥
सप्तदशोऽध्यायः निर्याणप्रकरण तत्तद्भावादष्टमेशस्थितांशे तत्त्रिकोणगे । व्ययेशस्थितभंशे वा मन्दे तद्भावनाशनम् ॥ १॥ रन्ध्रेशे गुलिको मन्दः खरद्रेक्काणपाऽपि वा । यत्र तिष्ठति तद्भंशत्रिकोणे रविजे मृतः ॥ २॥ उद्यद्दृगाणनाथस्य तथा रन्ध्राधिपस्य च । रन्ध्रद्रेक्काणपस्यापि भांशकोणे गुरौ मृतिः ॥ ३॥ स्वस्फुटद्वादशांशे वा रन्ध्रेशस्थनवांशके । लग्नेशस्थनवांशे वा तत्त्रिकोणेऽपि वा मृतिः ॥ ४॥ रन्ध्रभोर्वा भानोर्वा भानोर्वाभांशकोणं गते विधौ । मृतिं वदेत्सर्वमेतल्लग्नाच्चद्राच्च चिन्तयेत् ॥ ५॥ लग्नेशहीनयमकण्टकभांशकोणं प्राप्तेऽथवा शनिविहीनहिमांशुभांशम् । याते गुरौ स्वमरणन्त्वथ राहुहीन- भूसूनुभांशकगुरौ सहजप्रणाशः ॥ ६॥ भानोः कण्टकवर्जितस्य भवनांषे वा त्रिकोणे गुरौ तातो नश्यति कण्टकोनगुलिकर्क्षंशत्रिकोणे शनौ । अर्कोनेन्दुगृहंशकोणगगुरौ चन्द्रोनमन्दात्मज- क्षेत्रेंऽशेऽप्यथवा त्रिकोणगृहगे मन्दे जनन्या मृति ॥ ७॥ वदेत्प्रत्यरिनक्षत्रनाथाच्च यमकण्टकम् । त्यक्त्वा तद्भवने कोणे गुरौ पुत्रविनाशनम् ॥ ८॥ लग्नार्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु । तद्राशिसंस्थे पुरुहूतवन्द्ये तत्कोणगे वा मृतिमेति जातः ॥ ९॥ मान्दिस्फुटे भानुसुटं विशोध्य राश्यंशकोणे रविजे मृतः स्यात् । धूमादिपऽचग्रहयोगराशि- द्रेक्काणयातेऽर्कमुते च मृत्युः ॥ १०॥ विलग्नमन्दिस्फुटयोगभांशं निर्यणमासं प्रवदन्ति तज्ज्ञाः । निर्यणचन्द्रो गुलिकेन्दुयोगो लग्नं विलग्नार्किसुतेन्दुयोगः ॥ ११॥ मान्दिस्फुटोदितनवांशगतेऽमरड्ये तद्द्वादशांशसहिते दिननाथसूनौ । द्रेक्काणकोणभवने दिनपे च मृत्यु- र्लग्नेन्दुमान्दियुतभेशगतोदये स्यात् ॥ १२॥ गुलिकं रविसूनुं च गुणित्वा नवसंख्यया । उभयोरैक्यराश्यंशगृहगे रविजे मृतिः ॥ १३॥ स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् । तद्राशिनवभागस्थे जीवे मृत्युर्न संशयः ॥ १४॥ षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते । तत्त्रिकोणोपगे वाऽपि मन्दे मृत्युभयं नृणाम् ॥ १५॥ उद्यद्दृगाणपतिराशिगते सुरेड्ये तस्य त्रिकोणमपि गच्छति वा विनाशम् । रन्ध्रत्रिभागपतिमन्दिरगेऽथ मन्दे प्राप्ते त्रिकोणमथवास्य वदन्ति मृत्युम् ॥ १६॥ विलग्नजन्माष्टमराशिनाथयोः खरत्रिभागेश्वरयोस्तयोरपि । शशाङ्कमान्द्योरपि दुर्बलांशक- त्रिकोणगे सूर्यसुते मृतिर्भवेत् ॥ १७॥ लग्नाधिपस्थितनवांशकराशितुल्यं रन्ध्राधिपस्य गृहमापतिते घटेशे । तस्मिन्वदेन्मरणयोगमनेकशास्त्र- संक्षुण्णखिन्नमतिभिः परिकीर्तितं तत् ॥ १८॥ शशाङ्कसंयुक्तदृगाणपूर्वतः खरत्रिभागेशगृहं गतेऽपि वा । त्रिकोणगे वा मरणं शरीरिणां शशिन्यथ स्यात्तनुरन्ध्ररिःफगे ॥ १९॥ निधनेश्वरगतराशौ भानाविन्दौ तु भानुगतराशौ । निधनाधिपसंयुक्ते नक्षत्रे निर्दिशेन्मरणम् ॥ २०॥ यो राशिर्गुर्लिकोपेतः तत्त्रिकोणगते शनौ । मरणं निशिजातानां दिविजानां तदस्तके ॥ २१॥ गुरुराहुस्फुटैक्यस्य राशिं यातो गुरुर्यदा । तदा तु निधनं विद्यात्तत्त्रिकोणगतोऽथवा ॥ २२॥ अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ । तदीहनवभागर्क्षं गते वा मरणं भवेत् ॥ २३॥ जन्मकाले शनौ यस्य जन्माष्टमपतेरपि । राशेरंशकराशेर्वा त्रिकोणस्थे शनौ मृतः ॥ २४॥ निशीन्दुराशौ चेज्जन्म मान्दिभेऽंशे मृतिः । दिवार्कभे चेत्तद्द्यूनत्रिकोणे वा शनौ मृतिः ॥ २५॥ रन्ध्रेश्वराद्यावति भे मान्दिस्तावति भे ततः । शनिश्चेन्मरणं ब्रूयादिति सद्गुरुभाषितम् ॥ २६॥ जन्मकालीनमृगुजात्कामशत्रु व्यये रवौ । मरणं निश्चितं ब्रुयादिति सद्गुरुभाषितम् ॥ २७॥ तिष्ठन्त्यष्टमरिःफषष्ठपतयो रन्ध्रत्रिभागेश्वरो मान्दिर्यद्भवनेषु तेष्वपि गृहेष्वार्कीडयसूर्येन्दवः । सर्वे चारवशात्प्रयान्ति हि यदा मृत्युस्तदा स्यान्नृणां तेषामंशवशाद्वदन्तु निधनं तत्तत्त्रिकोणेऽपि वा ॥ २८॥
अष्टादशोऽध्यायः द्विग्रहयोग तिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं भौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम् । क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्- लब्धस्वं रविजेन धानुकुशलं भाण्डुप्रकारेषु वा ॥ १॥ कूट्स्त्र्यासवकुंभपण्यमशिवं मातुः सवक्रः शशी सज्ञः प्रश्चितवाक्यमर्थनिपुणं सौभाग्यकीर्त्यन्वितम् । विक्रन्तं कुलमुख्यमस्थिरमतिं चित्तेश्वरं साङ्गिरा वस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम् ॥ २॥ मूलादिस्नेहकूटैवहरति वणिग्बाहुयोद्धा ससौम्ये पुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा । गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्ये दुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च ॥ ३॥ सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद् वाग्मी भूगणपः सितेन मृदुना मायापटुर्लम्पटः । सद्विद्यो धनदारवान् बहुगुणः शुक्रेण उक्ते गुरौ ज्ञेयः श्मश्चुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि ॥ ४॥ असितसितसमागमेऽल्पचक्षु- र्युवतिसमाश्चयसम्प्रवृद्धवित्तः । भवति च लिखिपुस्तकचित्रवेत्ता कथितफलैः परतो विकल्पनीयाः ॥ ५॥ भूपो विद्वान् भूपतिर्भूपतुल्य- श्चन्द्रे मेषे मोषको निर्धनश्च । निस्स्वः स्तेनो लोकमान्यो महीशः स्वाढ्यः प्रेष्यश्चापि दृष्टे कुजाद्यैः ॥ ६॥ युग्मस्थेऽयोजीविभूपज्ञधृष्टा- श्चन्द्रे दृष्टे तन्तुवायोऽधनी च । स्वर्क्षे योधप्राज्ञसूरिक्षितीशा लोहाजीवो नेत्ररोगी क्रमेण ॥ ७॥ राजा ज्योतिर्विद्धनाढ्यो नरेन्द्रः सिंहे चन्द्रे नापितः पार्थिवेन्द्रः । दक्षो भूपः सैन्यपः कन्यकायां निष्णातः स्याद्भूमिनाथश्च भूपः ॥ ८॥ शठो नृपस्तौलिनि रुक्मकार श्चन्द्रे वणिक् स्यात्पिषुनः खलश्च । कीटे नृपो युग्मपिता महीशः स्याद्वस्त्रजीवी विकृताङ्गवित्तः ॥ ९॥ धूर्तो हयाङ्गे स्वजनं जनेशं नरौघमाश्रित्य शठः सदम्भः । भूपो नरेशः क्षितिपो विपश्चि- द्धनी दरिद्रो मकरे हिमांशौ ॥ १०॥ कुंभेऽन्यदारनिरतः क्षितिपो नरेन्द्रो वेश्यापतिर्नृवपरो हिमगौ नृमान्यः । अन्त्येऽघकृत्पटुमतिर्नृपतिश्च विद्वान् दोषैकदृग्दुरतिकृच्च कुजादिदृष्ते ॥ ११॥ चन्द्रमा के विभिन्न नवांशों में होने का आउर उस पर विविध ग्रहों की दृष्टि का फल आरक्षको वधरुचिः कुशलश्च युद्धे भूपोऽर्थवान्कलहकृत्क्षितिजांशसंस्थे । मूर्खोऽन्पदारनिरतः सुक्विः सितांशे सत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च ॥ १२॥ बौधे हि रङ्गचरचोरकविन्द्रमन्त्रि- गेयज्ञाशिल्पनिपुणः शहिनि स्थितेऽंशे । स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्यः स्त्रीप्रेश्यकृत्यनिरतश्च निरीक्ष्यमाणे ॥ १३॥ सक्रोधो नरपतिसंमतो निधीशः सिंहांशे प्रभुरसुतोऽतिर्हिंस्रकर्मा । जीवांशे प्रथितबलो रणोपदेष्टा हास्यज्ञः सचिवविकामवृद्धशीलः ॥ १४॥ अल्पापत्यो दुःखितः सत्यपि स्वे मानासत्कः कर्मणि स्वेऽनुरक्तः । दुष्टस्त्रीष्टः कोपनश्चार्किभागे चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे ॥ १५॥ सूर्यादितोऽत्रांशफलं प्रदिष्टं ज्ञेयं नवांशस्य फलं तदेव । राशीक्षणे यत्फलमुक्तमिन्दो- स्तद्द्वादशांशस्य फलं हि वाच्यम् ॥ १६॥ वर्गोत्तमस्वपरगेषु शुभं यदुक्तं तत्पुष्टमध्यलघुताऽशुभमुत्क्रमेण । वीर्यान्वितोंऽंशकपर्तिनरुणद्धि पूर्वं राशीक्षणस्य फलमंशफलं ददाति ॥ १७॥
एकोनविंशोऽध्यायः दशाफल भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरं सन्तुष्ताः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम् । ख्यातां तेन पराशरेण कथितां संगृह्य होरागमात् सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम् ॥ १॥ अग्न्यादितारपत्यो रविचन्द्रभौम- सर्पमरेण्यशनिचन्द्रजकेतुशुक्राः । तेने नटः सनिजया चटुधान्यसौम्य- स्थने नखा निगदिताः शरदस्तु तेषां ॥ २॥ तृक्षस्य गम्या घटिका दशाब्द- निघ्ना नताप्ता स्वदशाब्दसंख्या । रूपैर्नगैः संगुणयेन्नतेन हृतास्तु मासा दिवसाः क्रमेण ॥ ३॥ रविस्फुटं तज्जनने यदासीत् तथा विधश्चेत्प्रतिवर्षमर्कः । आवृत्तयुः सन्ति दशाब्दकानां भागक्रमात्तदृवसाः प्रकल्प्याः ॥ ४॥ दशाफल भानुः करोति कलहं क्षितिपालकोप- माकस्मिकं स्वजनरोगपरिभ्रमं च । अन्योन्यवैरमतिदुःसहचित्तकोपं गुप्त्यर्थधान्यसुतदारकृशानुपीडाम् ॥ ५॥ क्रौर्यध्विभूपैः कलहैर्धनाप्तिं वनाद्रिसंचारमतिप्रसिद्धिम् । करोति सुस्थो विजयं दिनेश- स्तैक्ष्ण्यं सदोद्योगरतिं सुखं च ॥ ६॥ मनःप्रसादं प्रकरोति चन्द्रः सर्वार्थसिद्धिं सुखभोजनं च । स्त्रीपुत्रभूषाम्बररत्नसिद्धीं गोक्षेत्रेलाभं द्विजपूजनं च ॥ ७॥ बलेन सर्वं शशिनस्तु वाच्यं पूर्वे दशाहे फलमत्र मध्यम् । मध्ये दशहे परिपूर्णवीर्यं तृतीयेभागेऽल्पफलं क्रमेण ॥ ८॥ भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः । पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं विद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः ॥ ९॥ सौम्यः करोति सुहृदागममात्मसौख्यं विद्वत्प्रशंसितयशश्च गुरुप्रसादम् । प्रागल्भ्यमुक्तिविषयेऽपि परोपकारं जायात्मजादिसुहृदां कुशलं महत्त्वम् ॥ १०॥ धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते संतानसिद्धिमवनीपतिपूजनं च । श्लाघ्यत्वमुन्नतजनेषु गजाश्वयान- प्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् ॥ ११॥ क्रीडासुखोपकरणानि सुवाहनाप्तिं गोरत्मभूषणनिधिप्रमदाप्रमोदम् । ज्ञनक्रियां सलिलयानमुपैति शौक्रयां कल्याणकर्मबहुमानमिलाधिनाथात् ॥ १२॥ पाकेऽर्कजस्यनिजदारसुतातिरोगान्- वातोत्तरान्कृषिविनाशमसत्प्रलापम् । कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास माकस्मिकं स्वजनभूमिसुखार्थनाशम् ॥ १३॥ कुर्यार्दहिः क्षितिपचोरविषाग्नोशस्त्र- भीर्तिं सुतार्तिसतिविभ्रमबन्धुनाशम् । नीचावमाननमतिक्रमतोऽपवादं स्थानच्युतिं पदहातिं कृतकार्यहानिम् ॥ १४॥ विधुंतुदे शुभान्विते प्रशस्तभावसंयुते दशा शुभप्रदा तदा महीपतुल्यभूतिदा । अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे- दचञ्चलार्थसंचयाः क्षितौ प्रसिद्धकीर्तयः ॥ १५॥ पथोनमीनालिगतस्य राहो- र्दशाविपाके महितं च सौख्यम् । देशाधिप्त्यं नरवाहनाप्ति- र्दशावसाने सकलस्य नाशः ॥ १६॥ केतोर्दशायामरिचोरभूपैः पीडा च शस्त्रक्षतमुष्णरोगः । मिथ्यापवादः कुलदूषितत्वं वह्नेर्भयं प्रोषणमात्मदेशात् ॥ १७॥ अथ तरणिदशायां क्रौर्यभूपालयुद्धै- र्धनमनलचतुष्पात्पीडनं नेत्रतापः । उदरदशनरोगः पुत्रदारार्तिरुच्चै- र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः ॥ १८॥ शिशिरकरदशायां मन्त्रदेवद्विजोर्वी- पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः । कुसुमवसनभूषागन्धनानारसाप्ति- भर्वति खलविरोधः स्वक्षयो वातरोगः ॥ १९॥ क्षितितनयदशायां क्षेत्रवैरक्षितिश- प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः । सहजतनयवैरं दुर्जनस्त्रीषुसक्ति- दर्हनरुधिरपित्तव्याधिरर्थोपहानिः ॥ २०॥ असुरवरदशायां दुःस्वभावोऽथवा स्या- दतिगहनगदार्तिः सूनुनार्योर्विनाशः । विषभयमरिपीडावीक्षणोद्धर्वाङ्गीरोगः सुहृदि कृषविरोधो भूपतेर्द्वेषलाभः ॥ २१॥ अमरगुरुदशायामम्बराद्यर्थसिद्धिः परिजनपरिवारप्रौढिरत्यर्थमानः । सुतधनसुहृदाप्तिः साधुवादाप्तपूजा भवति गुरुवियोगः कर्णरोगः कफार्तिः ॥ २२॥ रवितनयदशायां राष्टपीडाप्रहार- प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः । पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा पवनकफगुदार्तिः पादहस्ताङ्गतापः ॥ २३॥ शशितनयदशायां शश्वदाचार्यसिद्धि- र्द्विजजनितधनाप्तिः क्षेत्रेगोवाजिलाभः । मनवरसुरपूजा वित्तसंधातसिद्धिः प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा ॥ २४॥ शिखिजनितदशायां शोकमोहोऽङ्गनाभिः प्रभुजनपरिपीडा वित्तनाशोऽपराधः । प्रभवति तनुभाजां स्वीयदेशा- दृशनचरणरोगः श्लेष्मन्तापनं च ॥ २५॥ भृगुतनयदशायामङ्गनारत्नवस्त्र- द्यतिमिधिधनभूषावाजिशय्यासनाप्तिः । क्रयकृषिजलयानप्राप्तवित्तागमो वा भवति गुरुवियोगो बान्धवातिर्मनोरुक् ॥ २६॥
विंशोऽध्यायः अन्तर्दशाफल भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन । यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण ॥ १॥ लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थिति देहबलं सुवर्चः । उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः ॥ २॥ पाकेऽर्थनाथस्य कुटुम्बसिद्धिं सत्पुत्रिकाप्तिं सुखभोजनं च । प्राप्नोति वाग्जीविकया धनानि वक्ता सदुक्तिं सदसि प्रशस्ताम् ॥ ३॥ शौर्ये सवीर्ये सहजानुकूल्यं सण्तोषवातश्रिवणं च शौर्यं । सेनापतित्वं लभतेऽभिमानं जनाश्रयं सद्गुणभाजनत्वम् ॥ ४॥ बन्धूपकारं कृषकर्मसिद्धिं स्त्रीसङ्घमं वाहनलाभमेति । क्षेत्रं गृहं नूतनुमर्थसिद्धिं स्थानंप्रशस्तं च सुखेश्दाये ॥ ५॥ पुत्रप्राप्तिं बन्धुविलासं नृपतीनां साचिव्यं वा धीशदशायां बहुमानम् । प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति श्रेयस्कार्यं सज्जनशस्तं स विदध्यात् ॥ ६॥ रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे । अरोगतानुदारतामधृष्यतामतिश्रियम् ॥ ७॥ सम्पाद्य वस्त्राभरणानि शय्यां प्रीतो रमण्या रमतेऽतिवीर्यः । करोति कल्याणमहोत्सवादीन् सन्तोषयात्रां च मदेशदाये ॥ ८॥ ऋणविमोचनमुच्छ्रतिमात्मनः कलहकृत्यनिवृत्तिमुपैति सः । महिषपश्वजभृत्यजनागमं वयसि रन्ध्रपतेर्बलशालिनः ॥ ९॥ स्त्रीपुत्रपौत्रैः सहबन्धुवर्गै- र्भाग्यंश्रियं चानुभवत्यजस्त्रम् । श्रेयांसि कार्याण्यवनीशपूजां भाग्येशदाये विजदेवभक्तिम् ॥ १०॥ यत्कार्यमारब्धमुपैत्यनेन तस्यैव सिद्धिं सुखजीवनं च । कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं मानोन्नतिं कर्मपतेर्दशायाम् ॥ ११॥ एश्वर्यमव्याहतमिष्टबन्धु- समागमं भृत्यजनांश्च दासान् । संसारसौभाग्यमहोदयं च लभेत लाभाधिपतेर्दाशायाम् ॥ १२॥ व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने । अघौघनाशिनीं शुभक्रियां महीशमान्यताम् ॥ १३॥ वक्रगस्य निजतुङ्गसुहृत्- सुस्थानगस्य दशाफलमेवम् । शत्रुनीचगृहमौढ्यषडन्त्य- छिद्रगस्य तु फलान्यपि वक्ष्ये ॥ १४॥ दुःस्थेलग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् । जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे ॥ १५॥ दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना- मन्तःशत्रु निपीडनं परिभवं तद्गर्वभङ्ग वदेत् । मातृक्लेशमरिष्टमिष्ठसुहृदां क्षेत्रगृहोपप्लुतिं पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले ॥ १६॥ वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं पञ्चना- मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् । चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम् ॥ १७॥ जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् । रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिं दारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम् ॥ १८॥ पूर्वोपासितदेवकोपमशुभं जायातनूजापदं दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले । यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो- भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तमापन्नताम् ॥ १९॥ श्रवणमशुभवाचां भ्रतृकष्टं सुतातिं भवपवयसि दैन्यं वञ्चनं कर्णरोगम् । बहुरुजमपमानं बन्धनं सर्वसम्पत्- क्षयमपरशशीवाऽयाति रिःफेशदाये ॥ २०॥ मंज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितं कर्माजीवनिरूपितं फलमिदं यद्रोगचिरताविधौ । यद्यस्योक्षणयोगसंभवफलं भावेशयोगोद्भवं भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह ॥ २१॥ वर्गोत्तमांशस्थदशा शुभप्रदा मिश्रैव सा चास्तमिते च नीचगे । मृत्युव्ययारीशदशापहारयो- स्तत्र स्थितस्याप्यशुभं फलं भवेत् ॥ २२॥ क्रूरग्रहस्यैव दशापहारे त्रिपञ्चसप्तर्क्षपतेविपाके । तथैव जन्माष्टमनाथभुक्तौ चोरारिपीडां लभतेऽतिदुःखम् ॥ २३॥ शनेश्चतुर्थी च गुरोस्तु षष्ठी दशा कुजाह्योर्यदि पऽचमी सा । कष्ट भवेद्राश्यवसानभाग- स्थितस्य दुःस्थानपतेस्तथैव ॥ २४॥ उर्ध्वास्यतुङ्गभवनस्थितभूमिजस्य कर्मायगस्य हि दशा विदधाति राज्यम् । जित्वा रिपून्विपुलवाहनसैन्ययुक्तां राज्यश्रियं वितनुतेऽधिकमन्नदानम् ॥ २५॥ स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा लाभेऽपि वाऽस्तरहितो न च पापयुक्तः । तस्याब्दपाकसमये बहुरत्नपूर्णो धीमान्विशालविभवो जयति प्रशस्तः ॥ २६॥ नीचारिषष्ठव्ययसंश्रिता हि शुभाः प्रयच्छन्त्यशुभानि सर्वे । शुभेतरास्त्वेषु गताः प्रयच्छ- न्त्यमोघदुःखानि दशासु तेषम् ॥ २७॥ दशेशत्रोररिगेहभाजो लग्नेशशत्रोरपि वाऽथ भुक्तौ । शत्रोर्भयं स्थानलयः तदास्य स्निग्धोपि शत्रुत्वमुपैति नूनम् ॥ २८॥ यद्भावगः पाकपतिर्दशेशात्- तद्भावजातानि फलानि कुर्यात् । विपक्षरिःफाष्टमभावगश्चेद्- दुःखं विदध्यादितरत्र सौख्यम् ॥ २९॥ स्वोच्चत्रिकोणस्वहितारिनीचे पूर्णं त्रिपादार्द्धपदाल्पशून्यम् । क्रमाच्छुभं चेदशुभं विलोमाट् मूढे ग्रहे नीचसमं फलं स्यात् ॥ ३०॥ मन्दमान्द्यगुखरेशरन्ध्रपाः- तन्नवांशपतयोऽपि ये ग्रहाः । तेषु दुर्बलदशा मृतिप्रदा कष्टभे चरति सूर्यनन्दने ॥ ३१॥ मृतीशनाथस्थितभांशकेशयोः खरत्रिभागेश्वरयोर्बलीयसः । दशागमे मृत्युयुक्तभांशक- त्रिकोणगे देवगुरौ तनुक्षयः ॥ ३२॥ चतुष्टयस्था गुरुजन्मलग्नपा भवन्ति मध्ये वयसः सुखप्रदाः । क्रमेण पृष्ठोभयमस्तकोदय- स्थितोऽन्त्यमध्यप्रथमेषु पाकदः ॥ ३३॥ यद्भावगो गोचरतो विलग्नात्- दशेश्वरः स्वोच्चसुहृद्गृहस्थः । तद्भावपुष्टिं कुरुते तदानीं बलान्वितश्चेज्जननेऽपि तस्य ॥ ३४॥ बलोनितो जन्मनि पाकनाथो मौढ्यं स्वनीचं रिपुमन्दिरं वा । प्राप्तश्च यद्भावमुपैति चारात्- तद्भावनाशं कुरुते तदानीम् ॥ ३५॥ दशेशस्य तुङ्गे सुहृद्भे दशेशात् त्रिषत्कर्मलाभत्रिकोणास्तभेषु । यदा चारगत्या समायाति चन्द्रः हुभं संविधत्तेऽन्यथा चेदरिष्टम् ॥ ३६॥ पाकप्रभुर्गोचरतः स्वनीचं मौढ्यं यदायाति विपक्षभं वा । कष्टं विदध्यात्स्वगृहं स्वतुङ्गं वक्रं गतः सौख्यफलं तदानीम् ॥ ३७॥ पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा सूर्ये तत्फलसिद्धिमेति गुरुणाप्येवं फलं चिन्तयेत् । नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम् ॥ ३८॥ येन ग्रहेण सहितो भुजगाधिनाथ- स्तत्खेटजातगुणदोषफलानि कुर्यात् । सर्पान्वितः स तु खगः शुभदोऽपि कष्टं दुःखं दशान्त्यसमये कुरुते विशेषात् ॥ ३९॥ द्वावर्थकामाविह मारकाख्यौ तदीश्वरस्तत्र गतो बलाढ्यः । हन्ति स्वपाके निधनेश्वरो वा व्ययेश्वरो वऽप्यतिदुर्बलश्चेत् ॥ ४०॥ केन्द्रेशस्य सतोऽसतो।शुभशुभौ कुर्याद्दशा कोणपाः सर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः । रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम् ॥ ४१॥ कोणाधीशः केन्द्रगः केन्द्रपो वा कोणस्थश्चेद् द्वौ च योगप्रदौ स्तः । द्वावप्येतौ भुक्तिकाले दशाया- मन्योन्यं तौ योगदौ सोपकारौ ॥ ४२॥ न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु । भवाशुभफलं नॄणामात्मभावानुरूपतः ॥ ४३॥ आत्मसम्बन्धिनो ये च ये ये निजसर्धामिणः । तेषामन्तर्दास्वेव दिशन्ति स्वदशाफलम् ॥ ४४॥ केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् । सम्बन्धुमात्राद्बलिनौ भवेतां योगकारको ॥ ४५॥ त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् । केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत् ॥ ४६॥ केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ । अन्यत्रिकोणपतिना संबन्धो यदि किं पुनः ॥ ४७॥ योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः । तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम् ॥ ४८॥ स्वदशायां त्रिकोणेशो शुक्तौ केन्द्रपतेः शुभम् । दिशेत्सोऽपि तथा नो चेदसंबन्धेऽपि पापकृत् ॥ ४९॥ केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः । मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः ॥ ५०॥ बुधस्तदनु चंद्रोऽपि भवेत्त्दनु तद्विधः । पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम् ॥ ५१॥ यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ । नाथेनान्यतरस्यैव संबन्धाद्योगकारकौ ॥ ५२॥ तमोग्रहौ शुभारूढौऽसंबद्धौ येन केनचित् । अन्तर्दशानुरूपेण भवेतां योगकारकौ ॥ ५३॥ आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु । प्रथयन्ति तमारभ्य क्रमशः पापभुक्तयः ॥ ५४॥ रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथ- रन्ध्रत्रिभागाधिपमान्दिभेशाः । दुःखप्रदास्तेष्वपि दुर्बलो यः स नाशकारी स्वदशापहारे ॥ ५५॥ भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा मध्या भवेत्सा सुहृदुच्चभागे । आरोहिणी निम्नपरिच्युतस्य नीचारिभांशेष्वधमा भवेत्सा ॥ ५६॥ शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि । तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया ॥ ५७॥ तत्तद्भावात्व्ययथस्य तद्भावव्ययपस्य च । वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात् ॥ ५८॥ दशापतिर्लग्नगतो यदि स्यात् त्रिषट्दशैकादशगश्च लग्नात् । तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा लग्ने शुभो वा शुभदा दशा स्यात् ॥ ५९॥ यावन्ति वर्षणि दशा च सा स्यात्- चारक्रमात्तत्र दशापतिः सः । यत्र स्थितस्तद्भवनाद्विधोस्तु स्थितेः प्रकल्प्यं सदसत्फलं हि ॥ ६०॥ दशाधिनाथस्य सुहृद्गृहस्थ- स्तदुच्चगो वाऽथ दशाधिनाथात् । स्मरत्रिकोणोपचयोपगश्च ददाति चन्द्रः खलु सत्फलानि ॥ ६१॥ उक्तेषु राशिषु गतस्य विधोः स राशिः स्याज्जन्मकालभवमूर्तिधनादिभावः । तत्तद्विवृधिकृदसौ कथितो नराणां तद्भावहानिकृदथेतरराशिसंस्थः ॥ ६२॥ सारावलीमुडुदशां च वराहहोरा- मालोक्य जातकफलं प्रवदेन्नराणाम् । प्रश्नोदयग्रहवशादथ वा स्वजन्म- राश्यादिना वदतु नास्त्यनयोर्विशेषः ॥ ६३॥
एकविंशोऽध्यायः प्रत्यन्तर्दशाफल अपहारविभागलक्षणं तत्पंक्तिं क्रमशः स्फुटं प्रवचिम् । यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ ॥ १॥ पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाः शिष्ट रूपहता नराङ्कविहृता मासा नगैर्वासराः । छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा- नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः ॥ २॥ सूर्य महीश्वरादुपलभतेऽधिकं यशो वनाचलस्थलवसतिं धनागमम् । ज्वरोष्णरुग्जनकवियोगजं भयं निजां दशां प्रविशति नीक्षणदीधितौ ॥ ३॥ रिपुक्षयो व्यसनशमो धनागमः कृषिक्रिया गृहकरणं सुहृद्युतिः क्षयानलप्रतिहतिरकर्दायकं शशी यदा हरति जलोद्भवा रुजः ॥ ४ ॥ रुजागमः पदविरहोऽरिपीडनं वर्णोद्भवः स्वकुलजनैर्वरोधिता महीभृतो भवति भयं धनच्युति यर्दा कुजो हरति तद्ऽर्कर्वत्सरम् ॥ ५ ॥ रिपूदयो धनहृतिरापदुद्गमो विषाद्भयं विषयविमूढता पुनः शिरोदृशोरधिकरुगेव देहिनाम् अहौ भवेधिमकरायुरन्तरो ॥ ६॥ रिपुक्षयो विविधधनाप्तिरन्वहं सुरार्चनं द्विजगुरुबन्धुपूजनम् । श्रवःश्रमो भवति च यक्ष्मरोगिता सुराचिंते प्रविशति गोपशति गोपतेर्दशाम् ॥ ७॥ धनाहतिः सुतविरहः स्त्रिया रुजो गुरुव्ययः सपदि परिच्छदच्युतिः । मलिष्ठता भवति कफप्रपीदनं शनैश्चरे सवितृदशान्तरं गते ॥ ८॥ विचञ्चिका पिटकसकुष्ठकामिला विशर्धनं जठरकटिप्रपीडनम् । महीक्षयः त्रिगदभयं भवेत्तदा विधोः सुते चरति रवेरथाब्दकम् ॥ ९॥ सुहृव्द्ययुः स्वजनकुटुम्बविग्रहो रिपोर्भयं धनहरणं पदच्युतिः । गुरोर्गदश्चरणशिरोरुगुच्चकैः शिखी यदा विशति दशां विवस्वतः ॥ १०॥ शिरोरुजा जठरगुदातिंपीडनं कृषिक्रिया गृहधनधन्यविच्युतिः । सुतस्त्रियोरसुखमतीव देहिनां भृगोः सुते चरति रवेरथाब्दकम् ॥ ११॥ चन्द्र-विचार स्त्रीप्रजाप्तिरमलांशुकागमो भूसुरोत्तमसमागमो भवेत् । मातुरिष्टफलमङ्गनासुखं स्वां दशां विशति शीतदीधितौ ॥ १२॥ पित्तवह्निरुधिरोद्भवा रुजः क्लेशदुःखरिपुचोरपीडनम् । वित्तमानविहतिर्भवेत्कुजे शीतदीधितिदशान्तरं गते ॥ १३॥ तीव्रदोषरिपुवृद्धिबन्धुरुङ् मारुताशनिभयातिरुद्भवेत् । अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ ॥ १४॥ दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः । राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरऊ ॥ १५॥ नैकरोगविहतिः सुहृत्सुत- स्त्रीरुजा व्यसनसंभवो महान् । प्राणहानिरथवा भवेच्छनौ मारबन्धुवयसो गतेऽन्तरम् ॥ १६॥ सर्वदा धनगजाश्वगोकुल- प्राप्तिराभरणसौख्यसम्पदः । चित्तबोध इति जायते विधो- रायुषि प्रवेशति प्रबोधने ॥ १७ चित्तहानिरपि सपदश्च्युति- र्बन्धुहानिरपि तोयजं भयम् । दासभृत्यहतिरस्ति देहिनां केतुके हरति चान्द्रमब्दकम् ॥ १८॥ तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः । पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ ॥ १९॥ राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः । पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तरम् ॥ २०॥ मंगल की महादशा में विविध अन्तर्दशों का फल पित्तोष्णरुग्व्रणभयं सहजैवियोगः क्षेत्रप्रवादजनितार्थविभूतिसिद्धिः । ज्ञात्यग्निशत्रुनृपचोरजनैविरोधो धात्रीसुतो हरति चेच्छरदं स्वकीयाम् ॥ २१॥ शस्त्राग्निचोररिपुभूपभयं विषातिः शुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः । प्राणव्ययोऽथ यदिवा विपुलापदो वा वक्रायुरन्तरगते भुजगाधिनाथे ॥ २२॥ द्विजविबुधसमर्चा तिर्थपुण्यानुसेवा सततमतिथिपूजा पुत्रमित्रादिवृद्धिः । श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वा भवतिकुजदशान्तः संगते वागधीशे ॥ २३॥ उपर्युपरिविनाशः स्वात्मजस्त्रीगुरूणा- मगणितविपदन्तर्दुःखमर्थोपहानिः । वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि- र्भवति कुजदशायामर्कजे सम्प्रयाते ॥ २४॥ अरिभयमुरुचोरोपद्रवोऽथार्थहानिः पशुगजतुरगाणां विप्लवोऽमित्रयोगः । नृपकृतपरिपीडा शूद्रवैरोद्भवो वा विशति शशितनूजे विष्वधात्रीसुतायुः ॥ २५॥ अशनिभयमकस्मादग्निशस्त्रप्रपीडा विगमनमथ देहाद्वित्तनाशोऽथवा स्यात् । अपगमनमसुभ्यो योषितो वा विनाशः प्रविशति यदि केतुः क्रूरनेत्रायुरन्तम् ॥ २६॥ युधि जनितविमानं विप्रवासः स्वदेशा- द्वसुहृतिरपि चोरैर्वमनेत्रोपरोधः । परिजनपरिहानिर्जायते मानवाना- मपहरति यदायुर्भौमिजं भार्गवेन्द्रः ॥ २७॥ नृपकृतपरिपूजा यद्धलब्धप्रभावः परिजनधनधान्यश्रीमदन्तःपुरं च । अतिविलसितकृत्तः साहसादाप्तलक्ष्मी- स्तिमिरभिदि कुजायुर्दायसंहारिणीति ॥ २८॥ विविधधनसुताप्तिविप्रयोगोऽरिवर्गै- र्वसनशयनभूषारत्नसम्पत्प्रसूतिः । भवति गुरुजनातिर्गुल्मपित्तप्रपीडा धरणितनयवर्षं शीतगौ सम्प्रयाते ॥ २९॥ राहु की महादशा में विविध अन्तर्दशों का फल विषाम्बुरुग्दुष्टभुजङ्गदर्शनं पराबलासंयुतिरिष्टविच्युतिः । अरिष्टवाग्दुष्टजनव्यथा भवेद्विधुंतुदेनापहृते स्ववत्सरे ॥ ३०॥ सुखोपनीतिः सुरविप्रपूजनं विरोगता वामदृशां समागमः । सुपुण्यशास्त्रर्थविचारसम्भवः सुरारिदायान्तगे बृहस्पतौ ॥ ३१॥ समीरपित्तप्रगदक्षतिस्तनौ तनूजयोषित्सहजैश्च विग्रहः । स्वभृत्यनाशश्च पदच्युतिर्भवेत्- दितिप्रजायुः प्रविस्शत्यथार्कजे ॥ ३२॥ सुतस्वसिद्धिः सुहृदां समागमो मनोविनिन्द्यत्वमतीव जायते । पटुक्रियाभूषणकौशलादयो भुजङ्गसंवत्सरहारिणीन्दुजे ॥ ३३॥ ज्वराग्निशस्त्रारिभयं शिरोरुजा शरीरकम्पः स्वसुहृद्गुरुव्यथा । विषव्रणातिः कलहः सुहृज्जनै- रहीन्द्रदायान्तरगे शिखाधरे ॥ ३४॥ कलत्रलब्धिः शयनोपचारता तुरङ्गमातङ्गमहीसमागमः । कफानिलाप्तिः स्वजनैविरोधिता भवेद्भुजङ्गायुरपाहृतौ भृगोः ॥ ३५॥ अरिव्यथा स्यादतिपीडनं दृशोविंषाग्निशस्त्राहतिरापदुद्गमः । वधूसुतातिर्नृपतेर्महद्भयं भुजङ्गवर्षे तिमिरारिणा हृते ॥ ३६॥ वधूविनाशः कलहो मनोरुजा कृषिक्रयावित्तपशुप्रजाक्षयः । सुहृद्विपत्तिः सलिलाद्भयं भवे- द्विधौ दशाभक्तरि देवविद्विधः ॥ ३७॥ नृपाग्निचोरास्त्रभयं शरीरिणां शरीरनाशो यदि वा महारुजः । पदभ्रमो हृन्नयनप्रपीडनं यदात्र सर्पयुषि संचरेत्कुजः ॥ ३८॥ बृहस्पति की महादशा में विविध अन्तर्दशों का फल सौभाग्यकान्तितबहुमानगुणोदयः स्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च । आचार्यसाधुजनसंयुतिरिष्टसिद्धिः सवत्सरं हरति देवगुरौ स्वकीयम् ॥ ३९॥ वेश्याङ्गनामदकृदासवदोषसङ्ग उत्कर्षसौख्यसकुटुम्बपशुप्रपीडा । अर्थव्ययोरुभयमक्षिजरुक्सुताति जैवीं दशां विशति दैनकरे नराणाम् ॥ ४०॥ स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः । देवद्विजार्चनसुतार्थसुखप्रयोगै- र्गीवर्णपूजितदशां हरतीन्दुसूतौ ॥ ४१॥ शस्त्रव्रणं भवति भृत्यजनैविरोध- श्चित्तव्यथा तनययोषिदुपद्रवश्च । प्रणच्युतिर्गुरुसुहृज्जनविप्रयोगः सौरेड्यमायुरपहृत्य ददाति केतुः ॥ ४२॥ नानाविधार्थपशुधान्यपरिच्छदस्त्री- पुत्रान्नपानशयनाम्बरभूषणाप्तिः । देवद्विजार्चनमुपासनतत्परत्व- मायुर्यदा हरति जैवमथासुरेड्यः ॥ ४३॥ शत्रोर्जयः क्षितिपमाननकीर्तिलाभः स्याच्चण्डता नरतुरङ्गमवाहनाप्तिः । श्रेण्यग्रहारपुरराष्ट्रसमस्तसम्पद दुच्चैरुचथ्यसहजायुरपाहृतेऽर्के ॥ ४४॥ योषिद्बहुत्वमरिनाशनमर्थलाभः कृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः । दवद्विजार्चनपरत्वमतीव पुंसां संजायते गुरुदशाहृति शर्वरीशे ॥ ४५॥ बन्धूपतोषणमरिव्रजतोऽर्थलाभः सुक्षेत्रसत्कृतिरिह प्रथितप्रभावः इर्षद्गुरूपहतिरीक्षणसुक्षतिर्वा क्षित्यात्मजे हरति वत्सरमार्यजातम् ॥ ४६॥ बन्धूपतप्तिरुरुमानसरुग्गदार्ति- श्चोराद्भयं गुरुगदो जठरोद्भवो वा । राजेन्द्रपीडनमरिव्यसनं स्वनाशः सम्पद्यते हरति सूरिदशां सुरारौ ॥ ४७॥ शनि को महादशा में विविध अन्तर्दशों का फल कृषिवृद्धभृत्यमहिषाभ्युदयः पवनामयो वृषलजातिधनम् । स्थविराङ्गनाप्तिरलसत्वमघो निजवत्सरान्तरगते रविजे ॥ ४८॥ सुभगत्वमस्ति सुखित वनिता नृपलालनं विजयमित्रयुतिः त्रिगदोद्भवः सहजपुत्ररुजा शनिदायहारिणि शशाङ्कसुते ॥ ४९॥ मरुदग्निपीडनमरिव्यसनं सुतदारविग्रमतिः सततम् । अशुभावलोकनमहेश्च भयं मृदुवत्सरं हरति केतुपतौ ॥ ५०॥ सुहृदङ्गनातनयसौख्ययुतः कृषितोययानजनितार्थचयः । शुभकीर्तिरुद्भवति देहभृतां यमदायहारिणि भृगोस्तनये ॥ ५१॥ मरणं तु वा रिपुभयं सततं गुरुवर्गरुग्जठरनेत्ररुजा । धनधान्यविच्युतिरिह प्रभवेत्- रविजायुराविशति तीव्रकरे ॥ ५२॥ वनिताहतिर्मरणमेव नृणां सुहृदां विपत्तिरथ रोगभयम् । जलवातजं भयमतीव भवेत्- रविजायुराविशति रात्रिकरे ॥ ५३॥ स्वपदच्युतिः स्वजनविग्रहरुक्- ज्वरवाह्नशस्त्रविशभिरथ वा । अरिवृद्धिरान्तररुगक्षिभयं रविजायुराविशति भुमिसुते ॥ ५४॥ अप्मार्गयानमसुभिविरहस्तु अथ वा प्रमेहगुरुगुल्मभयम् । ज्वररुक्क्षतिः सततमेव नृणा- मसितान्तरं विशति भोगिपतौ ॥ ५५॥ अमरार्चनद्विजगणाभिरुचि- र्गृहपुत्रदारविहतिस्तु भवेत् । धनधान्यवृद्धिरधिका हि नृणां गतवत्यथार्किवयसीन्द्रगुरौ ॥ ५६॥ बुध की महादशा में विविध अन्तर्दशों का फल धर्मार्गनिरतिर्विवपश्चितां सङ्गमो विमलधीर्घनं द्विजात् । विद्यया बहुयशः सुखं सदा चन्द्रजे हरति वत्सरं स्वकम् ॥ ५७॥ दुःखशोककलहाकुलात्मता गात्रकम्पनममित्रसंयुतिः । क्षेत्रयान्विप्युतिर्यदा भवेत्- सोममसूनुशरदं गतः शिखी ॥ ५८॥ देवविप्रगुरुपूजनक्रिया दानधर्मपरतासमागमः । वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते ॥ ५९॥ हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक् । भूपतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते ॥ ६०॥ मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम् । प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीघितौ ॥ ६१॥ अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता । स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते ॥ ६२॥ मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम् । मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे ॥ ६३॥ व्याधिशत्रुभयविच्युतिर्भवे- द्ब्रह्मसिद्धिरवनीशसत्कृतिः । धर्मसिद्धितपसां समुद्ग्रमो देवमन्त्रिणि विदो दशां गते ॥ ६४॥ अर्थधर्मपरिलुप्तिरुच्चकैः सर्वकार्यविफलत्वमङ्गिनाम् । श्लेष्मवातजनिता रुगुद्भवे- द्वोधनायुषि समागतेऽसिते ॥ ६५॥ केतु की महादशा में विविध अन्तर्दशों का फल रिपुजनकलहं सुहृद्विरोधं त्वशुभचः श्रवणं ज्वराङ्गदाहम् । गमनपरधाम्नि वित्तनाशं शिखिनि लभेत् दशां गते स्वकीयाम् ॥ ६६॥ द्विजवरकलहः स्त्रिया विरोधः स्वकुलजनैरपि कन्यकाप्रसूतिः । परिभवजननं परोपतापो भवति सिते शिखिवत्सरान्तराले ॥ ६७॥ गुरुजनमरणं ज्वर्तारः स्वजनविरोधविदेशयानलभः । नृपकृतकलहः कफानिलाति- र्विशति रवौ शिखिवत्सरान्तरालम् ॥ ६८॥ सुलभबहुधनं तथैव हानिः सुतविरहो बहुदुःखभाक्प्रसूतिः । परिजनयुवतिप्रजाप्रलाभः शशिनि यदा शिखिदायमभ्युपेते ॥ ६९॥ स्वकुलजकलहं स्वबन्धुनाशं भयमपि पन्नगजं वदन्ति चोरात् हुतवहभयशत्रुपीडनं च व्रजतिकुजे ध्वजनामखेचरायुः ॥ ७०॥ अरिकृतकलहं नृपाग्निचौरै- र्भयमपि पन्नगजं वदन्ति तज्ज्ञाः । खलजनवचनं दुरिष्टचेष्टा समसि गतेऽत्र शिखीन्द्रदायमाहुः ॥ ७१॥ सुतवरजननं सुरेन्द्रपूजा धरणिधनाप्तिरुपायनार्थसिद्धिः । धनचयजननं महीशमानो भवति गतेऽत्र गुरौ शिखीन्द्रदायम् ॥ ७२॥ परिजनविहतिं परोपतापं रिपुजनविग्रहमङ्गभङ्गतां च । धनपदविर्युतिं तथाहुरार्या गतवति सूर्यसुते शिखाधरायुः ॥ ७३॥ सुतवर्जननं प्रभुप्रशस्तिः क्षितिधनसिद्धिररीश्वरप्रपीडा । पशुकृषीविहतिर्भवेत्तु पुंसां विशति बुधे शिखिवत्सरान्तरालम् ॥ ७४॥ शुक्र की महादशा में विविध अन्तर्दशों का फल वसनभूषणवाहचन्दना- द्यनुभवः प्रमदासुखसम्पदः । द्युतियुतिः क्षितिपाद्धनलब्धयो भृगुसुते स्वदशां प्रविशत्यपि ॥ ७५॥ नयनकुक्षिकपोलगदोद्भवः क्षितिभृतो भयमस्ति शरीरिणाम् । गुरुकुलोद्भवबान्धवपीडनं भृगुसुतायुषि भानुमति स्थिते ॥ ७६॥ नखशिरोरदनक्षतिरुच्चकैः पवनपित्तरुगर्थविनाशनम् । ग्रहणिगुल्मकयक्ष्मकपीडनं सितवयोहृति तत्र हिमल्विषि ॥ ७७॥ रुधिरपित्तगदातिसमाश्रयः कनकताम्रचयावनिसंग्रहः । सुवतिदूषणमुद्यमविच्युति- र्वृषभवल्लभवत्सरगे कुजे ॥ ७८॥ निधिभवः सुतलब्धिरभीष्तवाक् स्वजनपूजनमप्यरिबन्धनम् । दहनचोरविषोद्भवपीडनं तुलधरेश्वरवत्सरगेऽसुरे ॥ ७९॥ विविधधर्मसुरेशनमस्क्रिया भवति चात्मजवामदृगागमः । विविधराज्यसुखं च शरीरिणां कविदशाहृति कार्मुकनायके ॥ ८०॥ नगरयोधनृपोद्भवपूजनं प्रवरयोषिदवाप्तिरथास्ति वा । विविधवित्तपरिच्छदसंयुति- दितिपूजितदायगते शनौ ॥ ८१॥ तनयसौख्यमागमसम्पदां निचयलब्धिरतिप्रभुता यशः । पवनपित्तकफातिररिच्युतिर्- दनुजमन्त्रिदशाहृति चन्द्रजे ॥ ८२॥ सुतसुखादिबहिः स्थितिरग्निजं भयमतीव विनाशनमङ्गरुक् । अपि च वारवधूजनसंयुतिः शिखिनि यात्यलमौशनसीम् दशाम् ॥ ८३॥ दशापहारेषु फलं यदुक्तं वर्णाधिकारानुगुणं वदन्तु । छिद्रेषु सूक्ष्मेष्वपि तत्फलाप्तिः छायाङ्कवार्तश्रवणानि वा स्युः ॥ ८४॥
द्वाविंशोऽध्यायः कालचक्र दशा दस्रादितः पादवशेन मेषान्न्- मीनाम्शकान्तं क्रमशोऽपसव्यम् । कीटाद्धयान्तं गणयेच्च सव्य- मार्गेण पादक्रमशोऽजतारात् ॥ १॥ एवं भूयाच्चापसव्यं च सव्यं भानि त्रीणि त्रीणि विद्यात्क्रमेण । तद्राशीशप्रोक्तवर्षैर्दशास्य देवं प्राहुः कालचक्रे महान्तः ॥ २॥ मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात् । दिवाकरदिवत्सराः शुभाशुभाप्तिहेतवः ॥ ३॥ दस्ःअपहारादिककालचक्रे वाक्यानि दस्रादिपदादिजानि । दक्ष्यामि वर्णैर्नवभिर्भमानै राशीशवर्षैः परमायुरत्र ॥ ४॥ पौरं गावो मित सन्दिग्धं नक्षत्रेन्दुः स तु भूशूलम् । रूपेत्रक्षन्निधयोरङ्गे वाणी चस्थं दधि नक्षत्रम् ॥ ५॥ दासत्वेशो गौरीपुत्रं क्षन्निधिकारो गोभूशेषम् । सौदधिनक्षत्रेहासन्तो भौमगुरुः पुत्राक्षोनाधिः ॥ ६॥ वाक्यान्येतान्यश्वियाम्यर्क्षयोर्या- न्यश्विन्याद्यन्यग्निभस्यापसव्ये । सव्येऽजेन्द्वोर्वक्ष्यमाणेषु वाक्ये- ष्विन्दोर्वक्यान्येव रौद्रस्य भूयः ॥ ७॥ धेनुः क्षेत्रे पुरगो शंभु- स्तासां जत्रु क्षन्निधि दासी । चर्माभोगी रायधिनाक्ष- स्त्रीपौराङ्गी शिवतीर्थाब्जे ॥ ८॥ त्रक्षनिधिर्दा सूचिशंभो सौरयधी नक्षत्रं पारम् । गोशिवतीर्थे दात्रिक्ष्न्नो धीहसितांशुभोर्गी रम्या ॥ ९॥ नक्षत्रपादैष्यघटी समुत्था पूर्वा दशा तत्पतिवर्षजाता । पूर्वोक्तपादक्रमशोऽत्र विद्यात्- केषांचिदेवं मतमाहुरार्या ॥ १०॥ दस्रादिपादप्रभृतीनि भानां वाक्यानि यान्यक्षरपंक्तिजानि । तेषां क्रमेणैव दशा प्रकल्प्या वाक्यक्रमं साध्विति केचिदाहुः ॥ ११॥ वाक्यक्रमे कर्क्यलिमीनसन्धौ मण्डूकगत्यश्वरप्लुतिश्च । सिंहावलोकस्त्रिविधा तदानीं दशान्तरं दुःखफलप्रदं स्यात् ॥ १२॥ तद्वाक्यवर्णक्रमशोपहार- वर्षाहते तत्परमायुराप्ते । तदा दशायामपहारवर्ष- संख्याश्च मासान्दिवसान्वदेयुः ॥ १३॥ वाक्येषु यावच्छरदां प्रमाणं वदन्ति तावत्परमायुरत्र । मेषादनीकं मदनं गजेन तुन्दः पुनश्चैवमुदीरितं तत् ॥ १४॥ उत्पन्न आधान आउर क्षेम महादशा महादशासु यत्फलं प्रकीर्तितं मया पुरा । तदेव योजयेद् बुधो दशासु चैवमादिषु ॥ १५॥ जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा स्यादाधानदशाऽप्यतोऽष्टमभवात् क्षेमान्महाख्या दशा । आसामेव दशावसानसमये मृत्युप्रदा स्यान्नृणां स्वल्पानल्पसमायुषां त्रिवधपञ्चर्क्षेशदायान्तिमे ॥ १६॥ निसर्गदशा एकं द्वे नव विंशतिर्धृतिकृतिः पञ्चाशदेषां क्रमात् चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः । स्वै स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशाया क्रमा- दन्ते लग्नदशा हुभेति यवना नेच्छन्ति केचित्तथा ॥ १७॥ अंशदशा लिप्तीकृत्य भजेद्र्ग्रहं खखजिनैस्तच्छिष्टमायुष्कला आशाखाश्विहृताब्दमदिवसाः सत्योदितेऽम्शायुषी । वक्रिण्युच्चगते त्रिसङ्गुणमिदं स्वांशत्रिभागोत्तमे द्विघ्नं नीचगतेऽर्धमप्यथ दलं मौढ्ये सितार्की विना ॥ १८॥ सर्वार्द्धत्रिकृतेषुषण्मितलवह्लासोऽसतामुत्क्रमा- द्रिःफात्सत्सु दलं तदा हरति बल्येको बहुष्वेकभे । त्र्यंशोनं रिपुभे विना क्षितिसुतं सत्योपदेशे दशा लग्नस्यांशसमा बलिन्युदयभेऽस्यात्रापि तुल्यापि च ॥ १९॥ तस्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्यं बहुवर्गणभिः । आचार्यकं त्वत्र बहुघ्नतायाम् एको तु यद्भुरि तदेव कार्यम् ॥ २०॥ पिण्डायुर्दशा धेयं शूर शके श्रियं स्मय परे निद्राः समा भास्करात् पिण्डाख्ययुषि पूर्वच्च हरणं सर्व विदध्यादिह । लग्ने पापिनि भं विनोदयलवैर्निघ्नं नताङ्गैर्हृतं त्याज्यं सौम्यनिरीक्षितेऽर्धमृणमत्रायुष्यभिज्ञा विदुः ॥ २१॥ लग्नदशामंशसमां बलवत्यंशे वदन्ति पैण्डाख्ये । बलयुक्तं यदि लग्नं राशिसमैवात्र नांशोत्वा ॥ २२॥ हरणं नीचेऽर्द्धमृणं स्यात्पूर्णं प्रोक्तवर्षमुच्चगृहे । पैण्डादौ व्द्यन्तरगे प्राज्ञैस्त्रैराशिकं चिन्त्यम् ॥ २३॥ पैण्डाख्यमायुर्ब्रुर्वते प्रधानं मणित्थचाणक्यमयादयश्च । एतन्न साध्वित्यवदद्भदन्तो वराहसूर्यस्य तथैव वाक्यम् ॥ २४॥ सूर्यादिकानां स्वमतेन जीव- शर्म स्वरांशं परमायुषोऽत्र । अस्यापि सर्व हरणं विधेयं पूर्वोक्तिवल्लग्नदशामपीह ॥ २५॥ नॄणां द्वादशवत्सरा दशहता ह्यायुःप्रमाणं परै- राख्यातं परमं शनेस्त्रिभगणं यावत्परैरीरितम् । कैश्चिच्चन्द्रसहस्रदर्शनमिह प्रोक्तं कलौ किन्तु यत् वेदोक्तं शरदः शतं हि परमायुर्दायमाचक्ष्महे ॥ २६॥ लग्नादित्येन्दुकानामधिकबलवतः स्याद्दशादौ ततोऽन्या तत्केन्द्रादिस्थितानामिह बहुषु पुनर्वीर्यतो वीर्यसाम्ये । बह्वायुर्वर्षदातुः प्रथममिनवशाच्चोदितस्याब्दसाम्ये वीर्यं किन्त्वत्र सन्धिग्रहविवरहतं भावसन्ध्यन्तराप्तम् ॥ २७॥ अंशोद्भवं लग्नबलात्प्रसाध्य- मायुश्च पिण्डोद्भवमर्कवीर्यात् । नैसर्गिकं चन्द्रबलात्प्रसाध्यं ब्रूमस्रयाणामपि वीर्यसाम्ये ॥ २८॥ तेषां त्रयाणामिह संयुतिस्तु त्रिभिर्हृता सैव दशा प्रकल्प्या । वीर्ये द्वयोरैक्यदलं तयोः स्यात् चेज्जीवशर्मायुरमी बलोनाः ॥ २९॥ कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते । सदा नक्षत्रमार्गेण दशा बलवती स्मृता ॥ ३०॥ समाः षष्टिद्विघ्ना मनुजकरिणां पञ्च च निशा हयानां द्वत्रिंशत्खरकरभयोः पञ्चककृतिः । विरूपा साप्यायुर्वृषमहिषयोद्वदिश शुनां स्मृतं छागादीनां दशकसहिताः षट् च परमम् ॥ ३१॥ ये धर्मकर्मनिरता विजितेन्द्रिया ये ये पथ्यभोजनजुषो द्विजदेवभक्ताः । लोके नरा दधति ये कुलशीललिलां तेषामिदं कथितमायुरुदारधीभिः ॥ ३२॥
त्रयोविंशोऽध्यायः प्रष्टकवर्ग गोचरग्रहवशान्मनुजानां यच्छुभाशुभफलाम्युपलब्ध्यै । अष्टवर्ग इति यो महदुक्तस्तत्प्रसाधनमिहाभिदधेऽहम् ॥ १॥ आलिख्य सम्यग्भुवि राशिचक्रं ग्रहस्थितिं तज्जननप्रवृत्तम् । तत्तद्ग्रहर्क्षात्क्रमशोऽष्तवर्गं प्रोक्तं करोत्यक्षविधानमत्र ॥ २॥ पुत्रीवंसाहिधनिकेऽर्ककुजार्कजेभ्यो मुक्ताव्वके सुरगुरोर्भृगुजात्तथाश्रीः । ज्ञाद्गोमतीधनपरा रविरिष्टदोब्जात्- गीतोन्नयेप्युदयभाल्लघुतान्नपात्रे ॥ ३॥ गीतासौ जनके रवेः कलितसान्निष्के तुषारद्युतेः भौमाछ्रीगुणिते धनस्य युगवन्मासाब्दनित्ये बुधात् । नीवात्कौरवसज्जनस्य भृगुजाद्गूढात्मसिद्धाज्ञया मन्दाद्वाणचये तनीर्गतिनये चन्द्रः शुभो गोचरे ॥ ४॥ तीक्ष्णांशोर्गणितानके शिशिरगोर्लाक्षाय भूमेः सुतात् पुत्रीवासजनाय चन्द्रतनयाद्गोमेतके गीष्पतेः । तन्नाकारि सितात्तदा कुरुशनेः कोवासदाधेनुको लग्नात्स्वात्कलितं नयेत् क्षितिसुतः क्षेमप्रदो गोचरे ॥ ५॥ सौम्याद्योगशतं धनैः कुरुरवेर्मोषाधिकश्रीर्गुरोः तेजो यत्र यमारयोः पुरवसन्दिग्धेनये भार्गवात् । पुत्रो गर्भमहान्धके परभृतां दानाय लग्नात्सुधा- मूर्तेः प्रावृषि जानकी शशिसुतस्त्वत्र स्थितश्चेच्छुभः ॥ ६॥ मार्ताण्डात्करलाभसज्जधनिके चन्द्राद्रुमेसालिके भौमात्किं प्रभुसूदनाय कुरवः शिक्षाधनाढ्ये बुधात् । पुत्री गर्भसदानके सुरगुरोः स्वल्लक्ष्मिचन्द्रे शनेः श्रीमन्तो धनिकाः सितात्करिविशेषे सिद्धिनित्यं तनोः ॥ ७॥ जात्यां श्रीस्तु रवेर्विधोः पुरगवामन्दोल्लिपुत्रे तनोः पौरे लाभमदालिके कुरुलवं मोहे धनेढ्ये भृगोः । लोभस्ताल्लिपरे कुजाद्रविसुतान्गर्भं महाब्धौ नये ज्ञालक्ष्मीचुल्लके गुरोर्मदधताढ्योऽसौ भृगुः सौख्यदः ॥ ८॥ रवेर्यात्रावीथीजनय शशिनो लक्षय शनेः गुणेस्तुत्यो भौमाद्गणितनिकरोऽसौ शुभकरः । शताकारे जीवात्तदधनपरे ज्ञादुदयभात् कलाभूतानम्ये भृगुज चयखे सूर्यतनयः ॥ ९॥ इति निगदितमिष्टं नेष्टमन्यद्विशेषा- दलिकफलविपाकं जन्मिनां तत्र दद्युः । उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टं त्वपचयगृहनीचारातिगैर्नेष्टसम्पत् ॥ १०॥ कृवाष्टवर्ग द्युसदां क्रियादि- ष्वक्षैर्विंहीने मृतिरेकबिन्दोः । नाशो व्ययो भीतिभयार्थनारी- श्रीराज्यसिद्धिः क्रमशः फलानि ॥ ११॥ तत्तद्ग्रहाधिष्ठितसर्वराशीं- स्तत्संज्ञितं लग्नमिति प्रकल्प्य । तेभ्यः फलान्यष्टविधान्यभूवं- स्तत्तद्गृहाद्भा ववशाद्वदन्तु ॥ १२॥ तत्तद्ग्रहर्क्षाशकतुल्यभांश स्थिता ग्रहाश्चारवशादिदानीम् । तथैव तद्भावसमुत्थितानि फलानि कुर्वन्ति शुभाशुभानि ॥ १३॥ कृतेऽष्तवर्गे सति कारकर्क्षात्- यद्भावमुक्ताङ्कमुपैति खेटः । तद्भावपुष्टिं सशुभोऽशुभो वा करोत्यनुक्ते विपरीतमेव ॥ १४॥ एकत्र भावे बहवो यदानी- मुक्ताङ्कगाश्चारवशाद्व्रजन्ति । पुष्णन्ति तद्भावफलानि सम्यक् तत्कारकात्तत्तनृपूर्वभावे ॥ १५॥ बिन्दौ स्थिते तत्फलसिद्धिकाल विनिर्णयाय प्रहितेऽष्टवर्गे । भान्यष्टधा तत्र विभज्य कक्षा क्रमेण तेषां फलमाहुरन्ये ॥ १६॥ प्रस्ताराष्टकवर्गः आलिख्य चक्रं नव पूर्वरेखा याम्योत्तरस्था दश च त्रिरेखाः । प्रस्तारकं षण्णवतिप्रकोष्ठं पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् ॥ १७॥ होराशशीबोधनशुक्रसूर्य- भौमामरेन्द्राचिंतभानुपुत्राः । याम्यादिपङ्क्त्यष्टकराशिनाथाः क्रमेण तत्बिन्दुफलप्रदाः स्युः ॥ १८॥ राश्य्ष्टभागप्रथमांशकाले शनिर्द्वितीये त्य् गुरुः फलाय । कक्षाक्रमेणैवमिहान्त्यभाग- काले विलग्नं फलदं प्रदिष्टम् ॥ १९॥ सर्वग्रहाणां प्रहितेऽष्टवर्गे तत्कालराशिस्थितबिन्दुयोगे । अष्टाक्षसंख्याधिकविन्दवश्वेत् शुभं तदुने व्यसनं क्रमेण ॥ २०॥ यावन्तस्तुहिनरुचेः शुभाङ्कसंस्था यावन्तः शुभभवने हिमद्युतेर्वा । इत्थं तद्विदितमिहाधिके च तेभ्यः स्वस्त्यूने विपदिति सूचितं परेषाम् ॥ २१॥ कर्तुः स्वजन्मसमयावसथग्रहाणां कृत्वाष्टवर्गकथिताक्षविधानमत्र । बह्वक्षयोगवशतः शुभराशिमास- भावग्रहस्थितिषु कर्मशुभं विदध्यात् ॥ २२॥ पापोऽपि स्वगृहस्थश्चेद्भाववृद्धिं करोत्यलम्। नीचारातिगृहस्थश्चेत्कुर्याद्भावक्षयं ध्रुवम् ॥ २३॥ स्वोच्चस्थोऽपि शुभो भावहानिं दुःस्थानपो यदि । सुस्थानपश्चेत् स्वोच्चस्थः पापी भावानुकूल्यकृत् ॥ २४॥
चतुर्विंशोऽध्यायः प्रष्टकवर्गफल अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः तद्राशिफलसंख्याभिर्वर्द्धयेच्क्षोध्यपिण्डकम् ॥ १॥ सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे । तस्मिन् काले पितृक्लेशो भवेष्यति न संशयः ॥ २॥ तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतः । संयोगः शोध्यशिषाणां शोध्यपिण्ड इति स्मृतः ॥ ३॥ लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः । सुखनाथदशायां वा पितृतुल्यमृतिं वदेत् ॥ ४॥ संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्द्धयेत् । द्वादशेन हताच्छेषराशिं याते दिवाकरे ॥ ५॥ तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत् । एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः ॥ ६॥ चन्द्रात्सुखफलैः पिण्डं हत्वा सारावशेषितम् । शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा ॥ ७॥ चन्द्रात्सुखाष्टमेशंशत्रिकोणे विदेसाधिपे । मातुविंयोगं तन्मासे निर्दिश्लेल्लग्नतः पितुः ॥ ८॥ भौमात्तृत्तीयराशिस्थफलैभ्रातृगणं वदेत् । बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च ॥ ९॥ गुरुस्थितसुतस्थाने यावतां विद्यते फलम् । शत्रुनीचग्रहं स्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥ १०॥ गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै । क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥ ११॥ फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि । तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसंततिः ॥ १२॥ शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः । हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः ॥ १३॥ लग्नादिमन्दान्तफलैक्यसंख्या- वर्षे विपत्तिस्तु तथार्कपुत्रात् । यावद्विलग्गान्तफलानि तस्मिन्- नाशो हि तद्योगसमानवर्षे ॥ १४॥ अष्टमस्त्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् । फलमायुविजानीयात्प्राग्वद्वेलां तु कल्पयेत् त्रिकोण शोधन त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् । एकस्मिन् भवने शून्ये तत्रिकोणं न शोधयेत् ॥ १६॥ भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् । समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा ॥ १७॥ एकाधिपत्य शोधन त्रिकोणशोधनां कृत्वा प्रश्चदैकाहिपत्यकम् । क्षेत्रेद्वये फलानि स्युस्तदा संशोधयेत्सुधीः ॥ १८॥ ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके । ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते ॥ १९॥ फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वम्त्सृजेत् । सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात् ॥ २०॥ उभाभ्यां ग्रहहीनाभ्यांसमत्वे सकलं त्यजेत् । उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन ॥ २१॥ एकस्मिन् भवने शून्ये न संशोध्यं कदाचन । द्वावग्रहौ चेद्यन्नयूनं तत्तुल्यं शोधयेद्द्वयोः ॥ २२॥ शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् । ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् ॥ २३॥ राशि गुणक आउर ग्रह गुणक गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे । वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः ॥ २४॥ शेषाः स्वमानगुणिताः कर्किचापघटीभुषाः । एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक् ॥ २५॥ जीवारशुक्रसौम्यानां दशवसुमप्तेन्द्रियैः क्रमाद्गुणिता । बुधसंख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः ॥ २६॥ एवं गुनित्वा संयोज्य सप्तभिर्गुणयेत्पुनः । सप्तविंशहृतालब्धवर्षाण्यत्र भवन्ति हि ॥ २७॥ द्वादशाद्गुणयेल्लब्धा मासाहर्घतिकाः क्रमात् । सप्तविंशति वर्शाणि मण्डलं शोधयेत्पुनः ॥ २८॥ अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् । नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत् ॥ २९॥ शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा । त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात् ॥ ३०॥ बहुत्वे हरणे प्राप्ते कारयेद्वलवत्तरम् । पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत् ॥ ३१॥ मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः । पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत् ॥ ३२॥ एवं ग्रहानां सर्वेषं दशां कुर्यात् पृथक् पृथक् । अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः ॥ ३३॥ बलो बलिष्तो लवणागमोसुरो रागी मुररिः शिखरीन्द्रगाथया भौमो गणेन्द्रो लघुभावतासुरो गोकर्णरक्ता तु पुरणर्मथिली ॥ ३४॥ रुद्रः परं गह्वरंभैरवस्थली रागी वली भास्वरगीर्भगाचलाः । गिरौ विवस्वान्बलवद्विवक्षया शुली मम प्रीतिकरोऽत्र तीर्थकृत् ॥ ३५॥ सर्वकर्मफलोपेतमष्टवर्गकमुच्यते । अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम् ॥ ३६॥ त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः । पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम् ॥ ३७॥ मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये । यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत् ॥ ३८॥ मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै । अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत् ॥ ३९॥ षष्ठाष्ठमव्ययांस्त्यक्त्वा शेषेष्वेव परकल्पयेत् । श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत् ॥ ४०॥ लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै । सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम् ॥ ४१॥ तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् । एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम् ॥ ४२॥ शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् । पुत्रवित्तसुखादीनि लभते नात्र संशयः ॥ ४३॥ संग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह । तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः ॥ ४४॥
पंचविंशोऽध्यायः गुलिकादि उपग्रह नमामि मान्दिं यमकण्टकाख्य- मर्द्धप्रहारं भुवि कालसंज्ञम् । धूमव्यतीपातपरिध्यभिख्यान्- उपग्रहानिन्द्रधनुश्च केतून् ॥ १॥ चरं रुद्रदास्यं घटं नित्यतानं खनिर्मान्दनाढ्यः कार्यौ अहर्मानवृद्धिक्षयौ तत्र कार्यौ निशायां तु वारेश्चरात्पञ्चमाद्याः ॥ २॥ दिव्या घटी नित्यतनुः खनीनां चन्द्रे रुरुः स्याद्यमकण्टकस्य । अर्द्धप्रहारस्य भटो नटेन स्तनौ खनी चन्द्रखरौ जयज्ञः ॥ ३॥ कालस्य फेनं तनुरुद्रदिव्यं वन्द्यो नटस्तैरनुसूर्यवारात् एषां समं मान्दिवदेव तत्त न्नाड्या स्फुट लग्नवदत्र साध्यम् ॥ ४॥ धूमो वेदगृहैस्त्रयोदशभिरप्यंशैः समेते रवौ स्यात्तस्मिन् व्यतिपातको विगलिते चक्रादथास्मि न्युते । षड्भिभैः परिवेश इन्द्रधनुरित्यस्मिंश्च्युते मण्डला- दत्यष्टयंशयुतेऽत्र केतुरथ तत्रैकर्क्षयुक्तो रविः ॥ ५॥ भावाध्याये पूर्वमेव मया प्रोक्तं समुच्चयम् । मुक्तानां यत्तदेवात्र वाच्यं भावफलं दृढम् ॥ ६॥ तथापि गुलिकादिनां विशेषोऽत्र निगद्यते । पूर्वाचार्यैयर्दाख्यातं तत्संगृह्य मयोदितम् ॥ ७॥ चोरः क्रूरो विनयरहितो वेदशास्त्रार्थहीनो नातिस्थूलो नयनविकृतो नातिधीर्नार्तिपुत्रः । नाल्पाहारी सुखविरहितो लम्पटो नातिजीवी शूरो न स्यादपि जडमतिः कोपनो मान्दिलग्ने ॥ ८॥ न चाटुवाक्यं कलहायमानो न वित्तधान्यं परदेशवासी । न वाङ्न सूक्ष्मार्थविवादवाक्यो दिनेशपौत्रे धनराशिसंस्थे ॥ ९॥ विरहगर्वमदादिगुणैर्युतः प्रचुरकोपधनार्जनसंभ्रमः । विंगतशोकभयश्च विसोदरः सहजधामनि मन्दयुतो यदा ॥ १०॥ सुहृदि शनिसुते स्याद्बन्धुयानार्थहीन- श्चलमतिरवबुद्धिस्त्वल्पजीवी च पुत्रे । बहुरिपुगणहन्ता भूतविद्याविनोदी रिपुगतगुलिके सच्छेष्ठपुत्रः सशूरः ॥ ११॥ कलत्रसंस्थे गुलिके कलही वहुभार्यकः । लोकद्वेषी कृतघ्नश्च स्वल्पज्ञः स्वल्पकोपनः ॥ १२॥ विकलनयनवक्त्रो ह्वस्वदेहोऽष्टमस्थे गुरुसुतवियुतोऽभूद्धर्मसंस्थेऽर्कपौत्रे न शुभफलदकर्मा कर्मसंस्थे विदानः सुखसुतमतितेजः कान्तिमांल्लाभसंस्थे ॥ १३॥ विषयविरहितो दीनो बहुव्ययः स्याव्द्यये गुलिकसंस्थे । गुलिकत्रिकोणभे वा जन्म क्रूयान्नवंशे वा ॥ १४॥ रवियुक्ते पितृहन्ता मातृक्लेशी निशापसंयुक्ते । भ्रातृवियोगः सकुजे बुधयुक्ते मन्दजे च सोन्मादी ॥ १५॥ गुरुयुक्ते पाषण्दी शुक्रयुते नीचकामिनीसङ्गः । शनियुक्ते शनिपुत्रे कुष्ठव्यार्ध्यदिंतश्च सोऽपल्पायुः ॥ १६॥ विषरोगी राहुयुते शिखियुक्ते वह्निपीदितो मान्दौ । गुलिकस्त्याज्ययुतश्वेत्तस्मिञ्जातो नृपोऽपि भिक्षाशी ॥ १७॥ गुलिकस्य तु संयोगे दोषान्सर्वत्र निर्दिशेत् । यमकण्टकसंयोगे सर्वत्र कथयेच्छभम् ॥ १८॥ दोशप्रदाने गुलिको बलीयान् शुभप्रदाने यमकण्टकः स्यात् । अन्ये च सर्वे व्यसनप्रदाने मान्द्युक्तवीर्यर्द्धिबलान्विताः स्युः ॥ १९॥ शनिवद्गुलिके प्रोक्तं गुरुवद्यमकण्टके । अर्धप्रहारे बुधवत्फलं काले तु राहुवत् ॥ २०॥ कालस्तु राहुर्गुलिकस्तु मृत्यु- र्जीवातुकः स्याद्यमकण्टकोपि । अर्द्धप्रहारः शुभदः शुभाङ्क- युक्तोऽन्यथा चेदशुभं विदध्यात् ॥ २१॥ आत्मादयोऽधिपैर्युक्ता धुंआदिग्रहसंयुत्तः ते भावा नाशतां यान्ति वदतीति पराशरः ॥ २२॥ धूमे सन्ततमुष्णं स्यादग्निभीतिर्मनोव्यथा । व्यतीपाते मृगभयं चतुष्पान्मरणं तु वा ॥ २३॥ परिवेषे जले भीरुर्जलरोगश्च बन्धनम् । इन्द्रचापे शिलाघातः क्षतं शस्त्रैरपि च्युतिः ॥ २४॥ केतौ पतनघाताद्यं कार्यनाशोऽशनेर्भयम् । एते यद्भावसहितास्तद्दशायां फलं वदेत् ॥ २५॥ अल्पायुः कुमुखः पराक्रमगुणो दुःखी च नष्टात्मजः प्रत्यर्थिक्षुभितो विशीर्णमदनो दुर्मर्गिमृत्युं गतं । धर्मादिप्रतिक्रूलताटनरुचिलार्भान्वितो दोषवा- नित्येवं क्रमशो विलग्नभवनात्केतोः फलं कीर्तयेत् ॥ २६॥ अप्रकाशाः सचरन्ति धूमाद्याः पंच खेचराः । क्वचित्कदाचिद्दृश्यन्ते लोकोपद्रवहेतवे ॥ २७॥ धूमस्तु धूमपटलः पुच्छर्क्षमिति केचन । उल्कापातो व्यतीपातः परिवेषस्तु दृश्यते ॥ २८॥ लोके प्रसिद्धं यद्दृष्टं सदेवेन्द्रधनुः स्मृतम् । केतुश्च धूमकेतुः स्याल्लोकोपद्रवकारकः ॥ २९॥ गुलिकभवननाथे केन्द्रगे वा त्रिकोणे बलिनि निजगृहस्थे स्वोच्चमित्रस्थिते वा । रथगजतुरगाणां नायको मारतुल्यो महितपृथुयशास्स्यान्मेदिनीमङ्डलेन्द्रः ॥ ३०॥
षड्विंशोऽध्यायः गोचरफल सर्वेषु लग्नेष्वपि सत्सु चन्द्र- लग्नं प्रधानं खलु गोचरेषु । तस्मात्तदृक्षादपि वर्तमान्- ग्रहेन्द्रचारैः कथयेत्फलानि ॥ १॥ सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमाः जीवस्त्वस्ततपोद्विपंचमगतो वक्रार्कजौ षट्त्रिगौ । सौम्यः षट्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थिताः शुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ ॥ २॥ लाभविक्रमखशत्रषु स्थितः शोभनो निगदितो दिवाकरः । खेचरैः सुततपोजलान्त्यगैः व्यार्किभिर्यदि न विद्ध्यते तदा ॥ ३॥ द्यूनजन्मरिपुलाभखत्रिगः चन्द्रमाः शुभफलप्रदः सदा । स्वात्मजान्त्यमृतिबन्धुधर्मगै विध्द्यते न विबुधैर्यदि ग्रहैह् ॥ ४॥ विक्रमायरिपुगः कुजः शुभः स्यात्तदान्त्यसुतधर्मगैः खगैः । चेन्न विद्ध इनसूनुरप्यसौ किन्तु धर्मधृणना न विध्द्यते ॥ ५॥ स्वाम्बुशत्रुमृतिखायगः शुभो ज्ञस्तदा न खलु विध्द्यते सदा । स्वाल्मजत्रितप आद्यनैधन प्राप्तिगैविबुधुभिर्यदि ग्रहैः ॥ ६॥ स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहितः शुभः । रिःफरन्ध्रखजलत्रिगैर्यदा विध्द्यते गगनचारिभिर्न हि ॥ ७॥ आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः । नैधनास्ततनुकर्मधर्मधीलाभवरिसहजस्थखेचरैः ॥ ८॥ जन्मन्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदाता वित्तभ्रंशं द्वितीये दिशति न सुखदो पञ्चनामाग्रहं च । स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता रोगाण् दत्ते चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥ ९॥ वित्तक्षोभं सुतस्थो वितरति बहुशो रोगमोहादिदाता षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमाष्टिं । आध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मै रुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम् ॥ १०॥ आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधं प्राप्तोन्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे । स्थानं मानं विभवमपि चैकादशे रोगनाशं क्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च ॥ ११॥ क्रमेण भाग्योदयमर्थहातिं जयं श्लोकमरोगतां च । सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः ॥ १२॥ अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगं लग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च । धैरे भौमो जनयति जयं स्वर्णभूषंप्रमोदं स्थानभ्रंशं रुजमुदरजां बन्धुदुःखं चतुर्थे ॥ १३॥ ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वा कलयति कलहंस्वैः पञ्चमे भूमिपुत्रः । रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठे विजयमथ धनाप्तिं सर्वकार्यानुकूल्यम् ॥ १४॥ कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे ज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे । कुजे नवमसंस्थिते परिभवोऽर्थनाशादिभि- विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः ॥ १५॥ दुश्चेष्टा वा कर्मविघ्नः श्रमः खे द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे । भौमः खेटो गोचरे द्वादशस्थो द्रव्यच्छेदस्ताप उष्णामयाद्यैः ॥ १६॥ वित्तक्षयं श्रियमरातिभयं धनाप्तिं भार्याप्तनूजकलहं यिजयं विरोधम् । पुत्रार्थलाभमथ विघ्नमशेषसौख्यं पुष्टिं पराभवभयं प्रकरोति चान्द्रिः ॥ १७॥ जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतां प्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थे स्ववाचां फलम् । दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजं दुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम् ॥ १८॥ पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजामुकूल्यं सुते षष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः । यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरे मार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम् ॥ १९॥ भाग्ये जीवे सर्वसौभाग्यसिद्धिः कर्मण्यर्थास्थनपुत्रादिपिडा लाभे पुत्रस्थानमानदिलाभो रिःफे दुःखं साध्वसं द्रव्यहेतोः ॥ २०॥ अखिलविषयभोगं वित्तसिद्धिं विभूतिं सुखसुहृदभिवृद्धिं पुत्रलब्धिं विपत्तिम् । दिशति युवतिपीडां सम्पदं वा सुखाप्तिं कलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री ॥ २१॥ रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्यार्थलाभं स्त्रीबन्ध्वर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम् । स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्बित्तनाशामयातिं जन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण ॥ २२॥ दारिध्रं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थे दुर्व्यापारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा । सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिं विश्रान्ति व्यर्थकार्याद्विसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये ॥ २३॥ देहक्षयं वित्तविनाशसौख्ये दुःखार्थनाशौ सुखनाशमृत्यून् । हानिं च लाभं सुभगं व्ययं च कुर्यत्तमो जन्मगृहात्क्रमेण ॥ २४॥ क्षितितनयपतङ्गौ राशिपूर्वत्रिभागे सुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे। तुहिनकिरणमन्दौ राशिपाश्चात्यभागे शशितनयभुजङ्गौ पाकदौ सार्वकालम् ॥ २५॥ नक्षत्रगोचरम् रेखाह् सप्तसमालिखेदुपरिगास्तिर्यक्तथैव क्रमा- दीशादग्निभमादितोऽपि गणयेदादित्यभस्यावधि । वेधा जन्मादिने मृतिर्भयमथाधानाख्यनक्षत्रके कर्मण्यर्थविनाशं खलु रविर्दद्यात्सपापो मृतिम् ॥ २६॥ एवं विद्धे खचरैः क्रररन्यैर्मरणम् । सौम्यैर्विद्धे न मृतिविद्यादेवं सकलं ॥ २७॥ आधनकर्मर्क्षविपन्निजर्क्षे वैनाशिके प्रत्यरभे वधाख्ये पापग्रहो मृत्युभयं विदध्या द्वेधेतथा कार्यहरः शुभाख्ये ॥ २८॥ आदित्यसङ्क्रान्तिदिने ग्रहाणं प्रवेशने वा ग्रहणे च युद्धे । उल्कानिपाते च तथाद्भुते च जन्मत्रयं स्यान्मरणादिदुःखम् ॥ २९॥ असत्फलः सौम्यनिरीक्षितो यः शुभप्रदश्चाप्यशुभेक्षितश्च । द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ यः शत्रुणा स्वेन विलोकितश्च ॥ ३०॥ अनिष्टभावस्थितखेचरेन्द्रः स्वोच्चस्वगेहोपगतो यदि स्यात् । न दोषकृच्चोत्तमभावगश्चेत् पूर्णं फलं यच्छति गोचरेषु ॥ ३१॥ ग्रहेश्वरारुते शुभगोचरस्था नीचारिमौढ्यं समुपाश्रिताश्रेत् । ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः कष्टं फलं संविदधत्यनल्पम् ॥ ३२॥ द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारका गुरुः । कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम् ॥ ३३॥ चद्राष्टमे च धरणीतनयः कलत्रे राहुः शुभे कविररौ च गुरुस्तृतीये । अर्कः सुतेऽर्किरुदये च बुधश्चतुर्थे मानार्थहानिमरणानि वदेद्विशेषात् ॥ ३४॥ अङ्गग्रहाः वक्त्रे क्ष्मा मूर्घ्नि चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कं पादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च । भानुर्नाशं विभुतिं विजयमथ धनं निर्धनं देहपीडां लाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देहसंस्थः ॥ ३५॥ शीतांशोर्वदने द्वयोरतिभयं क्षेमंशिरस्यम्बुधौ पृष्ठे शत्रुजयं द्वयोर्नयनयोर्नेत्रे धनं जन्मभात् । पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात् पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे ॥ ३६॥ वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोविग्रहं क्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके । द्वे लाभं चतुराननेऽधिकभयं क्षेमंकरे दक्षिणे वार्द्धिर्द्वे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः ॥ ३७॥ मूघ्निं त्रीणि मुखे त्रयं च करयोः षट् पञ्च कुक्षौ तथा लिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्राचिंतः । शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथा दद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात् ॥ ३८॥ भूवेदवह्निगुणवेदशराग्नेत्र- दस्त्रं च वक्त्रकरपादपदेषु हस्ते । कुक्षौ च मूर्घ्नि नयनद्वयपृष्ठोभागे न्यस्य क्रमेण शनिसंयुतभान्निजर्क्षात् ॥ ३९॥ दुःखं च सौख्यं गमनं च नाशं लाभं स्वभोगं सुखसौख्यमृत्यून् । वक्त्रक्रमादाह फलानि मन्द- स्यैवं तमःखेचरयोर्वदन्तु ॥ ४०॥ यत्राष्टवर्गेऽधिकबिन्दवः स्यु- स्तत्र स्थितो गोचरतो ग्रहेन्द्रः । तद्वत्फलं प्राह शुभं व्ययारि- रन्ध्रस्थितो वाऽपि शुभं विद्धत्ते ॥ ४१॥ रवेद्वदिशनक्षत्रं भूसुतस्य तृतीयकम् । गुरोः षट्तारकं चैव शनेरष्टमतारकम् ॥ ४२॥ एतेषां च पुरोलत्ता पृष्ठोलत्तः प्रकीर्त्तिताः । शुक्रस्य पञ्चमं तारं चन्द्रजस्य तु सप्तमम् ॥ ४३॥ राहोस्तु नवम चैव द्वाविंशं भं हिमद्युतेः । ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा ॥ ४४॥ रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते । मरणं जीवलत्तायां बन्धुनाशो भयावहः ॥ ४५॥ शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु । चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत् ॥ ४६॥ सर्वत्र लत्तासाङ्कर्ये द्विगुणत्रिगुणादिकम् । वदेद्दोषफलं नॄणां ग्रहाल्लत्ताधिकक्रमात् ॥ ४७॥ सर्वतो भद्र चक्रोक्त शुभवेधाः शुभावहाः । पापवेधा दुःखतरा गोचरेताश्च चित्तयेत् ॥ ४८॥
सप्तविंशोऽध्यायः प्रव्रज्या योग ग्रहैश्चतुर्भिः सहिते खनोथे त्रिकोणगैः केन्द्रगतैस्तु मुक्तः । लग्ने गृहान्ते सति सौम्यभागे केन्द्रे गुरौ कोणगते च मुक्तः ॥ १॥ एकर्क्षसंस्थैश्चतुरादिकैस्तु ग्रहैर्वदेत्तत्र बलान्वितेन । प्रव्रज्यकां तत्र वदन्ति केचित् कर्मेशतुल्यां सहिते खनाथे ॥ २॥ शशी दृगाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम् । कुजांशके वा रविजेन दृष्तो नवांशतुल्यां कथयन्ति तां पुनः ॥ ३॥ जन्माधिपः सूर्यसुतेन दृष्टः शेषैरदृष्तः पुरुषस्य सूतौ । आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम् ॥ ४॥ योगीशं दीक्षित वा कलयति तरणिस्तीर्थपान्थं हिमांशु- र्दुर्मन्त्रज्ञं च बौधाश्र्यमवनीसुतो ज्ञो मतान्यप्रविष्टम् । वेदान्तज्ञानिनं वा यतिवरममरेड्यो भृगुलिङ्गवृत्त व्रात्य शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा ॥ ५॥ अतिशयबलयुक्तः शीतगुः शुक्लपक्षे बलविरहितमेन प्रेक्षते लग्ननाथः । यदि भवति तपस्वी दुःखितः शोकतप्तो धनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥ ६॥ प्रकथितमुनियोगे राजयोगो यदि स्या- दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् । जनयति पृथिवीशं दीक्षितं साधुशीलं प्रणतनृपहिरोभिः स्पृष्टपादाब्जयुग्मम् ॥ ७॥ चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवा सुस्थाने बलिनस्त्रयो यदि तदा सन्याससिद्धिर्भवेत् सब्द्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत् प्रव्रज्यां महितां सताम्भिमतां चेदन्यथा निन्दिताम् ॥ ८॥
अष्टाविंशोऽध्यायः उपसंहाराध्याय संज्ञाध्यायः कारको वर्गसंज्ञो वीर्याध्यायः कर्मजिवाऽथ योगः । योगो राज्ञां राशिशीलो ग्रहाणां मेषादिनां लग्नसम्प्राप्तशीलः ॥ १॥ भार्याभावो जातक कमिनीना सूनुर्बालारिष्टयोगोऽथ रोगः । भावस्तस्माद्द्वादशावाप्तभावा निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् ॥ २॥ सूर्यादीनां यत्फलं तदृशाप्तं भावादीनामीश्वराङ्का दशा च । सूर्यादीनामन्तराख्या दशाऽथ सव्यासव्या कालचक्रोऽष्टवर्गः ॥ ३॥ होरासारावाप्तयद्यष्टवर्गो मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः । अध्यायानां विंशतिः सप्तयुक्तान् जन्मन्येतद्गोलजं संवदामि ॥ ४॥ श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै । दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे ॥ ५॥ सुकुन्तलाम्बां सम्पूज्य सर्वभीष्टप्रदायिनीम् । तत्कटाक्षविशेषेण कृता या फलदीपिका ॥ ६॥

% Text title            : phaladIpika (Jataka Phaladeepika)
% File name             : phaladIpika.itx
% itxtitle              : phaladIpikA
% engtitle              : phaladIpikA
% Category              : jyotiSha, sociology_astrology
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Texttype              : pramukha
% Author                : mantreshvara
% Language              : Sanskrit
% Subject               : Jyotish
% Transliterated by     : Radu Canahai clradu at yahoo.com
% Proofread by          : Radu Canahai clradu at yahoo.com
% Latest update         : October 28, 2002
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP