पूर्वम्: २।४।३५
अनन्तरम्: २।४।३७
 
सूत्रम्
अदो जग्धिर्ल्यप्ति किति॥ २।४।३६
काशिका-वृत्तिः
अदो जग्धिर् ल्यप् ति किति २।४।३६

अदो जग्धिः आदेशो भवति ल्यपि परतः, तकारादौ च किति प्रत्यये। प्रजग्ध्य। विजग्ध्य। जग्धः। जग्धवान्। इकार उच्चारणार्थः, न अनुबन्धः। तेन नुम् न भवति। एवं वच्यादीनाम् अपि। इह कस्मान् न भवति, अन्नम्? अन्नाण्णः ४।४।८५ इति निपातनात्। जग्धौ सिद्धे ऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते। ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्। ति इति किम्? अद्यते। किति इति किम्? अत्तव्यम्।
न्यासः
अदो जग्धिर्ल्यप्ति किति। , २।४।३६

"प्रजग्घ्य" इति। "समानकर्त्तृकयोः पूर्वकाले" ३।४।२१ इति क्त्वा। "कुगतिप्रादयः" २।२।१८ इति समासः। "समासेऽनञ्पूर्वे क्त्वो ल्यप्" ७।१।३७। "जग्धः" इति। "झषस्तथोर्द्धोऽधः" ८।२।४० इति तकारस्य धकारः। "झलां जश् झशि" ८।४।५२ इति जश्त्वम्-- धकारस्य दकारः। "झरो झरि सवर्णे" ८।४।६४ इति लोपः। अथेह "इदितो नुम् धातोः" ७।१।५८ इति नुम् कस्मान्न भवतीत्यत आह-- "इकार उच्चारणार्थः" इति। यथा-- "अद भक्षणे" (धा।पा।१०११) इत्यत्राकार उच्चारणार्थः, तथेहापीकारो वेदितव्यः। अथ ल्डग्रहणं किमर्थम्, ति कितीत्येवं सिद्धम्? न सिध्यति; यस्मात् क्त्वाप्रत्ययस्य परत्वाल्ल्यवादेशः प्राप्नोति, नैतदस्ति; अन्तरङ्गत्वाज्जग्ध्यादेशेन भवितव्यम्। अन्तरङ्गत्वन्तु तस्यैकपदाश्रयत्वात्। ल्यबादेशस्य तु बहिरङ्गत्वम्; समासाश्रयत्वात्; समासस्य चानेकपदाश्रयत्वात्। एवं तर्हि--- जग्धौ सिद्धेऽन्तरङ्गत्वात् ति किति यल्ल्यबुज्यते। (तज्) ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्॥इति। तेन दधातेः, जहातेश्च संपूर्वाद्विपूर्वाच्च क्त्वाप्रत्यये कृते "द्यतिस्यतिमास्थामिति किति" ७।४।४० इत्यतस्ति कितीत्यनुवत्र्तमाने "दधातेर्हिः" ७।४।४२ "जहातेश्च क्त्वि" ७।४।४३ इति हिरादेशो ल्यबादेशं बाधित्वं प्राप्तः। अस्मादेव ज्ञापकाल्ल्यपा बाधितत्वान्न भवति-- संधाय, विहायेति। एवं निर्दाय दुर्दायेति "दो दद् घोः" ७।४।४६ इति ददादेशो न भवति। प्रस्थायेत्यत्र "द्यतिस्यातिमास्थामितित किति" ७।४।४० इतीत्वं न भवति। प्रखन्य प्रखायेति "जनसनखनां सञ्जलोः" ६।४।४२ इति नित्यमात्त्वं न भवति, "ये विभाषा" ६।४।४३ इति विभाषैव भवति। तत्र हि "विह्वनोरनुनासिकस्यात्" ६।४।४१ इत्यत आद्ग्रहणनुवत्र्तते। "प्रक्रम्य" इति "क्रमश्च क्त्वि" ६।४।१८ इति दीर्घत्वं न भवति। तत्र हि "ढ्रलोपे पूर्वस्य दीर्घोऽणः" ६।३।११० इत्यतो दीर्घग्रहणम्, "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इत्यतो झल्ग्रहणं क्ङिति चानुवत्र्तते। आपृच्छ्येति "च्छ्वोः शूजनुनासिके च" ६।४।१९ इति शकारो न भवति। प्रदीव्येत्यत्रानेनैव सूत्रेणोठ् न भवति। "हलि च" ८।२।७७ इति दीर्घत्वम्। प्रपठ()एत्यत्र "आद्र्धधातुकस्य" ७।२।३५ इतीड् न भवति॥
बाल-मनोरमा
अदो जग्धिर्ल्यप्ति किति ८८६, २।४।३६

अदो जग्धिः। धत्वमिति। जघ्ध् त इति स्थिते "झषस्तथो"रिति तकारस्य धकार इत्यर्थः। झरो झरीति। अनेन पाक्षिको धकारलोप इत्यर्थः। आदिकर्मणि क्त इति। व्याख्यातं प्राक्। उदाहरणान्तरविवक्षया पुनरुपन्यासः। प्रकृतः कटं स इति।कर्तुमारब्धवानित्यर्थः। कटस्य कर्मणोऽनभिहितत्वाद्द्वितीया। कर्तुरभिहित्वात्तच्छब्दात्प्रथमा। चकाराद्भावे कर्णणि चेत्युक्तम्। तत्र कर्मण्युदाहरति-- प्रकृतः कटस्तेनेति। प्रक्षीणः स इति। आदिकर्मणि क्तः।

तत्त्व-बोधिनी
अदो जग्धिर्ल्यप्ति किति ७३०, २।४।३६

उच्चारणार्थ इति। इदित्त्वे तु नुम् स्यादिति भावः। घत्वमिति। "झषस्तथो"रित्यनेन। झरो झरीति। अनेन पाक्षिको धलोप इत्यर्थः। इदानीं क्तार्थान्प्रपञ्चयति-- आदिकर्मणि। व्याख्यातम्। प्रकृतः कटमिति। कटं कर्तुमारब्धवानित्यर्थः। "प्र"शब्द आदिकर्मद्योतनार्थः। क्तेनोक्तत्कर्तरि प्रथमा। कुशल इत्यर्थः।