पूर्वम्: ४।१।१६६
अनन्तरम्: ४।१।१६८
 
सूत्रम्
साल्वेयगान्धारिभ्यां च॥ ४।१।१६७
काशिका-वृत्तिः
साल्वेयगान्धारिभ्यां च ४।१।१६९

साल्वेयगान्धारिशब्दाभ्याम् अपत्ये अञ् प्रत्ययो भवति। जनपदशब्दावेतौ क्षत्रियाभिधायिनौ ताभ्याम् अञपवादे वृद्धादिति ञ्यङि प्राते पुनरञ् विधीयते। साल्वेयः। गान्धारः। तस्य राजनि इत्येव, साल्वेयो राजा। गान्धारो राजा।
न्यासः
साल्वेयगान्धारिभ्याञ्च। , ४।१।१६७

बाल-मनोरमा
साल्वेयगान्धारिभ्यां च ११६९, ४।१।१६७

साल्वेय। ननु साल्वेयगान्धारिशब्दावव्युत्पन्नौ देशक्षत्रियोभयवाचिनौ, ताभ्यां जनपदशब्दादिञि सिद्धे किमर्थमिदमित्यत आह--ञ्यङोऽपवाद इति।

तत्त्व-बोधिनी
साल्वेयगान्धारिभ्यां च ९६७, ४।१।१६७

बृद्धेत्। तपरकरणं किम्()। कौमारः। कुमारीशब्दो हि जनपदक्षत्रियवचनः।