पूर्वम्: ४।३।११४
अनन्तरम्: ४।३।११६
 
सूत्रम्
उपज्ञाते॥ ४।३।११५
काशिका-वृत्तिः
उपज्ञाते ४।३।११५

तेन इत्येव। तृतीयासमर्थातुपज्ञाते इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। विना उपदेशेन ज्ञातमौपज्ञातं, स्वयम् अभिसम्बद्धम् इत्यर्थः। पाणिनिना उपज्ञातं पाणिनीयम् अकालकं व्याकरणम्। काशकृत्स्नं गुरुलाघवम्। आपिशलं दुष्करणम्।
न्यासः
उपज्ञाते। , ४।३।११५

"अकालकम्" इति। कालपरिभाषारहितमित्यर्थः॥
बाल-मनोरमा
उपज्ञाते १४७४, ४।३।११५

उपज्ञाते। तेनोपज्ञातमित्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः। उपज्ञातं-प्रथमज्ञातम्।

तत्त्व-बोधिनी
उपज्ञाते ११५१, ४।३।११५

उपज्ञाते। विनोपदेशं ज्ञातम्--उपज्ञातम्।