पूर्वम्: ४।३।११६
अनन्तरम्: ४।३।११८
 
सूत्रम्
संज्ञायाम्॥ ४।३।११७
काशिका-वृत्तिः
संज्ञायाम् ४।३।११७

तृतीयासमर्थात् कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति समुदायेन चेत् संज्ञा ज्ञायते। मक्षिकाभि कृतं माक्षिकम्। कार्मुकम्। सारघम्। पौत्तिकम्। मधुनः संज्ञाः एताः।
न्यासः
संज्ञायाम्। , ४।३।११७

बाल-मनोरमा
संज्ञायाम् १४७६, ४।३।११७

संज्ञायां। तेनेत्येवेति। तेन कृतमित्यर्थे संज्ञायां तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। "ग्रन्थे" इति नानुवर्तते। तदाह--अग्रन्थार्थमिति।

बाल-मनोरमा
सङ्घाङ्कलक्षणेष्वञ्यञिञामण् १४८६, ४।३।११७

सङ्घाङ्क। यञन्तात्, अञन्तात्, इञन्ताच्च सङ्गे अङ्के लक्षणे च इदन्त्वेन विवक्षितेऽणित्यर्थः। छस्यापवादः।

घोषेति। "सङ्घाङ्कलक्षणघोषेषु" इति सूत्रं कर्तव्यमित्यर्थः। तथाच तिरुआः प्रकृतयः, प्रत्ययार्थाश्चत्वार इति न यथासङ्ख्यम्। गार्ग इति। सङ्घोऽङ्को घोषो वे"ति शेषः। गार्गमिति। "लक्षण"मिति शेषः। एवं दाक्ष दाक्षमित्यत्रापि नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यर्त आह--परम्परेति। यथा गवादिनिष्ठस्तप्तमुद्राविशेषोऽङ्कः। तस्य हि गोद्वारा स्वामिसम्बन्धः। साक्षादिति। विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः। वैदी विद्या। "घोष आभीरपल्ली स्या"दित्यमरः।