पूर्वम्: ४।३।१३५
अनन्तरम्: ४।३।१३७
 
सूत्रम्
त्रपुजतुनोः षुक्॥ ४।३।१३६
काशिका-वृत्तिः
त्रपुजतुनोः षुक् ४।३।१३८

त्रपुजतुशब्दाभ्याम् अण् प्रत्ययो भवति विकरे, तत्सन्नियोगेन तयोः षुगागमो भवति। ओरञो ऽपवादः। त्रपुणो विकारः त्रापुषम्। जातुषम्। अप्राण्यादित्वान् न अवयवे।
न्यासः
त्रपुजतुनोः षुक्। , ४।३।१३६

"ओरञोऽपवादः" इति। अनुदात्तत्वात्। "अप्राण्यादि" इति। आदिशब्देनौषधित्वमवृक्षत्वं च गृह्रते॥
बाल-मनोरमा
त्रपुजतुनो षुक् १४९७, ४।३।१३६

त्रपुजतुनो षक्। त्रापुषं जातुषमिति। त्रपुणो जतुनश्च विकार इत्यर्थः।

तत्त्व-बोधिनी
त्रपुजतुनोः षुक् ११६५, ४।३।१३६

त्रपुजतुनोः। "बिल्वादिभ्योऽणि"त्यतोऽनुवर्तनादाह--अण्स्यादिति। "ओरञि"त्यस्यायमपवादः। अप्राण्यादित्वादवयवे न भवतीत्याशयेनाह---विकारे इति। त्रापुषमिति। त्रपुणो विकारः। एवं जुतनो विकारो जातुषम्।