पूर्वम्: ४।३।१५०
अनन्तरम्: ४।३।१५२
 
सूत्रम्
जातरूपेभ्यः परिमाणे॥ ४।३।१५१
काशिका-वृत्तिः
जातरूपेभ्यः परिमाणे ४।३।१५३

जातरूपं सुवर्णम्। बहुवचननिर्देशात् तद्वाचिनः सर्वे गृह्यन्ते। जातरूपवाचिभ्यः प्रातिपदिकेभ्यः अण् प्रत्ययो भवति परिमाणे विकारे। मयडादीनम् अपवादः। हाटको निष्कः। हाटकं कार्षापणम्। जातरूपम्। तापनीयम्। परिमाणे इति किम्? यष्टिरियं हाटकमयी।
न्यासः
जातरूपेभ्यः परिमाणे। , ४।३।१५१

"बहुवचननिर्देशात्" इत्यादि। यदि स्वरूपग्रहणमभीष्टं स्यात् तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यादिति भावः। "मयडादीनाम्" इति। आदि शब्दोनाञो ग्रहणम्। बहुवचनं तु पूर्ववत्। तत्र ये वृद्धा हाटकजातरूपप्रभृतयः, तेभ्यो मयटोऽपवादः। ये तु तपनीयप्रभृतयोऽनुदात्तादयस्तेभ्योऽञः। "तापनीयम्" इति। तपनीयशब्दः "लघावन्ते" (फि।सू।२।४२) इत्यादिना मध्योदात्तः॥
बाल-मनोरमा
जातरूपेभ्यः परिमाणे १५१०, ४।३।१५१

जातरूपेभ्यः। अणिति। शेषपूरणम्। जातरूपं-सुवर्णं, तद्वाचिभ्योऽण् स्यात्परिमाणे विकारे गम्ये इत्यर्थः। ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह--बहुवचनादिति। हाटक इत्यादि। हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः। तापनीय इति। "नित्यं वृद्धशरादिभ्यः" इति मयटोऽपवादः। इतरत्र तु "अनुदात्तादेश्चे"त्यञोऽपवादः। "गुञ्जाः पञ्चाद्यमाषकः। ते षोडशाऽक्षः" इत्यमरः। सुवर्णविस्तौ हेम्नोऽक्षे" इति च।