पूर्वम्: ६।१।१२२
अनन्तरम्: ६।१।१२४
 
प्रथमावृत्तिः

सूत्रम्॥ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च॥ ६।१।१२३

पदच्छेदः॥ इकः १।३ असवर्णे ७।१ शाकल्यस्य ६।१ १२४ ह्रस्वः १।१ १२४ १२४ अचि ७।१ १२१ प्रकृत्या ३।२१ १११ संहितायाम् ७।१ ७०

समासः॥

न सवर्णः असवर्णः, नञ्तत्पुरुषः॥

अर्थः॥

असवर्णे अचि परतः इकः शाकल्यस्य आचार्यस्य मतेन प्रकृत्या भवन्ति, हस्वः च तस्य इकः स्थाने भवति।

उदाहरणम्॥

दधि अत्र, मधु अत्र, कुमारि अत्र् किशोरि अत्र॥ इको यणचि इत्यपि भवति विधानसामर्थ्यात्। तेन पक्षे दध्यत्र मध्वत्र कुमार्यत्र कोशोर्यत्र इति यणादेशाः भवन्ति॥
काशिका-वृत्तिः
इको ऽसवर्णे शाकल्यस्य ह्रस्वश् च ६।१।१२७

इको ऽसवर्ने अचि परतः शाकल्यस्य आचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्य इकः स्थाने भवति। दधि अत्र, दध्यत्र। मधु अत्र, मध्वत्र। कुमारि अत्र, कुमार्यत्र। किशोरि अत्र, किशोर्यत्र। इकः इति किम्? खट्वेन्द्रः। असवर्णे इति किम्। कुमारीन्द्रः। शाकल्यस्य ग्रहणं पूजार्थम्। आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः। सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः। सिति अयं ते योनिरृत्वियः। नित्यसमासे व्याकरनम्। कुमार्यर्थम्। ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्तव्यम्। ईषा अक्षो हिरण्ययः। का इमरे पिशङ्गिला। पथा अगमन्।
लघु-सिद्धान्त-कौमुदी
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ५९, ६।१।१२३

पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्रय्त्र। पदान्ता इति किम्? गौर्यौ -।
न्यासः
इकोऽसवर्णे शाकलयस्य ह्वस्वश्च। , ६।१।१२३

"ह्यस्वश्च तस्येकः स्थाने भवति" इति। यद्येवम्(), "प्रकृत्या" ६।१।१११ इत्यस्यानुकर्षणार्थश्चकारो न कत्र्तव्यः, ह्यस्वविधानसामथ्र्यादेव हि स्वरसन्धिर्न भविष्यति? अत्रैतत्? स्यात्()--दीर्घाणामेव ह्यस्वविधानसामथ्र्यात्? स्वरसन्धिर्न स्यात्()। ह्यस्वानां तु स्यादेव, न हि तेषां ह्यस्वा भवन्ति। प्रयोजनाभावादित्येतच्च नास्ति; ह्यस्वानामपि हि स्वरसन्धिबाधनार्थं ह्यस्वो भवत्येव। कृतकारि खल्विदं शास्त्रम्(), पर्जन्यवत्(); नाकृतकारि दहनवत्()। एवं तर्हि चकारेणैतदाख्यायते--क्वचिद्? ईषा+अक्षादौ प्रकृतिभाव एव भवति, न ह्यस्वत्वमिति। तेन यदुक्तामीषा अक्षादौ प्रकृतभावमात्रमिति, तन्न वक्तव्यं भवति यणादेशेन सह विकल्पार्थं शाकल्यग्रहणं कस्मान्न भवति? इत्याह--"आरम्भसामथ्र्यादेव हि" इत्यादि। यणादेशस्य ह्रसवर्ण एवाज्विषयः; सवर्णे तु "अकः सवर्णे दीर्घः" ६।१।९७ इति दीर्घविधानात्()। अयमपि च शाकलो ह्यस्वो विधीयते। अत एवास्मिन्? विषय आरम्भसामथ्र्यादेवास्य विधेर्यणादेशेन सह विकल्पः सिद्ध इति न तदर्थमाचार्यग्रहणम्()। "सिन्नित्यसमासयोः" इत्यादि। एकापि सप्तमी द्विधा भिद्यते; अपेक्षाभेदात्()। सिदपेक्षया परसप्तमी, नित्ससमासापेक्षया विषयसप्तमी। सिच्च नित्यसमासश्चेति द्वन्द्वः--स इद्यस्य स सित्()। नित्याधिकारे विहितः समासो नित्यसमासः। शाकल्यस्यायं विधिः शाकलः--"कण्वादिभ्यो गोत्रे" (४।२।१११) इत्यण्? "यस्येति च" ६।४।१४८ इत्यकारलोपः, "आपत्यस्य च तद्धितेऽनाति" ६।४।१५१ इति यकारलोपः। शाकलस्य प्रतिषेधः शाकलप्रतिषेधः। "वक्तव्य" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्(), "सर्वत्र विभाषा गोः" ६।१।११८ इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन सिन्नित्यसमासयोः शाकलप्रतिषेधो भविष्यति। "ऋत्वियः" इति। ऋतुः प्राप्तोऽस्येति "ऋतोरण्()" ५।१।१०४ "छन्दसि घस्()" ५।१।१०५ इति घस्()। "व्याकरणम्()" इति। "कुगतिप्रादयः" २।२।१८ इति समासः। अत्र हि "नित्यं क्रीडाजीविकयोः" २।२।१७ इत्यतो नित्यग्रहणानुवृत्तेर्नितयसमासोऽयम्()। "कुमार्यर्थम" इति। कुमार्या इदं कुमार्यर्थमिति। "अर्थशब्देन सह" समासवचनं सर्वलिङ्गता च" (वा।७८) इत्ययमपि नित्यसमास एव। सर्वत्र शाकलविधौ प्रतिषिद्धे यणादेशो भवत्येव॥
बाल-मनोरमा
ह्यस्वश्च ९२, ६।१।१२३

भाष्यकारमतमाह--अत्र ह्यस्वेति। अत्र चकारो न कर्तव्यः, प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात्। नच विहितस्य ह्यस्वस्य यण्निवृत्त्यर्थः स इति वाच्यं, ह्यस्वविधिसामथ्र्यादेव यणो निवृत्तिसिद्धेः। अन्यथा यणमेव विदध्यात्। अतः प्रकृत्येत्यनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थः। चक्रि-अत्रेति ह्यस्वमनुच्चितप्रकृतिभावपक्षे रूपम्। तदभावपक्षे तु यणि चक्र्यत्रेति रूपम्। नचात्र ककारस्य "स्कोः संयोगाद्यो"रिति लोपः शङ्क्यः, "अचः परस्मि"न्निति यणः स्थानिवत्त्वेनाऽच्त्वेन पदान्तसंयोगाऽभावात्। नच "पूर्वत्रासिद्धे न स्थानिव"दिति तन्निषेधः शङ्क्यः, "तस्य दोषः संयोगादिलोपलत्वणत्वे"ष्विति वचनात्।

न समासे। वार्तिकमेतत्। समासे उक्तशाकलविधिर्न भवतीत्यर्थः। वाप्य()आ इति। वाप्याम()आ इति विग्रहः। शौण्डादेराकृतिगणत्वात्सुप्सुपेति वा समासः।

सिति च। सकार इद्यस्य स सित्, तस्मिन् परे उक्तः शाकलविधिर्न भवतीत्यर्थः। पार्(ामिति। पर्शु=पार्(ाआस्थि। पर्शूनां समूहः पार्(ाम्। "पर्(ाआ णस् वक्तव्यः" इति णस्। आदिवृद्धिः। यणादेशः। अत्र पार्शु-अ इति स्थिते उक्तः शाकलो विधिर्न भवति। ओर्गुणस्तु न, भस्यैव तद्विधानात्, "सिति चे"ति पदत्वेन भत्वबाधात्। "अचो ञ्णिती"ति वृद्धिरपि न भवति, आदिवृद्ध्या तद्बाधात्। तथाच मूलकारो वक्ष्यति-"आदिवृद्धिरन्त्योपधावृद्धी बाधते" इति। अत्र सिन्नित्यसमासयोः शाकलप्रतिषेधः" इति वार्तिकं, तदिह द्विधा विभज्य व्याख्यातम्। नचैव सति वोप्य()आ इत्यत्र कथं शाकलप्रतिषेधः, तत्र समासस्य वैकल्पिकत्वादिति वाच्यम्, भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात्।