पूर्वम्: ६।१।२०२
अनन्तरम्: ६।१।२०४
 
सूत्रम्
जुष्टार्पिते च छन्दसि॥ ६।१।२०३
काशिका-वृत्तिः
जुष्टार्पिते च च्छन्दसि ६।१।२०९

जुष्ट अर्पित इति शब्दरूपे छन्दसि विषये विभाषा आद्युदात्ते भवतः। जुष्टः, जुष्टः। अर्पितः, अर्पितः। छन्दसि इति किम्? भाषायां प्रत्ययस्वरेण अन्तोदात्तवेतौ।
न्यासः
जुष्टार्पिते च च्छन्दसि। , ६।१।२०३

"जुष्टः" इति। "जुषी प्रीतिसेवनयोः" (धा।पा।१२८८)। "अर्पितः" इति। अत्र्तेर्णिच, "अर्त्तिह्रो" ७।३।३६ इत्यादिना पुक्()॥