पूर्वम्: १।३।७०
अनन्तरम्: १।३।७२
 
प्रथमावृत्तिः

सूत्रम्॥ मिथ्योपपदात् कृञोऽभ्यासे॥ १।३।७१

पदच्छेदः॥ मिथ्योपपदात् ५।१ कृञः ५।१ अभ्यासे ७।१ णेः ५।१ ६७ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
मिथ्योपपदात् कृञो ऽभ्यासे १।३।७१

णेः इति वर्तते। अकर्त्रभिप्रायार्थो ऽयमरम्भः। ण्यन्तात् करोतेर् मिथ्योपपदादात्मनेपदं भवति अभ्यासे। अभ्यासः पुनः पुनः करणम्, आवृत्तिः। पदं मिथ्या कारयते। सापचारं स्वरादिदुष्टम् असकृदुच्चारयति इत्यर्थः। मिथ्योपपदतिति किम्? पदं सुष्ठु कारयति। कृञः इति किम्? पदं मिथ्या वाचयति। अभ्यासे इति किम्? पदं मिथ्या कारयति। सकृदुच्चारयति।
न्यासः
मिथ्योपपदात्कृञोऽभ्यासे। , १।३।७१

"मिथ्योपपदात्" इति। उपोच्चारितं पदमुपपदम्, मिथ्याशब्द उपपदं यस्य स तथोक्तः। "पदं मिथ्या कारयते" इति। अत्रात्मनेपदानाभ्यासस्य द्योतितत्वात् "नित्यवीप्सयोः" ८।१।४ इसि द्विर्वचनं न भवति। "सापचारम्" इति। सदोषम्। अनेन मिथ्याशब्दस्यार्थमाचष्टे। "स्वरादिदुष्टम्" इति। पूर्वस्यैवार्थं व्यक्तीकरोति। आदिशब्देन रूपस्य परिग्रहः। "असकृत्" इति। अभ्यासशब्दार्थमुदाहरणेन दर्शयति॥
बाल-मनोरमा
मिथ्योपपदात्कृञोऽभ्यासे ५६४, १।३।७१

मिथ्योपपदात्। अभ्यासवृत्तेर्मिथ्याशब्दोपपदकात्कृञ आत्मनेपदमित्यर्थः। इत ऊध्र्वं "णे"रिति निवृत्तम्।

तत्त्व-बोधिनी
मिथ्योपपदात्कृञोऽभ्यासे ४६७, १।३।७१

मिथ्योपपदात्कृञोऽभ्यासे। इह करोतिरुच्चारणार्थत्वादकर्मकः। उच्चारण--- निःसरणम्। ण्यन्तस्तूच्चारणवृत्तिः सकर्मकः। उच्चारयतीति। निःसारयतीत्यर्थः। असकृदुच्चारणे तु धातोर्लक्षणा, आत्मनेपदं तु द्योतकं, तेनैव द्योतितत्वात् "नित्यवीप्सयो"रिति न द्विर्वचनम्। ऋत्विजो यजन्तीति। दक्षिणादिकं तु न यागफलम्, "स्वर्गकामो यजेते"त्यादिना स्वर्गाद्युद्देशेन यागादिविधानात्स्वर्गादिरेव फलमिति भावः।