पूर्वम्: १।३।८३
अनन्तरम्: १।३।८५
 
प्रथमावृत्तिः

सूत्रम्॥ उपाच्च॥ १।३।८४

पदच्छेदः॥ उपात् ५।१ ८५ रमः ५।१ ८३ परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
उपाच् च १।३।८४

रमः इत्येव। उपपुर्वात् रमतेः प्रस्मैपदं भवति। देवदत्तम् उपरमति। जज्ञदत्तम् उपरमति। उपरमयति इति यावत्। अन्तर्भावितन्यर्थो ऽत्र रमिः। पृथग् योगकरणम् उत्तरार्थम्। अकर्मकाद् विभाषां वक्ष्यति, सा उपपूर्वादेव यथा स्यात्।
लघु-सिद्धान्त-कौमुदी
उपाच्च ७५३, १।३।८४

यज्ञदत्तमुपरमति। उपरमयतीत्यर्थः। अन्तर्भावितण्यर्थोऽयम्॥
लघु-सिद्धान्त-कौमुदी
इति परस्मैपदप्रक्रिया ७५३, १।३।८४

इति पदव्यवस्था॥
लघु-सिद्धान्त-कौमुदी
अथ भावकर्मप्रक्रिया ७५३, १।३।८४

न्यासः
उपाच्च। , १।३।८४

"उपाच्च" इति। चकारः पूर्वापेक्षया समुच्चयार्थः। "उपरमति देवदत्तम्" इति। ननु चोपपूर्वो रमिरकर्मक एव भवति। तथा ह्रुपपूर्वस्यास्य विनाशोऽर्थो भवति; यथा-- उपरतानि, नष्टानीति गम्यते। निवृत्तिर्वा भवति, स्वाध्यायादुपरमते, निवर्तत इति गम्यते। न चास्मिन्नार्थे वर्तमानस्य सकर्मकत्वमुपपद्यते। तत्कतं सकर्मकस्योदाहरणं युज्यत इत्याह-- "उपरमयतीति यावत्" इति। एतेन ण्यर्थवृत्तितामुपरमतेर्दर्शयन् सकर्मकतामुपपादयतीति। अकर्मको हि धातुण्र्यर्थे वर्तमानः सकर्मको भवति। अथ पुनरण्यन्तस्य ण्यर्थवृत्तितोपपद्यते कथम्? स तथोक्तः। एवंविधस्य तस्य प्रयोज्येन सकर्मत्वमुपपद्यत एव। अथ किमर्थं पृथग्योगः क्रियते? "न व्याङपर्युपेभ्यो रमः" इत्येक एव योगः क्रियतामित्याह-- "पृथग्योगकरणम्" इत्यादि। गतार्थम्॥
बाल-मनोरमा
उपाच्च ५७५, १।३।८४

उपाच्च। उपपूर्वादपि रमेः परस्मैपदमित्यर्थः। उत्तरसूत्रे उपादित्यस्यैवाऽनुवृत्तये "व्याङ्पर्युपेभ्यो रमे"रिति नोक्तम्। अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम्, तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविकल्पविधानात्। अतः सकर्मकमुदाहरति-- यज्ञदत्तमुपरमतीति। ननु विरामार्थकत्वात्कथं सकर्मकतेत्यत आह-- उपरमयतीत्यर्थ इति। ननु णिजभावात्कथमयमर्थो लभ्यते इत्यत आह-- अन्तर्भावितण्यर्थोऽयमिति। धातूनामनेकार्थत्वादिति भावः।

तत्त्व-बोधिनी
उपाच्च ४७३, १।३।८४

उपाच्च। "व्याङपर्युपेभ्यः" इति नोक्तम्, उत्तरसूत्रे उपेत्यस्यैवानुवृत्तिर्यथा स्यादिति।