पूर्वम्: २।१।५०
अनन्तरम्: २।१।५२
 
प्रथमावृत्तिः

सूत्रम्॥ संख्यापूर्वो द्विगुः॥ २।१।५१

पदच्छेदः॥ संख्यापूर्वो १।१ द्विगुः १।१

काशिका-वृत्तिः
सङ्ख्यापूर्वो द्विगुः २।१।५२

तद्धितार्थौत्तरपदसमाहारे च २।१।५० इत्यत्र यः सङ्ख्यापूर्वः समासः स द्विगुसंज्ञो भवति। तद्धितार्थे तावत् पञ्चसु कपालेशु संस्कृतः पञ्चकपालः। दशकपालः। संस्कृतं भक्षाः ४।२।१५ इति इह अण्, तस्य द्विगोर् लुगनपत्ये ४।१।८८ इति लुक्। उत्तरपदे पञ्चनावप्रियः। नावो द्विगोः ५।४।९९ इति समासान्तो भवति। समाहारे पञ्चपूली। द्विगोः ४।१।२१ इति ङीब् भवति। द्विगुप्रदेशाः द्विगोः ४।१।२१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
संख्यापूर्वो द्विगुः ९४४, २।१।५१

तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात्॥
न्यासः
सख्यापूर्वो द्विगुः। , २।१।५१

"समासान्तो भवति" इति। टच्। "राजाहःसखिभ्यष्टच्" ५।४।९१ इत्युवृत्तेः॥
बाल-मनोरमा
सङ्ख्यापूर्वो द्विगुः ७२०, २।१।५१

अत्र समासे सति "गोरतद्धितलुकि" इति टचि अवादेशे पञ्चगवशब्दस्य द्विगुकार्यं विधास्यन् द्विगुसंज्ञामाह--संख्यापूर्वो द्विगुः। सङ्ख्या पूर्वोऽवयवो यस्येति बहुव्रीहिः। "तद्धितार्थ" इति पूर्वसूत्रविहितसमासोऽन्यपदार्थः, प्रत्यासत्तेः, तदाह--तद्धितार्थेत्यत्रोक्तस्त्रिविध इति। तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः सङ्ख्यापूर्वः समास उक्तः, स द्विगुरिति यावत्। तथाच पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वाद्द्विगुसंज्ञा स्थिता। तद्धितार्थे तु पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। "संस्कृतं भक्षाः" इत्यण्। "द्विगोर्लुगनपत्ये" इति लुक्। उत्तरपदे यथा,-पञ्चनावप्रियः। "नावो द्विगो"रिति समासान्तष्टच्।

तत्त्व-बोधिनी
सङ्ख्यापूर्वो द्विगुः ६३८, २।१।५१

सङ्ख्यापूर्वो द्विगुः। अत्रोक्त इति। अयं भावः--पूर्वसूत्रविषय एवेयं संज्ञा,"अनन्तरस्यैवे"ति न्यायात्। एतदर्थमेव हि सूत्रद्वयं कृतम्, अन्यथा "दिक्संख्यं संज्ञायां तद्धितार्थोत्तरपदसमाहारेष्वि"त्येव ब्राऊयात्। तेन "सप्तर्षय"इत्यत्र "इगन्तकालकपाले"त्यादिना पूर्वपदप्रकृतिस्वरो न भवति, किन्तु समासान्तोदात्त एव। तथा च लक्ष्यं, "सप्त ऋषयस्तपसे ये निषेदुः"। "सप्तऋषीणां सुकृतां यत्र लोकः"इत्यादि। त्रिविधः संख्यापूर्व इति। तद्धितार्थे विषये, उत्तरपदे चपरतः, समाहारे च वाचच्ये संख्यापूर्वो यः समासः स इत्यर्थः। तद्धितार्थे यथा--पञ्चकपालः। "संस्कृतं भक्षाः" इत्यणो "द्विगोर्लुगनपत्ये"इति लुक्। उत्तरपदे यथा--पञ्चनावप्रियः। "नावो द्विगोः"इति समासान्तष्टच्। समाहारे--पञ्चपूली। "द्विगोः"इति ङीप्।