पूर्वम्: २।३।१८
अनन्तरम्: २।३।२०
 
प्रथमावृत्तिः

सूत्रम्॥ सहयुक्तेऽप्रधाने॥ २।३।१९

पदच्छेदः॥ सहयुक्ते ७।१ अप्रधाने ७।१ तृतीया १।१ १८

काशिका-वृत्तिः
सहयुक्ते ऽप्रधाने २।३।१९

सहार्थेन युक्ते अप्रधाने तृतीया विभक्तिर् भवति। पुत्रेण सहागतः पिता। पुत्रेण सह गोमान्। पितुरत्र क्रियादिसम्बन्धः शब्देन उच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्। सहार्थेन च योगे तृतीयाविधानात् पर्यायप्रयोगे ऽपि भवति, पुत्रेण सार्धम् इति। विना ऽपि सहशब्देन भवति, वृद्धो यूना १।२।६५ इति निदर्शनात्। अप्रधाने इति किम्? शिष्येण सहोपाद्यायस्य गौः।
न्यासः
सहयुक्तेऽप्रधाने। , २।३।१९

क्रियागुणद्रव्यसम्बन्धे हि सति सहयोगो भवति। अतः "पुत्रेण सहागतः" इत्यादीनि क्रियादिसम्बन्धे यथाक्रमुदाहरणानि वृत्तिकृतोपन्यस्तानि। सर्वत्र च पुत्रस्यात्राप्रधान्यमिति ततस्तृतीया भवति। ननु चोभयोरपि पितापुत्रयोः क्रियादिसम्बन्धः प्रतीयते, तत्कुतः पुत्रस्याप्राधान्यमितरस्य प्रधानभाव इत्याह-- "पितुरत्र" इत्यादि। "यद्य्प्युभयगतः क्रियादिसम्बन्धः प्रतीयते, तथाऽप्युपात्तशब्दव्यापारापक्षया प्रधानाप्रधानव्यवस्थाः-- शब्देन यस्य क्रियादिसम्बन्धः प्रत्याय्यते तत् प्रधानमितरदप्रधानमिति। इह तु पितुरव क्रियादिसंबन्धः प्रत्याय्यते शब्देन, न तु पुत्रस्य। कुत एतत्? शब्दशक्तस्वाभाव्यात्। तथाविधा हि शब्दशक्तिर्यतः पितुरेवात्र क्रियादिसम्बन्धं श्नोति प्रतिपादयितुम्, न पुत्रस्येति; एवञ्चागत इत्यादवेकवचनमुपपद्यते; अन्यथा हि द्वित्वाद्द्विवचनं स्यात्, यथा-- पिततापुत्रावागताविति। "पुत्रस्य तु प्रतीयमानत्वादप्राधान्यम्" इति। अर्थात्स पुनरर्थः सहार्थयोगः। स च भेदाधिष्ठानत्वात् पुत्रस्य क्रियादिसम्बन्धमन्तरेण न सम्भवतीति सम्बन्धस्य नान्तरीयकत्वात् पुत्रस्यापि क्रियादिसम्बन्धं प्रत्याययति। "सहार्थेन योगे तृतीयाविधानात्" इति। कुतः पुनरेतदवगतं सहार्थेन योगे तृतीयाविधानमिति? युक्तग्रहणात्। तस्य चैतदेव प्रयोजनम्-- सहार्थेन योगे तृतीया यथा स्यात्, नान्यत्। "शिष्येण सहोपाध्यायस्य गौः" इति। अत्र द्रव्यसम्बन्धः षष्ठ()ऐवोपाध्यायस्योच्यत इत्यस्य प्राधान्यात्। तत्रासत्यप्रधानग्रहणे प्रधानेऽप्युपाध्याये स्यात्। ननु च परत्वात् षष्ठी भविष्यति? न भविष्यति; अशेषत्वात्। सति त्वप्रधानग्रहणे शेषोऽयं सम्पद्यत इति षष्ठी॥
बाल-मनोरमा
सहयुक्तेऽप्रधाने ५५६, २।३।१९

सहयुक्ते। "पृथग्विनानानाभिः" इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणार्थमित्याह--सहार्थेनेति। पुत्रेणेति। पितुरत्रागमनक्रियासंबन्धः शाब्दः, पुत्रस्य तु तत्साहित्यगम्य आर्थिक इति तस्याऽप्राधान्यम्। यद्यप्यागमनक्रियाकर्तृत्वादेव पुत्रात्तृतीया सिद्धा तथापि "पुत्रेण सह स्थूल" इत्याद्येवास्य मुख्योदाहरणमिति भाष्ये स्पष्टम्। अर्थग्रहणस्य प्रयोजनमाह--एवं साकमिति। ननु "पुत्रेणागतः पिते"त्यत्र सहादिशब्दाऽभावात्कथं तृतीयेत्यत आह--विनापीति। वृद्धो यूना तल्लक्षणश्चेदि"ति सूत्रे सहादिशब्दाऽभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः।

तत्त्व-बोधिनी
सहयुक्तेऽप्रधाने ४९८, २।३।१९

सहयुक्ते। "सहेनाऽप्रधाने"इत्येव वाच्ये युक्तग्रहणार्थग्रहणमित्याह--सहार्थेनेति। सहार्थकशब्देनसह--साकं--सार्धमित्यादिनेत्यर्थः। पुत्रेणेति। पितुरेवागमनक्रियासम्बन्धः शाब्दः, पुत्रस्य त्वार्थ इत्येतावतौवाऽस्याऽप्राधान्यमुच्यते। अप्रधानग्रहणं त्युक्तं शक्यम्। न चैवं पितुरपि तृतीयापत्तिः, तत्र प्रातिपदिकार्थमात्रे अन्तरङ्गत्वात्प्रथमोपपत्तेः। न च यत्र प्रथमा न प्राप्नोति "पुत्रेण सह पितुरागमन"मित्यादौ तत्र प्रधानात्पितुरपि तृतीया स्यादतस्तद्वारणायाऽप्रधानग्रहणमावश्यकमिति वाच्यम्। कारकव्भक्तेर्बलीयस्त्वात् "कर्तृकर्मणोः कृति"इति षष्ठ()आ एव तत्र प्रवृत्तेरिति दिक्।