प्रथमावृत्तिः
सूत्रम्॥
संज्ञोऽन्यतरस्यां कर्मणि॥ २।३।२२
पदच्छेदः॥
संज्ञः ६।१ अन्यतरस्यां ० कर्मणि ७।१ तृतीया १।१ १८ अनभिहिते ७।१ १
काशिका-वृत्तिः
संज्ञो ऽन्यतरस्यां कर्मणि २।३।२२
सम्पूर्वस्य जानातेः कर्मणि करके द्वितीयायां प्राप्तायाम् अन्यतरस्यां तृतीयाविभक्तिर् भवति। पित्रा सञ्जानीते, पितरं सञ्जानीते। मात्रा सञ्जानीते, मातरं सञ्जानीते।
न्यासः
संज्ञोऽन्यतरस्यां कर्मणि। , २।३।२२
"मात्रा सञ्जानीते" इति। "ज्ञाननोर्जा"
७।३।७९ इति जादेशःक, "ई हल्यघोः"
६।४।११३ इतीत्वम्, "संप्रतिभ्यामनाध्याने"
१।३।४६ इत्यात्मनेपदम्। आध्याने तु "अधीगर्थदयेशां कर्मणि"
२।३।५२ इति परत्वात् षष्ठी भवति-- मातुः सञ्जानातीति। कृत्प्रयोगे चानाध्यानेऽपि "कर्त्तृकर्मणोः कृति"
२।३।६५ इति परत्वात् षष्ठ()एव भवति-- संज्ञातेति॥
बाल-मनोरमा
संज्ञोऽन्यतरस्यां कर्मणि ५५९, २।३।२२
संज्ञोऽन्यतरस्यां। संपूर्वस्य ज्ञाधातोरनुकरणात् षष्ठ()एकवचनं "संज्ञ" इति, तदाह--संपूर्वस्य जानातेरिति। द्वितीयापवादोऽयं तृतीयाविकल्पः। संजानीते इति। सम्यक् जानीते इत्यर्थः। "संप्रतिभ्यामनाध्याने" इत्यात्मनेपदम्।
तत्त्व-बोधिनी
संज्ञोऽन्यतरस्यां कर्मणि ५०१, २।३।२२
संज्ञो। "ज्ञा अवबोधने"इत्ययमेव गृह्रते न तु "जनी प्रादुर्भावे"इति तस्याऽकर्मकत्वात्। ङसः प्राग्भागस्य "ज्ञ"इत्यस्य "अल्लोपोऽनः"इत्यल्लोपेन निष्पन्नतया लाक्षणिकत्वाच्चेत्याशयेनाह--जानातेरिति। संजानीत इति। "संप्रतिभ्यामनाध्याने"इति तङ्। कृद्योगे परत्वात् "कर्तृकर्मणोः" इति षष्ठ()एव, "पितुः संज्ञाता"। आध्याने तु "पित्रा पितरं वा सञ्जानाति"। हरदत्तस्त्वाह--आध्याने तु परत्वादधीगर्थेति षष्ठी--मातुः संजानातीति, तन्न। तत्र शेषाधिकारादिति मनोरमायां स्थितम्।
तत्त्व-बोधिनी
संज्ञोऽन्यतरस्यां कर्मपि ५०४, २।३।२२
संज्ञो। "ज्ञा अवबोधने"इत्ययमेव गृह्रते न तु "जनी प्रादुर्भावे"इति, तस्याऽकर्मकत्वात्। ङसः प्राग्भागस्य "ज्ञ"इत्यस्य "अल्लोपोऽनः"इत्यल्लोपेन निष्पन्नतया लाक्षणिकत्वाच्चेत्याशयेनाह--जानातेरिति। संजानीत इति। "संप्रतिभ्यामनाध्याने"इति तङ्। कृद्योदे परत्वात् "कर्तृकर्मणोः" इति षष्ठ()एव, "पितुः संज्ञाता"। आध्याने तु "पित्रा पितरं वा सञ्जानाति"। हरदत्तस्त्वाह--आध्याने तु परत्वादधीगर्थेति षष्ठी--मातुः संजानातीति, तन्न। तत्र शेषाधिकारादिति मनोरमायां स्थितम्।