पूर्वम्: २।३।४
अनन्तरम्: २।३।६
 
प्रथमावृत्तिः

सूत्रम्॥ कालाध्वनोरत्यन्तसंयोगे॥ २।३।५

पदच्छेदः॥ कालाध्वनोः ७।२ अत्यन्तसंयोगे ७।१ द्वितीया १।१

समासः॥

कालश्च अध्वा च कालाध्वानौ, तयोः कालाध्वनोः, इतरेतरद्वन्द्वः
अत्यन्तं संयोगः, अत्यन्तसंयोगः, तस्मिन् ॰ कर्मधारयतत्पुरूषः

अर्थः॥

कालवाचिनि शब्दे, अध्ववाचिनि शब्दे च, अत्यन्तसंयोगे गम्यमाने द्वितीया विभक्तिः भवति।

उदाहरणम्॥

मासम् अधीतः अनुवाकः। संवत्सरम् अधीतः अष्टकः। संवत्सरं कल्याणी। अध्वनि - क्रोशं कुटिला नदी। क्रोशं रमणीया वनराजी॥
काशिका-वृत्तिः
कालाध्वनोरत्यन्तसंयोगे २।३।५

कालशब्देभ्यो ऽध्वशब्देभ्यश्च द्वितीया विभक्तिर् भवति अत्यन्तसंयोगे गम्यमाने। क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः सम्बन्धः अत्यन्तसंयोगः। मासम् अधीते। संवत्सरम् अधीते। मासं कल्याणी। संवत्सरं कल्याणी। मासं गुडधीनाः। संवत्सरं गुडधानाः। अध्वनः खल्वपि क्रोशम् अधीते। योजनम् अधीते। क्रोशं कुटिला नदी। योजनं कुटिला नदी। क्रोशं पर्वतः। योजनं पर्वतः। अत्यन्तसंयोगे इति किम्? मासस्य द्विरधीते। क्रोशस्य एकदेशे पर्वतः।
न्यासः
कालाध्वनोरत्यन्तसंयोगे। , २।३।५

कालाध्वनोरित्यर्थग्रहणम्। अत आह-- "कालशब्देभ्योऽध्वशब्देभ्यश्च" इत्यादि। "मासस्य द्विरधीते। क्रोशस्यैकदेशे पर्वतः। योजनस्यैकदेशे पर्वतः" इति। नात्र "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया भवति॥
बाल-मनोरमा
कालाध्वनोरत्यन्तसंयोगे ५५०, २।३।५

कालाध्वनोः। इहेति। कालाध्वनोरत्यन्तसंयोगे इत्यर्थः। निरन्तरसंयोगः=अत्यन्तसंयोगः। अन्तो विच्छेदः, तमतिक्रान्तोऽत्यन्तः, स चासौ संयोगश्चेति विग्रहः। गुणक्रियाद्रव्यैरित्यौचित्याद्गम्यते। गुणक्रियाद्रव्यैः कालाध्वनोरविच्छिन्नसंयोगे गम्ये द्वितीया स्यादित्यर्थः। सा च कालाध्वभ्यामेव भवति, श्रुतत्वात्। तत्र गुणात्यन्तसंयोगे उदाहरति--मासं कल्याणीति। "भवती"ति शेषः। तिं()रशद्दिनात्मको मासः। तस्मिन्नविच्छिन्नमङ्गलवानित्यर्थः। क्रियात्यन्तसंयोगे उदाहरति--मासमधीते इति। तिं()रशद्दिनात्मके प्रतिदिनमुचितकाले निरन्तरमधीत इत्यर्थः। द्रिव्यात्यन्तसंयोगे उदाहरति--मासं गुडधाना इति। मासे प्रतिदिनं निरन्तरं गुडधानाः सन्तीत्यर्थः। कालात्यन्तसंयोगमुदाह्मत्य अध्वात्यन्तसंयोगे उदाहरति--क्रोशं कुटिलेत्यादि। मासस्य द्विरिति। मासे तिं()रशद्दिनात्मके द्वयोर्दिनयोः प्रतिदिनमेकवारमित्येव द्विरधीत इत्यर्थः। "द्वित्रिचतुभ्र्यः सुच्" इति द्विशब्दात्कृत्वोऽर्थे सुच्। "कृत्वोऽर्थप्रयोगे कालेऽधिकरणे" इति षष्ठी। शेषषष्ठीति केचित्। "शिवरात्रौ जागृयात्" इत्यत्र त्वधिकरणत्वस्य विवक्षितत्वात्सप्तमीत्याह#उ#ः। उपपदविभक्तीनां शेषत्वविवक्षायामेव प्रवृत्तेरिति तदाशयः। इति द्वितीया।

तत्त्व-बोधिनी
कालाध्वनोरत्यन्तसंयोगे ४९३, २।३।५

तालाध्वनोः। अन्तं विराममतिक्रान्तोऽत्यन्तः, स चासौ संयोगश्चाऽत्यन्तसंयोगः। निरन्तरसंन्निकर्ष इत्यर्थः। केनेत्याकाङ्क्षायां गुणक्रियाद्रव्यैरित्यौचित्याद्बोध्यम्। द्वितीया स्यादिति। श्रुतत्वात्कालाध्ववृत्तिभ्यामेव। स्वरूपग्रहणं त्विह न भवति, "कालाः," "अत्यन्तसंयोगे च "इति समासविधायके "कालाः"इति बहुवचननिर्देशेन द्वितायाविधौ स्वरूपविधिर्नेति ज्ञापनात्। अतएव "मासप्रमितः," "मुहूर्तसुख"मिति द्वितीयासमासविधावुदाहरिष्यति। मासं कल्याणीत्यादी। अकर्मकधातुभिर्योग एव देसकालादीनां कर्मसञ्ज्ञाविधानान्नेह "कर्मणि द्वितीय"इति द्वितीया प्राप्नोतीति भावः। मासस्य द्विरिति। "कृत्वोर्थप्रयोगे कालेऽधिकरणे"इत्यनेन षष्ठीति प्राञ्चः। तन्न। तत्र शेषग्रहणाऽनुवृत्त्या "द्विरह्नो भोजन"मिति कृदन्तेन सह समासनिवृत्तेरेव फलत्वात्। तस्मादिह "षष्ठी शेषे"इति सूत्रेणैव षष्ठी भवत्यन्तरङ्गत्वादित्याहुः। अन्यर्थमारब्धस्याऽपि "कृत्वोर्थप्रयोगे"इति सूत्रस्य द्विरह्नो भुङ्क्त इत्यत्र विशेषविहितत्वात्प्रवृत्तौ बाधकं नास्तीति केचित्। इति द्वितीया।