हन्तेर् धातोः वध इत्ययम् आदेशो भवति लिङि परत आर्धधातुके। वध्यात्, वध्यास्ताम्, वध्यासुः। अकारान्तश्च अयम् आदेशः। तत्र अकारस्य लोपो भवति। तस्य स्थानिवद्भावादवधीतिति हलन्तलक्षना वृद्धिः न भवति।
"अकारान्तश्चायमादेशः" इति।
कुत एतत्? शैलीयमाचार्यस्य यत्रेह प्रकरणे व्यञ्जनान्त आदेशः, तत्रोच्चारणार्थमिकारं करोति, यथा--जग्धिरित्यादौ। तस्मादिकारान्ताकरणादकारान्तोऽयमादेश इति विज्ञायते। "हलन्तलक्षणा" इति। "वदव्रजहलन्तस्याचः"
७।२।३ इत्यनेन या वृद्धिर्विधीयते सा हलन्तलक्षणा।