पूर्वम्: २।४।६४
अनन्तरम्: २।४।६६
 
सूत्रम्
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च॥ २।४।६५
काशिका-वृत्तिः
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश् च २।४।६५

अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवति। अत्रिशब्दातितश्च अनिञः ४।१।१२२ इति ढक्। इतरेभ्यः ऋष्यण्। अत्रयः भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः। बहुषु इत्येव, आत्रेयः। भर्गवः। तेन एव इत्येव, प्रियात्रेयाः। प्रियभार्गवाः। अस्त्रियाम् इति किम्? आत्रेय्यः स्त्रियः।
न्यासः
अत्त्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च। , २।४।६५

"{आत्रेय्यः-- इति मुद्रितः पाठः"आत्त्रेयः" इति। "टिड्ढाणञ्" ४।१।१५ इति। ङीप्॥
बाल-मनोरमा
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ११३१, २।४।६५

अत्रिभृगु। पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते। तदाह--एभ्यो गोत्रेति। अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गरसश्च अपत्यानि पुमांस इति विग्रहाः। तत्र अत्रेः "इतश्चाऽनिञः" इति ढको।ञनेन लुक्। इतरेभ्यस्तु ऋष्यण इति बोध्यम्। लुकि आदिवृद्धेर्निवृत्तिः।

तत्त्व-बोधिनी
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ९४२, २।४।६५

अत्रि। गोत्रप्रत्ययस्येति। अत्रि शब्दात् "इतश्चाऽनिञः"इति ढिक्।इतरेभ्यस्तु ऋष्यणिति बोध्यम्। भारतगोत्रे उदाहरति।