पूर्वम्: २।४।८१
अनन्तरम्: २।४।८३
 
सूत्रम्
अव्ययादाप्सुपः॥ २।४।८२
काशिका-वृत्तिः
अव्ययादाप्सुपः २।४।८२

अव्ययादुत्तरस्य आपः सुपश्च लुग् भवति। तत्र शालायाम्। यत्र शालायाम्। सुपः खल्वपि कृत्वा। हृत्वा।
लघु-सिद्धान्त-कौमुदी
अव्ययादाप्सुपः ३७३, २।४।८२

अव्ययाद्विहितस्यापः सुपश्च लुक्। तत्र शालायाम्॥सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं चैव हलन्तानां यथा वाचा निशा दिशा॥वगाहः, अवगाहः। पिधानम्, अपिधानम्॥
लघु-सिद्धान्त-कौमुदी
इत्यव्ययानि ३७३, २।४।८२

लघु-सिद्धान्त-कौमुदी
अथ तिङन्ते भ्वादयः ३७३, २।४।८२

लघु-सिद्धान्त-कौमुदी
लट्, लिट्, लुट्, ऌट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, ऌङ्। एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ३७३, २।४।८२

न्यासः
अव्ययादुप्सुपः। , २।४।८२

"तत्र शालायाम्" इति। तच्छब्दात् सप्तम्यास्त्रल्। तस्य "प्राग्दिशो विभक्ति" ५।३।१ इति। विभक्तिसंज्ञा, त्यदाद्यत्वम्,टाप्, "तसिलादिष्वाकृत्वसुचः" ६।३।३४ इति पुंवद्भावः। "तद्धितश्चासर्वविभक्तिः" १।१।३७ इति त्रलोऽव्ययत्वम्, ततौत्पन्नस्य टापो लुक्। केन पुनरव्ययाट्टाबुत्पद्यते? "अजाद्यतष्टाप्" ४।१।४ इति चेत्, नच स्त्रियां टापो विधानात्, अव्ययस्य चालिङ्गत्वात्। तस्मादव्ययाट्टापः सम्भव एव नास्तीत्यव्ययादपार्थकं टापो लुग्वचनम्? नापार्थकम्; "स्त्रियाम्" ४।१।३ गुणिप्रधाननिर्देशः-- स्त्रीत्ववति पदार्थे टाबादय इति। स्त्रीत्ववति च तस्यां शालायमित्येतस्मिन् पदार्थे तत्रेत्येतदव्ययं वत्र्तते। यद्यपि वाक्यार्थोऽत्र स्त्रीत्वम्; तथापि वाक्यार्थतयैव तसय् स्त्रीप्रत्ययो द्योत्यते, सति च स्त्रीप्रत्यये पदार्थ एव स्त्रीत्वं भवति, ततष्टापो लुग्वक्तव्यः। "कृत्वा, ह्मत्वा" इति। "क्त्वातोसुन्कसुनः" १।१।३९ इति क्त्वाप्रत्ययस्याव्ययत्वम्, तत उत्पन्नस्य सुपो लुक्। केन पुरव्ययात् सुबुत्पत्तिः? स्वादि ४।१।२ सूत्रेणेति चेत्, न; तत्र "बहुषु बहुवचनम्" १।४।२१ इ()तयादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां नियत्वात्, अव्ययानाञ्चासंख्यत्वात्। स्यादेतत्-- यत्र संख्यास्ति तत्र "बहुषु वहुवचनम्()" १।४।२१ इत्येवमादिना स्वादिनियः कृतः, अव्ययेभ्यस्तु निःसंख्येभ्यः समान्यविहिताः स्वादयो विद्यन्त एवेति?वात्र्तमेतत्; स्वादिसूत्रेण ४।१।२ हि "बहुषु बहुवचनम्" १।४।२१ इत्यादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां विधानात्। तथा हि-- तत्रोक्कतं संख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यतेति। एकवाक्यतायाञ्च कुतः स्वादीनां सामान्येन विधानाम्। न ह्रपरं लक्षणमस्ति येन स्वादयः सामान्येन विहिताः। एवं तह्र्रेतदेवाव्ययादुत्पन्नस्य सुपो लुग्वचनं ज्ञापकम्-- भवन्त्यवययात् स्वादय इति। न ह्रनुत्पन्नस्य लुगुपपद्यते। एतदेव ज्ञापकं ह्मदि कृत्वोक्तम्-- "अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव" इति॥
बाल-मनोरमा
अव्ययादाप्सुपः ६३८, २।४।८२

अव्ययादाप्सुपः। आप्च सुप्च आप्सुप्, तस्य आप्सुपः, समाहारद्वन्द्वात्षष्ठी। "ण्यक्षत्रियार्षे त्यतो "लु"गित्यनुवर्तते। तदाह--अव्ययाद्विहितस्येति। तत्र शालायामिति। तत्रेत्यस्याव्ययत्वादापो लुक्। स्त्रीत्वबोधनाय "शालाया"मिति। अथेति। अत्र सुपो लुक्। विहितेति। अव्ययात्परस्येत्यनुक्त्ता अव्ययाद्विहितस्येति व्याख्यानादिति भावः। अत्युच्चैसाविति। उच्चैरतिक्रान्त इति विग्रहे "अत्यादयः क्रान्ताद्यर्थे" इति समासः। अधिकरणशक्तिप्रधानान्यव्ययानिरेवृत्तिविषये शक्तिमत्प्रधानानि भवन्ति। यता "दोषामन्यमहः, "दिवाभूता रात्रि"रिति। अतो द्वितीयासम्भवात् "अत्यादयः" इति द्वितीयासमासस्याऽविरोधः। अत्र समासाद्विहितस्य सुपोऽव्ययभूतादुच्चेश्शब्दात्परत्वे।ञपि ततो विहतत्वाऽभावान्न लुक्। "अत्युच्चे"रिति समुदायस्य तु नाव्ययत्वं, स्वरादिगणे उच्चेश्शब्दस्य केवलस्य पाठादिति भावः। ननु स्वरादिगणे केवलोच्चैश्शब्दस्य पाठेऽपि "स्वरादिनिपातमव्यय" मित्यव्ययसंज्ञा भवत्येव, "प्रयोजनं सर्वनामाव्ययसंज्ञाया"मिति वचनादित्याशङ्कते--अव्ययसंज्ञायामिति। परिहरति--तथापीति। सर्वनामसंज्ञायामुपसर्जनस्य नेति प्रकृतः प्रतिषेधोऽव्ययसंज्ञाविधावनुवर्तत इति "तद्धितश्चासर्वविभक्तिः" इति सूत्रे भाष्ये स्पष्टमिति भावः। व्यर्थमिति। "अव्ययादाप्सुपः" इति सूत्रे" इति शेषः। अलिङ्गत्वादिति। अव्ययानां लिङ्गाऽभावादित्यर्थः। तथाच वार्तिकम्,-"अव्ययादाब्लुग्वचनानर्थक्यं, लिङ्गाऽभावात्" इति। तथा "तद्धिताश्चासर्वविभक्तिः" इति सूत्रे भाष्येऽप्युक्तम्--स्त्रीनपुंसकत्वानि सत्त्वगुण एकत्वद्वित्ववहुत्वानि च-एतानर्थान् ये न वियन्ति तदव्ययमितित। ननु अव्ययानां लिङ्गाऽभावे "सदृशं त्रिषु लिङ्गेषु" इत्याथर्वणश्रुतिविरोध इत्याशङ्क्य परिहरति-सदृशमिति। त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु, सर्वेषु वचनेषु च यत् न व्येति=विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति तदव्ययमिति आथर्वणश्रुतियोजना। अत्र विभक्तिवचनशब्दौ कारकसङ्ख्यापरौ नतु प्रत्ययपरौ, अन्यतरग्रहणवैयथ्र्यात्। लिङ्गकारकेति। लिङ्गकारकसङ्ख्याऽभावः परः=तात्पर्यविषयभूतो यस्या इति विग्रहः। लिङ्गेष्वित्यादिषु सप्तमी हि "षष्ठी चानादरे" इति विहिता। तथाच लिङ्गकारकसङ्ख्या अनादृत्य यन्न व्येति विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति, तदव्ययमित्युदाह्मतश्रुतेरर्थः। "तद्धितश्चासर्वविभक्तिः" इति सूत्रभाष्ये "स्त्रीपुंनपुंसकत्वानि सत्त्वगुणा एकत्वद्वित्वबहुत्वानि च। एतानर्थान् ये न वियन्ति तदव्ययम्" इत्युपक्षिप्य तत्र प्रमाणतया अस्याः श्रुतेरुदाह्मतत्वादिति भावः। अयं च लिङ्गकारकसङ्ख्याऽभावनियमो निपातानामेव, स्वरादीनां तु कतिपयानां लिङ्गकारकसङ्ख्यान्वयोऽस्त्येव, "स्वरादिनिपातमव्यय"मिति सूत्रे भाष्ये "चादीनामस्त्तववचनानामेव संज्ञा। स्वरादीनां तु सत्त्ववचनानामसत्त्ववचनानां चे"त्युक्तत्वात्, "स्वस्ति वाचयति", "स्वस्ति वाच्य" इति, "क्षीणे पुण्ये स्वः पतति", "प्रातर्यजते" इत्यादौ कर्मकारकयोगदर्शनाच्च। अथ प्रसङ्गादाह--वष्टीति। अव अपि इकत्युपसर्गयोरकारस्य लोपं, हलन्तानाम् आपं च भागुरिनामक आचार्यो वष्टि -इच्छतीत्यर्थः। एवशब्दस्तु पादपूरणः अवेत्युपसर्गे आदेरेवाकारस्य लोपो नान्त्यस्य, अपिना साहचर्यात्। भागुरिशब्दं दन्त्योष्ठ()आदिं केचित्पठन्ति। तत्त्वबोधिन्यां तु पव्गचतुर्थादिः पठितः। शब्देन्दुशेखरेऽप्येवम्। यथा वाचेति। परिगणनमिति केचित्। उदाहरणमात्रमित्यन्ये। यद्यपि "वश क्रान्तौ" इत्यस्य छन्दोमात्रविषयत्वं वक्ष्यते, तथापि अस्माद#एव लिङ्गाल्लोकेऽपीत्याहुः। वस्तुतस्तु "वष्टि भागुरि"रिति श्लोको भाष्ये न दृश्यते। प्रत्युत "ङ्याप्प्रातिपदिका"दिति सूत्रस्थभाष्यपर्यालोचनया नास्तीत्येव युक्तम्। तत्र ह्रेवमुक्तम्-"आब्ग्रहणं न कार्यं, खट्वा मालेत्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम्" इत्युक्त्वा, क्रुञ्चा उष्णिहा देवविशेति हलन्ताट्टापः स्वाद्यर्थमाब्ग्रहणस्त्वि"ति आक्षिप्य "क्रुञ्चानालभेत उष्णिहककुभौ देवविशं चे"ति अकारान्तादेव तत्रापि टा"बित्युक्त्ता "डाबुभाभ्यामन्यतरस्या"मिति बहुराजा, बहुराजे, बहुराजाः--इत्यर्थमाब्ग्रहण"मिति समाहितम्। तस्मात् "आपं चैव हलन्ताना"मित्याश्रित्य वाचा निशा दिशेत्ययुक्तम्। अत्र निश्दिशोरिगुपधलक्षणे के अदन्तत्वाट्टापि निशेत्यादिरूपसंभवेऽपि वाचाशब्दोऽसाधुरेवेति शब्देन्दुशेखरे स्थितम्।

***इति बालमनोरमायामव्ययानि।***

सिद्धान्तकौमुद्याम्।

-------------

अव्ययीभावप्रकरणम्।

---------------

तत्त्व-बोधिनी
अब्ययादाप्सुपः ५६६, २।४।८२

अव्ययादाप्सुपः। "ण्यक्षन्त्रियार्षे"ति सूत्राल्लुगत्रानुवर्तत इत्याह--लुक्स्यादिति। "अव्यय"मिति महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम्। न व्येति--विविधं विकारं न गच्छति। सत्त्वधर्मान् लिङ्गसङ्ख्यादीन्न गृह्णातीति यावत्। तेनात्युच्चैसौ अत्युच्चैस इत्यादि सिद्धम्। अतिक्रान्तप्रधानत्वेन सत्त्वधर्मपरग्रहादव्ययसंज्ञाया अत्राऽभावात्। नन्वेमप्युच्चैः--शब्दस्याव्ययत्वानपायात्सुपो लुग्दुर्वार इत्यत आह--विहितविशेषणादिति। अत्युच्चैसाविति। ननु अत्यादयः क्रान्ताद्यर्थे द्विती।यान्तेन समस्यन्ते, उच्चैःशब्दस्त्वधिकरणशक्तिमत्प्रधान इति कर्मत्वाऽयोगान्न तस्य द्वितीयान्तता। सत्यम्। शक्तिप्रधानान्यपि कानिचिदव्ययामि वृत्तिविषये शक्तिमत्प्रधानानि क्वचिद्भवन्ति। यथा दोषामन्यमहः। दिवामन्या रात्रिरिति। ततश्च प्रक्रियादशायमुच्चैःशब्दस्य द्वितीयान्तत्वं संभवतीति दिक्। ननु स्वरादिषु उच्चैःशब्दः पट()ते तत्र कथं तदन्तस्य प्रसङ्ग इति चेन्न, अन्वर्थसंज्ञयैव तदन्तविधेरपि ज्ञापनात्। अन्यथा उपसर्जने प्रसङ्गाऽभावेन तन्निवृत्त्यर्थाया अन्वर्थसंज्ञाया वैयथ्र्यापत्तेः। तेन "परमस्वः""परमोच्चै"रित्यादौ सत्त्वधर्मापरिग्रह#आदव्ययत्वं सिद्धम्। तदेतदाह--अव्ययसंज्ञायां यद्यपीत्यादि। "अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाऽभावा"दिति वार्तिकं मनसि निधायाह--अब्ग्रहणं व्यर्थमिति। सूत्रस्योक्तिसंभवस्तु "स्त्रिया"मिति सूत्रे स्त्रीसमानाधिकरणादिति पक्षं गृहीत्वेति बोध्यः। स च न स्थितः, "भूतमियं ब्राआहृणी"त्यादावतिव्याप्तेः। यदि तु "आमः"इति सूत्रानन्तरं "सुपो धातुप्रातिपदिकयोपव्यया"दिति सूत्र्यते तदा सुब्ग्रहममपि व्यर्थं, "सुप्" इत्यनुवृत्तिसंभवादिति नव्याः। अलिङ्गत्वे आथर्वणप्रणवविद्यागतश्रुतिविरोधमाशङ्क्याह--सदृशमिति। एतेषु यन्न व्येति किंतु सदृशम् एकप्रकारं तदव्ययमिति योजना। यद्वा--यस्मान्न व्येति तस्मात्तदव्ययम्। लिङ्गकारकेति। विभक्तिवचनशब्दौ कारकसङ्ख्यापराविति भावः। यद्यप्यव्ययीभावस्य लिङ्गसङ्ख्याकारकयोगोऽस्ति तथापि वचनादव्ययत्वेम्। अव्ययविशेषे कार्यान्तरमाह--वष्टीति। भादुरिः आचार्यः। आपं चैवेति। "वष्टी त्यनुषज्यते। यथा वाचेति। परिगणनमिदमित्येके। अन्ये तूदाहरणमात्रमित्याहुः। वगाह इति। अपिना साहचर्यादादिरेवाऽकारो लुप्यते नान्त्य इति भावः।

इति तत्त्वबोधिन्याम् अव्ययप्रकरणम्॥