पूर्वम्: २।४।८
अनन्तरम्: २।४।१०
 
सूत्रम्
येषां च विरोधः शाश्वतिकः॥ २।४।९
काशिका-वृत्तिः
येषां च विरोधः शाश्वतिकः २।४।९

विरोधो वैरम्। शाश्वतिको नित्यः। येषां शाश्वतिको विरोधः तद्वाचिनां शब्दानां द्वन्द्व एकवद् भवति। मार्जारमूषकं। अहिनकुलम्। शाश्वतिकः इति किम्? गौपालिशालङ्कायनाः कलहायन्ते। चकारः पुनरस्य एव समुच्चयार्थः। तेन पशुशकुनिद्वन्द्वे विरोधिनाम् अनेन नित्यम् एकवद् भावो भवति अश्वमहिषम्। श्वशृगालम्। काकोलूकम्।
न्यासः
येषां च विरोधः शा�आतिकः। , २।४।९

प्रतिपक्षभावमात्रं लोके विरोधशब्देनोच्यते। तस्येह ग्रहणे सति छायातपौ, अग्निजले इत्यत्रापि स्यादिति मत्वा वैरमिह विरोधोऽभिमत इति दर्शयितुमाह-- "विरोधो वैरम्" इति। एवं मन्यते-- "क्षुद्रजन्तवः" २।४।८ इत्यतो जन्तुग्रहणमनुवत्र्तते। तेन जन्तूनां यो विरोधस्तस्येह ग्रहणं विज्ञायते। स च वैरस्वभाव एवेति। "शा()आतिको नित्यः" इति। शस्वदिति त्रैकल्यमुच्यते। तत्र भवः शा()आतिकः। "कालाटठञ्"४।३।११। अस्मादेव निपातनात् तान्तादपि को न भवति। यश्च त्रैकल्ये भवति स नित्यः। "गोपालिशालङ्कायनाः" इति। गोपालयश्च शालङ्कायनाश्च गोपालिशालङ्कायनाः। नात्र शा()आतिको विरोध इत्येकवद्भावो न भवति। "चकारः पुनरस्यैव समुच्चयार्थः" इति। प्रकृतस्यान्यस्य समुच्चेतव्यस्याभावादस्यैकवद्भावस्य समुच्चयार्थश्चकारो विज्ञायते। तेन किं भवतीत्याह-- "तेन पशुशकुनि" इत्यादि। पशुशकुनिविभाषाया अवकाशः--महाजोरभ्रम्, महाजोरभ्राः, हंसचक्रवाकम्, हंसचक्रवाका इति। नित्यविरोधिनामेकवद्भावस्यावकाशः-- ब्राआहृणनास्तिकमिति, ()आशृगालम्, अ()आमहिषम्। काकोलूकमित्यत्रोभयप्राप्तौ परत्वात् पशुशकुनिविभाषा स्यात्। चकारस्य पुनरस्यैव समुच्चयार्थत्वादनेन नित्यमेकवद्भवति॥
बाल-मनोरमा
येषा च विरोधः शा�आतिकः ९०३, २।४।९

येषां च। शेषपूरणेन सूत्रं व्याचष्टे--एषां प्राग्वदिति। समाहारद्वन्द्व एकवदित्यर्थः। "श()आ"दित्यव्ययं सदेत्यर्थे वर्तते। ततो भवार्थे ठञ्। निपातनादव्ययानां भमात्रे टिलोपः, "इसुसुक्तान्तात्कः" इति कादेशस्च न भवति। स्वाभाविक इत्यर्थः। अहिनकुलमिति। अहयो नकुलाश्चेति विग्रहः। अनयोः स्वभाविको विरोधः प्रसिद्धः। विरोधो--वैरं, नतु सहानवस्थितिः तेन छायातपावित्यत्र न भवति। "देवाऽसुराः" इत्यत्र तु नायमेकवद्भावः, तद्विरोधस्य कादाचित्कत्वात्। अमृतादिप्रयुक्तः कादाचित्क एव हि तेषां विरोधः, अमृतमथनादि काले तेषां विरोधाऽभावात्। ननु "विभाषा वृक्षमृगे"ति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्भावविकल्पो वक्ष्यते। तस्य तावद्गोमहिषु गोमहिषाः, हंसचक्रवाकं, हंसचक्रवाका इत्यत्रावकाशः। "येषां चे"त्यस्य-अहिनकुलमित्यवकाशः गोव्याघ्रं काकोलूकमित्यादौ तदुभयं प्रसक्तम्। तत्र परत्वाद्क्ष्यमाणविभाषा प्राप्नोतीत्याशङ्क्याह--गोव्याघ्रमिति। चकारेणेति। "येषां चे"ति चकारेणेत्यर्थः। एतच्च भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
येषां च विरोधः शा�आतिकः ७७९, २।४।९

येषां च विरोधः। विरोधो वैरं, न तु सहानवस्थानम्। तेनेह न---छायातपौ। "श()आ"दित्यव्ययं त्रैकाल्ये वर्तते, तत्र भवः शा()आतिकः। "कालाठ्ठञ्"। अतएव निपातनात् "इसुसुक्तान्ता"दिति कादेशः, "अव्ययानां भमात्रे"इति इति टिलोपश्च न। शा()आतिकः किम्()। देवासुरैरमृतमम्बुनिधिर्ममन्थे"। तेषां ह्रमृतादिप्रयुक्तः कादाचित्को विरोधो न तु नित्यः, मन्थनप्रवृत्तिकाले तद्विरहात्। परत्वादिति। पशुशकुनिद्वन्द्वस्यावकाशो--गोमहिषं गोमहिषाः। हंसचक्रवाकं हंसचक्रवाकाः। "येषां चे"त्यस्यावकाशः--मार्जारमूषकं श्रमणब्राआहृणमित्यादौ ज्ञेयः। चकारेण बाध्यत इति। चकारः पुनर्विधायक इति भावः।