पूर्वम्: ३।१।११०
अनन्तरम्: ३।१।११२
 
सूत्रम्
ई च खनः॥ ३।१।१११
काशिका-वृत्तिः
ई च खनः ३।१।१११

खनेर् धातोः क्यप् प्रत्ययो भवति, ईकारश्च अन्तादेशः। खेयम्। दीर्घनिर्देशः प्रश्लेषार्थः। तत्र द्वितीय इकारो ये विभाषा ६।४।४३ इति आत्त्वबाधनार्थः।
न्यासः
ई च खनः। , ३।१।१११

"खेयम्" इति। "खनु अवदारणे" (धा।पा।८७८), नकारस्य ईकारः, "आद्गुणः" ६।१।८४। अथ किमर्थं दीर्घ आदिश्यते, यावता ह्यस्वेऽपि कृते आद्गुणेन भवितव्यम्। न च ह्यस्वस्याद्गुणे कृते कश्चिद्विशेषः? स्यादेतत्-- एकादेशस्तु तुग्विधावसिद्धो वक्तव्यः, तत्र यदि ह्यस्व आदिश्यते तदा ह्यस्व्सयाद्गुणे कृते तुग्विधावसिद्धत्वाद् ह्यस्वाश्रयस्तुक् स्यात्; दीर्घादेशे तु न भवति, अतो दीर्घादेशो वक्तव्य इति? एतच्च नास्ति; यस्मात् पदान्तपदाद्योयं एवादेशः स तुग्विधावसिद्धो वक्तव्यः, न सर्वत्रेत्याह-- "दीर्घनिर्देशः। किमर्थं पुनर्द्वितीय सवर्णदीर्घत्वेन ६।१।९७ द्व्योरिवर्णयोः प्रश्लेषो यथा स्यादित्येवमर्थो दीर्घनिर्देशः। किमर्थं पुनिर्द्वितीय इवर्णः, यावतैकेनैव खेयमिति रूपं सिध्यतीत्यत आह--" तत्र " इत्यादि। द्वयोरिकारयोः प्रश्लेषनिर्देशः। तत्र यो द्वितीय इवर्णः सः "ये च" ६।४।१०९ इत्यात्त्वबाधा यथा स्यादित्येवमर्थः। "ये विभाषा" ६।४।४३ इत्यस्यावकाशः-- खायते, खन्यते, इसि, अस्यादेशस्यावकाशो यस्मिन् पक्ष आत्त्वं नास्ति; आत्तवपक्षे तूभयं प्राप्नोति। उभयप्राप्तावसतीकारे पर्तवादन्तरङ्गत्वाच्चात्त्वं स्यात्, अ()स्मश्च सत्यात्त्वं बाधित्वेकार एव भवति। अन्तरङ्गत्वं पुनरात्त्वस्य यकारसामान्यमाश्रित्य विधानात्। इत्त्वस्य बहिरङ्गत्वम्; क्यब्विशेषमाश्रित्य विधानात्॥
बाल-मनोरमा
ई च खनः ६८१, ३।१।१११

ई च खनः। चात्क्यविति। खनेः क्यप् स्यात्प्रकृतेरीकारोऽन्तादेशश्चेत्यर्थः। ह्यस्व सुपठ इति। ह्यस्वस्य इकारस्य आद्गुणेन "खेय"मिति सिद्धेरिति भावः।

तत्त्व-बोधिनी
ई च खनः ५६५, ३।१।१११

ह्यस्वः सुपठ इति। दीर्घं पठतः सूत्रकृतस्त्वयमाशयः- दीर्घनिर्देशः इ-इ इति प्रश्लेषार्थस्तत्र द्वितीय इकारो "ये विभाषा" इत्यात्वबाधनार्थः। अन्यथा "ये विभाषा" इत्यस्यावकाशः-- खायते खन्यते। इत्वस्यावकाशो यस्मिन्पक्षे आत्वंनास्ति। आत्वपक्षे तु उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात्। "ये विभाषा" इत्यत्र हि ये इति विषयसप्तमी। तथा च यकारादौ बुद्धिस्थे एव प्राप्तमात्वमन्तरङ्गम्। इकारस्तु क्यपा सह विधानाद्बहिरङ्गः। तथा चान्तरङ्गस्यात्वस्य बाधनाय प्रश्लेषेण द्वितीय इकारविधिरावश्यक इति ई चेति दीर्घोच्चारणं कृतमिति। आत्वं तु बहिरङ्गं , ये इति परसप्तम्याश्रयात्। एवं च इत्वेनाऽ‌ऽत्वबाधो न्याय्य एवेति दीर्घो न पठनीयः। ह्यस्वपाठे मात्रालघवमस्तीति तदनुरोदेन ये इतिपरसप्तम्याश्रयणमपि युक्तमिति। स्यादेतत्-- इ चेति ह्यस्वादेशाभ्युपगमे तस्यादेशस्य पूर्वेण सह आद्गुणे तस्याऽसिद्धतया "ह्यस्वस्य पिति इति तुक् स्यात्, "षत्वतुकोरसिद्धः" इति षत्वे तुकि चकर्तव्ये एकादेशशास्त्रस्याऽसिद्धत्वस्वीकारात्। अतो दीर्घ एव विधेय इति चेत्। मैवम्। "पदान्तपदाद्योरादेशोऽसिद्धो न त्वन्योऽपी"ति सिद्धान्तात्। अन्यथा व#ऋक्षे छत्रमित्यत्र ङावाद्गुणस्याऽसिद्धतया छे चेति ह्यस्वाश्रयो नित्यस्तुक् स्यात्। इष्यते तु दीर्घात्पदान्ताद्वेति वैकल्पिक इति दिक्। "भृञोऽसंज्ञाया"मित्यसंज्ञाग्रहणसामथ्र्याद्भार्येत्यत्र सूत्रान्तरेणापि क्यब्न भविष्यतीत्यत आह--- पुंसि चरितार्थ इति। भार्या नाम क्षत्रिया इत्यत्रेत्यर्थः। तदनुबन्धेति। डुभृञ् इत्यनेकानुबन्धत्वाद्बिभर्तेः क्यपोऽप्रसङ्ग इति भावः।