पूर्वम्: ३।१।२९
अनन्तरम्: ३।१।३१
 
सूत्रम्
कमेर्णिङ्॥ ३।१।३०
काशिका-वृत्तिः
कमेर् णिङ् ३।१।३०

कमेर् धातोः णिङ् प्रत्ययो भवति। णकारो वृद्ध्यर्थः। ङकार आत्मनेपदार्थः। कामयते, कामयेते, कामयन्ते।
लघु-सिद्धान्त-कौमुदी
क्रमेर्णिङ् ५२७, ३।१।३०

स्वार्थे। ङित्त्वात्तङ्। कामयते॥
न्यासः
कर्मर्णिङ्। , ३।१।३०

"णकारो वृद्ध्यर्थः" इति "अच उपधायाः"७।२।११६ इति वृद्धिर्यथा स्यात्। यद्येवम्, किमर्थं "न कम्पमिचमाम्" (धा।पा।८१७) इति कमेर्मित्संज्ञा प्रतिषिध्यते "मितां ह्यस्वः" (६।४।९२) इति ह्यस्वो मा भूदिति? नैतदस्ति; णित्करणसामथ्र्यादेव तन्न भविष्यति; अन्यथा णित्करणमनर्थकं स्यात्। नानर्थकम्? "णेरनिटि" ६।४।५१ इति सामान्यग्रहणार्थत्वात्। यदा च "आयादय आर्धधातुके वा" ३।१।३१ इति णिङ् नास्ति, तदा हेतुमण्णिचि ह्यस्वत्वं मा भूदिति मित्संज्ञा प्रतिषिध्यते॥
बाल-मनोरमा
कमेर्णिङ् १५१, ३।१।३०

कमेर्णिङ्। शेषपूरणेन सूत्रं व्याचष्टे---स्वार्थे इति। अर्थविशेषाऽनिर्देशादिति भावः। णङावितौ। "णेरनिटी"त्यत्रोभयोग्र्रहणायाऽनुबन्धकरमम्। ङित्त्वात्तङिति। अनुदात्तेत्वं तु णिङभावे "चकमे" इत्यादौ चरितार्थमिति भावः। कामयत इति। णिङि "अत उपधाया" इति वृद्धौ "कामी"ति णिङन्तम्। "क्ङिति चे"ति निषेधस्तु न,अनिग्लक्षणत्वात्। णिङन्तस्य धातुत्वाल्लडादयः। तत्र लटि शपि गुणेऽयादेशे कामयते इति रूपम्। कामयेति इत्यादि सुगमम्। लिटि "कास्यनेकाच" इत्यामि, "आम" इति लिटो लोपे " कामि-आम्" इति स्थिते, सार्वधातुके"ति गुणं बाधित्वा "णेरनिटी"ति वक्ष्यमाणे णिलोपे प्राप्ते।