पूर्वम्: ३।१।३२
अनन्तरम्: ३।१।३४
 
सूत्रम्
स्यतासी लृलुटोः॥ ३।१।३३
काशिका-वृत्तिः
स्यतासी ल्̥लुटोः ३।१।३३

ल्̥रूपम् उत्सृष्टानुबन्धं सामान्यम् एकम् एव। तस्मिन् लुटि च परतो धातोर् यथासङ्ख्यं स्यतासी प्रत्ययौ भवतः। करिष्यति। अकरिष्यत्। श्वः कर्ता। इदित्करणम् अनुनासिकलोपप्रतिषेधार्थम्। मन्ता। सङ्गन्ता।
लघु-सिद्धान्त-कौमुदी
स्यतासी ऌलुटोः ४०५, ३।१।३३

धातोः स्य तासि एतौ प्रत्ययौ स्तो ऌलुटोः परतः। शबाद्यपवादः। ऌ इति ऌङॢटोर्ग्रहणम्।
न्यासः
स्यतासी लृलुटोः। , ३।१।३३

इह द्वे लृरूपे--- एकं लृटः सम्बन्धिः, द्वितीयं लृङ। द्वयोरपि तेयोग्र्रहणम्िष्टत्वात्, विशेषानुपादानाच्च। ततश्चैते द्वे तृतीयञ्च लुडिति त्रीणि निमित्तानि भवन्ति। निमित्तिनौ तु द्वौ स्यातासी इति वैषम्यम्। अतः संख्यातानुदेशो न स्यादिति यो देशयेत्, तं प्रत्याह-- "लृरूपम्ित्यादि। टकारङकारयोरनुबन्धयोः परित्यागेन ततकृत्यस्य भेदस्याभावाल्लृरूपं लृङलृटोः सामान्यमेकमेवेति निमित्तयोरपि द्वित्वम्। तेन संख्यतानुदेशो न विरुध्यत इत्यभिप्रायः। अत एवाह-- "यथा संख्यम्" इति। "करिष्यति" इति। "लृट् शेषे च" ३।३।१३ इति लुट्, ऋद्धनोः स्ये" ७।२।७० इतीट्। "अकरिष्यत्" इति। लृङ, अडागमः, "इतश्च" ३।४।१०० इतीकारलोपः। "कत्र्ता" इति। "अनद्यतने लृट्", ३।३।१५ "लुटः प्रथमस्य" २।४।८५ इत्यादिना तिपो डादेशः,टिलोपः। "इदित्करणम्" इत्यादि। इच्चासावित् इत्संज्ञकश्चेतीति,तस्य करणमिदित्करणम्। इकारस्येत्संज्ञकस्य करणित्यर्थः। अथ वा-- इदित् यस्य तासेः स इदित् तासिः, तस्य करणमिदित्करणसंज्ञकेकारस्य तासेः करणमित्यर्थः। "अनुनासिकलोपप्रतिबन्धार्थम्" इति। असति तु तस्मिन् "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपः स्यात्। अतस्तस्य प्रतिबन्धः प्रवृत्तिविघातो यथा स्यादित्येवमर्थमिदित्करणम्। "मन्ता" इति। "मन ज्ञाने" (धा।पा।११७६), "मनु अवबोधने"(धा।पा।१४७१) इति वा। "अनुदात्तङितः"१।३।१२ इत्यात्मनेपदम्। "संगन्ता" इति। अत्रापि संपूर्वाद्गमेः "समो गमि" १।३।२९ इत्यादिना अत्रोभयत्रापि टिलोपे कृते ङित्वादात्मनेपदमाश्रित्यानुनासकिलोपः प्राप्नोति, स इदित्करणेन प्रतिषिध्यते। यदि तर्हि तासेरिदित्करणमनुनासिकलोपप्रतिबन्धार्थम्, एवं सति "इदितो नुम् धातोः" (७।१।५८) इत्यत्र यद्वक्ष्यति "तासिसिचोरिदित्कार्यं नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ()ते" इति तद्विरुध्यते? नास्ति विरोधः, भिन्नकर्त्तृकत्वात्। इदं हि जयादित्यवचनम्, तत् पुनर्वामनस्य। वामनवृत्तौ तु तासिसिचोरिकार उच्चारणार्थो नानुबन्धो पठ()ते, तेन विरोधो नाशङ्कनीयः। केन पुनरभिसन्धिना जयादित्यस्तासेरिकारस्यानुनासिकलोपप्रतिबन्धार्थतां कृतवान्? वामनस्तूच्चारणर्थताम्? येनाभिसन्धिना स तावच्छरूयताम्-- आभाच्छास्त्रीयमसिद्धत्वमनित्यम्, अनित्यत्वं तु तस्य तत्रैव प्रतिपादयिष्यते जयादित्येन। आभाच्छास्त्रीयस्य टिलोपस्यासिद्धत्वमिह नास्ति। अनित्यत्वादित्यभिप्रेत्य तासेरिकारस्यानुनासिकलोपे प्रतिबन्धार्थतोक्ता। वामनेनत्वसिद्धत्वमिहास्त्येवेति मन्यमानेनोच्चारणार्थतोक्ता। न हि टिलोपस्यासिद्धत्वे सत्यनुनासिकलोपः प्राप्नोति। तदयुक्ता तत्प्रतिबन्धार्थतेकारस्य। यथैव हि गोनर्द्दीय आचार्यः-- सन्निपातलक्षणपरिभाषाया उपस्थानमाश्रित्यातिजरं ब्राआहृणकुलं तिष्ठति, अतिजरैब्र्राआहृणकुलैरिति भवितव्यमित्याह; अन्ये त्वनित्यत्वादस्याः परिभाषाया अनुपस्थानमाश्रित्यातिजरसं ब्राआहृणकुलमतिजरसैरिति भवितव्यमित्याहुः, तथेदमपि प्रयोजनद्वयमाभाच्छास्त्रीय्सयास्तित्वञ्चाश्रित्य वृत्तिकारावुक्तवन्ताविति वेदितव्यम्। अन्ये चाचक्षते-- प्राग भादसिद्धाधिकार इतीमं पक्षमाश्रित्येकारस्यानुनासिकलोपप्रतिबन्धार्थतोक्ता। सह तेनासिद्धाधिकार इत्यश्रित्योच्चारणार्थतेति। एतच्चाशक्यं विज्ञातुम्; प्राग् भादसिद्धाधिकार इत्यस्य पक्षस्य जयादित्यवामनाभ्यामनाश्रित्वात्। अनाश्रितत्वंतु तत्रैव वृत्तावभिव्यक्तमिति तत एवावगन्तव्यम्। एते च स्वादयो येननाप्राप्तिन्यायेनान्तरङ्गत्वाच्च सर्वेषां यगादीनामपवादाः; अन्तरङ्गत्वं तु तेषां लावस्थायामेव विधानात्॥
बाल-मनोरमा
स्यतासी लृलुटोः ३५, ३।१।३३

भू-ति इति स्थिते "कर्तरि शबि"ति शपि प्राप्ते-- स्यतासी लृ। स्यश्च तासिश्चेति द्वन्द्वात्प्रथमाद्विवचनम्। तासेरिकार उच्चारणार्थः। लृ लुट् अनयोद्र्वन्द्वात्सप्तमीद्विवचनम्। ग्रहणमिति। लृस्वरूपस्योभयत्राऽविशिष्टत्वादिति भावः। धातोरित्यधिकृतम्। तदाह--धातोरिति।