पूर्वम्: ३।१।३९
अनन्तरम्: ३।१।४१
 
सूत्रम्
कृञ् चानुप्रयुज्यते लिटि॥ ३।१।४०
काशिका-वृत्तिः
कृञ् च अनुप्रयुज्यते लिटि ३।१।४०

आम्प्रत्ययस्य पश्चात् कृञनुप्रयुज्यते लिटि परतः। कृञिति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत् सामर्थ्यादस्तेर् भूभावः न भवति। आचयाञ् चकार। पाचयाम् बभूव। पाचयाम् आस।
लघु-सिद्धान्त-कौमुदी
कृञ् चानुप्रयुज्यते लिटि ४७४, ३।१।४०

आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते। तेषां द्वित्वादि॥
न्यासः
कृञ्चानुप्रयुज्यते लिटि। , ३।१।४०

"अनुप्रयुज्यते" इति। अनुप्रशब्दौ प्रत्येकं प्रथमान्ते पदे। "युज्यते" इत्यात्ममनेपदे प्रथमपुरुषैकवचनान्तं पदम्। "आम्प्रत्ययस्य" इति। आम् प्रत्ययो यस्मादिति बहुव्रीहिः। पश्चादित्यनेनानुशब्दस्यार्थमाचक्षाणः प्राक् प्रयोगं निराकरोति। सावधारणफलत्वाच्च सर्ववाक्यानामाम्प्रत्ययस्यैव पश्चात् कृञ् प्रयुज्यते-- इत्यवधारणमिहाश्रितम्, तेन व्यवधाने प्रयोगो निराकृतो भवति। न हि व्यवधाने कृञनुप्रयुज्यमान आम्प्रत्ययस्यैवानुप्रयुक्तो भवति, अपि तु शब्दान्तरस्यापि।"लिटि परतः" इत्यनेन प्रत्ययान्तरे परे प्रयोगाभावमाह। ननु च "आमः" २।४।८१ इति लिटो लुका भवितव्यम्, तत्कथं लिटि परतः कृञ नुप्रयुज्यते? नैष दोषः; न ह्रयमत्रार्थः-- लक्षणान्तरेण यो विहितो लिट्परः कृञनुप्रयुज्यत इति यावत्। ननु च कृञित्युच्यते, पाचयाम्बभूव पाचयामासेति भवतेरस्तेश्चानुप्रयोगो न सिध्यतीत्याह-- "कृञिति प्रत्याहारेण" इत्यादि।"अभूततद्भावे कृभ्वस्तियोगे" ५।४।४० इतीतं कृशब्दं गृहीत्वा "कृञो द्वितीयतृतीयशम्बबीजात् कृषौ" ५।४।५८ इति ञकारेण प्रत्याहारग्रहणमेतत्। तेन प्रत्याहारग्रहणेन कृभ्वस्तयस्त्रयो गृह्रन्ते। तत्र च त्रयाणामप्यन्तर्भावादित्यदोषः। एवमप्यस्तेरनुप्रयोगो न सिध्यति, यस्मात् "अस्तेर्भूः" २।४।५२ इति भूभावेन भवितव्यमित्याह-- "तत्सामथ्र्यात्" इति। प्रत्याहेरण कृभ्वस्तीनां ग्रहणसामथ्र्यादस्तेर्भूभावो न भवति। तेषां प्रत्याहारगर्हणस्यैतत् प्रयोजनम्-- अस्तेरनुप्रयोगो यथा स्यात्। यद्यस्तेरनुप्रयोगस्य भूभावः स्यात् निष्फलं प्रत्याहारग्ररहणं स्यात्, "कृभ्वनुप्रयुज्यते लिटि" इत्येवं ब्राऊयात्। तत्राप्ययमर्थः-- किमिदं करोतेग्र्रहणम्? उत प्रत्याहारस्य? इति सन्देहः परिह्मतो भवति। यदि तर्हि कृञिति प्रत्याहारग्रहणम्, एवं सति "अभिविधौ सम्पदा च" ५।४।५३ इति सम्पदानुप्रयोगः प्राप्नोति; तस्य प्रत्याहारेऽन्तर्भूतत्वात्? नैष दोषः; "सनाद्यन्ता धातवः" ३।१।३२ इत्यतो धातुग्रहणमनुवत्र्तते, तेन च कृञ् विशिष्यते--कृञ् यो धातुरिति, न च सम्पदेत्यं धातुः, किं तर्हि? धातूपसर्गसमुदायः, तस्मान्नानुप्रयुज्यते। "पाचयाम्बभूव" इति। पचेण्र्यन्तादाम्। "अयामन्ताल्वाय्येत्न्विष्णुषु" ६।४।५५ इति णेरयादेशः। "भवतेरः" ७।४।७३ इत्यभ्यासस्यात्त्वम्। "भुवो वुग् लुङलिटोः" ६।४।८८ इति वुगागमः। किमर्थं पुनरिदमुच्यते, यावताऽमन्तमिदम्, अनभिव्यक्तक्रियापदार्थम्। अतो हि क्रियाकालमात्रस्याभिव्यक्तिर्भवति, न साधनपुरुषसंख्यानम्। न हि विना तिङन्तपदेन तासामभिव्यक्तिर्भवति। तस्मादपरिसमाप्त्यर्थत्वादेवामन्तस्यानुप्रयोगो भविष्यति? कृभ्वस्तीनामनुप्रयोगो यथा स्यात्, "{पचादीनां मा भूत्। पचादीनामिति चेन्न"} इति मुद्रितः पाठः} पचादीनां मा भूदिति चेत्, न; पचादीनां विशेषवाचित्वादनुप्रयोगस्यानुपपत्तेः। विशेषवाची ह्रनुप्रयुज्यमानः सामान्यवाचिनो ह्रामन्तस्यानुप्रयुज्यते? विशेषवाचिनो वा? तत्र न तावत् सामान्यवाचिन आमन्तस्य विशेषवाच्यनुप्रयोगमर्हति, तस्यासम्भवात्। कृभ्वस्तयो हि सामान्यवाचिनः, न च तेभ्यः केनचिदाम् विहितः। विशेषवाचिनोऽप्यामन्तस्य विशेषवाची समानार्थोऽनुप्रयुज्येत? भिन्नार्थो वा? तत्र समानार्थस्तावन्नानुप्रयुज्यते; उक्तार्थत्वात्। त()स्मश्चानुप्रयोक्तुमिष्ट आमन्तस्य सकलक्रियाकालाद्यर्थाभिव्यक्तिर्भवति। सामथ्र्यात् स एवानुप्रयोक्तव्यो यत्र सर्वाभव्यक्तिर्भवति। तत्र क्रियामन्तेन समानार्थेन पूर्वेण ! भिन्नार्थोऽपि नानुप्रयोगमर्हति; तदर्थानभिव्यक्तेः। अनुप्रयोगो ह्रामन्तस्यार्थस्य#आभिव्यक्तये क्रियते, न चात्यन्तभिन्नार्थेनामन्तवाच्यस्यार्थस्य सम्बन्धिनः साधनादयः शक्यन्तेऽभिव्यङक्तुम्। सामान्यवाचिना तु शक्यन्तेऽभिव्यङक्तुम्। विशेषसन्निधौ हि सामान्यशब्दस्य विशेषेऽवस्थानादामन्तस्य सन्निधौ सामान्यशब्दाः कृभ्वस्तयोऽनुप्रयुज्यमानास्तद्वाच्य एवार्थविशेषे वत्र्तन्ते, तस्मादेषामेव कृभ्वस्तीनामनुप्रयोगो भविष्यतीति नारब्धव्यमिदम्? नैतदस्ति; यथैव हि कृभ्वस्तयः क्रियासामान्यवचनाः, एवं विद्यतिरपीति तस्याप्यनुप्रयोगः स्यात्। तस्मात् तन्निवृत्त्यर्थमिदमारब्धम्। व्यवहितप्रयोगनिवृत्त्यर्थञ्च, पाचयां देवदत्तश्चकारेति मा भूत्। व्यवहितप्रयोगानिवृत्तिस्त्ववधारणविशेषाल्लभ्यते। अवधारणं तु सर्ववाक्यानां व्यवच्छेदफलत्वात् सावधारणफलत्वाच्चकारस्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। विपर्ययनिवृत्त्यर्थश्चारब्धव्यः, विपर्ययनिवृत्तिस्त्वनोः पश्चादर्थत्वाल्लभ्यते॥
बाल-मनोरमा
कृञ्चानुप्रयुज्यते लिटि ८५, ३।१।४०

कृञ्चानु। "कास्प्रत्ययादा" मित्यत आमित्यनुवृत्तं पञ्चम्या विपरिणम्यते। प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते।लिटि परे यः कृञ् सोऽनुप्रयुज्यत इत्यन्वयः। फलितमाह-- आमन्ताल्लिट्परा इति। लिट्()शिरस्का इत्यर्थः। कृभ्वस्तय इति। "कृ"ञित्यनेन कृभ्वस्तीनां ग्रहणमिति भावः। अनुप्रयुज्यन्त इति। प्रशब्दादनुशब्दाच्चाऽव्यवहिताः पश्चात्पयुज्यन्त इत्यर्थः। "विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्यर्थं चे"ति वार्तिकाद्भाष्याच्च। एवं च "तं पातयां प्रथममास पपात पश्चात्" "प्रभ्रंशयां यो नहुषं चकारे"त्यादिप्रयोगाः प्रामादिका एव। धातोराम् स्यात्, कृञ्चानुप्रयुज्यत इत्युक्तसमुच्चयार्थश्चकारः। ननु कृञ एवाऽनुप्रयोगश्रवणात्कथं भ्वस्त्योरप्यनुप्रयोग इत्यत आह-- आम्प्रत्ययवदित्यादिना। "कृञ्चानुप्रयुज्यत" इत्यत्र कृञ एकस्यैवानुप्रयोगविधौ सति "आम्प्रत्यव"दिति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृञ इति विशेषणं व्यर्थं स्यात्, धात्वन्तरस्याऽनुप्रयोगाऽप्रसक्तेः। ततश्च "कृञ" इति विशेषणादन्यस्ाप्यनुप्रयोगो विज्ञायत इत्यर्थः। ननु कृञोऽन्यस्याऽप्यनुप्रयोगो विज्ञायतां, भ्वस्त्योरपीत्येव कुत आयातमित्यत आह-- तेनेति। कृञ्ग्रहणेनेत्यर्थः। प्रत्याहाराश्रयणादिति। एतच्च भाष्ये स्पष्टम्। नन्वनुप्रयुज्यमानानां कृभ्वस्तीनामाम्प्रकृतिभूतानां च कथमन्वय इत्यत आह-- तेषामित्यारभ्याभेदेनान्वय इत्यन्तेन। सामान्यविसेयोरभेदान्वयस्य न्याय्यत्वादिति भावः। कृञ इव भ्वस्त्योरपि क्रियासामान्यवाचित्वात्, धातूनामनेकार्थत्वादिति ज्ञेयम्। ननु "कृभ्वस्तियोगे" इत्यस्य, "कृञो द्वितीये" त्यस्य च सूत्रस्य मध्ये "अभिविधौ संपदा चे"ति पठितम्। एवं च कृञ्प्रत्याहारे संपदोऽपि कुतो न ग्रहणमित्यत आह-- संपदिस्त्विति। अनन्वितार्थत्वादिति। सिद्धस्य वस्तुनो रूपान्तरापत्तिः सम्पदेरर्थः। एधादिधातोस्त्वाम्प्रकृतिभूतस्य वृद्ध्यादिरर्थः। तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाऽभावेन अभेदान्वयाऽसंभवादित्यर्थः। अत एव कृभ्वस्तीनां ग्रहणमिति भाष्यं सङ्गच्छत इति भावः। ननु आम्प्रत्ययवदिति कृञ आत्मनेपदविधायकसूत्रं वक्ष्यमाणं व्यर्थं, "स्वरितञित" इत्येव तत्सिद्धेरित्याशङ्क्याह---कृञस्त्विति।

तत्त्व-बोधिनी
कृञ्चानुप्रयुज्यते लिटि ६६, ३।१।४०

कथं तर्हि "तं पातयां प्रथममास पपात पश्चात्"। "प्रभ्रंशयां यो नहुषं चकारे"ति?। प्रमाद एवायम्। न च विपरीतप्रयोगनिवृत्तिमात्रे सूत्रस्य तात्पर्यात्पश्चात्प्रयोगो व्यवहितोऽपि न दुष्यतीति वाच्यम्, "विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्त्यर्थं चे"ति वार्तिकविरोधात्। अन्यस्यापीति। यदीह कृञ्शब्देन एक एव धातुर्गृह्रेत तदा धात्वन्तरस्य प्राप्त्यभावात्ाम्प्रत्ययव"दिति सूत्रेऽनुप्रयुज्यमानस्य कृञ इति विशेषणं व्यर्थं स्यादिति भावः। न चात्र "कृञ्चे"ति चकारेणैवाऽनुप्रयोगोऽन्यस्यापीति ज्ञायत इति शङ्क्यं, "धातोराम्? स्यात्, अनुप्रयुज्यते च लिट्परः कृञित्यर्थसमर्पकतया तस्योपक्षीणत्वात्। अभेदान्वय इति। सामान्यविशेषयोरभेदान्वयो लोकसिद्ध इति भावः। एवं च एंधाचक्रे एधांबभूवे इत्यादौ एककर्तृका भूतानद्यतनपरोक्षा वृद्ध्यभिन्ना क्रियेति तुल्यो बोधः। ननु करोतिः सकर्मको भवतिस्त्वकर्मक इति कथमिह तुल्यतेति चेत्?। अत्राहुः-- यदा हि करोतिरुत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते-- घटं चक्रे राज्यं चकारेति, तदा नियमेन सकर्मकत्वम्। यदा तु क्रियान्तरसमानाधिकरणः करोतिः प्रयुज्यते-- जुहवांचकारेत्यादौ, तदा यत्समानाध#इकरणः करोतिस्तस्य सकर्मकत्वाऽकर्मकत्वाभ्यां स्वयमपि तथाबावं भजते। एवं भ्वस्त्योरप्याम्प्रकृतिसामानाधिकरण्येन क्वचित्सकर्मकत्वं बोध्यम्। अत एवाऽनुप्रयुज्यमानाद्भवतेः सकर्मकत्वात्कर्मणि लिट्। तथा च माघः-- "तस्यातपत्रं बिभरांबभूवे"इति, श्री हर्षश्च। "तपर्त्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांबभूविरे" इति। अत्रेदमवधेयं-- जुहाव जुहवां चकार जुहवांबभूवेत्यादौ केवलो होमो गम्यते, इतरत्र तु होमरूपा क्रियेति बोधः। फले तु न कश्चिद्विशेषः, घटमानय द्रव्यघटमानयेत्यत्र यथा। एवं चाऽ‌ऽम्प्रकृत्यर्थगतिकारकसङ्ख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति। अनन्वितेति। संपद्यर्थस्याऽ‌ऽम्प्रकृत्यर्थस्य चाऽभेदान्वयो न संभवति, उभयोरपि विशेषरूपत्वादिति भावः।