पूर्वम्: ३।२।१४८
अनन्तरम्: ३।२।१५०
 
सूत्रम्
अनुदात्तेतश्च हलादेः॥ ३।२।१४९
काशिका-वृत्तिः
अनुदात्तैतश् च हलादेः ३।२।१४९

अनुदात्तेद् यो धतुः हलादिरकर्मकः, ततश्च युच् प्रत्ययो भवति। वर्तनः। वर्धनः। अनुदात्तेतः इति किम्? भविता। हलदेः इति किम्? एधिता। आदिग्रहनं किम्? जुगुप्सनः। मीमांसनः। अकर्मकातित्येव, वसिता वस्त्रम्।
न्यासः
अनुदात्तेश्च हलादेः। , ३।२।१४९

"एधिता"इति। "एध वृद्धौ" (धा।पा।२)। "जुगुप्सनः,मीमांसनः" इति "गुप्तिज्किद्भ्यः सन्"३।१।५ "मान्बध" ३।१।६ इत्यादिना सनि दीर्घे च कृते भवतः। अत्र तदन्तौ समुदायावनुदात्तेतौ अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति। तथा च यद्यादिग्रहणं न क्रियते तदा ताभ्यां न स्यात्; यस्मादसत्यादिग्रहणे हला तु तदन्तविधिर्विज्ञायते-- अनुदात्तेतो हलन्तादिति। न च जुगुप्समीमांसशब्दौ हलन्तौ, किं तर्हि? अजन्तौ। आदिग्रहणे सत्यहलन्तेभ्योऽपि भवतीत्यादिग्रहणं कत्र्तव्यम्। तच्च तदा कत्र्तव्यं यदातो लोप आर्धधातुके परतो भवतीत्ययं पक्षः, न तु यदार्धधातुके विषयभूत इत्येष पक्षः। तदा ह्रार्धधातुकविवक्षायां विज्ञायमाने हलन्तग्रहणमनर्थकं स्यात्; व्यावत्र्याभावात्। तस्माद् ह्ल्ग्रहणसामथ्र्यादादेर्विशेषणं विज्ञास्यत इत्यादिग्रहणं न कत्र्तव्यमेव। अत्रादिग्रहणं विस्पष्टार्थमेव व्याख्येयम्। "वसिता" इति। "वस आच्छादने" (धा।पा।१०२३)॥
बाल-मनोरमा
अनुदात्तेतश्च हलादेः ९३१, ३।२।१४९

अनुदात्तेतश्च। आदिग्रहणाऽभावे हलन्तादित्यर्थः स्यात्, ततश्च जुगुप्सन इति न स्यात्, सन्नन्तस्य हलन्तत्वाऽभावात्। अस्ति चाऽनुदात्तेत्वं सन्नन्तस्य, "गुप" इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाऽभावेन सन्नन्तार्थत्वात्।

तत्त्व-बोधिनी
अनुदात्तेतश्च हलादेः ७६५, ३।२।१४९

अनुदात्तेश्च हलादेः। ननु सर्वोऽप्यनुदात्तेद्धलन्त एवेति तदन्तविधं बाधित्वा सामथ्र्याद्धलादरेव ग्रहीष्यते, तत्किमादिग्रहणेनेति चेत्। अत्राहुः-- आदिग्रहणाऽभावे हलन्ताष्वचरितार्थस्याऽनुबन्धस्य समुदायविसेषकत्वादिति दिक्।