पूर्वम्: ३।२।१५
अनन्तरम्: ३।२।१७
 
सूत्रम्
चरेष्टः॥ ३।२।१६
काशिका-वृत्तिः
चरेष् टः ३।२।१६

अधिकरणे इति वर्तते। चरेर् धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति। कुरुषु चरति कुरुचरः। मद्रचरः। कुरुचरी। मद्रचरी। प्रत्ययान्तरकरणं ङीबर्थम्।
लघु-सिद्धान्त-कौमुदी
चरेष्टः ७९५, ३।२।१६

अधिकरणे उपपदे। कुरुचरः॥
न्यासः
चरेष्टः। , ३।२।१६

"प्रत्ययान्तरकरणं ङीबर्थम्" इति। टित्त्वान्ङीब्भवति॥
बाल-मनोरमा
चरेष्टः ७४५, ३।२।१६

चरेष्टः। ट इति च्छेदः। "अधिकरणे उपपदे" इति शेषः। "अधिकरणे शेते" रित्यतस्तदनुवृत्तेरिति भावः। कुरुचर इति। कुरुषु चरतीति विग्रहः। न च "अकर्मकधातुभिर्योगे" इति कर्मत्वं शङ्क्यं, तस्य वैकल्पिकतयायास्तत्रैव प्रपञ्चितत्वात्। तत्र अत्रत्यमपि भाष्यं प्रमाणम्।

तत्त्व-बोधिनी
चरेष्टः ६२२, ३।२।१६

कुरुचर इति। कुरुषु देशेषु चरति। अटतीत्यर्थः।